रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 138, कुल 414 में से
संदर्भ में पढ़ेंविषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादनस्य रसविषय-
कत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः' इत्यपि वदन्ति ॥
एतैश्च स्वात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरति
वैशिष्ट्यावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्त-
तादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर्वै-
व्यवहार आस्वादविषयीभूते रत्यादौ रसत्वारोपनिबन्धन इत्याह—आस्वादन-
स्येत्यादिना । 'राहोःशिरः' इतिवदभेदाधिकैव रसस्येति षष्ठीत्यपि समाधा-
नान्तरमूह्यम् ।
विशेषणविशेष्यभावे विनिगमकाभावादुक्तबोधस्य रसत्वेनाभिमतस्य त्रैविध्यं
दर्शयति—एतैश्चेत्यादिना । 'दुष्यन्तोऽहं शकुन्तलाविषयकरतिमान्', 'शकुन्तला-
विषयकरतिमान् दुष्यन्तोऽहम्', 'अहं दुष्यन्तः शकुन्तलाविषयकरतिमांश्च' इति क्रमेण
बोधत्रयम् । प्रथमे बोधे रतिनिष्ठा प्रकारता, तन्निरूपिता धर्मिता (= विशेष्यता)
अहम्पदार्थे सामाजिके तस्या अवच्छेदकं दुष्यन्तत्वम् । अतोऽत्र दुष्यन्तत्वं धर्मिता-
वच्छेदकं यस्य रत्याख्यस्य धर्मस्य तस्य वैशिष्ट्यं ( दुष्यन्तत्वविशिष्टे ) अहम्प-
दार्थे भासते । अतोऽयं बोधो दुष्यन्तत्वविशिष्टे रतिवैशिष्ट्यावगाही भवति । अत
एवात्र प्रथमं स्वात्मनि दुष्यन्तत्वस्य तदनन्तरं च दुष्यन्तत्वविशिष्टे स्वात्मनि
प्रकारतया रतेर्भानमिति भावः । द्वितीये रतिर्दुष्यन्ते विशेषणम्, तादृशश्च दुष्यन्तः
स्वात्मनि अभेदेन विशेषणमिति स्वात्मत्वमेव विशेष्यतावच्छेदकमत्र । रतेश्च
स्वात्मविशेषणीभूते दुष्यन्ते विशेषणत्वेन विशेषणतावच्छेदकत्वम् । विशेषणे
यद् विशेषणं तदेव विशेषणतावच्छेदकमित्युच्यते । अतोऽत्र रतिविशिष्टस्य
दुष्यन्तस्य स्वात्मनि वैशिष्ट्यं भासते । तृतीये च बोधे दुष्यन्तत्वं रतिश्च
स्वात्मनि प्रकारतया भासेते । व्यञ्जनाया अत्र मतेऽनभ्युपगमात् कथं रत्यादि-
दात्मकता नहीं आती। अब प्रश्न यह है कि जब सामाजिक में शकुन्तलादिविषयक
रत्यादि रहता हीं नहीं तो उसे उसका उपर्युक्त बोध होता कैसे । इसका उत्तर
यही है कि लौकिक प्रमात्मक साक्षात्कार के लिए हीं विषय का अस्तित्व आवश्यक
होता । भ्रमात्मक साक्षात्कार में तो विषय का अस्तित्व होता हीं नहीं। उस मे तो
ज्ञानलक्षणसन्निकर्ष से असद् विषय का हीं भ्रमात्मक अलौकिक साक्षात्कार होता ।
जैसे—शुक्ति में रजत का भ्रमात्मक साक्षात्कार । वहां शुक्ति और रजत दोनों के
चमकीले होने से चमकीली शुक्ति को देख कर ( और दोष के कारण शुक्तित्व का
ज्ञान न होने से) पूर्वानुभूत देशान्तरीय रजत का स्मरण होता । यतः 'इदं रजतम्' यह
बोध प्रत्यक्षात्मक है और वहां रजत के न होने से उसके साथ द्रष्टा के चक्षुका लौकिक
संयोग सन्निकर्ष हो नहीं पाता । अतः रजतस्मरणस्वरूप ज्ञान हीं चक्षू और वहाँ