ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 125, कुल 249 में से
संदर्भ में पढ़ेंसर्वसंकल्पहीनोऽहं सर्ववृत्तिविवर्जितः ।
अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९॥
सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् ।
समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३०॥
अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् ।
नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१॥
अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः ।
एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२॥
एवमेव हि नित्यात्मभावनेन सुखी भव ।
एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३॥
सद्यो मुक्तो भवेद्ब्रह्मकारेण परितिष्ठति ।
आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४॥
आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि ।
आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५॥
आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा ।
आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६॥
आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् ।
आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलं ॥ २४.३७॥
अर्थवादवदात्मा हि परमात्मोपपत्ति हि ।
इच्छा प्रारभ्यवद्ब्रह्मा इच्छामारभ्यवत् परः ॥ २४.३८॥
परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्शिवेव हि ।
अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९॥
परमात्मैवाधिकारो विषयं परमात्मनः ।
संबंधं परमात्मैव प्रयोजनं परात्मकं ॥ २४.४०॥
ब्रह्मैव परमं संगं कर्मजं ब्रह्म संगमं ।
ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१॥
सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदं ।
सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२॥
शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकं ।
ब्रह्मेवादिसमाधिश्च तन्मध्यमसमाधिकं ॥ २४.४३॥