सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 696, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 696

[ अधि - ४. सू - ६. ] दीपिकासहितम्. ६४९
( ३ ) अतो वक्ति—
सू—ॐ ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ॐ ॥ ६ ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् 'गुहाशयां निहिताः सप्त
सप्त' (मु. २-१-८.) इति विशेषणात् ॥
प्राणमेव तद्यजमाने दधति । चत्वारि ऋतुभिरित्यपानमेव तद्य-
जमाने दधति। द्वयर्तुनेत्युपरीष्टात्' ( ) इति श्रुत्युदाहरणा-
च्च ज्योतिष्टोमयागादन्ययागार्थाः पात्रविशेषाः इहोपात्ता इति प्रती-
यते । अत्र विशेषो नावबुद्धः । दृश्यन्त इत्यनन्तरं अतो विरोध इति
वाक्यशेषः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ज्ञानेन्द्रिया-
पेक्षयेत्यनेन सूत्रे सप्तेति श्रुतिप्रतीकग्रहणम् । गतेरिति ल्यब्लोपनिमि-
त्ता पञ्चमी । गतिशब्दश्च ज्ञानसाधनेन्द्रियपरः । तथा च गतिमपेक्ष्य
ज्ञानकरणेन्द्रियाण्यपेक्ष्य 'सप्तत्वम्' सप्तेतिश्रुतिः प्रवृत्तेति सौत्रप्रतिज्ञां-
शो व्याख्यातः । 'गतेः' ज्ञानस्य सम्बन्धिनः प्राणास्सप्तेति व्याख्या तु न
भाष्यटीकानुसारिणी। सप्तत्वमित्यनन्तरं अतो न विरोध इति वाक्यशे-
षः। श्रुत्युक्तानां सप्तानां ज्ञानेन्द्रियत्वं कुतः इत्यतः प्रवृत्तं विशेषित-
त्वादित्यंशं व्याख्याति—गुहाशयामिति । आथर्वणे
'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्यनन्तरं श्रुते
सप्तार्चिषः सप्तसमिधः सप्त होमाः ।
सप्तेमे लोका येषु चरन्ति प्राणाः
गुहाशयां निहितास्सप्तसप्त ॥ (मु. २-१-८.)
इति वाक्यशेषे श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां सप्तानामिन्द्रि-
याणां ज्ञानार्थत्वविशेषणेन विशेषितत्वादित्यर्थः । श्रुतौ गुहाशयामि-
ति पदं 'गुहाशयां' गुहाशयायां बुद्धौ तदर्थे निहिताः 'समाने लो-
पः' इति एकयकारलोप इत्याथर्वणभाष्योक्तरीत्या तादर्थ्यसम्बन्ध-
तया व्याख्येयम् । यद्वा—गुहाशयामित्युद्देश्यद्वितीया । तां बुद्धिं प्रती-
ति तत्त्वप्रदीपोक्तेः। अथवा-गुहाशयेति प्रथमा द्वितीयार्थे, सप्तम्यर्थे
वा । सप्तम्यर्थे प्रथमेति तत्त्वप्रदीपोक्तेः । प्राणानां प्रतिपुरुषं भेदात् सप्त
सप्तेति वीप्सा । तथा च 'तस्मात्' पुमान् रेतस्सिञ्चति योषितायाम्'
(मु.२-१-५०) इति पूर्ववाक्ये प्रकृतात् रमाख्ययोषिति गर्भाधानकर्तुः
८२