सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

विषयः पृ. पं.
वलीपलितनाशार्थं गन्ध-
कयोगः ... ... ५० २
रसायनार्थं कुष्ठयोगः ,, ६
पलितनाशार्थे कान्तादियोगः ,, ९
,, सीसकादियोगः ,, १७
केशरञ्जनार्थे नीलिका-
दियोगः ... ,, २२
,, गुञ्जादियोगः ,, २६
,, हस्तिदन्तादियोगः ५१ ४
,, त्रिफलादियोगः ,, ७
,, लोहकिट्टादियोगः ,, ११
,, सिन्दूरादियोगः ,, १७
,, शतपुष्पादियोगः ,, २०
,,* चूर्णादियोगः ,, २४
,, नील्यादियोगः ,, २७
,, द्वितीयशृङ्गादियोगः ५२ ३
,, कुरण्टपत्रादियोगः ,, ७
,, आम्रास्थ्यादियोगः ,, १०
,, काकमाच्यादियोगः ,, १५
केशरञ्जनं घृतं ... ,, १८
केशरञ्जनार्थे जपापुष्प-
रसनस्यं ... ... ,, २१
,, त्रिफलादितैलं ,, २४
,, काकतुण्डीबीजा-
दियोगः... ... ५३ ६
,, भृङ्गराजादियोगः ,, १४
,, त्रिफलादियोगः ,, १९
,, कृष्णजीरकयोगः ,, २३
,, नील्यादितैलं... ५४ ४
,, सीसकादियोगः ,, १६
कतिपयकेशशुक्लीकरणयोगाः ५५ २
षष्ठोपदेशः
वाजीकरः मकरध्वजरसः ५६ ७
,, मदनोदयरसः ,, १९
,, मदनेश्वररसः ५७ ६
,, कामकलाह्यरसः ,, १६
,, कामदेवरसः ५८ २
,, रतिकामरसः ,, १२
,, मदनवर्धनरसः ,, २१
वाजीकरी अनङ्गसुन्दरी-
वटिका ... ... ५९ २
वाजीकरः कामनायकरसः ,, ११
,, पूर्णेन्दुरसः ... ,, २३
,, मदनकामरसः ६० १७
,, अभ्रकयोगः ६१ १५
,, वानरीबीजाद्य-
भ्रकयोगः ... ... ,, १८
,, अश्वगन्धाद्यभ्रक-
योगः ... ... ,, २४
,, धात्रीलोहः ... ६२ ६
,, पुनर्नवादियोगः ,, १२
,, वटकयोगः ... ,, १९
,, वालुकामत्स्ययोगः ,, २५
,, नाभिलेपः ... ६३ ३
,, माषयोगः ... ,, ६
,, कामेश्वरमोदकः ,, १०
सप्तमोपदेशः।
वीर्यस्तम्भकरी ब्रह्माण्ड-
गुटिका ... ... ६४ १३
वीर्यस्तम्भकरः लिङ्गलेपः ६५ ६
,, दीपयोगः ... ,, ११
,, इन्द्रवारुणीमूलादि-
योगः ... ... ,, १४

४
विषयः पृ. पं. | विषयः पृ.
वीर्यस्तम्भकरः रक्तापामार्ग- | वीर्यस्तम्भकरःस्थलमीनयो. ६८
,, मूलयोगः ... ६५ १९ | वनिताद्रावणार्थं जलौका-
,, पादलेपः ... ,, २२ | योगाः ... ... ,,
,, सर्पास्थिधारणयोगः ,, २५ | लिङ्गवर्धनार्थं पारदादियोगः ६९
,, नाभिलेपः ... ६६ ३ | ,, वराहवसादिलेपः ,,
,, कोकिलाक्षादियोगः ,, ६ | ,, अश्वगन्धादितैलं ,,
,, द्वितीयो नाभिलेपः ,, १० | ,, जम्बूतैलादियोगः ७०
,, दीपयोगः ,, १३ | ,, मुशलीचूर्णादिलेपः ,,
,, शिवलिङ्गीबीजा- | ,, पिप्पल्यादियोगः ,,
दियोगः... ... ,, १६ | ,, माहिषघृतादिलेपः ,,
,, श्लेष्मातकादियोगः ,, २० | ,, अश्वगन्धादियोगः ,,
,, सूरणादियोगः ,, २३ | ,, मांस्यादियोगः ,,
,, मार्जारनखादियोगः ,, २६ | ,, रोहितमत्स्यादियोगः ,,
,, द्वितीयः पादलेपः ६७ ४ | ,, हरिद्रादियोगः ,,
,, ,, लिङ्गलेपः ,, १० | ,, जम्बूकपित्तादियोगः ,,
,, पारदादियोगः ,, १७ | ,, गृहगोधादियोगः ७१
,, हस्ते मुद्रिका- | अष्टमोपदेशः ।
धारणयोगः ... ,, २५ | श्रीशैलपर्वतसाधनम् ,,

आयुर्वेदीयग्रन्थमाला ।
श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य
चतुर्थो
रसायनखण्डः ।
प्रथमोपदेशः ।
मङ्गलाचरणम् ।
जयति स रसराजो मृत्युशङ्कापहारी
सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं
स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥
देहसिद्धेः प्रशंसा ।
अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥
न देहेन विना किंचिदिष्टमस्ति जगत्त्रये ।
तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥
रसायनसेवनस्य पूर्वकर्म ।
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥
क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥
१ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।

२ आयुर्वेदौयग्रन्थमाला । [उपदेशः
सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् ।
घृतैर्लेहं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ ७ ॥
एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८ ॥
रससेवने पथ्यानि ।
निर्वाते भूगृहे वाऽथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नयुग्भवेत् ॥ ९ ॥
षष्ठ्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ १० ॥
वलान्नं वाऽथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ ११॥
काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ १२ ॥
मैथुनेन विना तस्य ह्यजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्च्छा ज्वरोऽरतिः ॥१३॥
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद्दुर्भागां परिवर्जयेत् ॥ १४ ॥
रसायने वर्ज्यानि ।
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ १५ ॥
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥
१ 'देवताचक्रं' ख. । २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो-
चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण
नामिता । चुम्बनालिङ्गनस्पर्शकोमल्या मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि-
देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे
च उत्तमा सा रसायने' र. र. स. अ. ६ ॥ ३ -'दाहादि' ख. ।

१.] रसरत्नाकरस्य रसायनखण्डः । ३
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ १७ ॥
रसायनव्यापच्चिकित्सा ।
अवर्जनाद्भवेच्छूलं निद्राऽऽलस्यं ज्वरोऽरतिः ।
त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ १८ ॥
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ १९ ॥
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २० ॥
पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्याुत्थं सैन्धवं वा गवां जलैः ॥ २१ ॥
त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् ।
अपथ्यशीलिनामेतत् कथितं रससेविनाम् ॥ २२ ॥
अमुमेव विधिं कुर्याद्रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २३ ॥
रससंक्रामणम् ।
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत्ताम्बूलसंयुक्तं रससंक्रामणे हितम् ॥ २४ ॥
पारदमारणविधिः ।
अथात्र वक्ष्यते सम्यगादौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुक्तितस्य वा ॥ २५ ॥
क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः ।
तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २६ ॥
मर्दयेत्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २७ ॥
१ 'मातुलुङ्गाद्रकैर्लिहेत' ख. । २ पुङ्खामिति शरपुङ्खामित्यर्थः । ३ 'स्तत्पा-
दांशेन सैन्धवम्' ख. ।

१. प्रथम उपदेश: पारद अष्ट-संस्कार, रस-बन्धन एवं जारण विधान

४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः ।
तुल्यं खल्वे चतुर्यामं वज्रमूषान्वितं धमेत् ॥ २८ ॥
भस्मभूतं भवेत्तद्वै योज्यं सर्वरसायने ।
पारदमारणस्य द्वितीयः प्रकारः ।
शुद्धसूतं समं स्वर्णे याममम्लैर्विमर्दयेत् ॥ २९ ॥
प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्थं शुद्धगन्धकम् ।
गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ ३० ॥
स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् ।
दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ ३१ ॥
दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् ।
चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ ३२ ॥
तुषाग्निना लघुत्वेन जायते भस्मसूतकः ।
पारदमारणस्य तृतीयः प्रकारः ।
शुद्धसूतत्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ ३३ ॥
दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् ।
माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ ३४ ॥
तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः ।
तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ ३५ ॥
करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् ।
पारदमारणस्य चतुर्थः प्रकारः ।
शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ ३६ ॥
सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् ।
बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ ३७ ॥
गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे ।
१ '-र्दिव्यौषधिद्रवैः' ख. । २ 'सूतभस्म' ख. । ३ 'गडुकायन्त्रगं' क. ।
४ 'शुद्धसूतं त्रिधा गन्ध्यं मागैकं' ख. । ५ 'पचेदग्नौ' ख. ।

१.] रसरत्नाकरस्य रसायनखण्डः । ५
गर्भयन्त्रलक्षणम् ।
चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ ३८ ॥
मृन्मयं संपुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ ३९ ॥
सर्वं तोयैः प्रपिष्याथ तेनैव संपुटोदरम् ।
लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ ४० ॥
पारदमारणस्य पञ्चमः प्रकारः ।
विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः ।
मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ ४१ ॥
काचकूप्या ह्यभावे तु निरुन्ध्याच्छावसंपुटे ।
पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४२ ॥
पारदमारणस्य षष्ठः प्रकारः ।
माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ ४३ ॥
तत्सर्वं मर्दितं गोलं वज्रमूषान्वितं पचेत् ।
दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ ४४ ॥
पारदमारणस्य सप्तमः प्रकारः ।
उर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ ४५ ॥
द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः ।
क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४६ ॥
पारदमारणस्याष्टमः प्रकारः ।
स्नुह्या वा हेमवल्ल्या. वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ ४७ ॥
पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् ।
पारदमारणस्य नवमः प्रकारः ।
शुद्धमृतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ ४८ ॥

६ आयुर्वेदीयग्रन्थमाला । [उपदेशः
तत्सर्वं भृङ्गजैर्द्रवैर्दिनमेकं विमर्दयेत् ।
वज्रमूषान्वितं ध्मातं म्रियते शशिसंनिभम् ॥ ४९ ॥
पारदमारणस्य दशमः प्रकारः ।
द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा ।
अहिमार्या द्रवैर्वाऽथ किंवा श्वेताङ्कुलद्रवैः ॥ ५० ॥
मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् ।
संपुटे मृण्मये रुद्धा करीषाग्नौ दिवानिशि ॥ ५१ ॥
पचेत्तुषाग्निना वाऽथ त्रिदिनान्म्रियते ध्रुवम् ।
पारदमारणस्यैकादशः प्रकारः ।
शुद्धमूतं मृतं वज्रं समांशं तप्तखल्वके ॥ ५२ ॥
हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ।
बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ॥
तत्र पूर्वरसं रुद्धा त्रिदिनं तुषवह्निना ।
पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ ५४ ॥
एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् ।
तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥
वज्रादिमारणविधेरतिदेशेन कथनम् ।
वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् ।
मारणं वांदिखण्डे वा तथा ज्ञेयं रसायने ॥ ५६ ॥
मृतरसगुणाः ।
एवं मृतो रसवरः परमामृतः स्या-
त्त्तसेवकाः सततमस्य दृढं तु तेषाम् ।
देहं करोति सहसा सुरसुन्दरीणां
क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७ ॥
इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे रसमा-
रणं नाम प्रथमोपदेशः ॥
१ 'वादखण्डे' ख. । २ 'पदं' ख. ।

ान् (-)
15. त (v)
16. सी (-)
17. मा (-)
18. व (v)
19. धि (v / -)
Total syllables = 19!
Shardulavikridita pattern:

      • v v - v - v v v - - - v - - v - (19 syllables)
        Pause at 12 and 7!
        Let's check:
        1-3: सम् (-) यग् (-) दिव् (-) -> 3 heavy.
        4-5: य (v) र (v) -> 2 light.
        6: सा (-) -> 1 heavy.
        7: य (v) -> 1 light.
        8: ने (-) -> 1 heavy.
        9-11: न (v) स (v) त (v) -> 3 light.
        12: तं (-) -> 1 heavy. (Yati at 12!)
        13-15: कल् (-) पान् (-) त (v) -> 2 heavy, 1 light.
        16-17: सी (-) मा (-) -> 2 heavy.
        18-19: व (v) धि (-) -> 1 light, 1 heavy.
        PERFECT SHARDULA-VIKRIDITA! (19 syllables).

Now let's apply Shardulavikridita (1

८ आयुर्वेदियग्रन्थमाला । [उपदेशः
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत्सर्वं भृङ्गजैर्द्रवैर्मर्दितं भावयेत्त्र्यहम् ॥ १० ॥
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥
चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ १२ ॥
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रधारारसः ।
वज्रमृताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ १३ ॥
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ १४ ॥
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः ।
माषेकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ १५ ॥
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७ ॥
भैरवरसः ।
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥
त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ १९ ॥
माषेकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥
पलैकैकं पिबेच्चानु क्रामकं परमं हितम् ।
शिलावीररसः ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥

२.] रसरत्नाकरस्य रसायनखण्डः । ९
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥
धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् ।
अमृतार्णवरसः ।
मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥
तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥
बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
उदयादित्यरसः ।
पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥
उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।
भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥
तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥
रसोऽयमुदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥

१० आयुर्वेदीयग्रन्थमाला । [उपदेशः
मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् ।
गगनेश्वररसः ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥
भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् ।
सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥
रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् ।
जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥
वटेश्वररसः ।
वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥
उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥
चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥
अचलेश्वररसः ।
मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥

२.] रसरत्नाकरस्य रसायनखण्डः। ११
परमेश्वररसः ।
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥
सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥
मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥
श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् ।
भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥
गन्धामृतरसः ।
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥
दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥
एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।
कालकण्टकरसः ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥
तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् ।
षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥
माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥
जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।
अमृतेशरसः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥
१ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।

१२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ५७ ॥
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥
मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् ।
क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ ५९ ॥
रसवीरमहारसः ।
त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ ६० ॥
स्नुह्यर्कपयसा मर्द्य तत्सर्वं दिवसत्रयम् ।
तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥६१॥
ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेदृढम् ।
गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ ६२ ॥
अब्देकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
मुशलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ ६३ ॥
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
काञ्चायनरसः ।
मृतमृतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥
मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर्दिनं मर्द्य तमन्धयेत् ॥ ६५ ॥
ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ ६६ ॥
जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ ६७ ॥


१ 'खादेन् करवीरो' ख. ।

२.] रसरत्नाकरस्य रसायनखण्डः । १३
मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् ।
परानन्दरसः ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥
शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥
परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥
तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।
संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥
महाकालरसः ।
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥
तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥
सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥
सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥
तिलकोरण्टपत्राणि गुडेन भक्षयेदनु ।
हेमपर्पटरसः ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥
२

१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥
श्रीकण्ठरसः ।
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥
सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।
तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥
रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥
खेचरबद्धरसः ।
शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥
त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥

कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥
शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै ।
चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥
ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् ।
वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
स्वयमग्निरसः ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।

१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥
त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥
वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये ।
खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
कक्षपुटरसः ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥
शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥
महाशक्तिरसः ।
मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥

रसरत्नाकरस्य रसायनखण्डः । १७
सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥
नाटकेश्वररसः ।
लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥
बालसुन्दररसः ।
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥
त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।

१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥
ब्रह्मपञ्जररसः ।
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥
माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥
शिवामृतरसः ।
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥
कृष्णवर्णगवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥
पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥


१ 'तिलैः सह' ख. ।