पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 93, कुल 1267 में से
संदर्भ में पढ़ें४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १०४ ) त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
( १०५ ) अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
( १०६ ) प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥
( १०७ ) इति वाराहवचनात् । शैवे च स्कान्दे—
त् । विद्यमानाकाराच्छादनेनाविद्यमानाकारप्रदर्शनं नटनम् । अविद्य-
मानकथनं वञ्चनम् । सृजामीत्युत्तमपुरुषप्रयोगादहमिति कर्ता लभ्य-
ते । चशब्दः क्रियाकर्तृसमुच्चये । 'पूर्वश्रुतस्यैतच्छब्दस्य पश्चात् श्रुतो
यच्छब्दो विशेषणं' इति न्यायदीपोक्तेः य एष इति योजना । तथा
च अहं 'मोहं सृजामि' करोमि । 'य एष' मोहः 'जनान् मोहयिष्य-
ति' अज्ञानमिथ्याज्ञानादिकं प्रापयिष्यति ॥
( १०४ ) परबाधकत्वात् बाहुः प्राण्यङ्गं, महान् बाहुर्यस्य सः, तस्य
सम्बुद्धिः हे 'महाबाहो' शत्रुबाधकाङ्गयुक्त 'रुद्र' 'त्वं च' मोहं
सृज 'मोहशास्त्राणि' च 'कारय' कुरु, दधीच्यादिभिश्च कारय । हे
'महाभुज' महाभक्षक महाकुटिलेति वा हे रुद्र ॥
( १०५ ) तेष्विति शेषः तथा च—'तेषु' मोहशास्त्रेषु 'अतथ्यानि'
क्वाप्यविद्यमानानि लिङ्गमूलान्वेषणादीनि 'वितथ्यानि' व्यधिकरण-
त्वेन विद्यमानानि विष्णुनिष्ठानि वायुनिष्ठानि वा रुद्रादिनिष्ठतयो-
च्यमानानि सर्वोत्तमत्वसर्वस्वातन्त्र्यविषभक्षणादीनि 'दर्शयस्व'
प्रतिपादयेति यावत् ॥
( १०६ ) 'मां आत्मानं' इत्युद्देश्यद्वितीयान्तं । परस्परसमुच्चये च
शब्दौ । तथा च—लोकेषु 'आत्मानं' स्वात्मानमुद्दिश्य 'प्रकाशं' प्र-
सिद्धिं 'कुरु' । न केवलमेतावत, किन्तु 'मां' उद्दिश्य 'अप्रकाशं'
अप्रसिद्धिं च कुर्वित्यर्थः । केचित्तु-प्रकाशोऽस्यास्तीति प्रकाशमिति
अर्शाआद्यजन्तत्वमाश्रित्य उद्देश्यद्वितीयानाश्रयणेन प्रकाशं प्रसिद्ध-
मिति व्याचक्षते ॥
( १०७ ) 'वाराहवचनात्' इत्यस्येतरेषां मोहार्थं कृतत्वावगमादि-
ति हेतुमुखेन 'न चेतर' इति प्रतिज्ञावाक्येनान्वयः । लिङ्गमूलान्वेष-
णकथा तु—पूर्वं जगत्कर्तृत्वविषये विष्णुविरिञ्चयोर्विवादोऽभूत् अह-
मेव जगतः कर्ता न मत्तोऽन्यः इति । एतस्मिन्नन्तरे तयोर्गर्वविनाशाय
तन्मध्ये किञ्चन लिङ्गमुद्भूत । तौ तत् दृष्ट्वा सर्वदेवसन्निधौ परस्प-
रं समयं चक्रतुः । तत्र ब्रह्मा विष्णुमाह—आवयोर्मध्येऽस्य लिङ्गस्य