पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 471, कुल 1267 में से
संदर्भ में पढ़ें४२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
उच्यते। यत्र विरोधस्तत्र ब्रह्मैवोच्यते इति निय
मः ॥ १३ ॥
—::—
५. अधिकरणम् ॥
( १ ) सू—ॐ ॥ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ ॐ ॥१४॥
अ' ब्रह्मणोऽन्यत् 'अमुख्यतया' परममुख्यान्यमुख्यवृत्त्योच्यत इत्यर्थः।
न केवलं ब्रह्मैत्यपेरर्थः। यथाऽत्रैव 'प्रधानादिदमुत्पन्नम्' इत्यादौ सि
द्धान्ते ब्रह्मवाचकेनापि प्रधानशब्देनोपादानत्वेन प्रकृतिरुच्यते, यथा
'वायुर्भूतानामधिपतिः' ( ) इत्यादौ वायुः, 'वसन्ते व
सन्ते ज्योतिषा' ( ) इत्यादौ कालकर्मादि, 'सोरोदीत्'
(तै.सं-१-५-१०) इत्यादौ रुद्रादि। अत्र 'सः' रुद्रोऽरोदीदिति यत् त
देव रुद्रशब्दस्य प्रवृत्तिनिमित्तमित्यर्थाश्रयेण रुद्रमात्रस्य वाच्यत्वप्र
तीतावपि ण्यर्थाश्रयेणे ब्रह्मणोऽप्येतद्वाच्यत्वात् । 'ब्रह्मैव' विष्णुरेवे
त्येवकारोऽन्यव्यवच्छेदार्थः। यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-
१ - १०) 'विश्वस्मादिन्द्र उत्तरः' ( ) 'न किरिन्द्र त्व
दुत्तरः' (ऋ.४-३०-१.) 'निषुसीद गणपते' (ऋ.१०-११२-९.) इत्या
दौ। 'विश्वस्मात्' सर्वस्मात्। हे इन्द्र त्वदुत्तरः त्वत्तः परो 'न किः'
न कोपीति तत्त्वप्रदीपविश्वेश्वरतीर्थीयचन्द्रिकादिश्रुत्यर्थः। यद्यपि
'न किर्माकिस्मसीत्यादिप्रोक्ताधिक्य विवक्षया' इति ऋग्भाष्येऽभि
हितम् । तथापि व्याख्यानान्तरमेतत् । यथा अहंशब्दस्यानेकविधव्यु
त्पत्तिमाश्रित्य अनेकधा व्याख्यानमित्यविरोधः। निषुसीद, इत्येतद्व्या
ख्यास्यते। नियम इत्यनन्तरं 'अस्तियततः' इति शेषः। अस्यतां विरो
ध इति पूर्वेणान्वयः। तथा चात्रापि जगत्कारणतापरे 'असदेव' 'प्रधा
नादिदम्' 'जीवाद्भवन्ति भूतानि' ( ) इत्यादावन्यस्यापि
वाच्यत्वे बहुमानविरोधाद्विष्णुरेवोच्यते, न प्रागभावादिकमिति न वि
ष्णुजगत्कारणत्वश्रुतेस्तद्विरोध इति भावः ॥ ४ ॥
इति असदधिकरणम् ॥
—::—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुश्रुतिसिद्धत्वेन प्रबलया दृढयुक्त्या विरो