सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 723, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 723

६७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
( ४) श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ॥
विषयद्रवणात्तेषां इन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः ॥
इति बृहत्संहितायाम् ॥ १८ ॥
( ५) सू—ॐ ॥ भेदश्रुतेः ॥ ॐ ॥ १९ ॥
'स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति
बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि
न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न
बालयन्ति न धत्ते न धारयन्ति तानि ह वा एतान्यबला
बार्थो नियन्तैवेति सम्बध्यते ॥
( ४) अत्रैव स्मृतिमाह—श्रोत्रादीनीति ॥ आद्यस्तुशब्दो ज्ञाने-
न्द्रियत्वरूपविशेषद्योतकः द्वितीयश्चेदित्यर्थे । एवशब्दो वागादिपञ्चक-
स्य ज्ञानेन्द्रियत्वव्यावर्तकः, तथाशब्दः समुच्चये, तथा च यानि श्रो-
त्रादीनि पञ्चैव ज्ञानेन्द्रियाणि यथातथाभूतं वागादिपञ्चकं कर्मे-
न्द्रियं तान्येव मनोबुद्धिसहायानि चेत् द्वादश भवन्ति । एतानि द्वाद-
शैवेन्द्रियाणि, न त्वन्यदिति योजना । कुतो द्वादशानामिन्द्रियत्वमत
आह—विषयेति । विषयं प्रति गमनादित्यर्थः । एतदन्यस्य मुख्यप्राण-
स्यानिन्द्रियत्वे हेतुमाह—'तेषां' इन्द्रियाणामिति । गच्छन्नियामकस्या-
पि गमनमस्त्येवेति तस्यापीन्द्रियत्वं स्यात् इत्यत आह—स्थित इति ।
स्वस्थान इति शेषः । न तु विषयं प्रति स्वयमपि गच्छतीत्यर्थः । अत्रो-
पपत्तिमाह—अखिलेति । अखिलेन्द्रियस्वामीत्यर्थः । स्वामिनो भृत्यानु-
गमनमयुक्तमिति भावः । बृहत्संहितायामिति । उक्तमिति शेषः ॥
( ५) यदि मुख्यप्राणो नेन्द्रियं तर्हि चक्षुरपि न स्यात्, चक्षुर्मु-
ख्यप्राणयोः सर्वथा विशेषाभावात् इदंद्रवणभावाभावरूपस्य स्थित-
त्वास्थितत्वरूपस्य सूत्रकृताऽनुक्तत्वात् अप्रयोजकत्वाच्च इत्याशङ्कां परि-
हरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति—भेदेति ॥ स्थित इत्यतः
प्राक्स्वस्थान इत्युपस्कार्यम् । हिशब्दः प्रसिद्धौ । 'इदं' सर्वं कार्यं करोति
स्वयं, कारयत्यन्यमुखेन 'बलति' बलयुक्तवदाचरति चेष्टते वा 'बाल-
यति' बलयुक्तान् करोति चेष्टयतीति वा । स्वयमखिलं 'धत्ते' बिभर्ति
धारयत्यन्यमुखेन । उभयत्र हेतुमाह—प्रभुमिति । 'एनं' मुख्यं, अनेन