पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 721, कुल 1267 में से
संदर्भ में पढ़ें६७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामि-
न्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु
द्वादशे’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं
निवार्यमिति ।
ज्ञेयाः । प्राणानामिन्द्रियत्वं कुत इत्यत आह—प्राणा इति । ‘हि’ य-
स्मात् ‘इदं’ विषयजातमुद्दिश्य प्राणाः ‘द्रवन्ति’ गच्छन्ति तस्मा-
दित्यर्थः । एवमिन्द्रियाणां त्रयोदशत्वप्रापकश्रुतिं समुदाहृत्य द्वादश-
त्वश्रुतिमुदाहरति—द्वादशेति । एवकारोऽधिकसङ्ख्याव्यावर्तकः ।
‘मनोबुद्धी’ मनश्च बुद्धिश्च मनोबुद्धी इति विग्रहः । तुशब्दो विशेषा-
र्थः । द्वादशे इति । द्वादशं च द्वादशं च द्वादशे । इन्द्रियशब्दविवक्ष-
या नपुंसकद्विवचनप्रयोगः । प्रथमयोरित्येव द्वादशशब्दस्यैकत्र ल-
क्षणा एकादशे द्वादशत्वारोपो वा । तथा च मनोबुद्धीन्द्रिये एकाद-
शत्वद्वादशत्वसङ्ख्यापूरके इत्यर्थः । यत्तु एकादशी च द्वादशं चेति
ततो ‘नपुंसकम्’ इत्येकशेषे एकवद्भावाभावे च द्वादशे इति रूपं सि-
द्ध्यतीति व्याख्यानं, तन्न बुद्धेरेकादशीत्वं मनसः द्वादशत्वं इति व्य-
त्यासेनान्वयस्य भिन्नार्थयोर्विरूपयोरेकशेषस्यादृष्टस्य कल्प्यत्वादुपे-
क्ष्यम् । केचित्तु—एकादशं च एकादशी चैकादशे द्वादशं च द्वादशी
च द्वादशे उभयत्र नपुंसकमित्येकशेषः । ततः एकादशे च ते द्वाद-
शे चेति कर्मधारयः । एवं च मनोबुद्ध्योः प्रत्येकमेकादशत्वं द्वादशत्वं
च लक्ष्यते इति एतट्टीकार्थमाहुः । अपरे तु—काकेभ्यो दधि रक्ष्यतामि-
त्यत्रोपलक्षितार्थमादाय बहुत्वान्वयवदत्रापि द्वादशशब्दोपलक्षितैका-
दशशब्दबोध्यार्थमादाय द्वित्वान्वय इत्याहुः । अयं प्रथमपक्षान्तर्भूत
एव । स्वप्रबुद्धार्थस्तु मिलित्वा द्वौ दशशब्दौ ययोः पदयोः प्रविष्टौ ते
द्वादशे तत्पदबोध्ये इति यावत् । एकादशद्वादशपदयोः दशशब्दस्य
प्रविष्टत्वादिति भावः । अत एवैकादशद्वादशे इति टीकाऽपि मनो-
बुद्धिपदसामानाधिकरण्यात् तत्पदबोध्यत्वाभिप्रायेति । अस्तु श्रुति-
द्वयम्, ततः किमित्यत आह—अत इति । यतः पौत्रायणश्रुतिः त्रयो-
दशानामपि प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादश’ इति काषायणदृष्ट-
श्रुतिश्च द्वादशानामेव । अतो विप्रतिपत्तेः संशय इत्यध्याहारेण योज-
ना । अनेनाधिकरणाङ्गसंशयः इन्द्रियत्वाख्यविषयश्च दर्शितो भवति।
एवं ‘अथ’ इति श्रुतिर्यत्त्रयोदशानामपि प्राणानामिन्द्रियत्वं वक्ति,