ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 114, कुल 249 में से
संदर्भ में पढ़ें॥ द्वाविंशोऽध्यायः ॥
ऋभुः —
वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।
अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१॥
अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।
अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२॥
अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।
अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३॥
अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।
अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४॥
सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।
अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५॥
एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् ।
अनेकशतसाहस्रैश्चैक एव विवेकवान् ॥ २२.६॥
तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।
ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७॥
ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।
ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८॥
अहं ब्रह्म न संदेहः अहमेव गुरुः परः ।
अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९॥
गुणातीतो जनातीतः परातीतो मनः परः ।
परतः परतोऽतीतो बुद्ध्यतीतो रसात् परः ॥ २२.१०॥
भावातीतो मनातीतो वेदातीतो विदः परः ।
शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११॥
अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः ।
क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२॥
तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयं ।
ज्ञानिनो महिमा किंचिदणुमात्रमपि स्फुटम् ॥ २२.१३॥