सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 117, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 117

नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।
न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४॥

न पारमार्थिको देवो नाहमन्नमयो जडः ।
न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५॥

न विज्ञानमयः कोशो नानन्दमयकोशवान् ।
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६॥

एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।
सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७॥

एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।
शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ २२.४८॥

आकाशपुष्पसदृशं यथा मरुमरीचिका ।
गन्धर्वनगरं यद्यदिन्द्रजालवदेव हि ॥ २२.४९॥

असत्यमेव सततं पञ्चरूपकमिष्यते ।
शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५०॥

माता मृते रोदनाय द्रव्यं दत्त्वाऽह्वयेज्जनान् ।
तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१॥

तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।
अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२॥

अहमेव सुखं चेति अहमेव न चापरः ।
अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३॥

अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।
अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४॥

अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।
सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५॥

नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।
एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६॥

ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।
एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ २२.५७॥