सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १८. सू - ४८. ] दीपिकासहितम्. ६२७
इति चतुर्वेदशिखायाम् ॥
( २३ ) युज्यते च ज्योतिरादिवत् । यथाऽऽदित्यो वियद्गतस्त
त्प्रकाशश्चैकप्रकारः ।
( २४ ) ' शुक्लं कृष्णं कनीनिका ' ( ऐ. आ. २-१-५. ) इति तद्देश
स्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुज्ञा
श्लोकेनापि मत्स्यादिषु ईश्वरस्वरूपांश लक्षणोक्त्या अतथाभूतानां म
त्स्यादिवैषम्यमुपपादितं भवति । चतुर्वेदशिखायामित्यनन्तरं वचना
दिति शेषः । अस्य न तु परस्य परतोऽनुज्ञापरिहारौ स्त इति पूर्ववा
क्येनान्वयः ॥
( २३ ) यदुक्तं जीवः अंशपरमात्माधीनप्रवृत्त्यादिमान् स्वांशिकर्मानि
र्मितदेहसम्बन्धित्वादिति, तन्न युज्यते व्याप्त्यभावादित्यतः प्रकृतं दृ
ष्टान्तांशं सशेषं योजयति-- युज्यते चेति ॥ एतदिति शेषः । अनेन सू
त्रे युज्यते चैतदित्यध्याहारस्सूचितः । ' एतत् ' साधनम् । सूत्रे ज्यो
तिरादिवदित्युक्त्या मत्स्यादिः स्वांश्यधीनप्रवृत्तिर्न भवति स्वांशिक
र्मनिर्मितदेहासम्बन्धित्वात् वियद्गतप्रकाशाद्यभिमानिवदिति यत् प्र
योगान्तरमप्यभिप्रेतम्, तदपि युज्यत इत्याशयेन दृष्टान्तवचनमेव स्फु
टयति-- यथेति । ' वियद्गतः ' अन्तरिक्षगतः ' आदित्यः ' तन्मण्डलाभि
मानी सूर्यः अंशी तत्प्रकाशः सूर्यप्रकाशाभिमानी सूर्यांशश्च ' एकप्र
कारः ' एकविधः द्वावेकलक्षणोपेतौ, अत एवांशः अंश्यधीनानुज्ञादि
रहित इत्यर्थः । तथा परो मत्स्यादिश्चैकप्रकार इति वाक्यशेषः ॥
( २४ ) एवं ज्योतिरादिवदित्यंशं देहसम्बन्धित्वहेतोर्व्यतिरेकव्या
प्तो तदसम्बन्धित्वहेतोरन्वयव्याप्तौ दृष्टान्तपरतया व्याख्याय वैपरी
त्येन तदुभयव्याप्तिदृष्टान्तपरतयाऽपि व्याचष्टे-- शुक्लमिति ॥ यथेत्य
त्रापि संयोज्यम् । इतीत्यनन्तरं श्रुताविति शेषः । तद्देशस्यापीति । सू
र्यमण्डलांशत्वेनोक्तस्यापीत्यर्थः । यद्वा-- मण्डलाभिमान्यंशत्वेन उक्त
स्यापीत्यर्थः । एवमक्षिपदमपि चक्षुस्तदभिमान्यपन्नष्ठाख्यदेवतोभयप
रततया व्याख्येयम् । यद्यपितापीत्यर्थेऽपिशब्दः । अयं भावः-- छान्दोग्ये
'अथ यदेतदादित्यस्य शुक्लं भाः सैव ऋक्, अथ यन्नीलं परः कृष्णं तत्सा
म . . अथ यदेतदक्ष्णश्शुक्लं भाः सैव ऋक्, अथ यन्नीलं परः कृष्णम्' (छा.
१-६, ७.) इत्यधिदैवताध्यात्मप्रकरणगतवाक्यद्वयेनाक्ष्यादित्यमण्डल
योरुभयोरपि शुक्लादिरूपत्रयवत्त्वोक्त्या साम्यं सिद्धम् । एवं च चक्षु

"? No.
Could it be "ह्रस्वं"?
Look at the characters:
ह + ्र = ह्र
स + ्व + ं = स्वं
Yes, it literally reads: ह्रस्वं !
Wait, could it be "ह्यस्य"? No, there's definitely an anusvara on the second letter, and the second letter is a conjunct with 'स'.
Wait, what about 'ह्रस्वं'?
Yes, 'ह्र' 'स्वं' = ह्रस्वं.

Wait, let's read the commentary in line 4 onwards:
पि श्रुत्यन्तरसिद्धशुक्लादिरूपत्रयवरूपादित्यमण्डलसाम्यस्य 'त्रि-
Notice the first word in line 4:
"पि" - this is the continuation of line 3: "तदंशस्या-" -> "पि"!
Wait! Line 3 ends with:
"तदंशस्या-"
And line 4 starts with:
"पि"!
Wait, but line 4 has "पि" in regular text, not bold?
Wait, look at line 3:
"( २५ ) यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्या"
Wait, is line 3 bold?
Yes, line 3 is BOLD:
"( २५ ) यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्या"
And line 4 starts with:
"पि श्रु

[ अधि - १८. सू - ४८. ] दीपिका सहितम्. ६२९

पि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।
( २६ ) मोक्षधर्मे च-
यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।
थेत्यादौ योज्यम् । अपिशब्दार्थः पूर्ववत् । 'श्लेष्मणः' तदभिमान्यप
भ्रष्टदेवतायाः इत्यर्थः । तच्छब्दद्वयेन वरुणो गृह्यते । विरोधीति ।
'श्लेष्मा पित्तस्य विरोधी पित्तं श्लेष्मणः' इति श्लेष्मविरोधिनः पित्त
धातोः निवृत्तिर्भवतीत्यर्थः । अत्र पूर्वत्र च तथेति दार्ष्टान्तिकवाक्या
ध्याहार उक्तरीत्या कर्तव्यः ॥
( २६ ) ननु यदुक्तं जीवस्य स्वांशिककर्मनिर्मितदेहसम्बन्धित्वादप
भ्रष्टवदीशाधीना प्रवृत्तिः, ततो बन्धनिवृत्तिश्चेति । यच्च यथेत्यादिना
दृष्टान्तविवरणेन अभिसंहितं देहासम्बन्धित्वाद्वियद्गतप्रभाभिमानिव
त् मत्स्यादेरीश्वराधीनप्रवृत्त्यभाव इति । तद्वयमप्यनुपपन्नम् । आ
द्ये मत्स्यादौ व्यभिचारात्, द्वितीये दृष्टान्तासिद्धेरित्यत आह---मो
क्षधर्मे चेति ॥ चशब्दः शङ्काव्यावर्तकः । युधिष्ठिरं प्रति भीष्मवचनमे
तत् । हे 'विशां' प्रजानां पते अस्मिन् 'लोके' जगति यत्किञ्चिज्जीव
जातं देहबद्धं वर्तते, तदीश्वरबुद्धिजैः तन्निमित्तकैः पञ्चभिर्भूतैः 'आ
विष्टं' बद्धमित्यर्थः । एवं जीवानां भौतिकदेहसम्बन्धमुक्त्वा ईश्वर
स्य तदसम्बन्ध उच्यते---ईश्वरो हीति । हिर्हेतौ, प्रसिद्धौ वा । हेतुने
वाह---महदिति । महच्च तद्भूतं च महद्भूतं भूतेभ्यो महदिति वा 'म
हत्' पूज्यं अपरिच्छिन्नं 'भूतं' सदा स्थितं निर्विकारं वा । 'ईश्वरो
हि जगत्स्रष्टा' इति गीताभाष्ये पठितम् । स चेश्वरो नान्यः, किन्तु
'नारायणः' मुक्ताश्रयो विष्णुः विशेषेण राजत इति 'विराट्' नित्या
भिव्यक्तरूपः । 'भूतान्तरात्मा' सर्वजीवान्तर्यामी 'वरदो' मोक्षदः ।
ध्येय इति क्वचित्पाठः । 'सगुणः' ऐश्वर्यादिगुणोपेतः 'निर्गुणः' स
त्त्वादिगुणाकार्यदेहः । अपिचौ समुच्चये । पुनर्जीवस्वरूपमुच्यते---भू
तेति । तस्येति शेषः । अस्य तमिति यावत् । नृपश्चासावतिशयितस
त्त्वश्च, तस्य सम्बुद्धिः नृपसत्तमेति । हे नृपसत्तम भूतसम्बन्धाधीन
प्रलयोपेतमकार्यत्वादव्यक्तशब्दितं जीवचैतन्यं तस्य नारायणस्य 'शु

? No, where is र्?
Look above the ि of शि: is there a repha?
NO, the top of the ि is completely smooth! It's just a normal ि curve!
So it is definitely NOT र्शि! It is definitely शि!
Then what is the word? ...शिवान्!
Before शिवान्: is it दृशिवान्?
Yes! In Sanskrit, दृशिवान् is the kvasu-anta of दृश् (दृश् + क्वसुँ = दृशिवान्, like ऋग्वेद / ऐतरेय: "दृशिवान् भवति")!
With यत्तद् prefixed: यत्तद् + दृशिवान् = यत्तद्दृशिवान्!
Wait, why are there two दs? यत्तद् ends in द्, दृशिवान् starts with दृ.
द् + दृ = द्द्दृ or द् दृ (separated) or द्द्दृ!
Look at the image: य त्त द् दृ शि वा न्!
Wait, is that a द् followed by दृ?
Let's look at the first of the two: it is द! Does it have a virama?
Yes, look closely at the bottom of the first द: there is a tiny slant to the left

[ अधि - १८. सू - ४९. ] दीपिकासहितम्. ६३१
अदेहबन्धयोग्यत्वाद्यथा सूर्यप्रभाऽक्षिणी ।
यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥
अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम् ॥ इति ॥ ४८ ॥
( २८ ) सू—ॐ ॥ असन्ततेश्चाव्यतिकरः ॥ ॐ ॥ ४९ ॥
अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् ।
( २९ ) तथा च चतुर्वेदशिखायाम्—
‘ तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो
रामः कपिल इति । तस्य ह वा एतस्य परमस्य पञ्च
न सङ्गृहीताः । अनेन देहसम्बन्धित्वहेतोस्तत्र भागासिद्धिश्श्च परिहृ-
ता । अदेहेति । देहसम्बन्धायोग्यत्वादित्यर्थः । अनुमानद्वये व्युत्क्रमे-
ण दृष्टान्तमाह—यथेति । सूर्यप्रभा चाक्षि चेति विग्रहः । नैकप्रकारे
इति शेषः । ‘ अमृतसमुद्रस्य ’ शुद्धोदकसमुद्रस्य ‘ द्विरूपता ’
भिन्नप्रकारता । ‘ अन्यस्य ’ अक्षिश्लेष्मादेः भिन्नांशस्य ‘ तेनैव ’ अंशि-
नैव आवृत्तिः तमःपित्तादिः । तस्य रोधनं निवृत्तिर्भवतीत्यर्थः । इति
वाराहे इत्यन्वयः । सूत्रोक्तमुक्तमिति शेषः ॥
( २८ ) युक्त्यन्तरेण मत्स्यादीनां जीवानां चैकविध्यं पराकुर्वत्सूत्रं
पठित्वा व्याचष्टे—असन्ततेश्चेति ॥ अपूर्णशक्तित्वादित्यनेनासन्ततेरि-
त्यस्य सम्यक्कृतिः सन्ततिः पूर्णता शक्त्येति योग्यतयाऽन्वये नञ्स-
म्बन्धे चापूर्णशक्तित्वादित्यर्थ उक्तः । सूत्रे भाष्ये चशब्दो न केवलमी-
शाधीनप्रवृत्तितदभावादिना जीवानां मत्स्यादीनां च नैकविधता, कि-
न्त्वसन्ततेश्चेति युक्तिसमुच्चये । अनुवृत्तपदस्यार्थमाह—जीवस्येति ।
‘ न मत्स्यादिसाम्यम् ’ सर्वसाम्यमिति । अनेनाव्यतिकर इत्यस्य नैवं
पर इत्युक्तस्य व्यत्यासाभाव इति वा, जीवानां मत्स्यादीनां च शास्त्रो-
क्तस्वरूपस्याव्यत्यास इति वार्थ उक्तो भवति ॥
( २९ ) मत्स्यादीनां पूर्णशक्तित्वं, न जीवस्येत्येतत्कुत इत्यत आह-
तथा चेति ॥ परावरभेदेन चेतनद्वैविध्यमभिधाय तत्र परो नारायण
इत्यप्यभिधाय तस्य व्यूहरूपाण्युच्यन्ते—तस्येत्यादिना । ‘ तस्य ’ प्र-
सिद्धस्य ‘ एतस्य ’ प्रकृतस्य ‘ परमस्य ’ नारायणस्य कृष्णो रामः क-
पिल इति त्रीणि रूपाणीत्यन्वयः । तस्येत्यादेः सर्वत्रान्वयग्रहणा-
य द्विर्ग्रहणम् । कृष्णादित्रयं कश्चन व्यूहः । न तु ‘ पञ्चात्मकः ’
इत्युक्तसप्तव्यूहान्तर्गतम् । केचित्त—कृष्णादिकस्तु न व्यूहः ना

An exact, line-by-line transcription of the Sanskrit text in Devanagari Unicode:

६३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.]
रूपाणि दशरूपाणि सहस्ररूपाण्यमितरूपाणि । ता
नि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि स
र्वाण्यसम्मितानि सर्वाण्यमितानि । अथावरास्सर्व ए
वापूर्णाः सर्व एव बध्यन्ते अथ मुच्यन्ते च केचन '
इति ॥ ४९ ॥
( ३० ) सू-ॐ॥ आभास एव च ॥ ॐ ॥ ५० ॥
'रूपं रूपं प्रतिरूपो बभूव' (ऋ. ६-४७-१८.) इति प्र
तिरिक्तव्यूह इति टीकार्थमाश्रित्य सप्तव्यूहान्तर्गतमेवैतदित्याहुः ।
'पञ्च' नारायणाद्यनिरुद्धान्तानि 'दश' मत्स्यादीनि 'शतं' नाराय
णाद्यष्टोत्तरशतनामवाच्यानि । विश्वादीनि सहस्राणि । अजितादीन्य
नन्तानि रूपाणि पूर्णानि देशकालाभ्यामनन्तानि गुणतः 'असम्मिता
[

[ अधि - १८. सू - ५०. ] दीपिकासहितम्. ६३३
तिबिम्बत्वान्न साम्यम् ।
( ३१ ) वाराहे च—
द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः ।
प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।
प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु ॥ इति ॥
( ३२ ) सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
त्त्यादिसाम्यामित्यर्थः । जीवस्येत्यनुवर्तते । साम्यमेकविधत्वम् ॥
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
(ऋ. ६-४७-१८.)
इति ऋङ्मन्त्रस्यायमर्थः—'शृण्वे वीरः' (ऋ. ६-४७-१६.) इत्यादिना प्रकृ
तः त्रिविधजीवसमुदायः अस्य परमेश्वरस्य रूपंरूपं प्रति 'प्रतिरूपः' प्र
तिबिम्बो 'बभूव' प्रतिबिम्बो भूत्वा वर्तते । तद्बिम्बरूपमस्य प्रतिबिम्बत्वे
नोक्तस्य योग्यजीवस्य मुक्त्यर्थे 'प्रतिचक्षणाय' साक्षात्कारााय भवति
तद्विषयो भवति । स च 'इन्द्रः' परमेश्वरः 'मायाभिः' स्वसामर्थ्यैः
इच्छाभिर्वा 'पुरुरूपः' अनन्तजीवबिम्बरूपः 'ईयते' ज्ञायते । 'अ
स्य' ईश्वरस्य 'शतमन्तं भवति' इति वचनात् शतानि अजिताद्य
नन्तरूपाणि, एवं दशशतानि विश्वादिसहस्ररूपाणि, एवं शतानि 'ना
रायणो नरः शौरिः' इत्यादीनि, दश मत्स्यादीनि, एवं दश बहूनि प
रादीनि, 'हरयो' हरिनामकानि रूपाणि 'युक्ताः' व्यूहशः सन्ति
'हि' प्रसिद्धमिति ॥
( ३१ ) सूत्रार्थे स्मृतिं चाह—वाराहे चेति ॥ अंश एवांशक इति
स्वार्थे कप्रत्ययः । एवमुत्तरत्रापि । 'परे' स्वरूपांशाः 'प्रादुर्भावाः'
मत्स्याद्यवतारा इत्यर्थः । मनु जीवानां प्रतिबिम्बांशत्वं मत्स्यादीनां तु
स्वरूपांशत्वमिति कुतः ?, उभयोः स्वरूपांशत्वं किं न स्यादित्यत आ
ह—प्रतिबिम्बेष्विति । यत इति शेषः । सर्वसाम्ये स्वरूपत्वमेव स्या
दतोऽल्पेत्युक्तम् । 'स्वरूपाणि' स्वरूपांशरूपाणि प्रादुर्भावात्मकानि
मत्स्यादीनि 'इतराणि' अल्पसाम्यवद्भिन्नानि यावत्साम्यवन्तीत्यर्थः।
तुशब्दोऽवधारणे । इति वाराह इत्यन्वयः । सूत्रार्थ उक्त इति शेषः ॥
( ३२ ) ननु न जीवस्य परमात्मप्रतिबिम्बांशत्वं युक्तम्, जीवश्वरू
८०

६३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः ॥
इति पैङ्गिश्रुतिः ॥
( ३३ ) 'यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्' (प्र.३-३.)
इति च श्रुतिः ॥ ५० ॥
—————:*::—————
पातिरिक्तप्रतिबिम्बोपाध्यभावादित्यत आह—सोपाधिरिति ॥ इति
शब्दोऽध्याहार्यः । 'ईयते' ज्ञायते । 'इन्द्रचापः' तत्संज्ञका वृष्टिसूचक
धनुरकृतिः 'रवेः' सूर्यस्य तत्तेजसो यथा निरुपाधिप्रतिबिम्बः बिम्बा
तिरिक्तोपादानोपाध्यभावात्, अत एव न तस्य सूर्यात्यन्तसादृश्यम्, त
था जीवः परस्य हरेः 'अनुपाधिः' स्वरूपातिरिक्तोपाधिरहितप्रतिबिम्ब
इत्यर्थः । अत्र दृष्टान्ते बिम्बातिरिक्तोपाध्यभावः । दार्ष्टान्तिके तु प्रति
बिम्बातिरिक्तोपाध्यभावः । अतिरिक्तोपाध्यभावस्तु उभयत्र सम इति
द्रष्टव्यम् । सोपाधिप्रतिबिम्बस्य दर्पणादिप्रतिबिम्बितत्वं प्रसिद्धमेवे
ति नोदाहृतम् । केचित्तु—सोपाधिप्रतिबिम्बस्य इन्द्रचाप उदाहरणं,
तस्य च मेघमण्डलं वा सूर्यतेजो वोपाधिः । उपादानं च तदेव । निरुपा
धिप्रतिबिम्बस्य तु जीव उदाहरणमिति यथाशब्दावृत्त्या वाक्यद्वयम
पि दृष्टान्तपरतया योजयन्ति । तन्नु चन्द्रिकाननुगुणत्वान्मूलाभावा
च्चोपेक्ष्यम् । अनेन सूत्रपञ्चकेन जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभा
वोक्त्याऽनंशत्वश्रुतेः स्वरूपांशत्वाभावाविषयत्वेन गतिरुक्ता भवति ।
श्रुतिरित्त्यस्य जीवस्य प्रतिबिम्बत्वमुक्तवाऽतिरिक्तोपाध्यभावमपि वक्ती
ति शेषः । अतो नातिरिक्तोपाध्यभावेऽपि प्रतिबिम्बत्वहानिरिति भावः॥
( ३३ ) जीवस्य निरुपाधिप्रतिबिम्बत्वे छायारूपदृष्टान्तान्तरप्रतिपा
दकं षट्प्रश्नवाक्यं पठति—यथेति ॥ यथा पुरुषस्य देहस्य छाया 'पु
रुषे' देहे 'आतता' तदधीना तत्प्रतिरूपा भवतीति यावत् । तद्वत्
'एतस्मिन्' पुरुषोत्तमे विष्णौ 'एतत्' प्रतिबिम्बरूपं विश्वं जीवजा
तं वा 'आततं' आयत्तं तदधीनतया वर्तते तत्प्रतिबिम्बभूतमित्य
र्थः तत्त्वप्रदीपोक्तो ध्येयः । अत्र सर्वस्यापि शरीरस्य छायया ग्रस्त
त्वात् उपहितानुपहितांशद्वयाभावाच्छायाया इन्द्रचापवन्निरुपाधिप्र
तिबिम्बत्वोक्तिः । छायोपादानं तु नीरूपि द्रव्यानन्तरमिति चन्द्रिका
काराः । इति चेति । इति श्रुतिश्चोक्तार्थमाहेत्यर्थः । चस्समुच्चये ॥१८॥
॥ इति अंशाधिकरणम् ॥

ः, किन्तु सर्वोऽपि ज्ञः पराभास इति सूत्रार्थ उक्तो भवति ॥`
Matches!

  • Now let's check line 30:
    ( २ ) देवदानवादिवैचित्र्यस्य रागद्वेषमोहाख्यदोषनिमित्तकत्वो
    Matches!

  • Now let's check line 31:
    पपत्तेः किमदृष्टकारणकत्वकल्पनयेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्या
    Matches!

  • Now let's check line 32:
    चष्टे—अभिसन्धीति ॥ न केवलं सुरनरादिवैचित्र्यं, किन्तु इच्छादि
    Wait, look at the pratika in L32:
    चष्टे—अभिसन्धीति ॥ or अभिसन्ध्यादिष्वपि?
    In L32: चष्टे—अभिसन्धीति ॥ or अभिसन्धीति?
    Let's zoom in on अभिसन्ध्वीति or अभिसन्धीति:
    Letters: अ भि स न्ध् ... wait, is that धी or वी or ध्या?
    Look at: अ-भि-स-न्धी-ति?
    Wait, the Sutra is: `अभिसन्ध्यादिष्व

इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन
प्रतिक्षणवैचित्र्यं च ॥ ५२ ॥
( ३ ) सू—ॐ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ॐ ॥ ५३ ॥
न स्वर्गनरकभूम्यादिप्रदेशविशेषाद्वैचित्र्यम्, तत्प्रा
वैचित्र्यं चेति चशब्दार्थः । ‘इच्छा’ रागः । आदिशब्देन मोहो गृह्यते ।
वैचित्र्यमिति अनुवृत्तानियमपदव्याख्यानम् । एवमित्युक्तं व्यनक्ति-
अदृष्टादिति । अदृष्टवैचित्र्यादित्यर्थः । भवतीति शेषः । न कारणान्त
रादित्येवार्थः । नन्वस्माभिरपि सिद्धान्तिवत्पूर्वपूर्वदोषवैचित्र्यमेव
उत्तरोत्तरदोषवैचित्र्ये कारणमित्यङ्गीकारान्न काऽप्यदृष्टवैचित्र्यापेक्षे
त्यतः प्रवृत्तं चशब्दं व्याचष्टे—चशब्देनेति । प्रतिक्षणेति । पुरुषविशेष
निष्ठप्रतिक्षणवैचित्र्यमित्यर्थः । सङ्गृहीतमिति शेषः । चः समुच्चये । अ
नेन—यतो न केवलमाभासे देवदानवाद्यनियमोऽदृष्टानियमात्, किं
न्तु अभिसन्धिपदोक्तरागादिष्वनियमोऽपि तत एव भवति, न रागा
द्यनियमात् । अतो न तस्मात्सुरासुरादिवैचित्र्यं वाच्यम् । न केवल
मभिसन्ध्यादिषु वैचित्र्यमदृष्टानियमात्, किन्त्वेकपुन्निष्ठप्रतिक्षणवैचि
त्र्यं च ‘एवं’ अदृष्टानियमादेव भवति, न कारणान्तरादिति सूत्रार्थ
उक्तो भवति । दोषवैचित्र्याभावेऽपि एकस्मिन् पुंसि प्रतिक्षणवैचि
त्र्यदर्शनेन कारणान्वेषणे तत्कारणतयाऽदृष्टवैचित्र्यस्यैवाङ्गीकार्य
त्वावश्यकत्वात् जीववैचित्र्येऽपि तदेव कारणमिति भावः ॥
( ३ ) ननु स्वर्गस्थाः सुराः, भूमिस्थाः नराः, इत्यादिरूपेण स्थान
वैचित्र्यादेव सुरनरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशङ्कां प
रिहरत्सूत्रमुपन्यस्य व्याचष्टे—प्रदेशादिति ॥ अत्र प्रदेशपदं तद्वैचि
त्र्यपरमित्याह--स्वर्गेति । ‘प्रदेशः’ स्थानं ‘वैचित्र्यं’ सुरनरादि
भेदः । प्रतिबिम्बानामिति वाच्यमिति शेषः । कुतो न वाच्यमित्यतः
प्रवृत्तमन्तर्भावादित्येतत्तात्पर्यतो व्याचष्टे—तत्प्राप्तेरिति । विचित्रप्रदे
शप्राप्तेरप्यदृष्टसापेक्षत्वादित्यर्थः । अदृष्टस्यापेक्षा यस्यामिति विग्रहः ।
न केवलमाभासवैचित्र्यस्येत्यपिशब्दार्थः । निष्कारणस्थानवैचित्र्य
स्यैवानुपपत्त्या तत्कारणान्वेषणे अन्ततोऽदृष्टस्यैव तत्कारणतयाऽङ्गी
कार्यत्वादिति भावः । अनेन प्रदेशवैचित्र्यकारणस्यादृष्ट एवान्तर्भा
वात्तस्यैतद्रूपत्वादिति सूत्रखण्डार्थ उक्तो भवति । युक्त्यन्तरमाह—

[ अधि - १९. सू - ५३. ] दीपिकासहितम्. ६३७
तैरदृष्टापेक्षत्वात् । एकदेशस्थितानामेव वैचित्र्यद
र्शनाच्च ॥ ५३ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य
तृतीयः पादः.
—* ✡ *—
॥ ॐ ॥
—
एकेति । एकस्थाने स्थितानामेव सुरनरादिजीवानामित्यर्थः । मिथ इ
ति शेषः। तथा च इतोऽप्यदृष्टवैचित्र्यं कारणतयाऽङ्गीकार्यमिति भावः।
अनेनैकस्थानस्थितानां मिथो वैचित्र्यकारणस्यादृष्ट एवान्तर्भावादि
ति सूत्रखण्डस्यार्थान्तरमुक्तं भवति । अनेन ‘ न सम्बन्धः ’ इति प्रति
बिम्बत्वनिषेधकश्रुतेः स्वरूपातिरिक्तोपाधिनिमित्तकप्रतिबिम्बत्वाभा
वविषयत्वान्न तद्विरोधो जीवप्रतिबिम्बत्वश्रुतेरित्युक्तं भवति ॥ १९ ॥
॥ इति अदृष्टाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य तृतीयः पादः.
—: ꣼ :—
॥ ॐ ॥
—

६३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
१०. अधिकरणम् ॥
( १ ) युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन।
'प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे भूतेभ्यो
ऽण्डमण्डस्यान्तस्त्विमे लोका अथ प्राणा एवानादयः
प्राणा नित्याः' इति काषायणश्रुतौ प्राणानामनुत्प-
त्तिश्श्रूयते ।
( २ ) नोपादानं हीन्द्रियाणां अतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥
इति भविष्यत्पर्वणि ।
'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मु.२-१-३.)
इति च ।
१०. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति-युक्तीति॥ सिद्धान्त्यभिहितानां श्रुतीनां
युक्तिसहिताभिः श्रुतिभिर्विरोधं 'अनेन' चतुर्थपादेन निराकरोति
सूत्रकार इत्यर्थः । अत्राधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधः
परिह्रियते । तत्र किमिन्द्रियाण्युत्पत्तिमन्ति न वेति संशयबीजं
श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—प्राणा इति ॥ 'इदं'
अस्य जगतः 'अग्रे' प्रलये 'प्राणाः' इन्द्रियाण्येव 'आसुः'
बभूवुरित्यर्थः । 'तेभ्यः' इन्द्रियेभ्यः पञ्च 'भूतानि' आकाशादीनि
जज्ञिरे । भूतेभ्यो ब्रह्माण्डं, अण्डस्यान्तः 'इमे' चतुर्दश लोका
आसुः । यतएवं 'अथ' तस्मात्सर्वकारणत्वेन प्रलयेऽवस्थानात्
प्राणाः 'अनादयः, उत्पत्तिशून्या एव' अतएव नित्या इत्यर्थः । अत्रा-
नादित्वोपपादनाय पूर्वांशोदाहरणम् ॥
( २ ) एव मिन्द्रियाणामनुत्पत्तिश्रुतिमुपन्यस्य तस्याः प्राबल्या-
यानुत्पत्तावुपादानशून्यत्वादिति युक्तिमभिप्रेत्य तस्या असिद्ध्यादि
परिहाराय स्मृति माह—नेति ॥ 'हि' यतः 'उपादानं' परिणामि
कारणं, 'अतो' निरुपादानत्वात् । ब्रह्मवदित्यन्वयदृष्टान्तसम्भवे
ऽपि व्यभिचारशङ्कानिरासायोक्तहेतोर्व्यतिरेकव्याप्तिं दर्शयति—
उपादानकृतेति । तन्निमित्तेत्यर्थः । 'सर्वलोकेषु' घटादिकार्येषु ।
इतीति । युक्तिरुक्तेति शेषः । इतीति । प्राणानामुत्पत्तिश्च श्रूयत इति
सम्बन्धः । श्रुतिस्त्वन्यत्रे व्याख्याता ॥

[ अधि - १०. सू - २. ] दीपिकासहितम्. ६३९
( ३ ) अत उच्यते--
सू--ॐ ॥ तथा प्राणाः ॥ ॐ ॥ १ ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा
अपि ॥ १ ॥
( ४ ) सू--ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ २ ॥
अनादित्वश्रुतिर्गौणानदित्वापेक्षया, मुख्यासम्भवात् ।
( ५ ) नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः।
( ३ ) सिद्धान्तयत्सूत्रमवतारयति--अत इति ॥ यतः श्रुतिवि-
रोधः संशयकारणमस्ति अतस्तत्परिहाराय सिद्धान्त उच्यते सूत्र-
कृतेत्यर्थः । सूत्रे तथाशब्दः पूर्वोक्तयुक्तीनां साध्यस्य च परामर्श-
क इत्यभिप्रेत्य सूत्रं व्याचष्टे--यथेति । यैर्हेतुभिरित्यर्थः । 'उत्पद्यन्ते'
उत्पत्तिमत्त्वेन सिध्यन्ति 'तथा' तैरेव हेतुभिः 'उत्पद्यन्ते' पराधीनवि-
शेषावाप्तिरूपोत्पत्तिमन्त एव सिध्यन्तीत्यर्थः । हेतवस्तु वियदधि-
करण एवोक्ताः । तेजआदेर्ब्रह्मान्यकार्यत्वे घर्मात्स्वेददृष्टिवत् अत्र
पुनः प्राणानां तदन्यकार्यत्वे प्रापकहेत्वभावेन विप्रतिपत्त्यभावात्
अत एव प्राणानां कारणस्याविवादात् सिद्धवत्कृत्य परमात्मन इत्यु-
क्तम् ॥
( ४ ) नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावाख्यो हेतुरु-
क्तः । न चासाविह सम्भवति । 'प्राणाः' एवेत्यनुत्पत्तिश्रुतेर्विद्यमा-
नत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति--गौणीति ॥ प्रतिज्ञांशं व्या-
चष्टे--अनादीति । 'प्राणा अनादयः' ( काषायण. ) इति अनादित्वप्र-
तिपादक श्रुतिरित्यर्थः । गौणानदित्वापेक्षयेति । अमुख्यानादित्वविव-
क्षयेत्यर्थः । प्रवृत्ता यत इति शेषः । अतो मुख्यानुत्पत्तौ श्रुत्यभाव इति
प्रतिज्ञावाक्यशेषश्च कर्तव्यः । कुत इत्यतः प्रवृत्तमसम्भवादिति
हेतुसाधकहेतुं व्याचष्टे--मुख्येति । श्रुतेर्मुख्यानुत्पत्तिवाचित्वासम्भ-
वात् । सोऽपि कुतः ? इन्द्रियाणां मुख्यानुत्पत्तेरसम्भवात् 'एतस्मा-
त्' इत्यादिश्रुत्यन्तरासम्भवाच्च, अकारवाच्याद्विष्णोः सम्भवाच्चेत्यर्थः॥
( ५ ) ननु प्राणानां गौणानादित्वं किं नाम, यत्परा श्रुतिर्भवेत् ।
कथं च गौणार्थग्रहणहेतुर्मुख्यासम्भवः। प्रत्युत उत्पत्तिरेव न सम्भव-
त्युपादानाभावादित्यत आह--नित्यानीति ॥ 'सर्वशः' सर्वाणीन्द्रि-
याणि 'सौक्ष्म्येण' सूक्ष्मेण रूपेण 'नित्यानि' चकारादनादीनि च ।

६४० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ]
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥
न च सृष्टिवाक्यविरोधः । 'हि' यतः 'तेषां' इन्द्रियाणां सृष्टिकाले
'भूतैः' पञ्चमहाभूतैः 'उपचयो' वृद्धिः स्थूलभावो 'विधीयते' परेण
क्रियते । तर्ह्युपचयात्पूर्वमसमर्थानीन्द्रियाणि न संसारकारणानि स्यु
रित्याशङ्क्य तत्परिहाराय-सृष्टिकाल इत्याह । प्रलये वियुक्तांशानां ते
षां प्रतिसृष्टिकालं उपचयो विधीयत इत्यर्थः । तथा च यस्मिन् लय
कालेऽनुपचयः तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्था
नि तदाऽस्त्येवोपचयः । स च न कादाचित्कः, किन्तु प्रतिसृष्टिकाले
भावीति नोक्तदोष इति भावः । मुख्यानादित्वासम्भवे हेतुमाह--'प
रेण' परमात्मनेति । साम्यं स्वातन्त्र्याविभक्तत्वादिधर्मेण । कस्य
स्यात्, न कस्यापि भवेदित्यर्थः । मुख्यनित्येति । देहस्वरूपविशेषैः
अविकृतत्वरूपेत्यर्थः । उपलक्षणमेतत् । मुख्यानादिता चेत्यपि द्रष्टव्य
म् । अनेन सूक्ष्मरूपेण अनादित्वमेव गौणानादित्वम् । अनादित्वश्रुति
रपि तत्परैव । जन्मश्रुतिस्तूपचितस्थूलेन्द्रियपरा । भूतान्येवोपादाना
नीति न तदभावोऽपि । स्वातन्त्र्याद्यापत्तेः न मुख्यानादित्वादिसम्भ
वोऽपीति सर्वस्योत्तरमुक्तं भवति । परेण साम्येत्यनेन यावद्विकारमि
त्यादियुक्तयो गृहीता भवन्ति । भविष्यपर्वणीयस्य उक्तत्वादित्य
ध्याहारेणानादीति पूर्ववाक्येनान्वयः । नन्विन्द्रियाणां भूतैरुपचया
भ्युपगमे
तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।
तैजसानीन्द्रियाण्याहुः ॥
इत्यादितैजसाहङ्कारकार्यत्ववाचिभागवतादिवाक्यविरोध इति चेत्-
न, भूतैरुपचयोक्तावप्यत्र अहङ्कारकारणत्वस्यानिषेधात् ।
तथाऽपि
तथा विशिष्टकार्यत्वाद्देवा वैकारिकाः स्मृताः ।
अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥
तामसानि तु भूतानि ततस्तावद्भूतत्रयम् ॥
इति पाद्मस्मृतौ भूतानां तामसाहङ्कारकार्यत्वोक्तेः । 'तेभ्यो भूतानि जज्ञि
रे' (काषायण.) इति श्रुतौ च तेषां प्राणशब्दितेन्द्रियकार्यत्वोक्तेर्विरोध
इति चेत्-न, अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरुपचयाभ्युपगमात् ।

[ अधि - २. सू - ४. ] दीपिकासहितम्. ६४१
इति हि भविष्यत्पर्वणि ॥ २ ॥
( ६ ) सू—ॐ ॥ प्रतिज्ञानुपरोधाच्च ॥ ॐ ॥ ३ ॥
' स इदं सर्वमसृजत ' ( तै. २-६. ) इति ॥ ३॥
—::-
२. अधिकरणम् ॥
( १ ) 'त्रिधा हैवेन्द्रियाणि नित्यान्यनित्यानि च । तत्र नित्ये
ननु तथाऽपि 'तेषां भूतैरुपचयः' इतीन्द्रियाणां भूतकार्यत्वोक्तेः 'तेभ्यो
भूतानि' इति भूतानामिन्द्रियकार्यत्वोक्तेः विरोध इति चेत्—न, यतः
'तेभ्यो भूतानि' इति वाक्यं भूतेभ्योऽपि पूर्वमुत्पन्नानां महदादितत्त्वा
भिमानिनां देवानां इन्द्रियादिव्यापारैः भूतोत्पत्तिपरम्, न तु तत्त्वरूपे
न्द्रियैः। यथोक्तं तत्त्वप्रदीपे—तात्त्विकदेवोत्तमानां प्राकृते देहाधिष्ठिते
न्द्रियव्यापारपूर्वकत्वाद्भूतसृष्टेः भूतकारणत्वव्यपदेशोपपत्तिरिति । य
द्वा—सूक्ष्मप्राणैरिति टीकोक्तेः तत्त्वरूपेन्द्रियैरेव सूक्ष्मभूतानामुपचयः।
'तेषां भूतैरुपचयः' इत्यनेन तु सूक्ष्मसृष्टिकाले जीवेन्द्रियाणां भूतसू
क्ष्मैरेवोपचयः कथ्यते इति न तत्त्वरूपेन्द्रियाणां, तेषां पूर्वोत्पन्नत्वेन प
श्चादुत्पन्नभूतैरुपचयायोगात् । न च जीवेन्द्रियाणामपि कथं भूतैरुप
चयः, तद्कार्यत्वादिति वाच्यम् । जीवानां सूक्ष्मसृष्ट्युक्तेरेव तज्ज्ञाप
कत्वात् । यद्वा—तत्त्वरूपाणां अहङ्कारोत्पन्नानां भूतानां सूक्ष्मप्राणैरुप
चयवत् तत्त्वरूपेन्द्रियाणामपि भूतसूक्ष्मैरुपचयोऽस्तु, अन्योन्यसूक्ष्मै
रुपचये बाधकाभावात् ॥
( ६ ) वियदधिकरणोक्तप्रतिज्ञाहानियुक्त्या इन्द्रियाणां उत्पत्तिं स
मर्थयत्सूत्रं पठित्वा व्याचष्टे—प्रतिज्ञेति ॥ इतीत्यन्तस्य सूत्रेणान्वयः।
चशब्दोऽनेन स्मारितप्रतिज्ञाहान्याख्यपूर्वोक्तयुक्तिसमुच्चये, विभक्त
शक्तत्वादियुक्तिसमुच्चये वा । हेतोः पूर्वेणान्वयः । तथा च प्राणानां
उत्पत्त्यङ्गीकारे 'स इदम्' इति प्रतिज्ञानुपरोधात् अनुपहतेस्तदनु
साराद्योत्पत्तिमन्तः प्राणा इति सूत्रार्थः । 'स इदम्' इति श्रुतिस्तु
वियदधिकरणे व्याख्याता ॥ १ ॥
॥ इति प्राणोत्पत्त्यधिकरणम् ॥
—:
:—
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे मनोजन्मविषयश्रुतिविरोधः परिह्रियते । पूर्व
८१

६४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
मनोऽनादित्वात् । न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्य-
न्यानि' इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्ति-
का श्रूयते ।
( २ ) अत आह—
सू—ॐ ॥ तत्प्राक् श्रुतेश्च ॥ ॐ ॥ ४ ॥
'मनस्सर्वेन्द्रियाणि च' (मु. २-१-३.) इति पूर्वोक्त-
त्वान्नानुत्पत्तिर्मनसो युज्यते ।
पक्ष्यति—द्विधेति ॥ अत्र मनसोऽनुत्पत्तिरिति पूर्वपक्षप्रतिज्ञा । कुत
इत्यतः तत्र हेतुत्वेन द्विधेत्यादिकं योजनीयम् । यत इति शेषः । तथा
च यतो गौपवनश्रुतौ मनसोऽनुत्पत्तिः 'श्रूयते' प्रतिपाद्यते अत इ-
ति योजना । न चात्र नित्यत्वमेवोच्यते, नानुत्पत्तिरिति वाच्यम् । नि-
त्यमित्यस्यानुत्पत्तिमदित्यर्थाश्रयणात् । न च साध्याविशेषः, अनादि-
त्वादित्यस्य अनादिपुरुषसम्बन्धित्वादित्यर्थाश्रयणात् । यद्वा—अना-
दित्वादित्यस्यैव अनुत्पत्तिमत्त्वादित्यर्थाश्रयणादत एवानुत्पत्तिसिद्धिः।
तत एव टीकायां 'नित्यं मनोऽनादित्वात्' इति श्रुतेरिति हेतुवाक्यम-
पि गृहीतम् । ननु 'एतस्मात्' इति श्रुत्यनुसारेणेन्द्रियानुत्पत्तिश्रुति-
वदनादित्वश्रुतेः गौणार्थत्वं किं न स्यादित्यत आह--सयुक्तिकेति ।
युक्त्यभिधानसहितेत्यर्थः । अनुत्पत्तिश्रुतेः विशेषणमेतत् । द्विधैवेति
सम्बन्धः । हिशब्दः प्रसिद्धौ । 'तत्र' नित्यानित्ययोर्मध्ये । तथा च
'द्विधा' इति वाक्ये मनोभिन्नेन्द्रियाणामनित्यत्वमुक्त्वा विशिष्य म-
नसो नित्यत्वाभिधानात् अनादित्वहेतोः असिद्धिशङ्कायां 'न ह्यमनाः'
इति विपर्ययपर्यवसानसूचितात्कदाचिन्मनोहीनेन अनादिपुरुषेण अ-
वस्थातव्यं स्यात्, तथात्वे च तदा संसाराभावप्रसङ्गादित्यनिष्टप्रसङ्गा-
भिधानाच्च युक्तिरुक्तेति भावः । अनेन युक्तियुक्तानादित्वश्रुतेः प्रा-
बल्यात्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यात् न श्रुतिसमन्वयेनेश्वरस्य जग-
त्कारणत्वसिद्धिरिति पूर्वपक्षो दर्शितः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीति । इ-
ति श्रुतावन्येन्द्रियेभ्यः पूर्वोत्पन्नतयोक्तत्वान्नानुत्पत्तिर्मनसो युज्यत इ-
त्यन्वयः । नेत्यादिना प्रतिज्ञाध्याहारो दर्शितः । अत्रोत्पन्नतवेनोक्तत्वमे-
व लिङ्गम् । पूर्वोत्पन्नत्वं तु पृथगभिधानस्य वैयर्थ्यशङ्कापरिहारक-
मिति ध्येयम् ॥

[अधि - २. - सू - ४.] दीपिकासाहितम्. ६४३
(३) पूर्वं मनस्समुत्पन्नं ततोऽन्येषां समुद्भवः ।
तदनुत्पत्तिवचनमल्पोपचयकारणात् ॥
(३) ननु कुतो मनसः पूर्वोत्पत्तिस्सिध्यति । न च श्रुतौ पूर्वनि
र्देशात्तत्सिद्धिः, तस्याप्रयोजकत्वात् । कथं चोत्पत्त्यङ्गीकारे श्रुतियु
क्तिविरोधपरिहार इत्यतः तदुत्तरत्वेन चशब्दं व्याचष्टे - पूर्वमिति ॥
अन्येन्द्रियेभ्यः पूर्वमित्यर्थः । 'समुत्पन्नं' उपचितरूपेणेति शेषः ।
'ततो' मनउत्पत्त्यनन्तरं 'अन्येषां' मनोभिन्नेन्द्रियाणां 'समुद्भवः'
समुत्पत्तिः । तर्हि श्रुत्यादिविरोध इत्यत आह- तदिति । यतस्तस्य
मनसोऽनुत्पत्तिवचनं नित्यत्ववचनं अनादित्ववचनं वा 'अल्पोपचय
कारणात्' इतरेन्द्रियवन्मनसो भूतादिबहुभागैरुपचयाभावात्रिचित्ता
दृनेन ज्ञापितादितरेन्द्रियवत्प्रलयेऽपि सूक्ष्मरूपेण सत्त्वाद्धेतोरुपपद्य
ते । एवं 'तदनुत्पत्तिवचनं' विशिष्य मनसो नित्यत्वाभिधानरूपा यु
क्तिः 'अल्पोपचयकारणात्' अन्येन्द्रियेभ्योऽल्पोपचयान्निमित्तादुपप
द्यते । अतो न तद्विरोध इत्यर्थः । अनेनानादिनित्यत्ववचनस्य सूक्ष्मरू
पविषयत्वमुक्तं भवति । न च सूक्ष्मरूपेणानादिपुरुषसम्बन्धिनोऽपि
मनसः कदाचिदेवोपचयरूपोत्पत्त्यङ्गीकारे उपचयात्पूर्वं संसाराभाव
प्रसङ्गः, उपचितमनस एव संसारबीजत्वादिति वाच्यम् । प्रतिसृ
ष्टिकाले उपचयसत्त्वात् तदैव हि संसारो, न प्रलये, तदा उपचया
भावेऽपि दोषाभावादित्युक्त एव परिहारः । 'वायुप्रोक्तवचनम्' वा
युप्रोक्ताख्यग्रन्थवचनं सौत्रचशब्देन सूचितमित्यर्थः । अनेन - नानुत्पं
त्तिर्मनसो युज्यते । कुतः ? 'तच्छ्रुतेः' 'मनस्सर्वेन्द्रियाणि च' इ
त्युत्पत्तिश्रुतिसद्भावात् । न च छत्रिन्यायेन इयमुपचरितेति वाच्यम्।
'तत्प्राक्छुतेः' तस्य मनसः पृथग्जन्मश्रुतेः । अस्याः राजा छत्री या
ति, अन्ये छत्रणो यान्तीतिवद्विशेषश्रुतित्वेनेन्द्रियाणि जायन्ते इत्येता
वन्मात्रोक्तिरूपसामान्यौक्तित्वाभावादिति भावः । न चेतरेन्द्रियवन्म
नसोऽप्युत्पत्तिमत्त्वे पृथगुत्पत्तिश्रुतिर्व्यर्धेति वाच्यम् । 'तत्प्राक्छुतेश्च'
तच्छ्रुतेश्च मनसः पृथगुत्पत्तिश्रुतेरपि तेभ्योऽन्येभ्यः प्रागुत्पन्नतत्वाभि
प्रायेणोपपन्नत्वात् । ननु कुतो मनसः पूर्वोत्पत्तिः ज्ञायते, श्रुतौ प्राङ्कि
र्देशमात्रस्य नियामकविशेषप्रमाणं विना प्रागुत्पन्नतत्वानिश्चायकत्वा

[६४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]]

इति वायुप्रोक्तवचनं चशब्देन सङ्गृहीतम् ॥ ४ ॥
——
३. अधिकरणम् ॥
( १ ) ‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युतम् । इति ।
वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिःप्रतिष्ठते’
इत्याशङ्कापरिहारकवायुप्रोक्तवचनसङ्ग्रहाय चशब्द इति सूत्रार्थ उ-
क्तो भवति ॥ २ ॥
॥ इति तत्प्रागधिकरणम् ॥
—
··—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे वागुत्पत्तिश्रुतेरनुत्पत्तिश्रुत्या विरोधः परिह्रिय-
ते । पूर्वपक्षयति—नित्ययेति ॥ वाचोऽनुत्पत्तिरेव भवेत् । कुतः ? यतो
‘नित्यया’ इति पौष्यायणीश्रुतौ ‘वाग्वाव नित्या न ह्येषोत्पद्यते’ इति
वाक्येन वाचोऽनुत्पत्तिरुच्यते इत्यन्वयः । अत्र नित्यत्वमविनाशित्वं,
तत्र हेतुः—न हीति । नन्वनुत्पत्तिवदुत्पत्तेरपि ‘सर्वेन्द्रियाणि च’ इ-
ति श्रुत्युक्तत्वात् सत्प्रतिपक्षितेयं श्रुतिर्न निर्णयकरीत्यत आह—स-
युक्तिकमिति । ‘अस्यां हि’ इति वाक्यबोध्यनित्यवेदाश्रयस्यानित्य-
त्वासम्भवद्रूपतर्कसहितश्रुत्याश्रयत्वरूपयुक्तिसाहित्येनेत्यर्थः । उच्य-
त इति क्रियाविशेषणमेतत् । तथा चानुत्पत्तिश्रुतेः अधिकबलत्वात्
न सत्प्रतिपक्षित्वमिति भावः । ननु
नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् । इति ॥
श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः ॥
इति पैङ्गिब्राह्मणे ‘नित्यया’ इति मन्त्रमुदाहृत्य तद्गतनित्यानित्यशब्द-
योः श्रुतिस्मृतिविषयत्वेन व्याख्यातत्वात् तत्समाख्यानात् सामान्य-
वाक्शब्दस्य विशेषार्थकल्पनोपपत्तेरुत्पत्तिश्रुत्यनुकूल्याच्चात्रत्यवाक्श-
ब्दो वेदपर एव, न वागिन्द्रियपरः । तथा च नेयं वागनुत्पत्तिसाधके-
त्यतोऽप्याह—सयुक्तिकमिति । श्रुतिविशेषणमेतत् । तथा च विशेषश्रु-
तित्वाख्ययुक्तिसहितश्रुतित्वादित्यर्थः । तथा च ‘अस्यां हि श्रुतिःप्रतिष्ठ-
ते’ इति वाक्यशेषे वेदे असम्भाव्यमानवेदाश्रयत्वोक्त्या तद्बलात्
‘वाग्वाव’ इति श्रुतेः विशेषश्रुतित्वात् अत्रत्यवाक्शब्दो वागिन्द्रिय-
पर एव, न वेदपर इति भवत्येवेयं श्रुतिः अनुत्पत्तिसाधकेति भावः ।

[ अधि - ३. सू - ५. ] दीपिकासहितम्. ६४५

इति सयुक्तिकं पैङ्गायणिश्रुतौ वाचोऽनुत्पत्तिरुच्यते ।
( २ ) अतो ब्रवीति —
सू— ॐ ॥ तत्पूर्वकत्वाद्वाचः ॥ ॐ ॥ ५ ॥
नन्वियं श्रुतिः इतरेन्द्रियवत् वाचस्सूक्ष्मरूपानादित्वपरा किं न
स्यात् । न च नित्याश्रयत्वयुक्तिविरोधः । तस्या अपि सूक्ष्मरूप-
नित्यत्वेनोपपत्तेः । एवमुत्पत्तिश्रुत्यानुकूल्यादुपचयोऽप्यस्तीत्यतो वा
ऽऽह—सयुक्तिकमिति । यतः 'सयुक्तिकं' श्रुत्याश्रयत्वयुक्तिस-
हितं यथा भवति तथा अनुत्पत्तिरुच्यते अत इत्यर्थः । अयं भावः—अ-
स्यां हीति वाक्यशेषे तावच्छ्रुत्याश्रयत्वमुच्यते । श्रुत्याश्रयत्वं ना-
म नित्यं श्रुत्युच्चारणसामर्थ्यमेव, न तु श्रुत्याधारत्वमात्रम् । अ-
न्यथा श्रुतेर्वर्णात्मकत्वात् वर्णानां च नित्यसर्वगतत्वात् विशिष्य
वागाश्रयत्वोक्तिर्व्यर्था स्यात् । नित्यं वेदोच्चारणसामर्थ्ये च सूक्ष्म-
रूपानादित्वे न घटते । तथा सत्युपचयदशायामेव वाचः श्रुत्युच्चा-
रणसामर्थ्यं नान्यदेति स्यात्, किन्तु स्वरूपानादित्वे । एवं चेन्नोपच-
यः कल्प्यः व्यर्थत्वात् । तथा च अत्र श्रुतश्रुत्याश्रयत्वान्यथाऽनुपप-
त्त्या स्वरूपानादित्वपरैव अनुत्पत्तिश्रुतिः, न सूक्ष्मरूपानादित्वपरा, अ-
तस्तद्विरोधादुत्पत्तिश्रुतिः अप्रमाणमेवेति । श्रुतौ नित्या अनित्ययेति
पदच्छेदः । स्तौमीति मन्त्रद्रष्ट्रऋषिणा उच्यते । परमात्मानमित्यनेन
पैङ्गिश्रुतिव्याख्येयमन्त्रादयमन्यो मन्त्रः तद्गतब्रह्मपदविवरणरूप इ-
ति सूचितम् । अच्युतमित्यनेन तद्गतं परमं पदं इत्येतद्विवृतम् । ना-
शरहितस्यैव मुख्यतो गम्यत्वात् । इतिशब्दो मन्त्रप्रतीकग्रहणार्थः ।
एवं मन्त्रमुदाहृत्य तद्गतनित्यशब्दविशेष्यं दर्शयति—वाग्वावेति । नि-
पातसमुदायः प्रसिद्धौ । नित्यत्वे हेतुमाह—नेति । हिः हेतौ । 'एषा'
वागित्यर्थः । केचित्तु—इह नित्यत्वमनुत्पत्तिमत्त्वं, तत्र अनुत्पन्नत्वेन
प्रसिद्धत्वं हेतुः । प्रसिद्धिर्हिशब्दार्थः । अवधारणार्थो निपात इत्याहुः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त-
रं श्रुताविति शेषः । मनःपूर्वकत्वादिति । मनःकारणकत्वोक्तेरित्यर्थः ।
'वाचो' वागिन्द्रियस्य 'नानुत्पत्तिः' नाकार्यत्वमित्यर्थः । कारणव-
तः कार्यत्वनियमादिति भावः । अनेन सूत्रे नेत्यध्याहार्यम् । तथा च
वाचः 'तत्पूर्वकत्वात्' प्रकृतमनःकारणत्वोक्तेर्नानुत्पत्तिरिति सूत्रार्थ
उक्तो भवति । यद्यपि 'तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ' इति

६४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
‘ तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ’ ( ऐ.आ. ३-
१-१०.) इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
( ३ ) वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।
उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन ॥
भाष्योदाहृतैतरेयश्रुतेः तद्भाष्ये मनोवाङ्नामकतदन्तर्गतरूपयोर्विष्णु-
नामगतपूर्वोत्तरवर्णदेवतात्परत्वमुक्तमिति नास्याः प्रकृतोपयोगिता ।
तथाऽपि ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति प्रतिज्ञावाक्योपपादके ‘मन
सा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ ( ऐ.आ.३-१-१.) इति वा
क्ये भाष्यस्थेनेतिशब्देन गृहीते वाक्शब्दस्य साधारणतापरिहाराय टी
काकृतोदाहृते वाक्ये स्थितयोः पूर्वोत्तरशब्दयोः कार्यकारणपरत्वात्प्र
कृतोपयोगितोपपत्तिः । यद्वा—भगवद्रूपाधिष्ठानयोरपि मनोवागिन्द्रि
ययोः इह वाच्यत्वात्तद्विवक्षया कार्यकारणभाव इहोक्त इति प्रकृतस
ङ्गतिः । अत एव टीकायां अत्र पूर्वोत्तरशब्दावित्युक्तम् । उपपादकवा
क्ये वा प्रतिज्ञावाक्ये वेति तदर्थः । अस्मिन्नधिकरण इत्यप्यर्थः ॥
( ३ ) वागिन्द्रियस्योत्पत्त्यङ्गीकारे ‘न ह्येषोत्पद्यते’ ( पौष्यायण. )
इति श्रुतिविरोधः, ‘ अस्यां हि ’ ( पौष्यायण. ) इत्युक्तयुक्तिविरोधश्चे
त्यत आह—वागिन्द्रियस्येति ॥ यतो नित्यश्रुतिसन्निधियोग्यता
( नित्यं श्रुत्युच्चारणहेतुता योग्यत्वम् ) वागिन्द्रियस्य नित्यत्वं नित्यत्वा
नादित्वोक्तेरुपचरितत्वे बीजमस्ति, अतो वागिन्द्रियस्य नित्यत्ववचनं
प्रवृत्तम्, न तु मुख्यनित्यत्वं तदर्थः । तथा च श्रुतेरुपचरितार्थत्वान्न त
द्विरोध इति भावः । ननु कादाचित्कं श्रुतिसन्निधानं कथं सार्वकालिक
कनित्यत्वोक्तेरुपचारबीजं भवतीत्यतो योग्यतेत्युक्तम् । तथा च श्रुति
सन्निधेः कादाचित्कत्वेनोपचारबीजत्वानुपपत्तावपि तद्योग्यत्वस्य
सार्वकालिकत्वाद्युक्तमुपचारबीजत्वम् । अत एव श्रुत्याश्रयत्वमपि
न नित्यदा, किन्तु तद्योग्यतैव । अतो न नित्याश्रयत्वमात्रेणाश्रयनित्य
त्वाक्षेपः, अनित्यस्यापि तत्सम्भवात्, अपि तु नित्यदा नित्याश्रयत्वं,
तच्च वाचि नास्त्येवेति न तेन नित्यत्वाक्षेपो युक्तः । अत एव नोपच
यवैयर्थ्यम् । उपचयदशायामेव श्रुत्याश्रयत्वात् श्रुत्युच्चारणसमर्थत्वा
दन्यदा सामर्थ्याभावादिति भावः । अनेन नित्यं श्रुत्युच्चारणसामर्थ्य
स्योपपत्तिरुक्ता भवति । कुत एवं कल्प्यते ? स्वरूपनित्यत्वमेव किं