पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 468, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२९
एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा
विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवक-
र्तृकत्वादयोऽपि ।
( १४ ) अकस्माद्धीदमाविरासीदकस्मात्तिष्ठत्यकस्माल्लयम
भ्युपैति ।
अपरिग्रहा इत्येतदनूद्य नञो विरुद्धार्थकत्वं परिग्रहशब्दस्याभिधानार्थ
त्वं परिगृह्यते इति परिग्रहः इति कर्मव्युत्पत्तिं चाश्रित्य व्याचष्टे-विरु-
द्धेति । वेदोक्तपक्षविरुद्धपक्षा इत्यर्थः । यद्वा-'वेदापरिगृहीताः' इति सु-
धोक्तेः पर्युदासार्थो नञ्, तस्य फलितार्थकथनं विरुद्धेति । इदं च विशे-
षणं ब्रह्मकर्तृत्वसिद्धान्तव्युदासायोक्तम् । अकर्तृकत्वमकारणकत्व-
म् । अतएव सुधायां 'अत्र कर्तृशब्दः कारणमात्रपरो द्रष्टव्यः' इत्युक्तम्।
अत्रापि टीकायां 'विप्रतिपन्नं निष्कारणम्' इत्युक्तम् । अन्यथा निष्कार-
णत्वपक्षानुवादत्वानुपपत्तेरिति द्रष्टव्यम् । अचेतनकर्तृकत्वमित्येतत् अ-
चेतनमात्रकारणकत्वमिति व्याख्येयम्, अन्यथा सिद्धान्ते प्रधानकार-
णकत्वस्य संमतत्वेन तन्निराकरणानुपपत्तेः । एवं जीवकर्तृत्वमित्येत-
दपि तन्मात्रपरतया व्याख्येयम् । आदिशब्देन तत्त्वप्रदीपरीत्या 'य-
तो वा' इत्यादिश्रुतिप्रापितं मायिब्रह्मकर्तृकत्वं गृह्यते । यद्वा-'का-
लस्वभावादिवादाः' इति सुधोक्तेः कालस्वभावकारणत्वादि गृह्यते ।
तस्यापि 'कालाद्भवन्ति भूतानि' इत्यादिभाष्यस्थद्वितीयादिशब्दगृ-
हीतश्रुतिप्रापितत्वात् । 'अवशिष्टा अपि आदयोऽपि' इत्यपेरुभयत्र सं-
योगः सूत्रे परेषामिव शिष्टापरिग्रहा इत्येकं पदमिति भ्रमं वारयितुम्।
अयं चापिः सर्वेऽप्यपरिग्रहा इत्यभिव्याप्त्यर्थकः । यद्वा-बहुकोशे-
षु समासपाठदर्शनादेकपद्यमेव । तथापि न परेषामिव तत्पुरुषः, कि-
न्तु कर्मधारयसमासः प्राबल्यादिति । समासस्य स्पष्टप्रतीत्यर्थः भि-
न्नक्रमेणापिशब्दसंयोगः । अस्मिन् पक्षे शिष्टाश्च तेऽपरिग्रहाश्चेति वि-
ग्रहः । अत्र बुद्ध्या विवेकेनाभिव्याप्त्यर्थकापेः सम्बन्धः आवृत्त्यभिप्रा-
येणापेः द्विः प्रयोगः । द्वितीयस्यापेः यद्यपि तथापीत्यर्थकस्य श्रुतिप्रा-
प्ता अपीत्यध्याहृतेनान्वयः ॥
( १४ ) श्रुतिप्राप्ता इत्युक्ते कास्ताश्श्रुतय इत्याकांक्षायां तत्र प्रथमं
निष्कारणत्वप्रापिकां श्रुतिमाह- अकस्मादिति ॥ 'इदं' जगत् 'अक-
स्मात्' अकारणकमेव 'आविरासीत्' उत्पन्नमभूत् अकस्मादेव स्थिति