पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ३. सू - ६. ] दीपिकासहितम्. ४०९
ब्रा. ६-१-३.) इत्यादिवचनात् युक्तिविरुद्धो वेद इति।
( २ ) अतोऽब्रवीत्—
सू— ॐ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ॐ ॥ ६ ॥
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते ।
चास्ति । तथा च 'मृदब्रवीत्' इत्यादिर्वेदस्तदेकदेशोऽप्रमाणं, कु
तः ? ' मृदब्रवीत् ' ' इत्यादि वचनात् ' इत्यादिरूपेण मृदादेर्वचनादि
कर्तृत्वाभिधायकत्वात् । वेदस्य मृदादिकर्तृकवचनादिकर्तृताभिधाय
कत्वं कुत इत्यतोऽप्युक्तं—मृदित्यादि । वचनादित्यनन्तरं मृदादीनां
वचनादिकर्तृत्वाऽवगमादिति शेषः। मृदादेर्वचनदर्शनाभिधायकत्वेऽपि
कुतो वेदस्याप्रामाण्यमित्यत उक्तं —युक्तिविरुद्ध इति । तथा च यतो
'मृदब्रवीत्' इत्यादिवेदो 'युक्तिविरुद्धो' मृन्न वक्ति जडत्वादित्याद्य
नुमानविरुद्धमृदादिवक्तृत्वाभिधायकः अतः । युक्तिविरुद्धार्थस्य
चासत्त्वनियमात् असदर्थाभिधायकत्वस्यैव अप्रामाण्यादिति भा
वः । ननु वेदैकदेशस्याप्रामाण्येऽपि 'यतो वा ' इत्यादेस्तत्कुत इत्य
तोऽप्युक्तम्—वेद इति । यतो मृदब्रवीदित्यादिवेदोऽप्रमाणमतस्तदन्य
वेदोऽपि तथा । तथा च सर्वो वेदोऽप्रामाण्यं प्राप्नोति, तत्सामान्यादि
ति न्यायात् । तथा च न तेन विष्णोः जगत्कर्तृता सिद्ध्यतीति योज
ना । अत्र श्रुतौ मृदादिशब्दैः सर्गाद्यकालीनपृथिव्यादिकमुच्यते । त
स्य च वचनाद्यभावो नास्मदादिप्रत्यक्षसिद्ध इति प्रत्यक्षविरुद्ध इत्य
नुक्त्वा युक्तिविरुद्ध इत्युक्तम् । अनेन पादसङ्गतिरपि प्रदर्शिता भव
ति । 'राज्ञा' सोमेन लतारूपेण सहौषधयः संवादं कुर्वन्ति । हे ग्रा
वाणः 'वो' युष्मान् सविता देवो धर्मेण प्रसुवत्विति श्रुत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अब्रवीत् सूत्र
कृदिति शेषः । मृदिति । मृदादेरभिमानिनी धरादिरूपा देवता 'तत्र'
'मृदब्रवीत्' इत्यादिश्रुतौ मृदादिशब्दैः 'व्यपदिश्यते' मुख्यवृत्त्या प्र
तिपाद्यते इत्यर्थः। एवशब्देन जडव्यावर्तकेन योग्यतयाऽभिमानिपदेना
न्वितः सौत्रस्तुशब्दोऽवधारणमुखेन विशेषार्थतया व्याख्यातः । जडा
पेक्षया चेतने मृदादिशब्दो मुख्य इति विशेषार्थो वा तुशब्दः ।
देवतेत्येकवचनेन अभिमानिनो व्यपदेशोऽभिमानिव्यपदेश इत्येकवच
नान्तो विग्रहः सूचितः । अस्य मूलं तु ' दृश्यते च ' इत्युत्तरसूत्रम् ।
एकवचनं च समुदायाभिप्रायम् । अत एव तासामित्यादिवचनम् ।
५२
४१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
( ३ ) तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र ।
अतस्तासां सर्वमुक्तं युज्यते ॥ ६ ॥
( ४ ) सू—ॐ ॥ दृश्यते च ॥ ॐ ॥ ७ ॥
तासां सामर्थ्यं महद्भिः ।
व्यपदिश्यत इत्यनन्तरं यत इति शेषः, अस्यात इति वक्ष्यमाणेना
न्वयः ॥
( ३ ) ननु तथाऽपि नाभिमानिदेवता नाम सन्ति, तासामदेहत्वे
वचनकर्तृत्वायोगात् । सदेहत्वेऽभिमन्यमानव्यापित्वे च दर्शनप्रस
ङ्गात् । अभिमन्यमानैकदेशवृत्तित्वे चाभिमानिरहितप्रदेशवदन्यदेश
स्यापि विनैव ता अवस्थानापपत्तेर्वैयर्थ्यापातादिति युक्तिविरुद्धत्वादि
त्याशङ्क्य तदुत्तरत्वेन विशेषेत्यादिसूत्रखण्डं व्याचष्टे—तासामिति ॥
देवतेत्येकवचनान्ते प्रकृतेऽपि ‘दृश्यन्ते मुनिभिः’ इति स्मृतौ बहुव
चनप्रयोगात्तासामित्युक्तम् । आद्यश्चशब्दस्तुशब्दार्थो यत इत्यर्थे च।
द्वितीयो विग्रहसमुच्चये, नासत्त्वमिति साध्यसमुच्चये च । तथा च य
तः ‘तासां’ देवतानां ‘सर्वत्र’ स्वस्वाभिमन्यमाने ‘अनुगतिः’ व्याप्ति
र्विग्रहश्चास्ति । अतः नोक्तयुक्तिविरोधेनासत्त्वं वाच्यम् । न चोपल
म्भप्रसङ्गः । यतस्तासां ‘इतरेभ्यः’ चेतनेभ्यो ‘विशिष्टं सामर्थ्यं’ अ
दर्शनानुकूलोऽन्तर्धानशक्तिविशेषोऽत इति योजना । विशिष्टमित्यनेन
विशिष्यते अतिशीयतेऽनेनेति व्युत्पत्तिमाश्रित्य विशेषपदार्थ उक्तो
भवति । सामर्थ्यमिति सूत्रे शेषोक्तिः । सन्तु देवताः, प्रकृते किमा
यातमित्यत ‘अभिमानिव्यपदेशः’ इत्यनेनोक्तहेतोर्योग्यसाध्यमध्याहृ
त्य दर्शयति—अत इति । यतोऽत्र श्रुतौ मृदादिशब्दैस्तदभिमानिदेव
ता व्यपदिश्यन्ते, अतस्तासां चेतनत्वेन श्रुतावुक्तं ‘सर्वं’ वचनकर्तृ
त्वादिकं युज्यतेऽतो न युक्तिविरुद्धो वेदोऽतो नाप्रमाणमतस्तत्रोक्तं ज
गत्कर्तृत्वं विष्णौ युक्तमेवेति योजना ॥
( ४ ) नन्वप्रामाणिकदेवतातत्सामर्थ्यकल्पनापेक्षया वेदाप्रामाण्य
कल्पनमेव वरं लाघवात् । न च ‘मृदब्रवीत्’ इत्यादिवेदेन तत्सिद्धि
रस्तत्प्रामाण्ये विवादादित्याशङ्कां परिहरत्सूत्रं पठित्वा तच्छेषं पूरय
ति—दृश्यते चेति ॥ ‘तासां’ पृथिव्याद्यभिमानिदेवतानाम् । अत्रापि
बहुवचनं स्मृत्यनुसारेणेति ध्येयम् । ‘सामर्थ्यं’ शक्तिः । सामर्थ्यमि
त्यनेन विशेष इति प्रथमान्तपदस्य बुद्ध्या विविक्तस्येहानुवृत्तिस्सूचि
[ अधि - ३. सू - ७. ] दीपिकासहितम्. ४११
( ५) भविष्यत्पुराणे च—
पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः ।
अचिन्त्याश्शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।
ता । महद्भिरिति सूत्रे शेषोक्तिः । यद्वा—सामर्थ्यमित्यनन्तरं अन्वितः
सौत्रश्चशब्दो न केवलं देवतातत्सामर्थ्यसमुच्चयार्थः, किन्तु त्वर्थस्सन्
महद्भिरित्यर्थद्योतकश्च । यथोक्तं पूर्वाधिकरणटीकायां तुशब्दः कर्तृ
विशेषद्योतक इति । महद्भिरित्यनन्तरं यत इति शेषः । अस्यातो ना
भिमानिदेवतानां तत्सामर्थ्यस्य चाप्रामाणिकत्वमित्यध्याहृतसाध्ये
नान्त्रयः ॥
( ५ ) ननु महद्भिः दृश्यमानत्वादिति हेतुरसिद्धः । परबुद्धेरप्रत्य
क्षत्वादित्यतश्चशब्दसूचितं वाक्यं पठति—भविष्यदिति ॥ न केवलं
महद्भिर्दृश्यते, किन्तु पुराणेऽप्युक्तमिति समुच्चये वा, न केवलं देवता
तच्छक्तयोः प्रत्यक्षसिद्धत्वं सूत्रकृदुक्तमेव, किन्तु पुराणेऽप्युक्तमिति
समुच्चये वा, चशब्दः । अतो न हेत्वसिद्धिरिति भावः । पुराण इत्य
नन्तरं उक्तमिति शेषः । किमुक्तमित्यतः तद्वाक्यं पठति—पृथिवीति ।
आदिपदेन अबादिग्रहणम् । 'प्रथितौजसः ' प्रसिद्धसामर्थ्याः । न के
वलं प्रथितौजसः, किन्तु तासां शक्तयोऽचिन्त्याश्च । अचिन्त्याः शक्त
यश्च । न केवलमेतावत्, किन्तु 'सर्वगताः ' स्वांशैर्यावदभिमन्यमान
व्यापिन्यश्चेत्येकस्य चशब्दस्यार्थः । न केवलं ताः देवताः दृश्यन्ते,
किन्तु तासामचिन्त्याः शक्तयश्च मुनिभिर्दृश्यन्त इत्यन्यचशब्दस्या
र्थः । यद्वा—एकेनैव प्रथमान्ततच्छब्देन देवतातच्छक्तयोः परामर्श
सम्भवादन्यः प्रथमान्ततच्छब्दो देवतामात्रपरामर्शकः, तत्प्रयोजनं तु
देवतामात्रे सर्वगतत्वविधानम् । एवमेकेनैव अनेकविशेषणसमुच्चयस
म्भवात् अन्यश्चशब्दो न विशेषणसमुच्चयार्थः, किन्तु तुशब्दार्थो वि
शेषद्योतकः । तासां शक्तयोऽचिन्त्या इत्यनेन देवतानामचिन्त्यशक्ति
त्वमुक्तं, तत्कथमित्यत आह—वासुदेवेति । वासुदेव एव एको मुख्यः
संश्रयोऽस्माकं शरणमिति ज्ञानं येषां ते तथोक्ताः । अनेनोत्तमाधिका
रित्वोक्त्या परमात्मप्रसादादेव तेषाममुख्यमचिन्त्यशक्तित्वमित्युक्तं
भवति । इति भविष्यत्पुराणे इत्यन्वयः । अथवा—विग्रहवतीनां सर्वगता
नां तासां दर्शनप्रसङ्ग इत्युक्ते प्रष्टव्यं, किमज्ञानां दृश्येरन् महतां वा ।
आद्यस्योत्तरं विशेषपदं सूत्रे, तासां विशिष्टं सामर्थ्यमिति भाष्यं च
An exact, line-by-line transcription of the provided image into Devanagari text:
४१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः ॥ इति ॥७॥
—-::-*—
४. अधिकरणम् ॥
( १ ) 'असदेवेदमग्र आसीत्' ( छा. ६-२-१. ) 'असतः
सदजायत' ( ऋ. १०-७२-३. ) इत्यादिनाऽसतः का
तद्व्याख्यानरूपम् । द्वितीयस्याभ्युपगमेनोत्तरमुक्तम्-दृश्यन्ते चेति ।
अस्मिन् पक्षे न केवलमभिमानिदेवता अन्तर्धानशक्त्याख्यविशेषसाम-
र्थ्येनाज्ञैः न दृश्यते, किन्तु महद्भिर्योगिभिः दृश्यते चेति दर्शनादर्शनस-
मुच्चये पूर्ववद्देवतान्तःसामर्थ्यसमुच्चये वा चशब्दः । यद्वा—वस्त्वन्तर-
मधिष्ठाय तासां वचनादिकं कथमिति चोद्यस्योत्तरं—तासां चेतरे-
भ्यो विशिष्टं सामर्थ्यमिति । परिच्छिन्नानामभिमानिनीनां कथमनेकाभि-
मन्यमानाधिष्ठातृत्वमपीत्यस्योत्तरं—अनुगतिरिति । चोऽप्यर्थः । यो-
गिभिरप्यनुपलभ्यमानत्वान्नास्त्यभिमानिदेवतेति शङ्कानिरासाय—दृ-
श्यते च इति सूत्रम् । अत्र पक्षे चोऽवधारणे । योगिभिरभिमानिदेवता
दृश्यते एवेति । तथा च नानुपलब्धिबाधोऽभिमानिदेवताया इति भा-
वः । अस्मिन् पक्षे विशेषाऽनुगतिभ्यां दृश्यते चेत्युक्तहेतूनां नाकांक्षाक्र-
मेण तत्तदवतारिकागतयोग्यसाध्येनान्वयः, अपि तु यथाश्रुतक्रमेणा-
न्वयः इत्ययं पक्षो विशिष्ट इति ध्येयम् ॥ ३ ॥
इति अभिमान्यधिकरणम् ॥
—————
४. अधिकरणम् ॥
( १ ) अत्र ब्रह्मणो जगत्कर्तृत्वे श्रुत्युपसर्जनप्राग्भावकर्तृकत्वसाधक
युक्तिविरोधो निरस्यते। तत्र असदिति चेदित्यनेन सूचितं पूर्वपक्षं दर्श-
यति-असदेवेति ॥ 'असदेवेदमग्र आसीत्' इति छन्दोगवाक्यम् । 'दे-
वानां पूर्वेऽयुगे असतः सदजायत' इति ऋग्वेदवाक्यम् । 'इत्यादिना'
वाक्येन । आदिशब्देन 'असद्वा इदमग्र आसीत्' ( तै.उ.२-७-१. ) इति
तैत्तिरीयादिवाक्यं गृह्यते । विरोध इति । अत्र वेदस्येति विपरिणामे-
नानुवर्तते । तथा च 'यतो वा' इत्यादिवेदस्य 'असदेव' इत्यादिना
विरोधः । कुतः ? 'इत्यादिना' वाक्येन 'असतः' विश्वप्राग्भावस्य
'कारणत्वोक्तेः' विश्वकर्तृत्वोक्तेः वेदेन च विष्णुकर्तृत्वोक्तेरिति यो-
जना । यद्वा—तत्त्वप्रदीपोक्तरीत्याऽनुवृत्तिं विनैव सत इति पदच्छेदे
[ अधि - ४. - सू - ८. ] दीपिकासहितम्. ४१३
रणत्वोक्तेर्विरोध इति ।
( २ ) अतो वक्ति—
सू— ॐ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॐ ॥ ८ ॥
न 'सतो' ब्रह्मणः कारणत्वोक्तेः 'यतो वा' इत्यादिश्रुतेः 'असद्वा'
इत्यादिना विरोध इति योजना । अथ वा—तत्त्वप्रदीपरीत्या 'असदे
व' इत्यनेन असतः कारणत्वोक्तेरादिशब्दगृहीतेन 'यतो वा' इत्या
दिना सतः कारणत्वोक्तेः परस्परविरोध इत्यन्वयः । न च अनेन श्रु
तिविगानेन सन्देह एव भवति, नान्यतरपक्षावधारणमिति वाच्यम् ।
पूर्वपक्षीयश्रुतेः प्रागुत्पत्तेर्विनाशादूर्ध्वं चासदात्मकत्वात्कार्यस्य त
त्कारणमपि प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्यादियुक्तियुक्त
त्वेन प्रबलत्वात्तया सैद्धान्तिकश्रुतेर्बाधोपपत्तेः । तथा चायं विरोधश
ब्दो युक्तिविरोधस्याप्युपलक्षको बाधार्थश्च द्रष्टव्यः । विरोध इत्यन
न्तरं यत इति शेषः । अस्यातो न वेदो विष्णुजगतकर्तृत्वे प्रमाणं, अ
तः प्रमाणाभावान्न तद्युक्तमित्युपस्कृतवाक्येनान्वयः । अनेन—सूत्रे अ
सदित्युक्तिर्न केवलं प्रागभावरूपधर्म्युपस्थापिका, किन्तु श्रुतिप्रतीक
ग्रहणरूपाऽपि । जगत्कर्त्रीति शेषः । तथा च 'असत्' विश्वप्रागभाव ए
व जगत्कर्तृ, न ब्रह्म । कुतः ? 'असत्' इति श्रुतेरिति सूत्रखण्डार्थ उ
क्तो भवति । सिद्धान्तरीत्या श्रुत्यर्थस्तु—'इदमग्रे' अस्याग्रे जगत्सृ
ष्टेः पूर्वे प्रलये न विद्यते सदुत्तमं यस्मात्तत् 'असत्' सर्वोत्तमं ब्रह्मै
वासीत् तत्तस्मात्सन्नामको मुख्यवायुः 'अजायत' अभूत् । 'पूर्वे
युगे' आदिसृष्टिकाले 'असतो' ब्रह्मणो देवानां प्रथमः सन्नामको वा
युरजायतेति । तैत्तिरीयभाष्ये तु—असन्नामा नारायणो मूलरूपी आ
सीत् । तस्मात्सन्नामा वासुदेवः प्रादुरभूदित्यर्थ उक्तः । प्रमेयदीपे तु
'असतः' इति श्रुतेरनेकार्थत्वादित्यादिनाऽसच्छब्दः प्रकृतिपरतया
व्याख्यातः । पूर्वपक्षी तु शतुः छान्दसं भावसाधनत्वमाश्रित्य असद्
भाव इति व्युत्पत्त्या वा असदसत्त्वमिति भावप्रधानत्वेन वाऽसच्छ
ब्दो विश्वप्रागभावपरः, सच्छब्दस्तु भावकार्यवाचीति मन्यते ॥
(२) सिद्धान्तयत्सूत्रमवतार्य आक्षेपांशस्य पूर्वमेव विवृतत्वात्
परिहारांशं व्याचष्टे—अत इति ॥ प्रतिषेधेति । अभावरूपधर्मद्वारम
न्तरेण धर्मिस्वरूपेणैव प्रतिषेधबुद्धिविषयत्वादित्यर्थः । घटप्रागभावा
दिवदिति दृष्टान्तवाक्यस्याप्युपलक्षकमेतत् । भावेषु कुलालादिषु अ
४१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् ।
( ३ ) असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र नि-
षिध्यते ।
न्योन्याभावरूपधर्मस्वरूपेण प्रतिषेधरूपत्वमस्तीति व्यभिचारवारणा-
य मात्रपदं सूत्रे भाष्ये च । अभावधर्मात्मतामन्तरेण स्वरूपत एवे-
ति तदर्थः । अभावस्याप्यभिधेयत्वादिधर्मात्मनाऽप्रतिषेधरूपत्वाद्
सिद्धिपरिहाराय—स्वरूपत एवेति । प्राधान्येनेत्यर्थः । तथा च ध-
र्मिधर्मभेदपक्षे सर्वस्य वस्तुनो धर्मधर्मिरूपेण द्विरूपत्वेऽपि धर्माद्ध-
र्मी प्रधान इति तेनाकारेण निषेधरूपत्वस्य विवक्षितत्वान्नोक्तदोष इ-
ति भावः । सूत्रे हेत्वंशस्य स्पष्टत्वात्तदन्यत्र व्याकृतत्वाच्च तद्व्याख्या
मकृत्वा नेति साध्यान्वयाय तदनुकृत्य प्रतिषेध्यप्रदर्शनेन साध्यांशं
व्याचष्टे—प्रतिषेधमात्रत्वादिति । 'असतः' अभावस्य 'कारणत्वं'
जगत्कर्तृत्वं न युक्तमित्यर्थः ॥
( ३ ) नन्वत्राधिकरणेऽसतो जगत्कारणत्वं वदतां शून्यवादिनां
समयो निराक्रियते, न तु श्रुतिप्राप्ताभावकर्तृत्वम्, अतः 'एतेन सर्वे'
इत्यत्रासदादिशब्दानां ब्रह्मपरत्वस्योक्तत्वेन अत्र श्रुत्याऽसतः प्राप्त्य-
भावादपव्याख्यानमेतदित्यत आह—असत इति । आदिशब्देन प्रलय-
स्थितत्वमनःपूर्वकत्वादेर्ग्रहणम् । कारणत्वादेरुक्तिः कारणत्वाद्युक्तिस्त-
या विरुद्धमिति विग्रहः । तथा च विष्णुकर्तृत्वपरं 'यतो वा' इत्यादि-
द्वाक्यं 'असतो' विश्वप्रागभावस्य या कारणत्वाद्युक्तिः 'असदेवे'
त्यादिरूपा, तद्विरुद्धमित्येवं श्रुतिप्राप्तं 'एतत्' असन्मतं 'अत्र' ए-
तस्मिनधिकरणे 'निषिध्यते' निराक्रियते इत्यर्थः । तत्त्वप्रदीपे तु अ-
सतः कारणत्वाद्युक्तिरूपाद्धेतोर्विरुद्धं 'असदेवेदम' इत्यादिवाक्यमुक्त-
समन्वयविरुद्धमप्रामाण्यमेतीत्येतदत्र निषिध्यते । अथ वा—क्वचिद-
सतः कारणत्वोक्तेरादिशब्दगृहीतायाः क्वचित्सतः कारणत्वोक्तेश्च
परस्परविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते । अथ वा—वस्तुत्वादि-
युक्त्या च असतः कारणत्वावगमाद्युक्तिविरुद्धं ब्रह्मकारणतावाक्य-
मित्येतदत्र निषिध्यते, न शून्यसमय इति 'असतः कारणत्वात्' इति
वाक्यं बहुधा व्याख्यातम् । अत्राद्यपक्षेऽसतः कारणत्वाद्युक्तेः हेतोर्वि-
रुद्धमिति पञ्चमीगर्भो विग्रहः । द्वितीयेऽप्ययमेव विग्रहः, आदिशब्दा-
र्थो भिन्नः । तृतीये कारणत्वादिति भिन्नं पञ्चम्यन्तं पदमिति विवेको
[ अधि - ४. सू - ८. ] दीपिकासहितम्. ४१५
( ४ ) सर्वशब्दानां ब्रह्मणि समन्वयेऽपि 'तदधीनत्वादर्थवत्'
इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गीकाराद्
असतः प्राप्तिः । तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्य-
ते । समयस्योपरि निषेधात् ।
( ५ ) अर्थाच्छुतिविरोधो निराक्रियते ॥ ८ ॥
द्रष्टव्यः ॥
( ४ ) ननूक्तं श्रुत्यादिना नासतः प्राप्तिरिति तत्राह—सर्वशब्दाना-
मिति ॥ आदिशब्देन 'तथा ह्यधीयते' इत्यादिकं गृह्यते । अपिः शङ्का-
द्योतकः । न केवलं ब्रह्मण इति समुच्चये द्वितीयः । तथा च सर्वेषां श-
ब्दानां ब्रह्मणि 'समन्वये' परममुख्यत्वे 'एतेन' इत्यादिनोक्तेऽपि 'त-
दधीनत्वादर्थवत्' इत्यादिना सूत्रकृता 'अन्यस्य' असदादेरपि 'अ-
मुख्यत्व
४१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
( ६ ) सू— ॐ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ॐ ॥ ९ ॥
असत उत्पत्तौ प्रलये सर्वासत्त्वमेव स्यात् ॥ ९ ॥
लत इत्यर्थः । अत्रापिशब्दस्यादावेवान्वयः । तथा च पूर्वपक्षिणां नि-
र्मूलयुक्तेरसाधकत्वेन युक्तिप्राबल्याय श्रुत्युपन्यासात्तदनुसारेण मुख्य-
तः श्रुतिविरोधपरिहारेऽपि फलतः प्राधान्येन युक्तिविरोधस्यैव परिहा-
रात्स्वातन्त्र्येण युक्तिविरोधमात्रपरिहारात्मकेऽस्मिन् पादे उभयवि-
धपरिहारो नासङ्गत इति भावः ॥
( ६ ) यदुक्तं प्रतिषेधमात्रत्वादिति युक्तिविरोधान्नासतः कारण-
त्वमिति, न तद्युक्तम् । युक्तिविरुद्धस्यापि श्रुतिबलात्कस्य चिदभाव-
स्य कर्तृत्वाभ्युपगमे बाधकाभावात् । न चैवं घटप्रागभावादीनामपि क-
र्तृत्वप्रसङ्ग इति वाच्यम् । भावेषु कस्य चित्कर्तृत्वं कस्य चिदकर्तृ-
त्वमिति वैलक्षण्यवदभावेष्वपि घटप्रागभावादेरकर्तृत्वं विश्वप्रागभाव-
स्य च 'असदेव' इत्यादिश्रुतिबलात्कर्तृत्वमिति वैलक्षण्योपपत्तेरित्या-
शङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अपीताविति ॥ सूत्रेऽनिष्टप्रस-
ङ्गोक्त्या लब्धमापादकं दर्शयति—असत इति । पञ्चमीयं, विश्वप्राग-
भावात्सर्वकार्योत्पत्तौ अभ्युपेतायामित्यर्थः । प्रलये भावमात्रस्य अस-
त्त्वे कालोऽपि न स्यादिति प्रसङ्गसूचनायापीतावित्युक्तम् । तस्यार्थमा-
ह—प्रलय इति । यद्यपि 'अप्ययोऽयं समुद्दिष्टस्तदन्येषामदर्शनम्' इ-
ति वचनान्न प्रलयोऽपीतिशब्दार्थः । तथाऽपि तस्य पर्यवसितार्थोक्ति-
रियमित्यदोषः । तद्वदित्यत्र तच्छब्दः प्रकृतासत्परोऽवधारणमात्रशब्द-
शिरस्कश्च । वदिति मतुप्प्रत्ययः, न तु पररीत्या वतिः । तद्वदिति च
भावप्रधानमित्यभिप्रेत्य तद्वत्प्रसङ्गादित्यस्य तात्पर्यार्थमाह—सर्वेति ।
न तु कस्य चिदसत्त्वमित्येवशब्दार्थः । तथा च प्रलये सर्वस्य भावमात्र-
स्यासत्त्वे असन्मात्रावशेषः स्यात्, कार्यनाशे कारणमात्रावशेषनिय-
मादिति भावः । यद्वा—तद्वदिति वतिरेव । तथा च कार्यवत्सर्वस्या-
पि भावस्यासत्त्वं स्यादित्यर्थः । तत्राद्यः टीकारीत्या, द्वितीयोऽर्थः त-
त्त्वप्रदीपरीत्या उक्त इति ज्ञातव्यम् । स्यादित्यनन्तरं यत इति शेषः ।
अस्यातः 'असमञ्जसं' अयुक्तमसन्मतमिति साध्यभागेनान्वयः । स्प-
ष्टत्वादस्यार्थो नोक्तः । अनेन—असत: सकाशाज्जगदुत्पत्तावभ्युपेता-
यां 'अपीतौ' प्रलये 'तद्वत्प्रसङ्गात्' असन्मात्रवत्त्वप्रसङ्गात्तन्मात्राव-
शेषप्रसङ्गात् 'असमञ्जसं' अयुक्तमसत्कर्तृत्वमतमिति सूत्रार्थ उक्तो
[ अधि - ४. सू - १-१०. ] दीपिकासहितम्. ४१७
( ७ ) सू—ॐ ॥ न तु दृष्टान्तभावात् ॥ ॐ ॥ १० ॥
प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते । स
त उत्पत्तिः सशेषविनाशश्च हि लोके दृष्टः ॥ १० ॥
( ८ ) सू—ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ॥ ११ ॥
भवति ॥
( ७ ) नन्वस्माभिरपि प्रलयेऽसन्मात्रावशेषस्याभिलषितत्वान्नानि
ष्टापादनमेतदित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—न त्विति ॥
प्रलय इत्यनेन पूर्वसूत्रादनुवृत्तस्यापीतादित्यस्य सर्वासत्त्वमित्यनेन त
त एवानुवृत्तस्य तद्वत्त्वमित्यस्य भाव एव, न त्वभाव इति । अनेन तु
शब्दस्यार्थ उक्तो भवति । दृष्टान्तसत्त्वं कुत्रेत्याकांक्षायां तद्योग्यविष
यं दर्शयति—भाव इति । पदार्थसत्त्वे इत्यर्थः । तथा च प्रलये भावे
पदार्थस
४१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
दृष्टान्ताभावादेव ॥ ११ ॥
( ९ ) सू—ॐ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदे-
वमप्यनिर्मोक्षप्रसङ्गः ॥ ॐ ॥ १२ ॥
एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावात् उक्ता-
दन्यथाऽप्यनुमेयमिति चेत्—
( १० ) न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथानुमेयत्वा
दित्यत आह—दृष्टान्तेति । दृष्टं प्रत्यक्षं अन्तो निर्णयस्तज्जनक आगम-
स्तयोरभावादित्यर्थः । अनेन सूत्रे दोषपदमनेकार्थं प्रत्यक्षागमयोरभा-
वमनुमानस्य दुष्टत्वं तत्प्रयोजकं दृष्टान्ताभावं च वक्तीति सूचितम् ।
एवशब्देन न दुष्टत्वनिमित्तान्तरं वक्तव्यमिति सूचयति । तथा च प्र-
लये सर्वासत्त्वपक्षस्याप्रामाणिकत्वात्तदभ्युपगमोऽनिष्ट इति भावः। य-
द्यपि टीकारीत्या न केवलं भावे दृष्टान्तभावात, किन्तु स्वपक्षे प्रलये
सर्वाभावपक्षे दृष्टान्ताभावात्प्रमाणसामान्याभावादिति समुच्चयार्थत-
या सौत्रश्चशब्दो भाति । तथाऽपि भाष्येऽर्थान्तरं चोक्तमिति न वि-
रोधः ॥
( ९ ) तर्केण सदसतोः कारणत्वसाधनबाधने आक्षिप्य समादध-
त्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे—तर्केति ॥ एवशब्दोऽनेवंभाव-
व्यावर्तकः । अन्यथा वैपरीत्येनापीत्यनेनावृत्तोपि भिन्नक्रमः समुच्च-
यार्थ इत्युक्तं भवति ॥ अनुमेयमित्यनन्तरं यत इति शेषः । तथा च
‘ तर्कः ’ प्रत्यनुमानं ‘ एतावानेव ’ एतादृशस्थापनानुमानं प्रति विरो-
धितया वर्तते, नैतादृशं प्रतीत्येवंभावोपेत एवेत्यत्र ‘ प्रतिष्ठापकप्रमा-
णाभावात् ’ नियामकप्रमाणाभावात् सर्वानुमानेष्वप्युक्तादन्यथाऽप्य-
नुमेयमनुमातुं शक्यं यतोऽतः तर्कः सूत्रद्वयोक्तं स्थापनानुमानमपि
‘ अन्यथा ’ अप्रमाणम् । कुतः ? यतोऽत्रापि ‘ न तु दृष्टान्तभावात् ’
स्वपक्षदोषाच्च, इत्युक्तात्सत्कारणत्वासत्कारणत्वाभावादन्यथाऽभाव-
कारणत्वभावाकारणत्वरूपमप्यनुमेयमत इति योजना ॥
( १० ) नञध्याहारेण परिहारांशं व्याचष्टे—नेति ॥ एवं सतीत्यने-
न एवमित्यस्य प्रमाणसिद्धेऽपीत्यनेन अपीत्यस्यार्थे उक्तो भवति । मो-
क्षपदं तत्त्वप्रदीपरीत्या प्रामाणिकमात्रोपलक्षकम् । यद्यपितथापीत्यर्थे
न केवलं अप्रामाणिक इति समुच्चये कैमुत्ये वाऽपिशब्दः । उक्तादित्य-
स्ति । अन्यथानुमेयत्वादित्यनेन अत्राप्येवमपीत्यनन्तरं यतश्शब्दशिर-
[ अधि - ४. सू - १२. ] दीपिकासहितम्. ४१९
दनिर्मोक्षप्रसङ्गः ।
(११) अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यं नातोऽ
न्यदुच्छङ्क्यम् ।
स्कमन्यथानुमेयमिति पदद्वयं च संयोज्यमिति सूचितम् । तथा च
प्रतितर्कपराहतत्वेन सर्वतर्कस्याप्यप्रमाणत्वात् न तेन साधनं बाधनं
वा युक्तमिति यत्पूर्वपक्षिणोक्तं, तन्न, कुतः ? एवं सत्यागमाप्रामाण्यवा-
दिनं प्रत्यवश्यमुपन्यसनीयेन अनुमानप्रमाणेन सत्त्वेन नित्यत्वेन च
सिद्धे 'मोक्षे' तद्विषये प्रामाणिकातीन्द्रियार्थमात्रेऽपि चार्वाकादिभि-
रास्तिकोक्तान्मोक्षास्तित्वनित्यत्वादिरूपार्थान् 'अन्यथानुमेयत्वात्'
अनुमातुं शक्यत्वात्, अतएव मोक्षाद्यलौकिकार्थविषयानुमानस्य अ-
न्यथाऽप्रमाणत्वेन अनुमेयत्वात् 'अनिर्मोक्षप्रसङ्गो' निरयमतिशयार्थो
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (line-by-line transcription) है:
४२० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
(१२) यावदेव प्रमाणेन सिद्धं तावदहापयन् ।
स्वीकुर्यान्नैव चान्यत्र शक्यं मानमृते क्वचित् ॥
इति वामने ॥ १२ ॥
(१३) सू-ॐ ॥ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॥ ॐ ॥ १३॥
च यः प्रमाणसाहाय्ययुक्तः प्रतितर्कः स एवाप्रामाणिकतर्क बाधते,
न त्वप्रामाणिकः प्रामाणिकम् । सत्कारणत्वासत्कारणत्वसाधकौ
कौ त्वप्रामाणिकौ । सत्कारणत्वमोक्षादिसाधकः प्रकृततर्कश्च प्रामा-
णिकः । अतो न ताभ्यां निषेद्धुं शक्यत इति भावः ॥
(१२) अत्रार्थेऽपिशब्दसूचितां स्मृतिं सम्मतित्वेनाह—यावदिति॥
अत्रापि यावत्तावच्छब्दौ यत्तदित्यर्थो । अतएव पूर्वं तथैवोक्तम् । व-
स्त्विति तर्केणेति च शेषः । चस्त्वर्थः । तथा च यत्प्रमाणेण सिद्धं व-
स्तु तद्देहाहापयन् तर्केण 'स्वीकुर्यात्' तर्केण साधयेत, न तु प्रामा-
णिकादन्यत्रान्यदप्रामाणिकम् । कुतः ? यतो 'मानं' अनुग्राह्यप्रमा-
णं 'ऋते' विना तर्केण तर्कमात्रेण 'क्वचित्' किञ्चिद्वस्तु साधयितुं
निषेद्धुं वा न शक्यमत इत्यर्थः । शङ्क्यमिति पाठे शङ्कार्हमपि नेत्य-
र्थः । इति वामने इत्यस्योक्तत्वात् 'यावत्' इत्यादिश्लोकं युक्तमित्युप-
स्कृतेनान्वयः ॥
(१३) ननु मास्त्वसच्छब्दिताभावतत्त्वं जगतः कारणं, तथाऽपि न
विष्णोर्जगत्कारणत्वं सम्भवति, विप्रतिपन्नं जगन्निष्कारणं, अचेतन-
कारणकं, जीवकारणं वा, कार्यत्वात्कूलपतनवत् दध्यादिवदिति
निष्कारणत्वादिसधकयुक्तिविरोधात् । न च निर्मूलयुक्तेरसाधकत्व-
मिति वाच्यम् । 'अकस्मात्' इत्यादिश्रुतिमूलत्वादित्याशङ्कां परिहर-
त्सूत्रमुपन्यस्य व्याचष्टे—एतेनेति । एतेनेति पदमनूद्य तेनातिदिष्टो
हेतुः विवृतो—दृष्टान्तभावेनाभावेन चेति । तत्रासत्कारणवादौ नि-
ष्कारणत्वादdist इति पदद्वयमादावुपस्कार्ये यथाक्रममस्यान्वयः । चः
समुच्चये । दृष्टान्तभावेनेत्यनेन तन्मूलकानुमानद्भावः, तदभावेनेत्यने-
न तन्निमित्तानुमानाभावश्चोक्तः । कूलपतनादीनामपि ईश्वरकारणक-
त्वेन निष्कारणत्वादि न सम्मतमिति न दृष्टान्तत्वमिति भावः । शि-
ष्टा इत्यस्य व्याख्यानमवशिष्टा इति । प्राङ्गिराकृतादवशिष्टास्तथा प्र-
तीता इत्यर्थः । इदं च प्राङ्गिरस्तासत्कर्तृत्वसिद्धान्तव्युदासायोक्तम् ।
[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२९
एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा
विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवक-
र्तृकत्वादयोऽपि ।
( १४ ) अकस्माद्धीदमाविरासीदकस्मात्तिष्ठत्यकस्माल्लयम
भ्युपैति ।
अपरिग्रहा इत्येतदनूद्य नञो विरुद्धार्थकत्वं परिग्रहशब्दस्याभिधानार्थ
त्वं परिगृह्यते इति परिग्रहः इति कर्मव्युत्पत्तिं चाश्रित्य व्याचष्टे-विरु-
द्धेति । वेदोक्तपक्षविरुद्धपक्षा इत्यर्थः । यद्वा-'वेदापरिगृहीताः' इति सु-
धोक्तेः पर्युदासार्थो नञ्, तस्य फलितार्थकथनं विरुद्धेति । इदं च विशे-
षणं ब्रह्मकर्तृत्वसिद्धान्तव्युदासायोक्तम् । अकर्तृकत्वमकारणकत्व-
म् । अतएव सुधायां 'अत्र कर्तृशब्दः कारणमात्रपरो द्रष्टव्यः' इत्युक्तम्।
अत्रापि टीकायां 'विप्रतिपन्नं निष्कारणम्' इत्युक्तम् । अन्यथा निष्कार-
णत्वपक्षानुवादत्वानुपपत्तेरिति द्रष्टव्यम् । अचेतनकर्तृकत्वमित्येतत् अ-
चेतनमात्रकारणकत्वमिति व्याख्येयम्, अन्यथा सिद्धान्ते प्रधानकार-
णकत्वस्य संमतत्वेन तन्निराकरणानुपपत्तेः । एवं जीवकर्तृत्वमित्येत-
दपि तन्मात्रपरतया व्याख्येयम् । आदिशब्देन तत्त्वप्रदीपरीत्या 'य-
तो वा' इत्यादिश्रुतिप्रापितं मायिब्रह्मकर्तृकत्वं गृह्यते । यद्वा-'का-
लस्वभावादिवादाः' इति सुधोक्तेः कालस्वभावकारणत्वादि गृह्यते ।
तस्यापि 'कालाद्भवन्ति भूतानि' इत्यादिभाष्यस्थद्वितीयादिशब्दगृ-
हीतश्रुतिप्रापितत्वात् । 'अवशिष्टा अपि आदयोऽपि' इत्यपेरुभयत्र सं-
योगः सूत्रे परेषामिव शिष्टापरिग्रहा इत्येकं पदमिति भ्रमं वारयितुम्।
अयं चापिः सर्वेऽप्यपरिग्रहा इत्यभिव्याप्त्यर्थकः । यद्वा-बहुकोशे-
षु समासपाठदर्शनादेकपद्यमेव । तथापि न परेषामिव तत्पुरुषः, कि-
न्तु कर्मधारयसमासः प्राबल्यादिति । समासस्य स्पष्टप्रतीत्यर्थः भि-
न्नक्रमेणापिशब्दसंयोगः । अस्मिन् पक्षे शिष्टाश्च तेऽपरिग्रहाश्चेति वि-
ग्रहः । अत्र बुद्ध्या विवेकेनाभिव्याप्त्यर्थकापेः सम्बन्धः आवृत्त्यभिप्रा-
येणापेः द्विः प्रयोगः । द्वितीयस्यापेः यद्यपि तथापीत्यर्थकस्य श्रुतिप्रा-
प्ता अपीत्यध्याहृतेनान्वयः ॥
( १४ ) श्रुतिप्राप्ता इत्युक्ते कास्ताश्श्रुतय इत्याकांक्षायां तत्र प्रथमं
निष्कारणत्वप्रापिकां श्रुतिमाह- अकस्मादिति ॥ 'इदं' जगत् 'अक-
स्मात्' अकारणकमेव 'आविरासीत्' उत्पन्नमभूत् अकस्मादेव स्थिति
४२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
( १५ ) प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति ।
प्रधाने लयमभ्येति न ह्यन्यत्कारणं मतम् ॥
( १६ ) जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः ।
जीवे तु लयमृच्छन्ति न जीवात्कारणं परम् ।
इत्यादिश्रुतिप्राप्ता निराकृताः ।
( १७ ) यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति
दृष्टान्तः ।
मद्भवति लयं च प्राप्नोतीत्यर्थः ॥
( १५ ) अचेतनकारणत्वे श्रुतिमाह-प्रधानेति ॥ 'इदं' जगत् 'प्र-
धानात्' अचेतनप्रकृतेरुत्पन्नम् प्रधानमधितिष्ठति, तत्र प्रधाने लयं च
प्राप्नोतीत्यर्थः। पुनः पुनः प्रधानशब्दप्रयोगस्तात्पर्यार्थः। एवं पूर्वोत्तरत्र
च द्रष्टव्यम् । ननु कार्यस्य कारण एव लयौचित्या प्रधानादन्यस्यैव
कारणत्वात्कथं जगतः प्रधाने लयः । न चोत्पत्त्यादिकर्तृत्वात्कारणत्व-
मिति वाच्यम् । उत्पत्त्यादिकर्तुरन्यस्यैव कारणत्वोपपत्तेरित्यत आ-
ह-न हीति । 'हि' यस्मात्प्रधानादन्यत्कारणं न प्रमाणप्रमितमेवं य-
स्मादुत्पत्त्यादिकर्तुरन्यत्कारणं न मतं, तस्मात्तस्यैवोत्पत्त्यादि कर्तृत्वा-
त्कारणत्वं लयाधिकरणत्वं च युक्तमित्यर्थः । प्रसिद्धयर्थे हिशब्दः ॥
( १६ ) जीवकारणत्वे श्रुतिमाह-जीवादिति ॥ 'भूतानि' पृथिव्याद्युप-
लक्षितकार्याणि भवन्ति जायन्ते 'अचञ्चलाः' अचञ्चलानि 'तिष्ठन्ति'
जीवेन धार्यन्ते इति यावत् । 'ऋच्छन्ति' प्राप्नुवन्ति । न जीवादित्येत-
त् पूर्ववदवतार्य व्याख्येयम् । 'परं' अन्यत् । अवधारणार्थस्य तुशब्द-
स्य न त्विति सम्बन्धः । नन्वत्रैव पादे निष्कारणत्वादिनिरासे समय-
पादे वक्ष्यमाणचार्वाकसाङ्ख्यपक्षनिषेधस्य पौनरुक्त्यं प्रसज्यत इत्यत
उक्तं—इत्यादिश्रुतिप्राप्ता इति । श्रुतिमुख्यार्थ परिज्ञानमूलक कार्यत्वा-
दियुक्ति प्रापिता इत्यर्थः । तथा च तत्र समयप्राप्तस्यैव निराकरणान्न
पौनरुक्त्यमिति भावः । न चैवमस्य तृतीयपादनिवेशापत्तिरिति शङ्का
तु 'अर्थायुक्तिविरोधो निराक्रियते' इत्युक्तरीत्या परिहरणीया । निरा-
कृता इत्यनेन व्याख्याता इत्यस्य प्रत्याख्याता इत्यर्थ इति सूचितम् ॥
( १७ ) नन्वस्तु सत्कारणत्वादौ घटादिदृष्टान्तभावः, निष्कारणत्वा-
दौ दृष्टान्ताभावश्च । तथाऽपि जीवकर्तृत्वपक्षनिरासाय कथमजीवक-
र्तृत्वे एतेनेत्यतिदिष्टो दृष्टान्तभावाख्यो हेतुस्सिद्धः, दृष्टान्तस्यादर्शना-
[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२३
( १८ ) श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता ।
( १९ ) यत्रान्यवाचकत्वेऽप्यविरोधस्तत्र अस्मद्दृष्ट्यैव मुख्यतया
त् । नापि जीवकर्तृत्वे दृष्टान्ताभावाख्यो हेतुस्सिद्धः, घटादीनां कुला-
लादिकर्तृत्वदर्शनेन तेषामेव तत्र दृष्टान्तत्वसम्भवादित्यत आह—
यथेति । कार्येषु साध्यमिति च शेषः । इतिशब्दो हेतौ । दृष्टान्त इत्यु-
पलक्षणं, तदभावश्चेत्यपि द्रष्टव्यम् । तथा च यथा दुःखादिषु कार्येषु
जीवस्य ‘अस्वातन्त्र्यं’ कर्तृत्वाभावः किं त्वीश्वरस्यैव एवं दुःखादि-
भ्य आन्तरेभ्योऽन्येषु घटादिबाह्यकार्येष्वप्यकर्तृत्वं जीवस्याकर्तृत्वं जी-
वस्य साध्यमनुमेयमिति हेतोरसिद्धिरतो जगतोऽजीवकर्तृकत्वे दुःखा-
दिरूपो दृष्टान्तः । एवं जीवकर्तृकत्वे दृष्टान्ताभाव
४२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
उच्यते। यत्र विरोधस्तत्र ब्रह्मैवोच्यते इति निय
मः ॥ १३ ॥
—::—
५. अधिकरणम् ॥
( १ ) सू—ॐ ॥ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ ॐ ॥१४॥
अ' ब्रह्मणोऽन्यत् 'अमुख्यतया' परममुख्यान्यमुख्यवृत्त्योच्यत इत्यर्थः।
न केवलं ब्रह्मैत्यपेरर्थः। यथाऽत्रैव 'प्रधानादिदमुत्पन्नम्' इत्यादौ सि
द्धान्ते ब्रह्मवाचकेनापि प्रधानशब्देनोपादानत्वेन प्रकृतिरुच्यते, यथा
'वायुर्भूतानामधिपतिः' ( ) इत्यादौ वायुः, 'वसन्ते व
सन्ते ज्योतिषा' ( ) इत्यादौ कालकर्मादि, 'सोरोदीत्'
(तै.सं-१-५-१०) इत्यादौ रुद्रादि। अत्र 'सः' रुद्रोऽरोदीदिति यत् त
देव रुद्रशब्दस्य प्रवृत्तिनिमित्तमित्यर्थाश्रयेण रुद्रमात्रस्य वाच्यत्वप्र
तीतावपि ण्यर्थाश्रयेणे ब्रह्मणोऽप्येतद्वाच्यत्वात् । 'ब्रह्मैव' विष्णुरेवे
त्येवकारोऽन्यव्यवच्छेदार्थः। यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-
१ - १०) 'विश्वस्मादिन्द्र उत्तरः' ( ) 'न किरिन्द्र त्व
दुत्तरः' (ऋ.४-३०-१.) 'निषुसीद गणपते' (ऋ.१०-११२-९.) इत्या
दौ। 'विश्वस्मात्' सर्वस्मात्। हे इन्द्र त्वदुत्तरः त्वत्तः परो 'न किः'
न कोपीति तत्त्वप्रदीपविश्वेश्वरतीर्थीयचन्द्रिकादिश्रुत्यर्थः। यद्यपि
'न किर्माकिस्मसीत्यादिप्रोक्ताधिक्य विवक्षया' इति ऋग्भाष्येऽभि
हितम् । तथापि व्याख्यानान्तरमेतत् । यथा अहंशब्दस्यानेकविधव्यु
त्पत्तिमाश्रित्य अनेकधा व्याख्यानमित्यविरोधः। निषुसीद, इत्येतद्व्या
ख्यास्यते। नियम इत्यनन्तरं 'अस्तियततः' इति शेषः। अस्यतां विरो
ध इति पूर्वेणान्वयः। तथा चात्रापि जगत्कारणतापरे 'असदेव' 'प्रधा
नादिदम्' 'जीवाद्भवन्ति भूतानि' ( ) इत्यादावन्यस्यापि
वाच्यत्वे बहुमानविरोधाद्विष्णुरेवोच्यते, न प्रागभावादिकमिति न वि
ष्णुजगत्कारणत्वश्रुतेस्तद्विरोध इति भावः ॥ ४ ॥
इति असदधिकरणम् ॥
—::—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुश्रुतिसिद्धत्वेन प्रबलया दृढयुक्त्या विरो
[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२५
' कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभ-
वन्ति ' ( मु. ३-२-७. ) इति मुक्तजीवस्य परापत्तिरु-
च्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव ।
धः परिह्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तदुपन्यस्य पूर्वपक्षांशं
तावद्व्याचष्टे—भोक्त्रापत्तेरिति ॥ भोक्त्रापत्तेरिति हेतोरसिद्धिपरिहा-
राय तत्र श्रुतिमाह—कर्माणीति । इतीति एवं रूपाथर्वणश्रुतावित्यर्थः ।
भोक्त्रापत्तेरित्यस्य सुखदुःखभोक्तुः जीवस्य आपत्तेःपरमात्मत्वप्राप्तेः श्रु-
तत्वाहित्यर्थमभिप्रेत्याह—मुक्तजीवस्येति । यद्यपि जीवस्येत्येव वक्तु-
मुचितम् । तथाऽपि सूत्रे मुक्तावित्यध्याहर्तव्यपदलब्धार्थकथनमेतदि-
त्यदोषः । 'उच्यते' श्रूयते । किञ्चात इत्यत आह—अत इति । मुक्त-
जीवस्य परमात्मत्वप्राप्तिश्रवणादित्यर्थः । 'तयोः' मुक्तजीवेश्वरयोः
'अविभागः' अभेदः सिद्ध इति शेषः । यो यथा श्रूयते स तथेति व्या-
प्तेरिति भावः । नन्वस्तु ब्रह्मणो मुक्तजीवाभेदः, तथाऽपि नास्माकं
निष्टं संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षविरोधाभावेन पूर्वमस-
तोऽपि जीवे कर्तृत्वस्य ज्ञानान्मुक्तेरिव मुक्तावुदयसम्भवेन मुक्ताभिन्न-
स्यापि ब्रह्मणः कारणत्वसम्भवादित्यतः तदुत्तरत्वेनापि अविभाग इ-
त्यंशं योजयति—अत इति । यतो मुक्तावीशाभिन्नो जीवः अतः 'पूर्वे'
संसारेऽपि 'स एव' ईश्वराभिन्न एव, न तु भिन्न इत्यर्थः । न केवलं
मुक्तौ, किन्तु पूर्वमपीति समुच्चयेऽपिशब्दः । ननु मुक्तावभेदेऽपि संसा-
रे भेद एवास्तु च्विप्रत्ययस्वारस्यात् । तथा च मुक्तावभिन्नत्वादिति
हेतुरप्रयोजक इत्यत आह—न हीति । पूर्वमिति वर्तते । तथा च 'हि'
यतः 'पूर्वे' संसारे ब्रह्माभिन्नस्य मुक्तौ 'अन्यत्वं' तद्भेदो न युज्य-
ते । अन्यथा पूर्वमन्यत्वादिति युक्तिविरोधस्यादिति भावः । अतः
पूर्वमपि स एवेत्यनेनास्यान्वयः । एवं 'अन्यस्य' घटादिभिन्नस्य प-
टादेः 'अन्यत्वं' अन्यभावो घटादित्वं 'न युज्यते' न दृश्यते हि ख-
लु इति व्याप्तिप्रदर्शनपरत्वेनापि इदं भाष्यं व्याख्येयम् । पूर्वमप्यभेदे
च्विप्रत्ययानुपपत्तिशङ्का तु मुक्तावेव भेदभ्रमनिवर्तकाभेदप्रतीत्यपेक्ष-
या तदुपपत्तेरिति सुधायामेव परिहृता । न च कदाचिदन्यत्वस्य पू-
र्वपक्षयुक्तित्वाभिधाने 'नान्यदन्यत्वमापन्नम्' इत्यनुव्याख्यानविरो-
धः, तत्रास्य सिद्धान्तयुक्तित्वाभिधानादिति वाच्यम् । मुक्तौ संसारे
च अभेदो, न मुक्तिमात्रे । कुतो ? न हीत्युक्तयुक्तेरित्युभयत्राभेदपूर्वप-
५४
४२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
न ह्यान्यस्यान्यत्वं युज्यत इति चेत्—
( २ ) न, स्याल्लोकवत् यथा लोके उदके उदकान्तरस्यैकी
क्षविवक्षया भाष्यस्य प्रवृत्तत्वात्, अत एवात्र पूर्वमपीत्युक्तम् । च्वि
प्रत्ययस्वारस्यात्पूर्वं भेदो मुक्तौ त्वभेद इति पूर्वपक्षविवक्षया अनु
व्याख्यानस्य प्रवृत्तत्वेन विरोधाभावात् । इतीति सूत्रे पूर्वपक्षांशे शेषो
क्तिः । श्रुतिस्तु 'गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु'
( मुं. ३-२-७. ) इति पूर्ववाक्येन सह व्याख्येया । तत्प्रकारस्तु-'गताः'
मुक्ताः 'कलाः' प्राणादिपञ्चदशकलारूपाः देवताः अन्ये च 'प्रतिदेव
तासु' देवताप्रतिबिम्बभूतासु प्रजासु 'प्रतिष्ठाः' स्थितिहेतवः सर्वे दे
वाः मुक्ताः । 'कर्माणि' पुष्कराख्या कर्माभिमानिनी देवता मुक्ता । त
था मुक्तो 'विज्ञानमय आत्मा' जीवश्चेत्येते सर्वे 'अव्यये' देहतोऽपि
नाशशून्ये 'परे' परमात्मनि एकीभवन्ति । लक्षितलक्षणेऽप्यमुपचारो
वा । तथा च परमात्मानं प्राप्य तस्मिन्नेव स्थिताः 'एकीभवन्ति' प्रा
गिभिन्नमतयोऽधुनेश्वरेणैकमत्यं भवन्ति प्राप्नुवन्ति । एकविषयमति
न्तो भवन्तीति यावत् । अथ वा—'प्रागीश्वरव्यक्तिस्थानापेक्षयाऽन्य
त्रेतस्ततः स्थितास्तत्र श्वेतद्वीपादौ मिलिता भवन्ति' इति तत्त्वनिर्णय
टीकायामुक्तः । तत्त्वप्रदीपे तु-'न हास्य कर्म क्षीयते' ( बृ. ३-४-१५. )
इति ज्ञानोत्तरकालीनकर्मणां फलतोऽक्षयत्वोक्तेर्ज्ञानोत्तरकृतकर्मभिः
सह मुक्तजीवस्य परब्रह्मणि स्थितिस्तद्बुद्धिसारूप्यं चेह विवक्षित
मित्युकम् । पूर्वपक्षी ह्येकीभवन्तीत्यस्य परब्रह्मीभवन्तीत्यैक्यमुच्यत
इति मन्यते ॥
( २ ) अथ सिद्धान्तांशं नञध्याहारेणाविभाग इति पदानुषङ्गाभि
प्रायेण च व्याचष्टे—नेति ॥ नेश्वरस्य जगत्कारणत्वादिविरुद्धमित्य
र्थः । कुत इत्यतो यतो 'नाविभागः' अभेदाभावः इति नञावृत्त्यवि
भागपदानुषङ्गाभ्यां लब्धो हेतुर्योज्य इत्याशयेन परेण अभेदसाधकत
योक्तस्य भोक्त्रापत्तेरिति हेतोः व्यभिचारान्यथासिद्धयुक्तिपरतया स्या
ल्लोकवदित्यंशमनूद्य व्याचष्टे—स्यादिति । आद्योऽपिर्यद्यपि तथाऽपीत्य
र्थः । द्वितीयोऽपिशब्दो दृष्टान्तदार्ष्टान्तिकसमुच्चये । लोक इत्युदक इ
ति चाधिकरणसप्तम्यौ, लोकशब्दोकस्य जनस्य वचनाधिकरणत्वा
त्, उदकस्य चैक्याधिकरणत्वात् । लोकपदोक्तस्य जनस्य व्यवहार
[अधि - ५. सू - १४. ] दीपिका सहितम्. ४२७
भावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि ।
( ३ ) तथा च श्रुतिः-
'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' (कठ.
४-१५०) इति ॥
विषयत्वादुदक इति विषयसप्तमी वा । तथा च 'उदके' एकपात्र
स्थितोदके 'उदकान्तरस्य' पात्रान्तरस्थितोदकस्य 'एकीभावव्यव
हारेऽपि' तेनेदमैक्यमापन्नमिति लोककर्तृकाभेदोक्तिसत्त्वेऽपि यथा
जलयोः 'अन्तर्भेदः' अन्योन्यं भेदोऽस्त्येव 'एवं' तथाऽत्रापि जीव
स्येश्वरैक्योक्तावप्यन्तः परस्परं भेदः स्यात् । न चैक्योक्तिविरोधः ।
यतश्चोदके उदकान्तरस्यैकीभावोक्तिवदुपचरिता स्यादिति योजना ।
अनेन सूत्रे लोकवदिति लोकसिद्धजनैकीभावोक्तिवदिति प्रथमान्तात
त्प्रातिपदिकात् लोके जलादाविति सप्तम्यन्ताद्वा वतिरित्युक्तं भव
ति । एवं भोक्त्रापत्तिरिति विपरिणामेन पूर्वपदानुवृत्तिश्च सूचिता ॥
तथा चायं सूत्रार्थः--भोक्तुः जीवस्य आपत्तेः मुक्तौ परब्रह्मत्वप्राप्तेरु
क्तत्वात्तयोः 'अविभागः' अभेदस्सिद्धः । यतो भोक्तुर्मुक्ता परमात्मा
भेदोऽतो संसारेऽपि तस्य तदभेदः प्राप्नोति, अतः असर्वकर्तृसंसारि
जीवाभिन्नत्वाद्ब्रह्मणो न जगत्कर्तृत्वं युक्तमिति चेत्-न, ईश्वरस्य जग
त्कारणत्वादि विरुद्धम्। कुतः? यतो 'नाविभागो' जीवेशयोरभेदाभा
वः। न च भोक्त्रापत्तिश्रुतिविरोधः, यतः 'स्याल्लोकवत्' स्याज्जले जला
न्तरस्यैकीभावोक्तिवद्भेदेऽपि स्याद्युज्यते। न च भेदेऽप्यैक्योक्तौ निमि
त्ताभावः। यतः 'स्याल्लोकवत्' लोके जले जलान्तरस्यैकीभावोक्ति
वत्स्थानैक्याद्यालम्बनत्वेनोपचरिता स्यादत इति ॥
(३) न श्रुतेः सूत्रान्तरेणेोपचरितार्थत्वकल्पनं क्रियते, किन्तुश्रुत्याऽ
पि तदुक्तमित्याह-तथाचेति ॥ यथा सूत्रकृदाह, तथा श्रुतिश्चाहेत्यर्थः।
'निरञ्जनः परमं साम्यम्' (मुं. ३-१-३.) इत्याद्यैक्यविरोधश्रुतिरपि
चशब्देन गृहीता । 'एवं मुनेर्विजानत आत्मा भवति गौतम' (कठ.४-
१५.) इति श्रुतिवाक्यशेषः । कठवल्ल्यां नचिकेतसं प्रति यमवचनमे
तत्र- 'हे गौतम तद्गोत्रोद्भव नचिकेत' यथा 'शुद्धे' एकपात्रस्थितोदके
यथेष्टं प्रक्षिप्तशुद्धोदकं तादृगेव भवति, न तु तदेव, एवं ब्रह्म विजानतो
'मुनेः' मुनिवर्गस्य 'आत्मा' स्वामी मुख्यवायुरपि मुक्तः सन् 'तादृगेव
भवति' परमात्मसदृश एव भवति, न तु स एव, किन्तु अन्ये जीवा
7:
वशब्दव्यावर्त्यं दर्शयति—न चेति । चस्त्वर्थः । 'एतत्' एतत्स्वरूप-
Line 18:
म् । कुत इत्यतो युक्तिमाह—यत इति । अवृद्धिरित्यपि छेदः । त-
Line 19:
थाच मिश्रणात्पूर्वं अवृद्धिस्तदनन्तरं वृद्धिश्च यतः प्रदृश्यते अत इत्य-
Wait, look at मिश्रणात्पूर्वं: is it मिश्रणात्पूर्वं or मिश्रणात्पूर्वम्?
It has an anusvara: मिश्रणात्पूर्वं.
Line 20:
र्थः । दार्ष्टान्तिकमाह—एवमिति । हिशब्दः प्रसिद्धौ 'जीवो' ज्ञानिजी-
Wait, check line numbering!
Let's trace from top:
Line 1: header
Line 2: (४) स्कान्दे च...
Line 3: न चैतदेव...
Line 4: एवमेव हि...
Line 5: प्राप्तोऽपि...
Line 6: इति काठकभाष्य...
Line 7: जानतो मुनेः...
Line 8: मुक्तः परमात्मानं...
Line 9: वृतः । छान्दोग्य...
Line 10: 'विजानतः'...
Line 11: