पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
६६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
स्य' इति कौण्डिन्यश्रुतिः ॥ १४ ॥
*
१०. अधिकरणम् ॥
( १) करणत्वं प्राणानामुक्तम् ।
जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः ।
यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु ॥
इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते ।
( २ ) 'ब्रह्मणो वा एतानि करणानि चक्षुश्श्रोत्रं मनो वागि
ति । तद्धेतैः कारयति' इति काषायणश्रुतौ ।
स्वामी 'परस्य' परमात्मनः 'ईशितव्यः' भृत्यः । श्रुतिरित्त्यनन्तरं उ
क्तविशेषमाहेति शेषः। अनेन पूर्वोदाहृतव्याप्तिश्रुतौ प्राणशब्दो मुख्य
वायुपर इति सूचितम् ॥ ९ ॥
॥ इति अण्वधिकरणम् ॥
*
१०. अधिकरणम् ॥
( १ ) अत्रेन्द्रियविषयश्रुतिविरोधः परिह्रियते । अधिकरणसङ्गतिं
दर्शयति—करणत्वमिति ॥ 'प्राणानां' इन्द्रियाणां करणत्वं 'अकर
णत्वाच्च' इति चशब्देन 'उक्तं' सूचितमित्यर्थः । सन्देहबीजं श्रुति
विरोधं दर्शयन् पूर्वपक्षं च सूचयति—जीवस्येति । तेषामेवेत्याद्यावु
पस्कार्यम् । अस्य जीवकरणत्वं प्रतीयत इत्यनेनान्वयः । श्रुतौ तुश
ब्दोऽवधारणे । 'सर्वशः' सर्वान् । तथा च वृद्धाः ज्ञानिनः सर्वशः स
र्वान् 'प्राणान्' इन्द्रियाणि 'जीवस्यैव करणानि' तदपेक्षयैव तत्प्रयो
ज्यानीत्याहुरित्यर्थः । कुत इत्यतस्तत्र हेतुमाह—यस्मादिति ॥ यस्मा
त् 'एते' प्राणाः 'सर्वदेहिषु' सर्वप्राणिभिः 'तद्वशगाः' जीववशव
र्तिनः स्वस्ववशा एव 'दृश्यन्ते' अनुभूयन्ते तस्मादित्यर्थः ॥
( २ ) एवं जीवकरणत्वश्रुतिमुदाहृत्य तद्विरुद्धश्रुतिमुदाहर
ति—ब्रह्मण इति ॥ एतानीत्यस्य व्याख्यानं—चक्षुरित्यादि । इत्येता
नीत्यन्वयः । अत्र हेतुमाह—तदिति । 'तत्' ब्रह्म । हिशब्दो यस्मादि
त्यर्थे । 'एतैः' इन्द्रियैः । इन्द्रियाणि कर्म कुर्वन्ति, तैर्ब्रह्म कारयतीति
करणे कर्तृत्वोपचारः । एतैर्ब्रह्म करोतीति फलितार्थः । चः श्रुतिसमु
च्चये । श्रुतावित्यनन्तरं ब्रह्मकरणत्वं प्रतीयते इति शेषः । श्रुतावित्यने
[ अधि - १०. सू - १५. ] दीपिकासहितम्. ६६९
( ३) अत आह—
सू—ॐ ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ॐ॥ १५ ॥
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तय
न सयुक्तिकमिति क्रियाविशेषणेन चक्षुरादीनि जीवस्यैव करणा
नि, तथा श्रुतेस्तद्वशत्वेनानुभयसिद्धत्वाच्चेति सयुक्तिकपूर्वपक्षः सू
चितो भवति ॥
(३) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ ज्योतिराद्यधिष्ठा
नमिति हेतुगर्भं पक्षविशेषणम् । अत्र ज्योतिश्शब्दो 'योऽग्नौ तिष्ठन्'
( बृ. ५-७-५.) इति श्रुताग्निपरः । आदिशब्देन पृथिव्यादिभूतं तद्देवता
च गृह्यते । 'यस्तेजसि तिष्ठन्' (बृ. ५-७-१४.) इति श्रुता प्रकृतिश्च । 'अ
धिष्ठानं' प्रेरकम् । ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेवेत्यनेन सूत्रे तदिति
व्यस्तमपि भवति । तच्च ब्रह्मपरं, तेन अवधारणार्थकतुशब्दस्यान्वय इ
त्युक्तं भवति। तदेव, न जीव इत्येवशव्दार्थः । 'एतैः' चक्षुरादिभिः कर
णैः प्रवर्तयतीति। अनेन सूत्रे ज्योतिराद्यधिष्ठानमित्यावर्तते । अत्र ज्यो
तिशब्दोऽग्निकार्यचक्षुःपरः । तथा च ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेव
'ज्योतिराद्यधिष्ठानं' ज्योतीरूपचक्षुरादिनियामकम्, न जीव इति सौ
त्रप्रतिज्ञापदतात्पर्यार्थ उक्तो भवति । केचित्तु—सूत्रे शेषोक्तिरियमि
त्याहुः । कुत इत्यतस्तत्र ज्योतिराद्यधिष्ठानमिति पक्षविशेषणेन ब्रह्म
णः तेजःप्रभृतिभूतप्रेरकत्वे तदुपचितत्वेन तदंशभूतचक्षुरादिप्रेरकत्व
स्यापि युक्तत्वादिति हेतोः, एवमादिपदगृहीतप्रकृतिसूर्याप्रथादिनि
यन्तुः परस्य चक्षुरादिनियामकत्वस्य कैमुत्येन सिद्धत्वादिति हेतोश्च
सिद्धत्वात् चक्षुरादिनियामकत्वे कैमुत्यान्तरपरतया तदामननादिति
सूत्रखण्डं व्याचष्टे-य इति । इत्यादीति लुप्तविभक्तिको निर्देशः । इत्या
दावित्यर्थः। आदिपदेन 'यश्चक्षुषि तिष्ठन्' (बृ. ५-७. ) इत्यादिकं गृह्य
ते । तथा च इत्यादिवाजसनेयवाक्ये तस्य सर्वेन्द्रियप्रेरकमुख्यप्राणप्रे
रकत्वस्य आमननात् प्रतिपादनादित्यर्थः । 'यश्चक्षुषि' इत्यादिश्रुतिसू
चनेन विष्णोश्चक्षुरादिनियामकत्वे श्रुतिप्रदर्शनपरतयाऽपि तदामन
नादित्यंशो व्याख्यातः । 'प्राणे' सर्वप्राणप्रेरकमुख्यप्राणे तिष्ठन्यस्त
स्मात् 'अन्तरो' विविक्तः एष त आत्माऽन्तर्यामीति श्रुत्यर्थः । एवमु
त्तरवाक्यस्यार्थोऽपि ज्ञेयः । यद्यपीन्द्रियप्रायपाठात् प्राणशब्दो घ्राणे
६७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ४.]
ति । ‘यः प्राणे तिष्ठन्’ (बृ. ५ - ७ - १६.) इत्यादि
तदामनात् ॥ १५ ॥
( ४ ) कथं जीवकरणत्वश्रुतिरित्यता वक्ति—
सू—ॐ ॥ प्राणवता शब्दात् ॥ ॐ ॥ १६ ॥
जीवेनैव स्वकरणैः कारयति परमात्माऽतो न विरोधः ।
( ५ ) ‘एष ह्येनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति
मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः श्रुति
न्द्रियपरो वा इन्द्रियमात्रपरो वा भवति । तथाऽप्यधिकार्थलाभादपौ
नरुक्ताच्चेन्द्रियमुख्याभिमानिप्रधानवायुपरो व्याख्येयः । अत एव
टीकायां मुख्यप्राणेत्युक्तम् । प्रमेयदीपेऽप्यमुख्यमुख्यसाधारण्येन ग्रा
ह्येन्द्रियदेवतापरोऽयमित्युक्तम् । ननु सूत्रे भूतक्रमेणोक्तौ आकाशाद्य
धिष्ठानमिति वाच्यम् । श्रौतक्रमेण चेत्, पृथिव्याद्यधिष्ठानमिति ।
तदुभयं विहाय ज्योतिरादीति कथं निर्देश इति चेत्-न, पूर्वसूत्रे चक्षु
रादिवदिति, ‘ब्रह्मणो वा’ (काषायण.) इति श्रुतौ चक्षुरिति, ‘एषः’
इति वक्ष्यमाणश्रुतौ च चक्षुषेति चक्षुष आदित्वेन प्रकृतत्वात्तद्विवक्षया
चक्षुरादीत्युक्तत्वात् । अत एव भाष्ये द्वितीयश्रुत्यनुसाराद्रूप्येत्युक्तम् ॥
( ४ ) प्राणवतेतिसूत्रं तन्निरसनीयशङ्काप्रदर्शनपूर्वकमवतारयति-
कथमिति ॥ तर्हीति शेषः । तथाच यदि प्राणानां ब्रह्मकरणत्वं तर्हीत्य
र्थः । श्रुतिरित्यनन्तरमुपपद्यत इति शेषः । किन्तु ब्रह्मकरणत्वस्य त
द्विरोध एव भवेदिति वाक्यशेषः । सूत्रं व्याचष्टे—जीवेनेति । एव
कारो भिन्नक्रमः । सूत्रे करणैस्स्वकरणैरेव, न तु जीवकरणैरित्यव
धारणार्थकतूशब्दोऽन्वितः । सूत्रानुषक्तं तदिति पदं ‘एषः’ इति श्रुत्य
नुसाराल्लिङ्गविपरिणामेन परमात्मेति व्याख्यातम् । दर्शनादीति इति
श्रुतेरर्थ इति च शेषः । जीवेनेत्यनेन प्राणवता इन्द्रियवता जीवेनेति
प्राणवतेत्यस्यार्थ उक्तः । न विरोध इति सूत्रे शेषोक्तिः । तथा च यतो
‘जीवस्य करणानि’ इति श्रुतेः स्वकरणैरेव प्राणैः परमात्मा जीवेना
मुख्यकर्त्रा दर्शनादि कर्म कारयतीत्यर्थो युक्तः । अतः प्राणानां ब्रह्मकर
णत्वोक्तेः जीवकरणत्वश्रुतिविरोधो नेत्यर्थः ॥
( ५ ) ब्रह्म इन्द्रियैः जीवेन दर्शनादि कारयतीत्येतत्कुत इत्यतस्तत्र
हेतुत्वेन शब्दादित्यंशं व्याचष्टे—एष इति ॥ ‘हि’ यस्मात् ‘एषः’ परमा
त्मा जीवस्य स्वाधीनतया किञ्चिदिन्द्रियस्वामित्वं दत्वा एतेनानेन
व र्ज
६७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
(८) सू—ॐ ॥ तस्य च नित्यत्वात् ॥ ॐ ॥ १७ ॥
अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्कर
णत्वश्रुतिः ।
(९) ‘अथावियोगीनि करणैर्वाव न वियुज्यते देहेनैव वियु
ज्यते इत्येतद्भाव करणानां करणत्वं यद्भाव न वियुज्य
त्वं परमेश्वरदत्तजीवप्रयोज्यत्वरूपजीवकरणत्वसहितब्रह्मकरणत्वमि
न्द्रियाणां ‘अकरणत्वात्’ इति सूत्रे चशब्देन विवक्षितमिति तस्य
च मुख्येऽनभ्युपगमात् न तस्याकरणत्वोक्तिविरोध इति भावः । इति
वाराहे उक्तमिति शेषः । अस्यातो न विरोध इति पूर्ववाक्यानुवृत्त्या
ऽन्वयः ॥
(८) एवं भगवदधीनान्यपीन्द्रियाण्यस्वतन्त्रजीवकर्तृके कर्मणि
साधनत्वात्तत्करणानीत्युच्यन्ते, यथा परकीयकुठारेणापि घ्नंस्ततोऽसौ
तत्करणमुच्यत इत्येवं मुख्यमर्थं जीवकरणत्वश्रुतेरुक्त्वा मुख्यार्थान्त
रप्रतिपादकं सूत्रं पठित्वा व्याचष्टे—तस्य चेति ॥ सूत्रे नित्यत्वादि
त्युपलक्षणम् । अनेन नाशाभावोक्तावपि उत्पत्त्यभावस्यालाभादित्या
शयेनानादीत्युक्तम् । मुक्तिपर्यन्तं सदा विद्यमानत्वादित्यर्थः । न के
वलं जीवकर्तृके कर्मणि इन्द्रियाणां साधनत्वादिति चशब्दार्थः । अने
न चशब्दो भिन्नक्रमो निमित्तसमुच्चयार्थ इति सूचितम् । जीवकरण
सम्बन्धस्येत्यनेन तस्येति पदं व्याख्यातम् । युज्यत इत्यादिना साध्या
ध्याहारस्सूचितः । ‘तत्करणत्वश्रुतिः’ ‘जीवस्य करणानि’ इति जीवक
रणत्वश्रुतिरित्यर्थः । तथा च परकीयेऽपि बहुकालसम्बन्धिनि वस्तु
नि उपचारस्तदीयत्वव्यवहारदर्शनादत्रापि भगवदीयेष्वपीन्द्रियेषु
बहुकालीनजीवसम्बन्धितामादाय तत्करणत्वश्रुतिः प्रवृत्तेति श्रुतेरुपच
रितार्थत्वमिति भावः ॥
(९) अनादिकालीनसम्बन्धनिमित्तेयमिन्द्रियाणां जीवकरण
त्वश्रुतिरित्युक्त कुत इत्यत आह—अथेति ॥ प्रमेयान्तरारम्भार्थोऽथेति
शब्दः । ‘अवियोगीनि’ जीवेनेति शेषः । कुत इत्यत आह—‘करणैः’
इन्द्रियैरिति । वावेति प्रसिद्धौ न वियुज्यते जीवः, तर्हि कथं मृतिरि
त्यत आह—देहेनेति । न करणैरित्येवार्थः । एवं जीवकरणसम्बन्ध
स्यानादिनित्यत्वमुक्त्वा तस्य जीवकरणत्वव्यवहारनिमित्त वमुपपा
दयति—इत्येतदिति । इति वाक्यबोध्यमित्यर्थः । ‘करणानां करणत्वं’
[ अधि - ११. सू - १८. ] दीपिकासहितम्. ६७६
ते ' इति गौपवनश्रुतिः ।
( १० ) चशब्दः करणसम्बन्धग्राही ॥ १७ ॥
:[flower]:
११० अधिकरणम् ॥
( १ ) 'अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं वृञ्जन्ति'
इन्द्रियाणां जीवकरणत्वव्यवहारे निमित्तम् । किमेतदित्यतौ देहेनेत्यु
क्तव्यावर्तनेन करणैरित्यंशेनोक्तं पुनराह—यद्विति । यद्वाच न वियु
ज्यत इत्यंशेनोक्तं जीवकर्तृकावियोगत्वमिन्द्रियधर्मिकावियोगित्व
व्यवहारे हेतुभूतनादिसम्बन्धित्वपर्यवसितं तदेतदिन्द्रियाणां जीव
करणत्वव्यवहारनिमित्तमित्यर्थः । श्रुतिरित्त्यनन्तरं यत इति शेषः । अ
स्यानादिनित्यत्वाच्चेति सहेतुकप्रतिज्ञावाक्येनान्वयः ॥
( १० ) ननु 'प्राणवता' इति सूत्रे जीवस्य प्राणवत्पदेन प्रकृतत्वाद
६७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामि-
न्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु
द्वादशे’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं
निवार्यमिति ।
ज्ञेयाः । प्राणानामिन्द्रियत्वं कुत इत्यत आह—प्राणा इति । ‘हि’ य-
स्मात् ‘इदं’ विषयजातमुद्दिश्य प्राणाः ‘द्रवन्ति’ गच्छन्ति तस्मा-
दित्यर्थः । एवमिन्द्रियाणां त्रयोदशत्वप्रापकश्रुतिं समुदाहृत्य द्वादश-
त्वश्रुतिमुदाहरति—द्वादशेति । एवकारोऽधिकसङ्ख्याव्यावर्तकः ।
‘मनोबुद्धी’ मनश्च बुद्धिश्च मनोबुद्धी इति विग्रहः । तुशब्दो विशेषा-
र्थः । द्वादशे इति । द्वादशं च द्वादशं च द्वादशे । इन्द्रियशब्दविवक्ष-
या नपुंसकद्विवचनप्रयोगः । प्रथमयोरित्येव द्वादशशब्दस्यैकत्र ल-
क्षणा एकादशे द्वादशत्वारोपो वा । तथा च मनोबुद्धीन्द्रिये एकाद-
शत्वद्वादशत्वसङ्ख्यापूरके इत्यर्थः । यत्तु एकादशी च द्वादशं चेति
ततो ‘नपुंसकम्’ इत्येकशेषे एकवद्भावाभावे च द्वादशे इति रूपं सि-
द्ध्यतीति व्याख्यानं, तन्न बुद्धेरेकादशीत्वं मनसः द्वादशत्वं इति व्य-
त्यासेनान्वयस्य भिन्नार्थयोर्विरूपयोरेकशेषस्यादृष्टस्य कल्प्यत्वादुपे-
क्ष्यम् । केचित्तु—एकादशं च एकादशी चैकादशे द्वादशं च द्वादशी
च द्वादशे उभयत्र नपुंसकमित्येकशेषः । ततः एकादशे च ते द्वाद-
शे चेति कर्मधारयः । एवं च मनोबुद्ध्योः प्रत्येकमेकादशत्वं द्वादशत्वं
च लक्ष्यते इति एतट्टीकार्थमाहुः । अपरे तु—काकेभ्यो दधि रक्ष्यतामि-
त्यत्रोपलक्षितार्थमादाय बहुत्वान्वयवदत्रापि द्वादशशब्दोपलक्षितैका-
दशशब्दबोध्यार्थमादाय द्वित्वान्वय इत्याहुः । अयं प्रथमपक्षान्तर्भूत
एव । स्वप्रबुद्धार्थस्तु मिलित्वा द्वौ दशशब्दौ ययोः पदयोः प्रविष्टौ ते
द्वादशे तत्पदबोध्ये इति यावत् । एकादशद्वादशपदयोः दशशब्दस्य
प्रविष्टत्वादिति भावः । अत एवैकादशद्वादशे इति टीकाऽपि मनो-
बुद्धिपदसामानाधिकरण्यात् तत्पदबोध्यत्वाभिप्रायेति । अस्तु श्रुति-
द्वयम्, ततः किमित्यत आह—अत इति । यतः पौत्रायणश्रुतिः त्रयो-
दशानामपि प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादश’ इति काषायणदृष्ट-
श्रुतिश्च द्वादशानामेव । अतो विप्रतिपत्तेः संशय इत्यध्याहारेण योज-
ना । अनेनाधिकरणाङ्गसंशयः इन्द्रियत्वाख्यविषयश्च दर्शितो भवति।
एवं ‘अथ’ इति श्रुतिर्यत्त्रयोदशानामपि प्राणानामिन्द्रियत्वं वक्ति,
[ अधि - ११. सू - १८. ] दीपिकासहितम्. ६७५
( २ ) अतो वक्ति—
सू—ॐ ॥ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ ॐ ॥ १८ ॥
मुख्यप्राणमृते त एवेन्द्रियाणि ॥
( ३ ) द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।
द्रवतामिन्द्रियाणां हि नियन्ता प्राण एकराट् ॥
इति पौत्रायणश्रुतिः ।
अतः सर्वेऽपि प्राणाः इन्द्रियाणीति साध्याध्याहारेणावृत्त्या योजनायां
पूर्वपक्षः प्रदर्शितो भवति । तत्र हेत्वसिद्धिपरिहाराय सामान्येनेत्यु
क्तम् । तथा च यतः श्रुतिः ‘सामान्येन’ साधारण्येन सर्वेषामिन्द्रि
यत्वं वक्ति, अतो नासिद्धिरिति भावः । ननु विशेषश्रुतित्वात् द्वाद
शत्वश्रुत्या बाधितेयं त्रयोदशत्वश्रुतिरित्यत आह—सयुक्तिकेति । य
त इयं श्रुतिः ‘सयुक्तिका’ इदंद्रवणरूपयुक्तियुक्ता तद्वादिनी अतः
प्राबल्यान्न बाधितेति भावः । नन्वन्यतमस्य निवारणेन द्वादशानामेवे
न्द्रियत्वनिर्धारणसम्भवात् कथमयं पूर्वपक्ष इत्यत आह—अत इति ।
यतः सामान्येनेन्द्रियत्वेदंद्रवणयोर्वचनमस्ति, अतः कस्य प्राणस्ये
न्द्रियत्वं ‘निवार्यते’ न कस्याप्यशक्यत्वात् इत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्यत्र श्रे
ष्ठादित्यस्यार्थो—मुख्यप्राणमृत इति । मुख्यप्राणादन्ये प्राणा इत्यर्थः।
पूर्वसूत्रात्तुवृत्तचशब्दस्य एवेत्यर्थ उक्तः। ते श्रुत इति चावर्तते । एक
मिति चाध्याह्रियते । तथा च ‘एकमृते’ विनैव ‘ते’ श्रुत्युक्ताः प्रा
णाः ‘इन्द्रियाणि’ द्वादशैवेन्द्रियाणि, न तु सर्वे प्राणा इत्यर्थः । तत्र
कस्य व्यावृत्तिरित्यत आह—मुख्येति । तथा च मुख्यप्राणमेकमृतेऽ
न्ये प्राणाः इन्द्रियाणि, न तु मुख्यप्राणोऽपीत्यर्थः ॥
( ३ ) कुत इत्यतस्तत्र हेतुत्वेन तद्व्यपदेशादित्येतद्व्याचष्टे—द्वा
दशैवेति ॥ ‘हि’ यस्मात् इति विशेषश्रुतिरस्ति तस्मान्मुख्यप्राणमृते
ऽन्य एवेन्द्रियाणि न तु मुख्योऽपीत्यर्थः । श्रुत्यर्थस्तु-इन्द्रियाणि द्वाद
शैवेत्याहुः, न तु त्रयोदशेति।अत्र कस्य व्यावृत्तिरित्यत आह-प्राण इति।
मुख्यप्राणस्त्वित्यन्वयः । तुशब्दो विशेषार्थः । इत्याहुरित्यस्ति । नन्वि
दंद्रवणवतः तस्य कथमिन्द्रियत्वाभाव इत्यत उक्तम्—द्रवतामिति।
गच्छतामित्यर्थः । विषयं प्रतीति शेषः । ‘नियन्ता’ स्वामी ‘एकराट्’
स्वतन्त्रः । तथा च मुख्ये इदंद्रवणादिति हेतुरसिद्ध इति भावः । तुरे
६७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
( ४) श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ॥
विषयद्रवणात्तेषां इन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः ॥
इति बृहत्संहितायाम् ॥ १८ ॥
( ५) सू—ॐ ॥ भेदश्रुतेः ॥ ॐ ॥ १९ ॥
'स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति
बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि
न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न
बालयन्ति न धत्ते न धारयन्ति तानि ह वा एतान्यबला
बार्थो नियन्तैवेति सम्बध्यते ॥
( ४) अत्रैव स्मृतिमाह—श्रोत्रादीनीति ॥ आद्यस्तुशब्दो ज्ञाने-
न्द्रियत्वरूपविशेषद्योतकः द्वितीयश्चेदित्यर्थे । एवशब्दो वागादिपञ्चक-
स्य ज्ञानेन्द्रियत्वव्यावर्तकः, तथाशब्दः समुच्चये, तथा च यानि श्रो-
त्रादीनि पञ्चैव ज्ञानेन्द्रियाणि यथातथाभूतं वागादिपञ्चकं कर्मे-
न्द्रियं तान्येव मनोबुद्धिसहायानि चेत् द्वादश भवन्ति । एतानि द्वाद-
शैवेन्द्रियाणि, न त्वन्यदिति योजना । कुतो द्वादशानामिन्द्रियत्वमत
आह—विषयेति । विषयं प्रति गमनादित्यर्थः । एतदन्यस्य मुख्यप्राण-
स्यानिन्द्रियत्वे हेतुमाह—'तेषां' इन्द्रियाणामिति । गच्छन्नियामकस्या-
पि गमनमस्त्येवेति तस्यापीन्द्रियत्वं स्यात् इत्यत आह—स्थित इति ।
स्वस्थान इति शेषः । न तु विषयं प्रति स्वयमपि गच्छतीत्यर्थः । अत्रो-
पपत्तिमाह—अखिलेति । अखिलेन्द्रियस्वामीत्यर्थः । स्वामिनो भृत्यानु-
गमनमयुक्तमिति भावः । बृहत्संहितायामिति । उक्तमिति शेषः ॥
( ५) यदि मुख्यप्राणो नेन्द्रियं तर्हि चक्षुरपि न स्यात्, चक्षुर्मु-
ख्यप्राणयोः सर्वथा विशेषाभावात् इदंद्रवणभावाभावरूपस्य स्थित-
त्वास्थितत्वरूपस्य सूत्रकृताऽनुक्तत्वात् अप्रयोजकत्वाच्च इत्याशङ्कां परि-
हरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति—भेदेति ॥ स्थित इत्यतः
प्राक्स्वस्थान इत्युपस्कार्यम् । हिशब्दः प्रसिद्धौ । 'इदं' सर्वं कार्यं करोति
स्वयं, कारयत्यन्यमुखेन 'बलति' बलयुक्तवदाचरति चेष्टते वा 'बाल-
यति' बलयुक्तान् करोति चेष्टयतीति वा । स्वयमखिलं 'धत्ते' बिभर्ति
धारयत्यन्यमुखेन । उभयत्र हेतुमाह—प्रभुमिति । 'एनं' मुख्यं, अनेन
[ अधि - ११. सू - २०. ] दीपिकासहितम्. ६७७
नि तस्मादाहुरिन्द्रियाणि करणानि' इति पौत्रायण
श्रुतेः ॥ १९ ॥
( ६ ) सू—ॐ ॥ वैलक्षण्याच्च ॥ ॐ ॥ २० ॥
पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृश्यते न मुख्यस्य ।
मुख्यस्य सर्वकर्तृत्वकारयितृत्वबलत्वबालयितृत्वधर्तृत्वधारयितृत्वा-
दिविशेषोक्त्या ईश्वरसाम्यमुक्तम् । तथा च सौत्रभेदशब्दो विशेष-
परतया व्याख्यातः । एवं मुख्यप्राणधर्ममभिधाय तद्भावमिन्द्रियेष्वा-
ह—अथेति । इन्द्रियस्वामिस्थितिकथनानन्तरं तद्वशानीन्द्रियाणि ल-
क्षणमुखेन कथ्यन्त इत्यर्थः । ततः किमित्यत आह—तानीति । हवेति
प्रसिद्धौ । यस्मात्तान्येतानीन्द्रियाणि ' अबलानि' करणकारणबलन-
बालनधरणधारणपोषणदिष्वत्यन्तं असमर्थानि तस्माज्जीवापेक्षया
'करणानि' तत्प्रयोज्यानि इति वि
६७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
' प्राणाग्नय एवैतस्मिन् पुरे जाग्रति ' ( प्र. ४-३. ) इति
च श्रुतेः ॥ २० ॥
—:*:—
१२. अधिकरणम् ॥
( १ ) ' विरिञ्चो वा इदं विरेचयति विदधाति ब्रह्मा वाव वि
भयवशप्रवृत्तिकत्वात् मुख्यस्य च केवलेश्वराधीनप्रवृत्तित्वरूपवैल
क्षण्यात् । न चासिद्धिः 'वैलक्षण्यात्' इन्द्रियेषूक्तवैलक्षण्यस्य प्रत्य
क्षसिद्धत्वात्, मुख्यप्राणे च श्रुतिसिद्धत्वादिति सूत्रार्थ उक्तो भवति।
षट्प्रश्ने हि 'एष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृ
शते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्ष
ते' ( प्र. ४-२. ) इति पूर्ववाक्ये जीवस्य स्वापकाले श्रोत्रचक्षुर्घाणरस
नत्वग्वाक्पाण्युपस्थपायुपादाख्यदशेन्द्रियव्यापाराभावमभिधाय त
र्हि कानि तदा जाग्रतीति पिप्पलादमृषिं प्रति सौर्यायणिप्रश्नविप्रश्नस्यो
त्तरमुच्यते—प्राणाग्नय इति । स्वापकाले 'एतस्
[ अधि - १२. सू - २१० ] दीपिकासहितम्. ६७९
रिञ्च एतस्माद्धीमे रूपनामनी' इति गौपवनश्रुतिः ।
( २ ) यस्माद्विरेचयेत्सर्वं विरिञ्चस्तेन भण्यते ।
एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः ॥
इति च युक्तिर्ब्राह्मे ।
कुतो विरिञ्चत्वमित्यतस्तदर्थभूतविरेचकत्वस्य तत्र प्रसिद्धत्वादित्या
नाह—एतस्माद्धीति । ब्रह्मण इत्यर्थः । हिशब्दः प्रसिद्धौ । 'इमे' प्र
सिद्धे रूपनामनी उत्पद्येते इति शेषः । अत्र 'रूपं च तदपेक्षया' इति
स्मृतेः अयोगिप्रत्यक्षगम्यं रूपं त्रिवृत्क्रियापेक्षया भवति । नाम च त
द्व्यवहार्यं तदपेक्षं भवतीति तत्त्वप्रदीपोक्तेः अयोगिप्रत्यक्षगम्यं अस्म .
दादिशरीरमेव रूपशब्देनोच्यते, अयोगिभिर्व्यवहार्यमेव नामशब्देनो
च्यते । अस्मदादिशरीरस्यैव त्रिवृत्कृतोपादानकत्वात्, उपादानार्थमे
व त्रिवृत्क्रियापेक्षणात्, अयोगिभिर्व्यवहार्यनाम्नामेव रूपापेक्षत्वाच्च, न
तु योगिप्रत्यक्षगम्यदेवतादिशरीरमपि रूपशब्देनोच्यते, तस्य केवल
भूतोपादानकत्वेन तदर्थं त्रिवृत्क्रियानपेक्षणात् । योगिभिर्व्यवहार्यना
म्नां रूपानपेक्षत्वाच्च । श्रुतिरित्यनन्तरं विरिञ्चस्य नामरूपकर्तृत्वं व
क्तीति शेषः ॥
: ( २ ) श्रुत्यन्तरापेक्षयाऽस्याः प्राबल्योपपादनाय युक्त्युपेतां दर्शय
ति—यस्मादिति ॥ यस्मात् 'सर्वं' नामरूपात्मकं 'विरेचयेत्' सृजे
त् तेन कारणेन ब्रह्मा विरिञ्च इति भण्यते । नास्य कर्तृत्वं द्वारत्वाभि
प्रायं, किन्तु मुख्यमेवेत्याशयेन अस्य साध्यमाह—एको हीति । हिः
प्रसिद्धौ । तुरेव । यस्मादित्यावर्तते, तेनेति च । तथा च यस्माद्विरि
ञ्चो भण्यते, तेन ब्रह्मैव जगतः 'एको' मुख्यः कर्ता, न द्वारभूतः, स
च 'ब्रह्मा' प्रसिद्धश्चतुर्मुख एवेत्यर्थः । चतुर्मुख इत्यनेन श्रुतिगतो ब्र
ह्मशब्दो जगत इत्यनेनेदंशब्दश्च विवृतः । केचित्तु—श्रुतौ विरेचकत्व
निमित्तेन विरिञ्चशब्दवाच्यत्वोक्तावपि तस्य जगत्स्रष्टृत्वे हेतुत्वानुक्तेः
तदर्थं यस्मादित्यादिस्मृत्युदाहरणम् । तथा च यस्मात् विरिञ्चो भ
ण्यते तस्मात् एको हि कर्ता जगत इत्यावृत्तिं विना स्मृतिवाक्यार्थमा
हुः । इतीति । इति ब्राह्मवचने विरेचयितृत्वनिमित्तकविरिञ्चशब्दवा
च्यत्वरूपयुक्तिश्चोक्तेत्यन्वयः । न केवलं श्रुतिरिति चशब्दार्थः । अनेन
विरिञ्चस्यैव नामरूपात्मकदेहादिकर्तृत्वं तथा श्रुतेः विरिञ्चत्वयुक्तेश्चे
ति सयुक्तिकः पूर्वपक्षस्सूचितो भवति ॥
६८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
( ३ ) ' अथ कस्मादुच्यते परम इति परस्माद्ध्येते नामरूपे
व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादु-
च्यते ब्रह्मेति बृहत्त्वाद्वृंहितत्वाच्च ' इत्याग्निवेश्यश्रुतिः।
( ४ ) अत आह—
सू—ॐ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ ॐ ॥ २१ ॥
नामरूपक्लृप्तिः परादेव । ' सर्वाणि रूपाणि विचित्य
धीरः। नामानि कृत्वाऽभिवदन्यदास्ते' (तै.आ.३-१२)
इति श्रुतेः।
( ३ ) एवं विरिञ्चकर्तृत्वे श्रुतिमुदाहृत्य परमात्मकर्तृत्वेऽपि तामु-
दाहरति—अथेति ॥ प्रश्नेऽथशब्दः । विष्णुः परम इति कस्मादुच्यत
इति प्रश्नस्योत्तरमाह—परमादिति । ' हि ' यस्मात् ' एते नामरूपे '
संज्ञामूर्ती ' परस्मात् ' विष्णोः ' व्याक्रियेते ' सृज्येते तस्मादेनं परम
इत्याहुः कवय इत्यर्थः । अत्र परमत्वे नामरूपकर्तृत्वाख्यो हेतुरुक्तः,
स च नाप्रयोजकः, अपरस्याल्पशक्तेः सर्वनामरूपकर्तृत्वायोगात् । ' क-
र्तृत्वात्सगुणं ब्रह्म ' इति भागवतोक्तेरिति ध्येयम् । न केवलं नामरूप-
कर्तृत्वं परमत्वे हेतुः, किन्तु विष्णोर्ब्रह्मत्वेऽपि हेतुरिति सूचनाय ब्रह्म-
शब्दं प्रश्नपूर्वं निर्वक्ति—अथेति । यद्वा—' ब्रह्मा वा ' ( ) इति
श्रुतिगतब्रह्मशब्दप्रकृतेः सावकाशत्वोपपादनायेदमुदाहृतम् । पूर्ववत्प्र-
श्नार्थोऽथ शब्दः । ' बृहत्त्वात् ' वृद्धत्वात् ' बृंहितत्वात्' नामरूपात्मक-
जगत्सृष्ट्यादिगुणबृंहितत्वात् पूर्णत्वाच्च ब्रह्मेत्युच्यते इत्यर्थः । श्रुतिरि-
ति । विष्णोर्नामकर्तृत्वं वक्तीति शेषः ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ संज्ञामूर्तिक्लृ-
प्तिरित्यस्य व्याख्यानं—नामरूपक्लृप्तिरिति । नामरूपात्मकदेहादिप्रप-
ञ्चस्योत्पत्तिरित्यर्थः । ' परात् ' परमात्मन इति लब्धविशेष्योक्तिः । न
विरिञ्चादित्येवकारार्थः । भवतीत्यध्याहार्यम् । कुत इत्यतः प्रवृत्तमुप-
देशादिति हेत्वंशं व्याचष्टे—सर्वाणीति । इतीति । इति तैत्तिरीयपुरुष-
सूक्तमन्त्रोक्तत्वादित्यर्थः । श्रुतौ यदिति लिङ्गव्यत्यासः । तथा च ' यो
धीरः ' परमधैर्यशीलो भगवान् सर्वाणि रूपाणि ' विचित्य ' सृष्ट्वा
तेषां ' नामानि ' वाचकशब्दांश्च कृत्वा तानि तैः ' अभिवदन् ' व्यवह-
रन्नास्ते । तमेवं विद्वान् अमृतो भवतीत्यर्थः ॥
[ अधि - १२. सू - २१. ] दीपिकासहितम्. ६८१
( ५ ) त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरू-
पयोः ।
( ६ ) सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।
( ५ ) नामरूपयोः विरिञ्चसृष्टत्वेऽप्यस्ति श्रुतिरित्या...दमनया पर-
मात्मसृष्ट्यनिश्चय इत्यतस्तत्परिहारत्वेन प्रका भावप्रधानत्रिवृत्पदघ-
टितं त्रिवृत्कुर्वत इत्यंशं परस्य नामरूपकर्तृत्व हेतुसमर्पकतया व्याच-
ष्टे--त्रिवृत्कुर्वत इति ॥ त्रिवृत्कुर्वत इति विशेषणनिर्देशो हेतुगर्भः वा-
च्यो यस्य स हेतुगर्भो लिङ्गवाचीत्यर्थः । तथा च सिद्धान्तश्रुतेः प्राब-
ल्यज्ञापनाय त्रिवृत्क्रियाकर्तृत्वरूपपरमात्मविशेषणवाचकपञ्चम्यन्तश-
ब्देन परस्य नामरूपकर्तृत्वे त्रिवृत्त्वकर्तृत्वादिति युक्तिरुक्तेति भावः ।
[L1
Here is the line-by-line Devanagari transcription of the provided page:
६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः ॥
इति पाद्मे ।
(७) त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।
रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।
हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः ॥
इति च ब्रह्माण्डे ॥ २१ ॥
—: ❖ :—
१३. अधिकरणम् ॥
(१) 'अद्भ्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भव
भूत इत्यार्थः । तदवान्तरा इत्यस्यैकपदत्वे तस्य विष्णोस्तस्यां सृष्टौ
द्वारभूता इत्यर्थः । यतस्सर्वरूपाणां स्रष्टाऽतः सर्वेनाम्नां चेत्यप्यन्वयः।
तथा च पूर्वपक्षिश्रुतेः द्वारविषयत्वेन सावकाशत्वान्न तद्विरोध इति
भावः । न च मुख्यार्थसम्भवे किममुख्यार्थाश्रयणेनेति वाच्यम् । यतः
कर्तृत्वशक्तिरूपं मुख्यकर्तृत्वं 'एक एव स्रष्टा' इत्यनेन विष्णोरेव,
नान्येषां तस्यैव त्रिवृत्कर्तृत्वादित्युक्त्वा 'ब्रह्माद्यास्तदवान्तराः' इत्य
नेनेतरेषां द्वारकारणत्वरूपामुख्यकर्तृत्वमेवोक्तम् । इति पाद्मे इत्यस्य
वचनादित्यध्याहारेण नामरूपक्लृप्तिः परादेवेति पूर्वेणान्वयः ॥
(७) सूत्रार्थं स्मृतिसमर्थितं चाह—त्रिवृदिति ॥ आद्यश्चस्त्वर्थः।
तथाशब्द उपमायाम् । द्वितीयश्चशब्दः समुच्चये । भवतीति शेषः ।
तथा च 'यतस्त्रिवृत्क्रिया' पृथिव्यप्तेजसां मिश्रीभावकरणं विष्णोस्स
म्बन्धि भवति । यतश्च रूपं 'तदपेक्षया' त्रिवृत्क्रियाऽपेक्षयैव भवति ।
यतश्च नाम 'रूपापेक्षं' तत्साध्यं यतश्च 'व्यवहारः' अभिलपनादिरूपः
'तदात्मकः'नामापेक्षः अतो नाम्नो रूपस्य व्यवहारस्य च हरिरेव
'एकराट्' स्वतन्त्रः कर्ता, नान्यः । यतः कर्ता भगवान् अतः सर्वजी
वानां पिता । न केवलमेतावत्, किन्तु 'प्रभुः' स्वामी चेत्यर्थः स्मृति
द्वयसमुच्चये चशब्दः ॥ १२ ॥
॥ इति संशाधिकरणम् ॥
—: ❖ :—
१३. अधिकरणम् ॥
(१) अत्राधिकरणे शरीरकारणश्रुतिविरोधः परिह्रियते । तन्नोप
[ अधि - १३. सू - २२. ] दीपिका सहितम्. ६८३
*'ह्यापः शरीरमाप एवेदं सर्वम्' इति कौण्डिन्यश्रुतिः।
( २ ) अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः ।
इति च भारतं ॥
( ३ ) 'पृथिवीं शरीरमाकाशमात्मा' (बृ. ५-२-१३.) इ
लक्षणाभिप्रायेण कोटिद्वयमात्रे सन्देहबीजं दर्शयन् पूर्वपक्षं च दर्श-
यति—अद्भ्य इति ॥ हिशब्दः प्रसिद्धौ । 'इदं' शरीरम् । एवं प्रतिज्ञा-
तमपां सर्वशरीरकारणत्वमुपपादयति—आप इति । आपो मांसं भव-
न्ति, अस्थि च भवन्तीति प्रत्येकमन्वयः। यत इति शेषः। अतः 'आपः
शरीरं' अब्जन्यं शरीरमित्यर्थः । शरीरस्य मांसाद्यात्मकत्वादिति भा-
वः। निगमयति—आप एवेति 'इदं' शरीरम् । श्रुतिरिति । आप्यत्वं
शरीरस्य वक्तीति शेषः। अनेन शरीरमाप्यमेवेत्येकः पूर्वः पक्षः प्रद-
र्शितो भवति ॥
( २ ) नन्वाप्यत्वश्रुतेः पार्थिवत्वादिप्रापकश्रुत्यन्तरविरोध इत्या-
शङ्क्य सयुक्तिकत्वेनास्याः प्राबल्यमित्याह—अम्मयमिति ॥ तुशब्दोऽ-
वधारणे भिन्नक्रमः । यतो मांसमम्मयं, अत एव मांसतः तृप्तिर्जायते
तर्पकत्वस्याब्धर्मत्वेन कार्यानुस्यूतेरावश्यकत्वादिति भावः। 'भारते'
शरीरस्याप्यत्वे युक्तिरुक्तेति शेषः । शरीरैकदेशस्य मांसस्याप्य-
त्वे तर्पकत्वाख्ययुक्तिकथनाच्छरीरस्याप्याप्यत्वे युक्तिरुक्तप्रायेति
भावः ॥
( ३ ) संशयकोट्यन्तरप्रदर्शनाय श्रुत्यन्तरमुदाहरति—पृथिवी-
मिति ॥ 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरा-
दित्यं मनश्चन्द्रं दिशःश्रोत्रं पृथिवीं शरीरमाकाशमात्मा' इति बृहदा-
रण्यकश्रुतौ वागादीनामंशेन गमनमुक्त्वा आत्मशब्दितदेहान्तर्गतपर-
मात्मरूपस्याकाशपदोक्तमूलरूपप्राप्तिरुच्यते । तथा च पुरुषस्य वाक्
अग्निमप्येति, पुरुषस्य शरीरं 'पृथिवीमप्येति' तत्र लीनं भवति, पुरुष-
स्य 'आत्मा' देहान्तर्गतो हरिः 'आकाशं' मूलरूपिणं परमात्मानं प्रा-
प्नोतीत्यर्थः। 'आत्मा' जीवः आकाशं परमात्मानमाप्नोतीति व्या-
ख्याने तु 'पुरुषस्य' जीवस्य 'आत्मा' जीव इत्यन्वयायोगादयुक्तम् ।
'आकाशाख्यं स्वरूपं तु विष्णुस्तद्धृदि संस्थितः' इति बृहद्भाष्य
६८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
ति च श्रुतिः ।
( ४ ) अतो ब्रवीति—
सू—ॐ ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ ॐ ॥ २२ ॥
वीकार्यत्वासिद्धिः । अनेन शरीरं पार्थिवमित्यपरः पूर्वः पक्षः प्रदर्शितो
भवति । एवं शरीरस्य तैजसत्वपूर्वपक्षेऽपि 'सोऽग्नेर्देवयोन्या आहुति-
भ्यः सम्भूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमिति' ( ऐ.ब्रा.७-४.) इति
बह्वृचब्राह्मणवाक्यमुदाहर्तव्यम् । 'सः' यजमानो देवेभ्यः स्वदत्ताहु-
तिप्रदानेन देवपोषकत्वेन 'देवयोन्याः' देवमुखादग्नेः स्वेन दत्ताहुति-
भ्यां निमित्तेभ्यो हिरण्यशरीरः 'सम्भूय' भूत्वा 'ऊर्ध्वः' ऊर्ध्वगतिस्सन्
स्वर्गं लोकमेतीति श्रुत्यर्थः । एवं शरीरस्य भूतत्रयात्मकत्वेऽपि 'इमा
स्तिस्रो देवताः पुरुषं प्राप्य' ( छा.६-४-७.) इत्यादिश्रुतिरुदाहर्तव्या ।
'इमाः' तेजोऽबन्नात्मिकाः तिस्रो देवताः ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे— अत इति ॥ यतोऽनेकधा
विरुद्धश्रुतिरस्ति । यतश्च देहस्य भूतत्रयात्मकत्वश्रुतेः एकैकभूतोपा-
दानकत्वश्रुतिविरोधेनाप्रामाण्ये तन्न्यायेन जगत्कारणत्वश्रुतेरप्यप्रा-
माण्यान्न तया विष्णोर्जगत्कारणतासिद्धिः, अतस्तन्निराकरणार्थं सि-
द्धान्तमाह— सूत्रकार इत्यर्थः । इति श्रुतेरित्यनेन यथाशब्दमिति या
श्रुतिः सूचिता, यच्च श्रुतेरङ्गीकारहेतुत्वं सूचितं तद्विवृतं भवति । तेन
विपक्षे श्रुतिविरोध उक्तः । ब्राह्मणे 'यत्कठिनं' मांसादि सा पृथिवी ।
'यद्द्रवं' शोणितादि तदापः । 'यदुष्णं' मज्जादि तत्तेज इति श्रुत्यर्थः ।
मांसादीति शोणितादिमज्जादीत्यनयोरुपलक्षणम् । अतएव टीकायां श-
रीरेऽस्ति शोणितमज्जादीत्युक्तम् । तत्र प्रत्येकमादिशब्दान्वयः । अस्थि
शोणितेत्यपपाठः । सूत्रे मध्यमधातुजन्यत्वेन मांससमयोः शोणितमज्-
योरैव ग्राह्यत्वात्, अस्तीति क्रियापदस्यैव अपेक्षितत्वाच्च । तत्र प्रथमा-
दिशब्देन मनःपुरीषयोर्ग्रहणम् । द्वितीयेन मूत्रप्राणयोः, तृतीयेनास्थि-
वाचोर्ग्रहणम् । एवेत्यनेन पूर्वसूत्रादेवार्थस्य तुशब्दस्यानुवृत्तिस्सूचि-
ता । चार्थो वा एवकारः। भौममित्येतत् आप्यं तैजसमित्यनयोरुपलक्ष-
णम् । अत्र सर्वत्र तत्त्वप्रदीपोदाहृता सूत्रे यथाशब्दमित्यनेन सूचिता
भाष्ये श्रुतेरित्यनेनोपलक्षिता टीकायामपि यथाशब्दत्वादित्यनेनोक्ता
'अन्नमशितं त्रेधा विधीयते तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं भवति
यो मध्यमः तन्मांसं योऽणिष्ठस्तन्मनः' ( छा.६-५-१. ) इति तथा 'अ-
[ अधि - १३. - सू - २२. ] दीपिकासाहितम्. ६८५
'यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजः'
( गर्भ. ३. ) इति श्रुतेर्मांसाद्येव भौमं, न सर्वशरीरम् ।
अब्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ।
( ५ ) 'यद्वावाथो विमिश्रं विमिश्राद्धयेतद्भवति मिश्रानि हि भू
न्नमयं हि सोम्य मनः' ( छा. ६-६-५. ) इति छन्दोगे पुरीषमांसमनसां
पार्थिवत्वश्रुतिः, एवं 'आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो
धातुः तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठस्स प्राणः' (छा.
६-५-२.) इति तथा 'आपोमयः प्राणः' (छा. ६-६-५.) इति मूत्रशोणि-
तप्राणानामाप्यत्वश्रुतिः, एवं 'तेजोऽशितं त्रेधा विधीयते तस्य यः स्थ-
[L11
६८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
तानि तस्मादेवैवमाचक्षते भूतानि' इति हि काषाय-
श्रुतिः ।
( ६ ) पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया ।
एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ॥
द्वौ हेतू च । तथा च 'यत्' यस्मात् विमिश्राणि भूतानीति प्रसिद्धं,
'अथो' तस्मात् यच्छरीरे मांसादि तदपि विमिश्रमेव स्यात् । न चा-
प्रयोजकता हेतोः, हि यस्मात् 'एतत्' मांसादि 'विमिश्रात्' भूम्या-
देर्भवति 'अथो' तस्मात्कार्यस्य कारणानुरूपत्वादिति भावः । ननु
भूतानां विमिश्रत्वमेव कुतोऽवगतमित्यतो भूतशब्दवाच्यत्वादित्याह-
तस्मादेवेति । सम्भूतत्वात्सहभूतत्वाद्विमिश्रत्वादेवेत्यर्थः । अनेन वह्नि-
मत्तादेव धूमवत्त्वमित्यादाविव विमिश्रत्वादेव पृथिव्यादीनि भूतानी-
त्येवमाचक्षते विद्वांस इत्युक्त्वा विमिश्रत्वस्य व्यापकता भूतशब्दवा-
च्यत्वस्य तु व्याप्यता बोध्यते । तच्छब्दप्रवृत्तिनिमित्तत्वात् तस्य, त-
दभावे तच्छब्दप्रवृत्त्ययोगात् । वस्तुतो भूतानामादिसृष्टौ मिश्रत्वेनैव
सृष्टत्वाच्चेति भावः । अत्र तत्त्वप्रदीपे विमिश्रं शरीरादि मांसादि चेति
व्याख्यानेन शरीरे अब्तेजसोश्च कार्यमस्तीत्यत्रापीयं श्रुतिः प्रमा-
णमिति सूचनाच्छङ्कोत्तरटीका शरीरविषयतयाऽपि व्याख्येया । श्रुति-
रित्यनन्तरं मांसादीनामनेकभूतकार्यत्वं शरीरस्याप्यनेकभूतात्मकत्वं
चक्तीति शेषः । अनेन—यच्छरीरे मांसादि तदेव भौमम्, न सर्वशरी-
रं, किं तर्हि शरीरे 'इतरयोः' अब्तेजसोश्च कार्यं शोणितमज्जाधरती-
त्यङ्गीकार्यम् । कुतो ? यतः तदङ्गीकरणं 'यत्कठिनम्' इति 'अन्नम-
यम्' इति 'यद्भाव' इति च श्रुत्यनुसारि भवति अतः । अथ वा—न
केवलं मांसादि भौमं, किन्तु मांसादौ 'इतरयोः' अब्तेजसोश्च का-
र्यमस्तीत्यङ्गीकार्यम् । कुतो ? यतो 'यथाशब्दं' तद्भवति 'यद्भाव' इ-
ति श्रुत्यनुसारि भवति अतः । यत एवमतो न मांसस्याप्यत्वे युक्तिवि-
रोध इति सूत्रार्थ उक्तो भवति ॥
( ६ ) मांसादीनामनेकभूतकार्यत्वात् तदपेक्षयाऽऽप्यत्वोक्तिर्युक्ते-
त्युक्तार्थे स्मृतिं चाह—पञ्चेति ॥ यद्यपि पार्थिवादि सर्वशरीरेष्वपि मां-
सादिकं सर्वमेकैकशः पञ्चभूतात्मकं 'तदपि' तथाऽपि 'एकविवक्षया'
एकैकभूतसम्बन्धविवक्षया 'एकभूतात्मकत्वेन' एकभूतकार्यत्वेन भौ-
ममित्यादिरूपेण वैदिकवचनं व्यवहारोऽस्ति ॥
दौदकमित्याप्यत्वेन व्यवहारः, 'तेजोऽशितं त्रेधा वि-"
Wait, "गतादप्सम्बन्धादौदकमित्याप्यत्वेन" - look at 'न्धा': yes, "गतादप्सम्बन्धादौदकमित्याप्यत्वेन".
Line 12:
"धीयते तस्य यः स्थविष्ठो धातुः तदस्थि भवति' (छा. ६-५-३.) इति श्रु-"
Line 13:
"तौ च तेजिष्ठत्वनिमित्तादस्थिषु तैजसत्वेन वचनमिति ज्ञेयम् । इयं च"
Line 14:
"योजना यत्र प्रायो भूतसाम्यं तस्मिन्नंशे एकैकभूतानूनत्वविवक्षया तत्त-"
Line 15:
"दात्मकत्वं श्रुतिषूच्यते इत्युक्तिनानात्वेऽप्यविरोध इति तत्त्वप्रदीपेऽपि"
Line 16:
"प्रदर्शिता । अत्रास्थ्रामित्यस्थिपदेन भूतसाम्यस्थलीयास्थिग्रहणम् । त-"
Line 17:
"था च भूतसाम्यस्थले काठिन्यादिनिमित्तेनैकत्रैव भौममित्याद्यनेकव्य-"
Line 18:
"वहारस्तस्यैवोदाहरणेन प्रदर्शनं यथाऽस्थ्रामित्यर्थ