सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

An exact, line-by-line transcription of the Sanskrit text in Devanagari Unicode:

६३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.]
रूपाणि दशरूपाणि सहस्ररूपाण्यमितरूपाणि । ता
नि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि स
र्वाण्यसम्मितानि सर्वाण्यमितानि । अथावरास्सर्व ए
वापूर्णाः सर्व एव बध्यन्ते अथ मुच्यन्ते च केचन '
इति ॥ ४९ ॥
( ३० ) सू-ॐ॥ आभास एव च ॥ ॐ ॥ ५० ॥
'रूपं रूपं प्रतिरूपो बभूव' (ऋ. ६-४७-१८.) इति प्र
तिरिक्तव्यूह इति टीकार्थमाश्रित्य सप्तव्यूहान्तर्गतमेवैतदित्याहुः ।
'पञ्च' नारायणाद्यनिरुद्धान्तानि 'दश' मत्स्यादीनि 'शतं' नाराय
णाद्यष्टोत्तरशतनामवाच्यानि । विश्वादीनि सहस्राणि । अजितादीन्य
नन्तानि रूपाणि पूर्णानि देशकालाभ्यामनन्तानि गुणतः 'असम्मिता
[

[ अधि - १८. सू - ५०. ] दीपिकासहितम्. ६३३
तिबिम्बत्वान्न साम्यम् ।
( ३१ ) वाराहे च—
द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः ।
प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।
प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु ॥ इति ॥
( ३२ ) सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
त्त्यादिसाम्यामित्यर्थः । जीवस्येत्यनुवर्तते । साम्यमेकविधत्वम् ॥
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
(ऋ. ६-४७-१८.)
इति ऋङ्मन्त्रस्यायमर्थः—'शृण्वे वीरः' (ऋ. ६-४७-१६.) इत्यादिना प्रकृ
तः त्रिविधजीवसमुदायः अस्य परमेश्वरस्य रूपंरूपं प्रति 'प्रतिरूपः' प्र
तिबिम्बो 'बभूव' प्रतिबिम्बो भूत्वा वर्तते । तद्बिम्बरूपमस्य प्रतिबिम्बत्वे
नोक्तस्य योग्यजीवस्य मुक्त्यर्थे 'प्रतिचक्षणाय' साक्षात्कारााय भवति
तद्विषयो भवति । स च 'इन्द्रः' परमेश्वरः 'मायाभिः' स्वसामर्थ्यैः
इच्छाभिर्वा 'पुरुरूपः' अनन्तजीवबिम्बरूपः 'ईयते' ज्ञायते । 'अ
स्य' ईश्वरस्य 'शतमन्तं भवति' इति वचनात् शतानि अजिताद्य
नन्तरूपाणि, एवं दशशतानि विश्वादिसहस्ररूपाणि, एवं शतानि 'ना
रायणो नरः शौरिः' इत्यादीनि, दश मत्स्यादीनि, एवं दश बहूनि प
रादीनि, 'हरयो' हरिनामकानि रूपाणि 'युक्ताः' व्यूहशः सन्ति
'हि' प्रसिद्धमिति ॥
( ३१ ) सूत्रार्थे स्मृतिं चाह—वाराहे चेति ॥ अंश एवांशक इति
स्वार्थे कप्रत्ययः । एवमुत्तरत्रापि । 'परे' स्वरूपांशाः 'प्रादुर्भावाः'
मत्स्याद्यवतारा इत्यर्थः । मनु जीवानां प्रतिबिम्बांशत्वं मत्स्यादीनां तु
स्वरूपांशत्वमिति कुतः ?, उभयोः स्वरूपांशत्वं किं न स्यादित्यत आ
ह—प्रतिबिम्बेष्विति । यत इति शेषः । सर्वसाम्ये स्वरूपत्वमेव स्या
दतोऽल्पेत्युक्तम् । 'स्वरूपाणि' स्वरूपांशरूपाणि प्रादुर्भावात्मकानि
मत्स्यादीनि 'इतराणि' अल्पसाम्यवद्भिन्नानि यावत्साम्यवन्तीत्यर्थः।
तुशब्दोऽवधारणे । इति वाराह इत्यन्वयः । सूत्रार्थ उक्त इति शेषः ॥
( ३२ ) ननु न जीवस्य परमात्मप्रतिबिम्बांशत्वं युक्तम्, जीवश्वरू
८०

६३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः ॥
इति पैङ्गिश्रुतिः ॥
( ३३ ) 'यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्' (प्र.३-३.)
इति च श्रुतिः ॥ ५० ॥
—————:*::—————
पातिरिक्तप्रतिबिम्बोपाध्यभावादित्यत आह—सोपाधिरिति ॥ इति
शब्दोऽध्याहार्यः । 'ईयते' ज्ञायते । 'इन्द्रचापः' तत्संज्ञका वृष्टिसूचक
धनुरकृतिः 'रवेः' सूर्यस्य तत्तेजसो यथा निरुपाधिप्रतिबिम्बः बिम्बा
तिरिक्तोपादानोपाध्यभावात्, अत एव न तस्य सूर्यात्यन्तसादृश्यम्, त
था जीवः परस्य हरेः 'अनुपाधिः' स्वरूपातिरिक्तोपाधिरहितप्रतिबिम्ब
इत्यर्थः । अत्र दृष्टान्ते बिम्बातिरिक्तोपाध्यभावः । दार्ष्टान्तिके तु प्रति
बिम्बातिरिक्तोपाध्यभावः । अतिरिक्तोपाध्यभावस्तु उभयत्र सम इति
द्रष्टव्यम् । सोपाधिप्रतिबिम्बस्य दर्पणादिप्रतिबिम्बितत्वं प्रसिद्धमेवे
ति नोदाहृतम् । केचित्तु—सोपाधिप्रतिबिम्बस्य इन्द्रचाप उदाहरणं,
तस्य च मेघमण्डलं वा सूर्यतेजो वोपाधिः । उपादानं च तदेव । निरुपा
धिप्रतिबिम्बस्य तु जीव उदाहरणमिति यथाशब्दावृत्त्या वाक्यद्वयम
पि दृष्टान्तपरतया योजयन्ति । तन्नु चन्द्रिकाननुगुणत्वान्मूलाभावा
च्चोपेक्ष्यम् । अनेन सूत्रपञ्चकेन जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभा
वोक्त्याऽनंशत्वश्रुतेः स्वरूपांशत्वाभावाविषयत्वेन गतिरुक्ता भवति ।
श्रुतिरित्त्यस्य जीवस्य प्रतिबिम्बत्वमुक्तवाऽतिरिक्तोपाध्यभावमपि वक्ती
ति शेषः । अतो नातिरिक्तोपाध्यभावेऽपि प्रतिबिम्बत्वहानिरिति भावः॥
( ३३ ) जीवस्य निरुपाधिप्रतिबिम्बत्वे छायारूपदृष्टान्तान्तरप्रतिपा
दकं षट्प्रश्नवाक्यं पठति—यथेति ॥ यथा पुरुषस्य देहस्य छाया 'पु
रुषे' देहे 'आतता' तदधीना तत्प्रतिरूपा भवतीति यावत् । तद्वत्
'एतस्मिन्' पुरुषोत्तमे विष्णौ 'एतत्' प्रतिबिम्बरूपं विश्वं जीवजा
तं वा 'आततं' आयत्तं तदधीनतया वर्तते तत्प्रतिबिम्बभूतमित्य
र्थः तत्त्वप्रदीपोक्तो ध्येयः । अत्र सर्वस्यापि शरीरस्य छायया ग्रस्त
त्वात् उपहितानुपहितांशद्वयाभावाच्छायाया इन्द्रचापवन्निरुपाधिप्र
तिबिम्बत्वोक्तिः । छायोपादानं तु नीरूपि द्रव्यानन्तरमिति चन्द्रिका
काराः । इति चेति । इति श्रुतिश्चोक्तार्थमाहेत्यर्थः । चस्समुच्चये ॥१८॥
॥ इति अंशाधिकरणम् ॥

ः, किन्तु सर्वोऽपि ज्ञः पराभास इति सूत्रार्थ उक्तो भवति ॥`
Matches!

  • Now let's check line 30:
    ( २ ) देवदानवादिवैचित्र्यस्य रागद्वेषमोहाख्यदोषनिमित्तकत्वो
    Matches!

  • Now let's check line 31:
    पपत्तेः किमदृष्टकारणकत्वकल्पनयेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्या
    Matches!

  • Now let's check line 32:
    चष्टे—अभिसन्धीति ॥ न केवलं सुरनरादिवैचित्र्यं, किन्तु इच्छादि
    Wait, look at the pratika in L32:
    चष्टे—अभिसन्धीति ॥ or अभिसन्ध्यादिष्वपि?
    In L32: चष्टे—अभिसन्धीति ॥ or अभिसन्धीति?
    Let's zoom in on अभिसन्ध्वीति or अभिसन्धीति:
    Letters: अ भि स न्ध् ... wait, is that धी or वी or ध्या?
    Look at: अ-भि-स-न्धी-ति?
    Wait, the Sutra is: `अभिसन्ध्यादिष्व

इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन
प्रतिक्षणवैचित्र्यं च ॥ ५२ ॥
( ३ ) सू—ॐ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ॐ ॥ ५३ ॥
न स्वर्गनरकभूम्यादिप्रदेशविशेषाद्वैचित्र्यम्, तत्प्रा
वैचित्र्यं चेति चशब्दार्थः । ‘इच्छा’ रागः । आदिशब्देन मोहो गृह्यते ।
वैचित्र्यमिति अनुवृत्तानियमपदव्याख्यानम् । एवमित्युक्तं व्यनक्ति-
अदृष्टादिति । अदृष्टवैचित्र्यादित्यर्थः । भवतीति शेषः । न कारणान्त
रादित्येवार्थः । नन्वस्माभिरपि सिद्धान्तिवत्पूर्वपूर्वदोषवैचित्र्यमेव
उत्तरोत्तरदोषवैचित्र्ये कारणमित्यङ्गीकारान्न काऽप्यदृष्टवैचित्र्यापेक्षे
त्यतः प्रवृत्तं चशब्दं व्याचष्टे—चशब्देनेति । प्रतिक्षणेति । पुरुषविशेष
निष्ठप्रतिक्षणवैचित्र्यमित्यर्थः । सङ्गृहीतमिति शेषः । चः समुच्चये । अ
नेन—यतो न केवलमाभासे देवदानवाद्यनियमोऽदृष्टानियमात्, किं
न्तु अभिसन्धिपदोक्तरागादिष्वनियमोऽपि तत एव भवति, न रागा
द्यनियमात् । अतो न तस्मात्सुरासुरादिवैचित्र्यं वाच्यम् । न केवल
मभिसन्ध्यादिषु वैचित्र्यमदृष्टानियमात्, किन्त्वेकपुन्निष्ठप्रतिक्षणवैचि
त्र्यं च ‘एवं’ अदृष्टानियमादेव भवति, न कारणान्तरादिति सूत्रार्थ
उक्तो भवति । दोषवैचित्र्याभावेऽपि एकस्मिन् पुंसि प्रतिक्षणवैचि
त्र्यदर्शनेन कारणान्वेषणे तत्कारणतयाऽदृष्टवैचित्र्यस्यैवाङ्गीकार्य
त्वावश्यकत्वात् जीववैचित्र्येऽपि तदेव कारणमिति भावः ॥
( ३ ) ननु स्वर्गस्थाः सुराः, भूमिस्थाः नराः, इत्यादिरूपेण स्थान
वैचित्र्यादेव सुरनरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशङ्कां प
रिहरत्सूत्रमुपन्यस्य व्याचष्टे—प्रदेशादिति ॥ अत्र प्रदेशपदं तद्वैचि
त्र्यपरमित्याह--स्वर्गेति । ‘प्रदेशः’ स्थानं ‘वैचित्र्यं’ सुरनरादि
भेदः । प्रतिबिम्बानामिति वाच्यमिति शेषः । कुतो न वाच्यमित्यतः
प्रवृत्तमन्तर्भावादित्येतत्तात्पर्यतो व्याचष्टे—तत्प्राप्तेरिति । विचित्रप्रदे
शप्राप्तेरप्यदृष्टसापेक्षत्वादित्यर्थः । अदृष्टस्यापेक्षा यस्यामिति विग्रहः ।
न केवलमाभासवैचित्र्यस्येत्यपिशब्दार्थः । निष्कारणस्थानवैचित्र्य
स्यैवानुपपत्त्या तत्कारणान्वेषणे अन्ततोऽदृष्टस्यैव तत्कारणतयाऽङ्गी
कार्यत्वादिति भावः । अनेन प्रदेशवैचित्र्यकारणस्यादृष्ट एवान्तर्भा
वात्तस्यैतद्रूपत्वादिति सूत्रखण्डार्थ उक्तो भवति । युक्त्यन्तरमाह—

[ अधि - १९. सू - ५३. ] दीपिकासहितम्. ६३७
तैरदृष्टापेक्षत्वात् । एकदेशस्थितानामेव वैचित्र्यद
र्शनाच्च ॥ ५३ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य
तृतीयः पादः.
—* ✡ *—
॥ ॐ ॥
—
एकेति । एकस्थाने स्थितानामेव सुरनरादिजीवानामित्यर्थः । मिथ इ
ति शेषः। तथा च इतोऽप्यदृष्टवैचित्र्यं कारणतयाऽङ्गीकार्यमिति भावः।
अनेनैकस्थानस्थितानां मिथो वैचित्र्यकारणस्यादृष्ट एवान्तर्भावादि
ति सूत्रखण्डस्यार्थान्तरमुक्तं भवति । अनेन ‘ न सम्बन्धः ’ इति प्रति
बिम्बत्वनिषेधकश्रुतेः स्वरूपातिरिक्तोपाधिनिमित्तकप्रतिबिम्बत्वाभा
वविषयत्वान्न तद्विरोधो जीवप्रतिबिम्बत्वश्रुतेरित्युक्तं भवति ॥ १९ ॥
॥ इति अदृष्टाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य तृतीयः पादः.
—: ꣼ :—
॥ ॐ ॥
—

६३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
१०. अधिकरणम् ॥
( १ ) युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन।
'प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे भूतेभ्यो
ऽण्डमण्डस्यान्तस्त्विमे लोका अथ प्राणा एवानादयः
प्राणा नित्याः' इति काषायणश्रुतौ प्राणानामनुत्प-
त्तिश्श्रूयते ।
( २ ) नोपादानं हीन्द्रियाणां अतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥
इति भविष्यत्पर्वणि ।
'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मु.२-१-३.)
इति च ।
१०. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति-युक्तीति॥ सिद्धान्त्यभिहितानां श्रुतीनां
युक्तिसहिताभिः श्रुतिभिर्विरोधं 'अनेन' चतुर्थपादेन निराकरोति
सूत्रकार इत्यर्थः । अत्राधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधः
परिह्रियते । तत्र किमिन्द्रियाण्युत्पत्तिमन्ति न वेति संशयबीजं
श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—प्राणा इति ॥ 'इदं'
अस्य जगतः 'अग्रे' प्रलये 'प्राणाः' इन्द्रियाण्येव 'आसुः'
बभूवुरित्यर्थः । 'तेभ्यः' इन्द्रियेभ्यः पञ्च 'भूतानि' आकाशादीनि
जज्ञिरे । भूतेभ्यो ब्रह्माण्डं, अण्डस्यान्तः 'इमे' चतुर्दश लोका
आसुः । यतएवं 'अथ' तस्मात्सर्वकारणत्वेन प्रलयेऽवस्थानात्
प्राणाः 'अनादयः, उत्पत्तिशून्या एव' अतएव नित्या इत्यर्थः । अत्रा-
नादित्वोपपादनाय पूर्वांशोदाहरणम् ॥
( २ ) एव मिन्द्रियाणामनुत्पत्तिश्रुतिमुपन्यस्य तस्याः प्राबल्या-
यानुत्पत्तावुपादानशून्यत्वादिति युक्तिमभिप्रेत्य तस्या असिद्ध्यादि
परिहाराय स्मृति माह—नेति ॥ 'हि' यतः 'उपादानं' परिणामि
कारणं, 'अतो' निरुपादानत्वात् । ब्रह्मवदित्यन्वयदृष्टान्तसम्भवे
ऽपि व्यभिचारशङ्कानिरासायोक्तहेतोर्व्यतिरेकव्याप्तिं दर्शयति—
उपादानकृतेति । तन्निमित्तेत्यर्थः । 'सर्वलोकेषु' घटादिकार्येषु ।
इतीति । युक्तिरुक्तेति शेषः । इतीति । प्राणानामुत्पत्तिश्च श्रूयत इति
सम्बन्धः । श्रुतिस्त्वन्यत्रे व्याख्याता ॥

[ अधि - १०. सू - २. ] दीपिकासहितम्. ६३९
( ३ ) अत उच्यते--
सू--ॐ ॥ तथा प्राणाः ॥ ॐ ॥ १ ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा
अपि ॥ १ ॥
( ४ ) सू--ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ २ ॥
अनादित्वश्रुतिर्गौणानदित्वापेक्षया, मुख्यासम्भवात् ।
( ५ ) नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः।
( ३ ) सिद्धान्तयत्सूत्रमवतारयति--अत इति ॥ यतः श्रुतिवि-
रोधः संशयकारणमस्ति अतस्तत्परिहाराय सिद्धान्त उच्यते सूत्र-
कृतेत्यर्थः । सूत्रे तथाशब्दः पूर्वोक्तयुक्तीनां साध्यस्य च परामर्श-
क इत्यभिप्रेत्य सूत्रं व्याचष्टे--यथेति । यैर्हेतुभिरित्यर्थः । 'उत्पद्यन्ते'
उत्पत्तिमत्त्वेन सिध्यन्ति 'तथा' तैरेव हेतुभिः 'उत्पद्यन्ते' पराधीनवि-
शेषावाप्तिरूपोत्पत्तिमन्त एव सिध्यन्तीत्यर्थः । हेतवस्तु वियदधि-
करण एवोक्ताः । तेजआदेर्ब्रह्मान्यकार्यत्वे घर्मात्स्वेददृष्टिवत् अत्र
पुनः प्राणानां तदन्यकार्यत्वे प्रापकहेत्वभावेन विप्रतिपत्त्यभावात्
अत एव प्राणानां कारणस्याविवादात् सिद्धवत्कृत्य परमात्मन इत्यु-
क्तम् ॥
( ४ ) नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावाख्यो हेतुरु-
क्तः । न चासाविह सम्भवति । 'प्राणाः' एवेत्यनुत्पत्तिश्रुतेर्विद्यमा-
नत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति--गौणीति ॥ प्रतिज्ञांशं व्या-
चष्टे--अनादीति । 'प्राणा अनादयः' ( काषायण. ) इति अनादित्वप्र-
तिपादक श्रुतिरित्यर्थः । गौणानदित्वापेक्षयेति । अमुख्यानादित्वविव-
क्षयेत्यर्थः । प्रवृत्ता यत इति शेषः । अतो मुख्यानुत्पत्तौ श्रुत्यभाव इति
प्रतिज्ञावाक्यशेषश्च कर्तव्यः । कुत इत्यतः प्रवृत्तमसम्भवादिति
हेतुसाधकहेतुं व्याचष्टे--मुख्येति । श्रुतेर्मुख्यानुत्पत्तिवाचित्वासम्भ-
वात् । सोऽपि कुतः ? इन्द्रियाणां मुख्यानुत्पत्तेरसम्भवात् 'एतस्मा-
त्' इत्यादिश्रुत्यन्तरासम्भवाच्च, अकारवाच्याद्विष्णोः सम्भवाच्चेत्यर्थः॥
( ५ ) ननु प्राणानां गौणानादित्वं किं नाम, यत्परा श्रुतिर्भवेत् ।
कथं च गौणार्थग्रहणहेतुर्मुख्यासम्भवः। प्रत्युत उत्पत्तिरेव न सम्भव-
त्युपादानाभावादित्यत आह--नित्यानीति ॥ 'सर्वशः' सर्वाणीन्द्रि-
याणि 'सौक्ष्म्येण' सूक्ष्मेण रूपेण 'नित्यानि' चकारादनादीनि च ।

६४० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ]
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥
न च सृष्टिवाक्यविरोधः । 'हि' यतः 'तेषां' इन्द्रियाणां सृष्टिकाले
'भूतैः' पञ्चमहाभूतैः 'उपचयो' वृद्धिः स्थूलभावो 'विधीयते' परेण
क्रियते । तर्ह्युपचयात्पूर्वमसमर्थानीन्द्रियाणि न संसारकारणानि स्यु
रित्याशङ्क्य तत्परिहाराय-सृष्टिकाल इत्याह । प्रलये वियुक्तांशानां ते
षां प्रतिसृष्टिकालं उपचयो विधीयत इत्यर्थः । तथा च यस्मिन् लय
कालेऽनुपचयः तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्था
नि तदाऽस्त्येवोपचयः । स च न कादाचित्कः, किन्तु प्रतिसृष्टिकाले
भावीति नोक्तदोष इति भावः । मुख्यानादित्वासम्भवे हेतुमाह--'प
रेण' परमात्मनेति । साम्यं स्वातन्त्र्याविभक्तत्वादिधर्मेण । कस्य
स्यात्, न कस्यापि भवेदित्यर्थः । मुख्यनित्येति । देहस्वरूपविशेषैः
अविकृतत्वरूपेत्यर्थः । उपलक्षणमेतत् । मुख्यानादिता चेत्यपि द्रष्टव्य
म् । अनेन सूक्ष्मरूपेण अनादित्वमेव गौणानादित्वम् । अनादित्वश्रुति
रपि तत्परैव । जन्मश्रुतिस्तूपचितस्थूलेन्द्रियपरा । भूतान्येवोपादाना
नीति न तदभावोऽपि । स्वातन्त्र्याद्यापत्तेः न मुख्यानादित्वादिसम्भ
वोऽपीति सर्वस्योत्तरमुक्तं भवति । परेण साम्येत्यनेन यावद्विकारमि
त्यादियुक्तयो गृहीता भवन्ति । भविष्यपर्वणीयस्य उक्तत्वादित्य
ध्याहारेणानादीति पूर्ववाक्येनान्वयः । नन्विन्द्रियाणां भूतैरुपचया
भ्युपगमे
तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।
तैजसानीन्द्रियाण्याहुः ॥
इत्यादितैजसाहङ्कारकार्यत्ववाचिभागवतादिवाक्यविरोध इति चेत्-
न, भूतैरुपचयोक्तावप्यत्र अहङ्कारकारणत्वस्यानिषेधात् ।
तथाऽपि
तथा विशिष्टकार्यत्वाद्देवा वैकारिकाः स्मृताः ।
अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥
तामसानि तु भूतानि ततस्तावद्भूतत्रयम् ॥
इति पाद्मस्मृतौ भूतानां तामसाहङ्कारकार्यत्वोक्तेः । 'तेभ्यो भूतानि जज्ञि
रे' (काषायण.) इति श्रुतौ च तेषां प्राणशब्दितेन्द्रियकार्यत्वोक्तेर्विरोध
इति चेत्-न, अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरुपचयाभ्युपगमात् ।

[ अधि - २. सू - ४. ] दीपिकासहितम्. ६४१
इति हि भविष्यत्पर्वणि ॥ २ ॥
( ६ ) सू—ॐ ॥ प्रतिज्ञानुपरोधाच्च ॥ ॐ ॥ ३ ॥
' स इदं सर्वमसृजत ' ( तै. २-६. ) इति ॥ ३॥
—::-
२. अधिकरणम् ॥
( १ ) 'त्रिधा हैवेन्द्रियाणि नित्यान्यनित्यानि च । तत्र नित्ये
ननु तथाऽपि 'तेषां भूतैरुपचयः' इतीन्द्रियाणां भूतकार्यत्वोक्तेः 'तेभ्यो
भूतानि' इति भूतानामिन्द्रियकार्यत्वोक्तेः विरोध इति चेत्—न, यतः
'तेभ्यो भूतानि' इति वाक्यं भूतेभ्योऽपि पूर्वमुत्पन्नानां महदादितत्त्वा
भिमानिनां देवानां इन्द्रियादिव्यापारैः भूतोत्पत्तिपरम्, न तु तत्त्वरूपे
न्द्रियैः। यथोक्तं तत्त्वप्रदीपे—तात्त्विकदेवोत्तमानां प्राकृते देहाधिष्ठिते
न्द्रियव्यापारपूर्वकत्वाद्भूतसृष्टेः भूतकारणत्वव्यपदेशोपपत्तिरिति । य
द्वा—सूक्ष्मप्राणैरिति टीकोक्तेः तत्त्वरूपेन्द्रियैरेव सूक्ष्मभूतानामुपचयः।
'तेषां भूतैरुपचयः' इत्यनेन तु सूक्ष्मसृष्टिकाले जीवेन्द्रियाणां भूतसू
क्ष्मैरेवोपचयः कथ्यते इति न तत्त्वरूपेन्द्रियाणां, तेषां पूर्वोत्पन्नत्वेन प
श्चादुत्पन्नभूतैरुपचयायोगात् । न च जीवेन्द्रियाणामपि कथं भूतैरुप
चयः, तद्कार्यत्वादिति वाच्यम् । जीवानां सूक्ष्मसृष्ट्युक्तेरेव तज्ज्ञाप
कत्वात् । यद्वा—तत्त्वरूपाणां अहङ्कारोत्पन्नानां भूतानां सूक्ष्मप्राणैरुप
चयवत् तत्त्वरूपेन्द्रियाणामपि भूतसूक्ष्मैरुपचयोऽस्तु, अन्योन्यसूक्ष्मै
रुपचये बाधकाभावात् ॥
( ६ ) वियदधिकरणोक्तप्रतिज्ञाहानियुक्त्या इन्द्रियाणां उत्पत्तिं स
मर्थयत्सूत्रं पठित्वा व्याचष्टे—प्रतिज्ञेति ॥ इतीत्यन्तस्य सूत्रेणान्वयः।
चशब्दोऽनेन स्मारितप्रतिज्ञाहान्याख्यपूर्वोक्तयुक्तिसमुच्चये, विभक्त
शक्तत्वादियुक्तिसमुच्चये वा । हेतोः पूर्वेणान्वयः । तथा च प्राणानां
उत्पत्त्यङ्गीकारे 'स इदम्' इति प्रतिज्ञानुपरोधात् अनुपहतेस्तदनु
साराद्योत्पत्तिमन्तः प्राणा इति सूत्रार्थः । 'स इदम्' इति श्रुतिस्तु
वियदधिकरणे व्याख्याता ॥ १ ॥
॥ इति प्राणोत्पत्त्यधिकरणम् ॥
—:
:—
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे मनोजन्मविषयश्रुतिविरोधः परिह्रियते । पूर्व
८१

६४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
मनोऽनादित्वात् । न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्य-
न्यानि' इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्ति-
का श्रूयते ।
( २ ) अत आह—
सू—ॐ ॥ तत्प्राक् श्रुतेश्च ॥ ॐ ॥ ४ ॥
'मनस्सर्वेन्द्रियाणि च' (मु. २-१-३.) इति पूर्वोक्त-
त्वान्नानुत्पत्तिर्मनसो युज्यते ।
पक्ष्यति—द्विधेति ॥ अत्र मनसोऽनुत्पत्तिरिति पूर्वपक्षप्रतिज्ञा । कुत
इत्यतः तत्र हेतुत्वेन द्विधेत्यादिकं योजनीयम् । यत इति शेषः । तथा
च यतो गौपवनश्रुतौ मनसोऽनुत्पत्तिः 'श्रूयते' प्रतिपाद्यते अत इ-
ति योजना । न चात्र नित्यत्वमेवोच्यते, नानुत्पत्तिरिति वाच्यम् । नि-
त्यमित्यस्यानुत्पत्तिमदित्यर्थाश्रयणात् । न च साध्याविशेषः, अनादि-
त्वादित्यस्य अनादिपुरुषसम्बन्धित्वादित्यर्थाश्रयणात् । यद्वा—अना-
दित्वादित्यस्यैव अनुत्पत्तिमत्त्वादित्यर्थाश्रयणादत एवानुत्पत्तिसिद्धिः।
तत एव टीकायां 'नित्यं मनोऽनादित्वात्' इति श्रुतेरिति हेतुवाक्यम-
पि गृहीतम् । ननु 'एतस्मात्' इति श्रुत्यनुसारेणेन्द्रियानुत्पत्तिश्रुति-
वदनादित्वश्रुतेः गौणार्थत्वं किं न स्यादित्यत आह--सयुक्तिकेति ।
युक्त्यभिधानसहितेत्यर्थः । अनुत्पत्तिश्रुतेः विशेषणमेतत् । द्विधैवेति
सम्बन्धः । हिशब्दः प्रसिद्धौ । 'तत्र' नित्यानित्ययोर्मध्ये । तथा च
'द्विधा' इति वाक्ये मनोभिन्नेन्द्रियाणामनित्यत्वमुक्त्वा विशिष्य म-
नसो नित्यत्वाभिधानात् अनादित्वहेतोः असिद्धिशङ्कायां 'न ह्यमनाः'
इति विपर्ययपर्यवसानसूचितात्कदाचिन्मनोहीनेन अनादिपुरुषेण अ-
वस्थातव्यं स्यात्, तथात्वे च तदा संसाराभावप्रसङ्गादित्यनिष्टप्रसङ्गा-
भिधानाच्च युक्तिरुक्तेति भावः । अनेन युक्तियुक्तानादित्वश्रुतेः प्रा-
बल्यात्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यात् न श्रुतिसमन्वयेनेश्वरस्य जग-
त्कारणत्वसिद्धिरिति पूर्वपक्षो दर्शितः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीति । इ-
ति श्रुतावन्येन्द्रियेभ्यः पूर्वोत्पन्नतयोक्तत्वान्नानुत्पत्तिर्मनसो युज्यत इ-
त्यन्वयः । नेत्यादिना प्रतिज्ञाध्याहारो दर्शितः । अत्रोत्पन्नतवेनोक्तत्वमे-
व लिङ्गम् । पूर्वोत्पन्नत्वं तु पृथगभिधानस्य वैयर्थ्यशङ्कापरिहारक-
मिति ध्येयम् ॥

[अधि - २. - सू - ४.] दीपिकासाहितम्. ६४३
(३) पूर्वं मनस्समुत्पन्नं ततोऽन्येषां समुद्भवः ।
तदनुत्पत्तिवचनमल्पोपचयकारणात् ॥
(३) ननु कुतो मनसः पूर्वोत्पत्तिस्सिध्यति । न च श्रुतौ पूर्वनि
र्देशात्तत्सिद्धिः, तस्याप्रयोजकत्वात् । कथं चोत्पत्त्यङ्गीकारे श्रुतियु
क्तिविरोधपरिहार इत्यतः तदुत्तरत्वेन चशब्दं व्याचष्टे - पूर्वमिति ॥
अन्येन्द्रियेभ्यः पूर्वमित्यर्थः । 'समुत्पन्नं' उपचितरूपेणेति शेषः ।
'ततो' मनउत्पत्त्यनन्तरं 'अन्येषां' मनोभिन्नेन्द्रियाणां 'समुद्भवः'
समुत्पत्तिः । तर्हि श्रुत्यादिविरोध इत्यत आह- तदिति । यतस्तस्य
मनसोऽनुत्पत्तिवचनं नित्यत्ववचनं अनादित्ववचनं वा 'अल्पोपचय
कारणात्' इतरेन्द्रियवन्मनसो भूतादिबहुभागैरुपचयाभावात्रिचित्ता
दृनेन ज्ञापितादितरेन्द्रियवत्प्रलयेऽपि सूक्ष्मरूपेण सत्त्वाद्धेतोरुपपद्य
ते । एवं 'तदनुत्पत्तिवचनं' विशिष्य मनसो नित्यत्वाभिधानरूपा यु
क्तिः 'अल्पोपचयकारणात्' अन्येन्द्रियेभ्योऽल्पोपचयान्निमित्तादुपप
द्यते । अतो न तद्विरोध इत्यर्थः । अनेनानादिनित्यत्ववचनस्य सूक्ष्मरू
पविषयत्वमुक्तं भवति । न च सूक्ष्मरूपेणानादिपुरुषसम्बन्धिनोऽपि
मनसः कदाचिदेवोपचयरूपोत्पत्त्यङ्गीकारे उपचयात्पूर्वं संसाराभाव
प्रसङ्गः, उपचितमनस एव संसारबीजत्वादिति वाच्यम् । प्रतिसृ
ष्टिकाले उपचयसत्त्वात् तदैव हि संसारो, न प्रलये, तदा उपचया
भावेऽपि दोषाभावादित्युक्त एव परिहारः । 'वायुप्रोक्तवचनम्' वा
युप्रोक्ताख्यग्रन्थवचनं सौत्रचशब्देन सूचितमित्यर्थः । अनेन - नानुत्पं
त्तिर्मनसो युज्यते । कुतः ? 'तच्छ्रुतेः' 'मनस्सर्वेन्द्रियाणि च' इ
त्युत्पत्तिश्रुतिसद्भावात् । न च छत्रिन्यायेन इयमुपचरितेति वाच्यम्।
'तत्प्राक्छुतेः' तस्य मनसः पृथग्जन्मश्रुतेः । अस्याः राजा छत्री या
ति, अन्ये छत्रणो यान्तीतिवद्विशेषश्रुतित्वेनेन्द्रियाणि जायन्ते इत्येता
वन्मात्रोक्तिरूपसामान्यौक्तित्वाभावादिति भावः । न चेतरेन्द्रियवन्म
नसोऽप्युत्पत्तिमत्त्वे पृथगुत्पत्तिश्रुतिर्व्यर्धेति वाच्यम् । 'तत्प्राक्छुतेश्च'
तच्छ्रुतेश्च मनसः पृथगुत्पत्तिश्रुतेरपि तेभ्योऽन्येभ्यः प्रागुत्पन्नतत्वाभि
प्रायेणोपपन्नत्वात् । ननु कुतो मनसः पूर्वोत्पत्तिः ज्ञायते, श्रुतौ प्राङ्कि
र्देशमात्रस्य नियामकविशेषप्रमाणं विना प्रागुत्पन्नतत्वानिश्चायकत्वा

[६४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]]

इति वायुप्रोक्तवचनं चशब्देन सङ्गृहीतम् ॥ ४ ॥
——
३. अधिकरणम् ॥
( १ ) ‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युतम् । इति ।
वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिःप्रतिष्ठते’
इत्याशङ्कापरिहारकवायुप्रोक्तवचनसङ्ग्रहाय चशब्द इति सूत्रार्थ उ-
क्तो भवति ॥ २ ॥
॥ इति तत्प्रागधिकरणम् ॥
—
··—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे वागुत्पत्तिश्रुतेरनुत्पत्तिश्रुत्या विरोधः परिह्रिय-
ते । पूर्वपक्षयति—नित्ययेति ॥ वाचोऽनुत्पत्तिरेव भवेत् । कुतः ? यतो
‘नित्यया’ इति पौष्यायणीश्रुतौ ‘वाग्वाव नित्या न ह्येषोत्पद्यते’ इति
वाक्येन वाचोऽनुत्पत्तिरुच्यते इत्यन्वयः । अत्र नित्यत्वमविनाशित्वं,
तत्र हेतुः—न हीति । नन्वनुत्पत्तिवदुत्पत्तेरपि ‘सर्वेन्द्रियाणि च’ इ-
ति श्रुत्युक्तत्वात् सत्प्रतिपक्षितेयं श्रुतिर्न निर्णयकरीत्यत आह—स-
युक्तिकमिति । ‘अस्यां हि’ इति वाक्यबोध्यनित्यवेदाश्रयस्यानित्य-
त्वासम्भवद्रूपतर्कसहितश्रुत्याश्रयत्वरूपयुक्तिसाहित्येनेत्यर्थः । उच्य-
त इति क्रियाविशेषणमेतत् । तथा चानुत्पत्तिश्रुतेः अधिकबलत्वात्
न सत्प्रतिपक्षित्वमिति भावः । ननु
नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् । इति ॥
श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः ॥
इति पैङ्गिब्राह्मणे ‘नित्यया’ इति मन्त्रमुदाहृत्य तद्गतनित्यानित्यशब्द-
योः श्रुतिस्मृतिविषयत्वेन व्याख्यातत्वात् तत्समाख्यानात् सामान्य-
वाक्शब्दस्य विशेषार्थकल्पनोपपत्तेरुत्पत्तिश्रुत्यनुकूल्याच्चात्रत्यवाक्श-
ब्दो वेदपर एव, न वागिन्द्रियपरः । तथा च नेयं वागनुत्पत्तिसाधके-
त्यतोऽप्याह—सयुक्तिकमिति । श्रुतिविशेषणमेतत् । तथा च विशेषश्रु-
तित्वाख्ययुक्तिसहितश्रुतित्वादित्यर्थः । तथा च ‘अस्यां हि श्रुतिःप्रतिष्ठ-
ते’ इति वाक्यशेषे वेदे असम्भाव्यमानवेदाश्रयत्वोक्त्या तद्बलात्
‘वाग्वाव’ इति श्रुतेः विशेषश्रुतित्वात् अत्रत्यवाक्शब्दो वागिन्द्रिय-
पर एव, न वेदपर इति भवत्येवेयं श्रुतिः अनुत्पत्तिसाधकेति भावः ।

[ अधि - ३. सू - ५. ] दीपिकासहितम्. ६४५

इति सयुक्तिकं पैङ्गायणिश्रुतौ वाचोऽनुत्पत्तिरुच्यते ।
( २ ) अतो ब्रवीति —
सू— ॐ ॥ तत्पूर्वकत्वाद्वाचः ॥ ॐ ॥ ५ ॥
नन्वियं श्रुतिः इतरेन्द्रियवत् वाचस्सूक्ष्मरूपानादित्वपरा किं न
स्यात् । न च नित्याश्रयत्वयुक्तिविरोधः । तस्या अपि सूक्ष्मरूप-
नित्यत्वेनोपपत्तेः । एवमुत्पत्तिश्रुत्यानुकूल्यादुपचयोऽप्यस्तीत्यतो वा
ऽऽह—सयुक्तिकमिति । यतः 'सयुक्तिकं' श्रुत्याश्रयत्वयुक्तिस-
हितं यथा भवति तथा अनुत्पत्तिरुच्यते अत इत्यर्थः । अयं भावः—अ-
स्यां हीति वाक्यशेषे तावच्छ्रुत्याश्रयत्वमुच्यते । श्रुत्याश्रयत्वं ना-
म नित्यं श्रुत्युच्चारणसामर्थ्यमेव, न तु श्रुत्याधारत्वमात्रम् । अ-
न्यथा श्रुतेर्वर्णात्मकत्वात् वर्णानां च नित्यसर्वगतत्वात् विशिष्य
वागाश्रयत्वोक्तिर्व्यर्था स्यात् । नित्यं वेदोच्चारणसामर्थ्ये च सूक्ष्म-
रूपानादित्वे न घटते । तथा सत्युपचयदशायामेव वाचः श्रुत्युच्चा-
रणसामर्थ्यं नान्यदेति स्यात्, किन्तु स्वरूपानादित्वे । एवं चेन्नोपच-
यः कल्प्यः व्यर्थत्वात् । तथा च अत्र श्रुतश्रुत्याश्रयत्वान्यथाऽनुपप-
त्त्या स्वरूपानादित्वपरैव अनुत्पत्तिश्रुतिः, न सूक्ष्मरूपानादित्वपरा, अ-
तस्तद्विरोधादुत्पत्तिश्रुतिः अप्रमाणमेवेति । श्रुतौ नित्या अनित्ययेति
पदच्छेदः । स्तौमीति मन्त्रद्रष्ट्रऋषिणा उच्यते । परमात्मानमित्यनेन
पैङ्गिश्रुतिव्याख्येयमन्त्रादयमन्यो मन्त्रः तद्गतब्रह्मपदविवरणरूप इ-
ति सूचितम् । अच्युतमित्यनेन तद्गतं परमं पदं इत्येतद्विवृतम् । ना-
शरहितस्यैव मुख्यतो गम्यत्वात् । इतिशब्दो मन्त्रप्रतीकग्रहणार्थः ।
एवं मन्त्रमुदाहृत्य तद्गतनित्यशब्दविशेष्यं दर्शयति—वाग्वावेति । नि-
पातसमुदायः प्रसिद्धौ । नित्यत्वे हेतुमाह—नेति । हिः हेतौ । 'एषा'
वागित्यर्थः । केचित्तु—इह नित्यत्वमनुत्पत्तिमत्त्वं, तत्र अनुत्पन्नत्वेन
प्रसिद्धत्वं हेतुः । प्रसिद्धिर्हिशब्दार्थः । अवधारणार्थो निपात इत्याहुः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त-
रं श्रुताविति शेषः । मनःपूर्वकत्वादिति । मनःकारणकत्वोक्तेरित्यर्थः ।
'वाचो' वागिन्द्रियस्य 'नानुत्पत्तिः' नाकार्यत्वमित्यर्थः । कारणव-
तः कार्यत्वनियमादिति भावः । अनेन सूत्रे नेत्यध्याहार्यम् । तथा च
वाचः 'तत्पूर्वकत्वात्' प्रकृतमनःकारणत्वोक्तेर्नानुत्पत्तिरिति सूत्रार्थ
उक्तो भवति । यद्यपि 'तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ' इति

६४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
‘ तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ’ ( ऐ.आ. ३-
१-१०.) इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
( ३ ) वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।
उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन ॥
भाष्योदाहृतैतरेयश्रुतेः तद्भाष्ये मनोवाङ्नामकतदन्तर्गतरूपयोर्विष्णु-
नामगतपूर्वोत्तरवर्णदेवतात्परत्वमुक्तमिति नास्याः प्रकृतोपयोगिता ।
तथाऽपि ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति प्रतिज्ञावाक्योपपादके ‘मन
सा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ ( ऐ.आ.३-१-१.) इति वा
क्ये भाष्यस्थेनेतिशब्देन गृहीते वाक्शब्दस्य साधारणतापरिहाराय टी
काकृतोदाहृते वाक्ये स्थितयोः पूर्वोत्तरशब्दयोः कार्यकारणपरत्वात्प्र
कृतोपयोगितोपपत्तिः । यद्वा—भगवद्रूपाधिष्ठानयोरपि मनोवागिन्द्रि
ययोः इह वाच्यत्वात्तद्विवक्षया कार्यकारणभाव इहोक्त इति प्रकृतस
ङ्गतिः । अत एव टीकायां अत्र पूर्वोत्तरशब्दावित्युक्तम् । उपपादकवा
क्ये वा प्रतिज्ञावाक्ये वेति तदर्थः । अस्मिन्नधिकरण इत्यप्यर्थः ॥
( ३ ) वागिन्द्रियस्योत्पत्त्यङ्गीकारे ‘न ह्येषोत्पद्यते’ ( पौष्यायण. )
इति श्रुतिविरोधः, ‘ अस्यां हि ’ ( पौष्यायण. ) इत्युक्तयुक्तिविरोधश्चे
त्यत आह—वागिन्द्रियस्येति ॥ यतो नित्यश्रुतिसन्निधियोग्यता
( नित्यं श्रुत्युच्चारणहेतुता योग्यत्वम् ) वागिन्द्रियस्य नित्यत्वं नित्यत्वा
नादित्वोक्तेरुपचरितत्वे बीजमस्ति, अतो वागिन्द्रियस्य नित्यत्ववचनं
प्रवृत्तम्, न तु मुख्यनित्यत्वं तदर्थः । तथा च श्रुतेरुपचरितार्थत्वान्न त
द्विरोध इति भावः । ननु कादाचित्कं श्रुतिसन्निधानं कथं सार्वकालिक
कनित्यत्वोक्तेरुपचारबीजं भवतीत्यतो योग्यतेत्युक्तम् । तथा च श्रुति
सन्निधेः कादाचित्कत्वेनोपचारबीजत्वानुपपत्तावपि तद्योग्यत्वस्य
सार्वकालिकत्वाद्युक्तमुपचारबीजत्वम् । अत एव श्रुत्याश्रयत्वमपि
न नित्यदा, किन्तु तद्योग्यतैव । अतो न नित्याश्रयत्वमात्रेणाश्रयनित्य
त्वाक्षेपः, अनित्यस्यापि तत्सम्भवात्, अपि तु नित्यदा नित्याश्रयत्वं,
तच्च वाचि नास्त्येवेति न तेन नित्यत्वाक्षेपो युक्तः । अत एव नोपच
यवैयर्थ्यम् । उपचयदशायामेव श्रुत्याश्रयत्वात् श्रुत्युच्चारणसमर्थत्वा
दन्यदा सामर्थ्याभावादिति भावः । अनेन नित्यं श्रुत्युच्चारणसामर्थ्य
स्योपपत्तिरुक्ता भवति । कुत एवं कल्प्यते ? स्वरूपनित्यत्वमेव किं

[ अधि - ४. - सू - ६. ] दीपिकासहितम्. ६४७
इति वायुप्रोक्ते ॥ ५ ॥
—: ❖ :—
४. अधिकरणम् ॥
( १६) 'सप्त प्राणाः प्रभवन्ति तस्मात्' ( मु. २ - १ - ८. )
इति श्रुतिः ।
सप्तैष मारुता बाह्ये प्राणास्सप्त तथाऽऽत्मनि ।
नेष्यत इत्यत आह—उत्पत्तिरिति । मनस इति न षष्ठी, किन्तु पञ्च-
मी । वागिन्द्रियस्येत्यस्ति । ज्ञायत इति शेषः । 'कुतश्चन' 'न हि'
इति विशेषश्रुत्या श्रुत्याश्रयत्वयुक्त्या चेत्यर्थः । सिध्यतीति शेषः ।
यद्वा—यस्माद्वागिन्द्रियस्य मनस उत्पत्तिरवगम्यते तस्मादेवम-
भ्युपगम एव 'नित्यत्वं' 'वाग्वाव' इति नित्यत्वश्रुतिरुपचरितनि-
त्यत्वार्थतयोपपन्ना भवति, न मुख्यनित्यत्वे 'कुतश्चन' कथमप्युपप-
द्येत्यर्थः । न चोत्पत्तिमत्त्वेनानुत्पत्त्यभाव एव साध्यो नानुत्पत्तिरिति
तस्यैव प्रतिज्ञातत्वात्, नानित्यत्वं ध्वंसे व्यभिचारादिति वाच्यम् ।
अत्र सर्वत्र नित्यानित्यशब्दयोरनुत्पत्त्युत्पत्तिमदर्थकत्वात् । इतीति । इ-
त्येवं वायुप्रोक्ताख्यग्रन्थे उक्तत्वान्न विरोध इत्यर्थः । अनेन सिद्धान्ते
वाङ्नित्यत्वोक्तेरुपचारबीजोपपादकं 'अस्यां हि' इति भाष्यं 'अस्यां
हि स्मृतिरवतष्ठिते' इत्यनित्यत्वोपचारबीजकथनवाक्यस्याप्युपलक्षक-
म् । तथा च अहं नित्यवेदाश्रयत्वान्नित्यया अनित्यपुराणाद्याश्रयत्वा-
दनित्यया वाचा परमात्मानं स्तौमीति श्रुत्यर्थ उक्तः । एतेन ब्रह्मशब्द-
घटितसमाख्याश्रुत्यनुरोधोऽपि दर्शितः । नित्यानित्यशब्दयोर्वेदपुरा-
णार्थत्वत्वाविघातेनैवास्या व्याख्यानात् ॥ ३ ॥
॥ इति तत्पूर्वकत्वाधिकरणम् ॥
—-:-:-—
४. अधिकरणम् ॥
( १ ) अत्र प्राणसङ्ख्याविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं
श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति—सप्तेति ॥ आथर्वणीयं श्रुतिः ।
'प्राणाः' इन्द्रियाणि 'तस्मात्' परमात्मनः । श्रुतिरित्यनन्तरं प्राणा-
नां सप्तत्वं वक्तीति शेषः । न केवलमिन्द्रियाणां सप्तत्वं श्रुतिसिद्धं,
किन्तु युक्तिसिद्धं चेत्याशयेन प्रमाणोक्त्या तां दर्शयति—सप्तैवेति ।
यस्मात् 'बाह्ये' देहाद्बहिः स्थिताः 'मारुताः' मरुत्संज्ञिकाः इन्द्रिया-

अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः ॥
इति च स्कान्दे ।
(२) ‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या
द्वादश राशयो द्वादश ग्रहाः ' इति कौण्डिन्यश्रुतौ द्वा
दश प्राणा दृश्यन्ते ।
भिमानिनो देवाः सप्तैव । तथा तस्य 'आत्मनि' देहे स्थिता अपि प्रा-
णास्सप्तैवेत्यर्थः । नन्वप्रयोजकोऽयं हेतुरित्यत आह--अधिदैव इति ।
तथाशब्दः समुच्चये । तथा च यस्मात् 'अधिदैवे' देहाद्बहिर्गतेष्वभि-
मानिदेवेषु 'अध्यात्मे' देहान्तर्गतेष्वभिमन्यमानेषु च 'सङ्ख्यासाम्यं'
समसङ्ख्याकत्वं 'विदो' ज्ञानिनो 'विदुः' जानन्ति तस्मादित्यर्थः ।
स्कान्द इत्यनन्तरं उक्तिश्चेति शेषः ॥
(२) 'द्वादश वा' इति श्रुतौ वैशब्दः प्रसिद्धौ । प्राणशब्दितेन्द्रि-
याणां द्वादशत्वं कुत इत्यतस्तत्र हेतुमाह-द्वादशेति ॥ इदं च यतो
मासादयो द्वादशैव, अतः प्राणा अपि द्वादशैवेति हेतुहेतुमद्भावेन यो-
ज्यम् । अत्राप्रयोजकताशङ्कायां 'द्वादश मासाः' इति श्रुतेर्मासादीनां
प्राणानां चादित्याख्यसमसङ्ख्यदेवताकत्वाभिप्रायेण प्रवृत्ततया प्राणा-
भिमानिनां द्वादशत्वावगतेस्तेषां च द्वादशत्वे तदभिमन्यमानानां प्रा-
णानामपि द्वादशत्वसिद्धेरिति हेतुरभिप्रेतो बोध्यः । अत एव 'द्वाद-
श मासाः' इत्यादिवाक्यशेषोपन्यासः । 'ग्रहाः' सोमस्य द्वादशऋ-
तुयाजग्रहाः मध्वादिद्वादशमासोद्देश्या इति तत्त्वप्रदीपोक्तेः । तस्याः
षडृतुप्रविष्टत्वेन ऋतुशब्दवाच्यमध्वादिप्रसिद्धितश्चैत्रादिद्वादशमासदेव-
तोद्देश्यकयागार्थाः सोमरसग्रहणार्थपात्रविशेषा इत्यर्थः । 'ऋत्वधिपो
विष्णुः केशवादिस্বরূপतः । ग्रहाश् सोमस्य' इति ऋग्भाष्योक्तेः । ए-
कैकस्य ऋतोर्मासभेदेन द्विरूपत्वाद्देवतानां केशवादीनां तदुद्देश्यानां
ग्रहाणामपि द्वादशत्वमिति भावः । चन्द्रिकायां तु ज्योतिष्टोमे सोमर-
सग्रहणार्थाः सूक्ष्मोलूखलाकाराः पात्रविशेषाः द्वादश सन्ति । अत ए-
व ग्रहणक्रिया अपि द्वादशसङ्ख्याकाः । तेचोपांश्वन्तर्यामैन्द्रवायवमै-
त्रावरुणाश्विनाः पञ्च, शुक्रामन्थिनौ द्वौ, ऋतुपात्रे द्वे, अतिग्राह्या ना-
म त्रयः इत्येवंरूपाः । यद्यप्यंश्वदाभ्यावपि तत्र ग्रहौ स्तः । तथाऽपि
तयोः अनित्यत्वात् सदनोपस्थानाद्यभावाच्च नित्यसदनादियुक्तग्रहवि-
वक्षया द्वादशत्वोक्तिरित्युक्तम् । अत्र तत्त्वप्रदीपे 'षडृतुनेति यजन्ति

[ अधि - ४. सू - ६. ] दीपिकासहितम्. ६४९
( ३ ) अतो वक्ति—
सू—ॐ ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ॐ ॥ ६ ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् 'गुहाशयां निहिताः सप्त
सप्त' (मु. २-१-८.) इति विशेषणात् ॥
प्राणमेव तद्यजमाने दधति । चत्वारि ऋतुभिरित्यपानमेव तद्य-
जमाने दधति। द्वयर्तुनेत्युपरीष्टात्' ( ) इति श्रुत्युदाहरणा-
च्च ज्योतिष्टोमयागादन्ययागार्थाः पात्रविशेषाः इहोपात्ता इति प्रती-
यते । अत्र विशेषो नावबुद्धः । दृश्यन्त इत्यनन्तरं अतो विरोध इति
वाक्यशेषः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ज्ञानेन्द्रिया-
पेक्षयेत्यनेन सूत्रे सप्तेति श्रुतिप्रतीकग्रहणम् । गतेरिति ल्यब्लोपनिमि-
त्ता पञ्चमी । गतिशब्दश्च ज्ञानसाधनेन्द्रियपरः । तथा च गतिमपेक्ष्य
ज्ञानकरणेन्द्रियाण्यपेक्ष्य 'सप्तत्वम्' सप्तेतिश्रुतिः प्रवृत्तेति सौत्रप्रतिज्ञां-
शो व्याख्यातः । 'गतेः' ज्ञानस्य सम्बन्धिनः प्राणास्सप्तेति व्याख्या तु न
भाष्यटीकानुसारिणी। सप्तत्वमित्यनन्तरं अतो न विरोध इति वाक्यशे-
षः। श्रुत्युक्तानां सप्तानां ज्ञानेन्द्रियत्वं कुतः इत्यतः प्रवृत्तं विशेषित-
त्वादित्यंशं व्याख्याति—गुहाशयामिति । आथर्वणे
'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्यनन्तरं श्रुते
सप्तार्चिषः सप्तसमिधः सप्त होमाः ।
सप्तेमे लोका येषु चरन्ति प्राणाः
गुहाशयां निहितास्सप्तसप्त ॥ (मु. २-१-८.)
इति वाक्यशेषे श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां सप्तानामिन्द्रि-
याणां ज्ञानार्थत्वविशेषणेन विशेषितत्वादित्यर्थः । श्रुतौ गुहाशयामि-
ति पदं 'गुहाशयां' गुहाशयायां बुद्धौ तदर्थे निहिताः 'समाने लो-
पः' इति एकयकारलोप इत्याथर्वणभाष्योक्तरीत्या तादर्थ्यसम्बन्ध-
तया व्याख्येयम् । यद्वा—गुहाशयामित्युद्देश्यद्वितीया । तां बुद्धिं प्रती-
ति तत्त्वप्रदीपोक्तेः। अथवा-गुहाशयेति प्रथमा द्वितीयार्थे, सप्तम्यर्थे
वा । सप्तम्यर्थे प्रथमेति तत्त्वप्रदीपोक्तेः । प्राणानां प्रतिपुरुषं भेदात् सप्त
सप्तेति वीप्सा । तथा च 'तस्मात्' पुमान् रेतस्सिञ्चति योषितायाम्'
(मु.२-१-५०) इति पूर्ववाक्ये प्रकृतात् रमाख्ययोषिति गर्भाधानकर्तुः
८२

६५० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
( ४ ) सप्तप्राणास्त्ववगतेः पञ्च प्राणाश्च कर्मणः ।
एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम् ।
इति भविष्यत्पर्ववचनं चशब्दात् ॥ ६ ॥
( ५ ) सू— ॐ ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ॐ ॥ ७ ॥
हस्तादीनां कर्मविषयत्वाच्च सहपाठः ॥
परमपुरुषात् 'सप्त' सप्तसङ्ख्याकाः 'प्राणाः' इन्द्रियाणि 'प्रभवन्ति'
प्रजज्ञिरे । एवं 'सप्ताचिषः' सप्तेन्द्रियवृत्तयः 'समिधो' विषयाः 'स-
प्तहोमाः' सप्त विषयेन्द्रियसम्बन्धाः प्रजज्ञिरे । 'गुहाशयां' गुहा हृ-
दयं आशयः स्थानं यस्याः बुद्धेः सा तथोक्ता, तस्यां तदर्थं तां प्रति त-
दर्थमिति वा । तथा च प्रतिशरीरं बुद्धयर्थं ये परमपुरुषात् 'निहिताः'
स्थापिताः 'सप्तसप्त' प्राणाः ते 'यत्र' येषु लोकेषु गोलकेषु सञ्चर-
न्ति, त इमे लोकाः सप्तेति श्रुत्यर्थः ॥
( ४ ) मन्वस्तु सप्तानामिन्द्रियाणां ज्ञानविशेषणबलेन ज्ञानार्थत्वं,
तथाऽपि ते प्राणाः सप्तसङ्ख्याका एव किं नस्युः । किमिति तेषां द्वाद-
दशत्वमङ्गीकृत्य सप्तश्रुतेः सावकाशत्वकल्पनमित्याशङ्कां चशब्दोपात्त-
स्मृत्या निराह—सप्तेति ॥ चशब्दादिति । सौत्रचशब्दादित्यर्थः । सङ्गृ-
हीतमिति शेषः । 'अवगतेः' ज्ञानस्य सम्बन्धिनः प्राणाः सप्त । एवं
क्रियारूपकर्मणः सम्बन्धिनस्तज्जनकाः प्राणाः पञ्च । एवं प्राणद्वादश-
कं प्रतिशरीरं नियमेन संस्थितमित्यर्थः । तुशब्दो विशेषद्योतकः । च-
शब्दस्समुच्चयार्थः । यद्यपीयं स्मृतिः ज्ञानेन्द्रियत्वकर्मेन्द्रियत्वरूपाव-
च्छेदकप्रदर्शनेन सप्तत्वपञ्चत्वोक्तयोः सावकाशत्वं कथयन्ती बाधक-
परिहाररूपैव, न तु द्वादशत्वसाधिका । तथाऽप्यनया सप्तश्रुतौ साव-
काशायां 'द्वादश वा एते प्राणाः' (कौण्डिन्य ) इति पूर्वोदाहृतश्रुत्यै-
व द्वादशत्वं सिध्यतीति साऽपि चशब्दसङ्गृहीताऽत्रोदाहर्तव्या ॥
( ५ ) ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽप्याथर्वणश्रुतौ तेषां पर-
मात्मजन्यत्वेनोच्यमानैः सप्तभिः 'सह सप्त पञ्च प्राणाः' इति पाठस्स्या-
त्। अत्र सहपाठाभावो द्वेधा भवेत् अनादित्वेन वा? परमात्मनस्तदका-
रणत्वेन वा ? तदुभयमपि 'तथा प्राणाः' (सू.२-४-१०) इत्युक्तिविरुद्ध-
म्। न च सहपाठे कारणान्तरं पश्यामः, न वा परमात्मनः तदकारणत्वे
कारणान्तरं पश्यामः । अकारणकार्योत्पत्तिश्चायुक्ता । तस्मात्सहपा-

[ अधि - ४. सू - ७. ] दीपिकासहितम्. ६५१
( ६ ) संसारस्थितिहेतुत्वात्स्थितं कर्म विदो विदुः ।
तस्मादुद्धृतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥
इति च वायुप्रोक्ते ॥ ७ ॥
ष्ठाभावात् न सप्तभ्योऽन्ये प्राणाः सन्तीत्याशङ्कां परिहरत्सूत्रं पठित्वा
व्याचष्टे—हस्तादय इति ॥ आदिशब्देन पादपायुगुह्यवाचो गृह्यन्ते ।
‘कर्मविषयत्वात्’ कर्मार्थत्वादिति अतःशब्दव्याख्यानम् । विषयेत्यनेन
सप्तम्यर्थः कर्मेत्यनेन स्थितशब्दार्थश्च दर्शितः । सहपाठ इत्यनेनैवंश-
ब्दार्थ उक्तः । हस्तादीनां सप्तभिरिति शेषः । अनेन सूत्रे तुशब्दो वैल-
क्षण्यार्थः । यत इति शेष इति सूचितम् ॥
( ६ ) ननु पूर्वसूत्रगतो गतिशब्दो ज्ञानार्थस्सन् तद्द्वारा तत्करण-
बोधकः । द्वितीयसूत्रगतश्च स्थितशब्दः कर्मवाचीत्येतत्कुत इत्यत आ-
ह—संसारेति ॥ पुरुषस्य संसारस्थितौ हेतुत्वादित्यर्थः । ‘तस्मात्’
संसारात् उद्धृतिरुत्थितिर्मोक्षः तत्कारणत्वादित्यर्थः । ननु मुक्तानां प-
रमा गतिर्हरिरेव । सतां गतिरित्यादौ गतिशब्दस्य गम्यार्थत्वात्कथं
ज्ञानार्थत्वमित्यत आह—इहेति । एतत्सूत्रे तदनुकूलप्रमाणे चेत्यर्थः ।
कर्म मानुषमिहाभिप्रेतं, ज्ञानं च तत्त्वविषयमिति तत्त्वप्रदीपोक्तेश्च क-
र्मशब्देन मानुषकर्तृकं प्रवृत्तिकर्मोच्यते । तस्यैव बन्धकत्वात् । ज्ञान-
शब्देन ब्रह्मज्ञानम् । न च निवृत्तिकर्मणि अब्रह्मज्ञाने च कथं स्थितग-
तिशब्दौ, उक्तनिमित्ताभावादिति वाच्यम् । यथा ‘तं प्रपदाभ्यां प्राप-
द्यत ब्रह्मेमं पुरुषं .... तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते’ (२-१-४.)
इत्यैतरेयश्रुत्युक्तस्य परमात्मकर्तृकतच्छब्दोक्तचतुर्मुखप्राप्तिकरनख-
रूपस्य प्रपदशब्दप्रवृत्तिनिमित्तस्य चतुर्मुखपादतलोपरिगतत्वेऽपि त-
त्सजातीये पुरुषान्तरसम्बन्धिन्यपि पादतलोपरिभागे प्रपदशब्दः प्रयु-
ज्यते । तथेहापि संसारस्थितिहेतुप्रवृत्तिसजातीये निवृत्तिकर्मण्यपि
स्थितशब्दः प्रयुज्यते । एवं संसारोद्धृतिहेतुब्रह्मज्ञानसजातीये घटादि-
ज्ञानेऽपि गतिशब्दप्रयोगोपपत्तिः । वायुप्रोक्ते ग्रन्थे स्थितगतिशब्दौ
कर्मज्ञानार्थावित्युक्तमिति वाक्यशेषः ॥ ४ ॥
॥ इति सप्तगत्यधिकरणम् ॥
—:*:—