पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 78, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १. ] दीपिकासहितम्. ३१
( ६४ ) आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
( ६५ ) यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपराः ॥ इति ॥
( ६६ ) यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं-
[ विनात्यर्थ प्रसादः,
( ६७ ) अतो ब्रह्मजिज्ञासा कर्तव्या ॥
वर्णिनां चेत्—तेषामपि किं सर्वेषामधिकारः? न, किं तु केषां चि
दित्याह—‘त्रैवर्णिकानां' इति । ‘वेदोक्ते' वेदोत्पन्नब्रह्मज्ञाने तु 'ह
रौ सम्यग्भक्तिमतां' एव 'त्रैवर्णिकानां' उक्तेतरब्रह्मक्षत्रियवैश्यानां
अधिकारितेत्यर्थः । न केवलं नामादिज्ञानाधिकार इत्यर्थेऽपि तुशब्दः ॥
( ६४ ) “सपत्नीं मे पराधमपतिः मे केवलं कुरु ।” (मं-प्र-१-१६)
इत्यादी स्त्रीणामपि वेदाधिकारदर्शनात् कथं तासामनधिकार इत्यत