सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 84, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 84

[अधि - १०. सू - १०.] दीपिकासहितम्. ३७
(८२) यमन्तस्समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः ।
सूत्रकृतेति, ब्रह्मशब्दस्य बह्वर्थत्वेन सूत्रकारविवक्षाविशेषस्य दुर्ज्ञेय-
त्वादित्यत आह—'ब्रह्म' इति । मुख्य इति शेषः । चः 'अनेकार्थोऽ-
पि ब्रह्मशब्दः' इति अप्यर्थे, यतइत्यर्थे च । तथा च ब्रह्मशब्दस्याने-
कार्थत्वेऽपि यतः सः विष्णावेव मुख्यः अतो मुख्यामुख्ययोर्मुख्यस्यैव
ग्राह्यत्वात् स एव सूत्रकारविवक्षितो ज्ञायत इति योजना । अत्र श-
ब्दान्तरं विहाय विष्णुशब्दप्रयोगेन तच्छब्दगतानां वर्गपञ्चमषष्ठचतु-
र्थानां षण्णां सङ्ख्या रेखालखनेन सूत्राणां चतुष्षष्ट्युत्तरपञ्चशत-
सङ्ख्योक्ता भवति । यद्वा—
देशतः कालतश्चैव गुणतश्चापि पूर्तितः ।
विष्णौ ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित् ॥
इत्यैतरेयभाष्योक्तेः देशकालगुणापरिच्छेदरूपत्रिविधपूर्तिवाचकब्रह्म-
शब्दव्याख्यानाय तादृशविष्णुशब्दप्रयोगः । टीकायां तु—अत्र विष्णु-
ग्रहणेन “सविष्णुराह हि । तं ब्रह्मेत्याचक्षते” इत्यन्योन्याव्यवहित-
सूत्रद्वयकरणानन्तरमेव ब्रह्ममीमांसायाः व्यासेनारब्धत्वादेतद्व्यवहि-
तदेवमीमांसान्त्यसूत्रद्वये ब्रह्मत्वेन नारायणस्यैव प्रकृतत्वं सूचयती-
ति प्रयोजनान्तरमुक्तम् । तत्त्वप्रदीपेऽप्येतदेव यो देवतामीमांसान्ते
“विष्णुरेव हि तच्छ्रुतेस्तं ब्रह्मेत्याचक्षते” इति सर्वदेवोत्तमत्वेन प्र-
तिज्ञातो ब्रह्मत्वेन चोक्तः स एवोत्तरमीमांसायां विचार्यत्वेनोच्यत इ-
ति पाठभेदेनोक्तम् ॥
(८२) ब्रह्मशब्दस्यान्यत्रापि रूढत्वाद्रूढेरेव मुख्यवृत्तित्वात्कुतोऽ-
सौ विष्णावेव मुख्य इत्यत आह—'यं' इति । 'ब्रह्मशब्दश्च' इत्यादि अ-
त्रापि सम्बध्यते । चो यद्यपीत्याद्यर्थे । हिशब्दो यत इत्यर्थे । श्रुतिराहे-
ति शेषः । तथा च यद्यपि ब्रह्मशब्दोऽन्यत्र रूढः, तथापि 'श्रुतिः'
“यमन्त” इत्यादिका यतः कवीनां मते 'तदेव परमं ब्रह्म' इत्याहुरि-
ति प्रयोगबाहुल्यरूपाम् रूढिमाह, अतो ब्रह्मशब्दो विष्णावेव परममु-
ख्य इत्यर्थः । अन्यत्राज्ञरूढेः विद्वद्रूढेरतिमुख्यत्वादिति भावः । यमन्त-
स्समुद्रे इति वाक्यम्
यदोष्धीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि ।