सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 456, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 456

[ अधि - ३. सू - ६. ] दीपिकासहितम्. ४०९
ब्रा. ६-१-३.) इत्यादिवचनात् युक्तिविरुद्धो वेद इति।
( २ ) अतोऽब्रवीत्—
सू— ॐ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ॐ ॥ ६ ॥
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते ।
चास्ति । तथा च 'मृदब्रवीत्' इत्यादिर्वेदस्तदेकदेशोऽप्रमाणं, कु
तः ? ' मृदब्रवीत् ' ' इत्यादि वचनात् ' इत्यादिरूपेण मृदादेर्वचनादि
कर्तृत्वाभिधायकत्वात् । वेदस्य मृदादिकर्तृकवचनादिकर्तृताभिधाय
कत्वं कुत इत्यतोऽप्युक्तं—मृदित्यादि । वचनादित्यनन्तरं मृदादीनां
वचनादिकर्तृत्वाऽवगमादिति शेषः। मृदादेर्वचनदर्शनाभिधायकत्वेऽपि
कुतो वेदस्याप्रामाण्यमित्यत उक्तं —युक्तिविरुद्ध इति । तथा च यतो
'मृदब्रवीत्' इत्यादिवेदो 'युक्तिविरुद्धो' मृन्न वक्ति जडत्वादित्याद्य
नुमानविरुद्धमृदादिवक्तृत्वाभिधायकः अतः । युक्तिविरुद्धार्थस्य
चासत्त्वनियमात् असदर्थाभिधायकत्वस्यैव अप्रामाण्यादिति भा
वः । ननु वेदैकदेशस्याप्रामाण्येऽपि 'यतो वा ' इत्यादेस्तत्कुत इत्य
तोऽप्युक्तम्—वेद इति । यतो मृदब्रवीदित्यादिवेदोऽप्रमाणमतस्तदन्य
वेदोऽपि तथा । तथा च सर्वो वेदोऽप्रामाण्यं प्राप्नोति, तत्सामान्यादि
ति न्यायात् । तथा च न तेन विष्णोः जगत्कर्तृता सिद्ध्यतीति योज
ना । अत्र श्रुतौ मृदादिशब्दैः सर्गाद्यकालीनपृथिव्यादिकमुच्यते । त
स्य च वचनाद्यभावो नास्मदादिप्रत्यक्षसिद्ध इति प्रत्यक्षविरुद्ध इत्य
नुक्त्वा युक्तिविरुद्ध इत्युक्तम् । अनेन पादसङ्गतिरपि प्रदर्शिता भव
ति । 'राज्ञा' सोमेन लतारूपेण सहौषधयः संवादं कुर्वन्ति । हे ग्रा
वाणः 'वो' युष्मान् सविता देवो धर्मेण प्रसुवत्विति श्रुत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अब्रवीत् सूत्र
कृदिति शेषः । मृदिति । मृदादेरभिमानिनी धरादिरूपा देवता 'तत्र'
'मृदब्रवीत्' इत्यादिश्रुतौ मृदादिशब्दैः 'व्यपदिश्यते' मुख्यवृत्त्या प्र
तिपाद्यते इत्यर्थः। एवशब्देन जडव्यावर्तकेन योग्यतयाऽभिमानिपदेना
न्वितः सौत्रस्तुशब्दोऽवधारणमुखेन विशेषार्थतया व्याख्यातः । जडा
पेक्षया चेतने मृदादिशब्दो मुख्य इति विशेषार्थो वा तुशब्दः ।
देवतेत्येकवचनेन अभिमानिनो व्यपदेशोऽभिमानिव्यपदेश इत्येकवच
नान्तो विग्रहः सूचितः । अस्य मूलं तु ' दृश्यते च ' इत्युत्तरसूत्रम् ।
एकवचनं च समुदायाभिप्रायम् । अत एव तासामित्यादिवचनम् ।
५२