सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - २. सू - ९. ] दीपिकासहितम्. २४७
( ६ ) सू— ॐ ॥ धर्मोपपत्तेश्च ॥ ॐ ॥ ९ ॥
स्वाङ्गीकारे उत्क्रमणादिलिङ्गविरोधो नास्ति । कुतः ? 'अपि' तथाऽपि
सर्वगतेऽपि विष्णवुत्क्रमणादिलिङ्गस्य 'तमुत्क्रामन्तम्' इत्यादिना वा-
जसनेयवाक्येन सिद्धत्वादिति योजना । श्रुतिसिद्धेऽर्थे लोकदृष्टिविरो-
धोऽकिञ्चित्कर इति भावः । 'तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति' (बृ. ६-४-२.) इति पूर्ववाक्ये प्र-
कृतः परमात्मा तच्छब्देन परामृश्यते । तथा च प्रद्योतितहृदयाग्रेण
परोक्षज्ञानिदेहात् 'उत्क्रामन्तं' निर्गच्छन्तं परमात्मानमनुसृत्य 'प्रा-
णो' मुख्यवायुः 'उत्क्रामति' देहान्निर्गच्छतीति श्रुत्यर्थः ॥
(६) युक्त्यन्तरेण विष्णोर्भूमत्वप्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे-
धर्मेति ॥ आदिपदेन स्वातन्त्र्यस्वप्रतिष्ठितत्वादिकं गृह्यते । अस्य हे-
तोर्विष्णुरेव भूमेति प्रधानसाध्येनान्वयः । यद्यपि च्छान्दोग्ये 'यत्र ना-
न्यत्' (छा. ७-२४-१.) इति स्वातन्त्र्यबोधकवाक्यानन्तरं 'स एवाध-
स्तात्' (छा. ७-२५.) इति सर्वगतत्वाभिधायकवाक्यश्रवणात् प्रथम-
श्रुतस्वातन्त्र्यधर्मं स्वशब्देन गृहीत्वा सर्वगतत्वमादिशब्देन ग्राह्यम् ।
तथाऽपि तद्वाक्ये भूमत्वनियतसर्वगतत्वस्य स्पष्टं प्रतीतेस्तदेव वाच-
कशब्देन गृहीतमिति द्रष्टव्यम् । अनेन-सूत्रे चो युक्तिसमुच्चये धर्म-
शब्दात्परमन्वेति । लिङ्गस्य निरवकाशत्वज्ञापनायोपपत्तिपर्यन्तं धाव-
नम् । तथा च न केवलं सम्प्रसादादेः, किन्तु ' स एवाधस्तात्स उप-
रिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम्'
( छा. ७-२५-१. ) इति वाक्ये, तथा—' यत्र नान्यत्पश्यति नान्यच्छृ-
णोति नान्यद्विजानाति स भूमा ' (छा. ७-२४-१.) इति वाक्ये, तथा-
' स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा. ७-२४-१. )
इत्यादि वाक्ये च सर्वगतत्वादिधर्मश्रवणाच्च भूमा विष्णुरेव, तेषां च
धर्माणां विष्णावेवोपपत्तेरिति सूत्रार्थ उक्तो भवति । 'सः' भूमश-
ब्दितो नारायणः अधः उपरि पश्चात्पुरस्ताद्दक्षिणत उत्तरतः सर्वत्रा-
स्ति । तत्प्रयोजनमाह—स एवेदं सर्वमिति । तेनैवेदं जगद्व्याप्तं स एव
सर्वसत्ताप्रदस्तदर्थमेव सर्वत्र तिष्ठतीत्यर्थः । 'यत्र' यस्मिन् यदधी-
नं विना अन्यन्नपश्यत्यधिकारी सर्वमेव तदधीनं पश्यति , तथैव शृ-
णोति, विजानाति च स भूमेत्यर्थः । 'यत्र' यस्मिन् दृष्टेऽन्यत्स्वतन्त्रं
न पश्यतीति वा । हे 'भगवो' भगवन् स भूमा कस्मिन् प्रतिष्ठित इ-

२४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
सर्वगतत्वादि धर्मोपपत्तेश्च ॥ ९ ॥
―――※※※―――
३. अधिकरणम् ॥
( १ ) अदृश्यत्वादिगुणा विष्णोरुक्ताः। 'अदृष्टं द्रष्टृश्रुतं श्रो
ति नारदप्रश्ने महिमगुणात्मके 'स्वे' स्वस्मिन् स्वकीये महिम्नि वा
स्वयं 'प्रतिष्ठितः' आश्रित इति सनत्कुमारः प्रत्याहेति श्रुत्यर्थः ॥ २ ॥
॥ इति भूमाधिकरणम् ॥
―――::※::―――
३. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽक्षरनामसमन्वयः क्रियते । श्रुत्यादिसङ्गतिं
विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं च
दर्शयति—अदृश्यत्वादिति ॥ उक्ता इत्यस्यावृत्तिः । ते इति शेषः ।
आद्यादिशब्देनाग्राह्यत्वादि गृह्यते । गुणा इत्यनेन चन्द्रादित्याद्याधार-
त्वगुणोऽपि गृह्यते । द्वितीयादिशब्देन 'अश्रुतं श्रोत्रमतं मन्तृविज्ञातं
विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतॄ नान्यदतोऽस्ति मन्तृ
नान्यदतोऽस्ति विज्ञातृ एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रो-
तश्च' (बृ. ५-८-११.) इति शिष्टवाक्यम्, तथा—'एतस्य वा अक्ष-
रस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ. ५-८-९.)
इति वाक्यं च गृह्यते । तृतीयादिशब्देन 'अहं त्वष्टारमुत पूषणं भग-
म' (ऋ. १०-१२५-२.) इति वाक्यम्, तथा—
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ( गी. १२-३.)
इति गीतावाक्यम् ,
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥
इति तद्भाष्योदाहृतवाक्यं च गृह्यते । चशब्देनाक्षरशब्दस्य श्रीतत्त्वे
प्रसिद्धेरिति अक्षरपदसूचितो हेतुः समुच्चीयते । तस्येतिपदमावर्त-
ते, विपरिणम्यते च । न केवलं विष्णोरेव, किन्तु 'तस्य' अक्षरस्या-
पीत्यर्थेः । विष्णुजडव्यावृत्त्यर्थ—मध्यमेति । 'भूमत्वप्राप्तिः' इति

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण है:

[ अधि - ३. सू - ९. ] दीपिकासहितम्. २४९


तृ' (बृ. ५-८-११.) इत्यादिना । 'अहं सोममाहन
सं बिभर्मि' (ऋ. १०-१२५-२.) इत्यादेस्तस्यापि
सम्भवान्मध्यमाक्षरस्योक्ता इति ।


पूर्ववाक्याद्बुद्ध्या विच्छेदेन प्राप्तिरितिपदमत्रानुवर्तते । तथा च—पूर्व
मदृश्यत्वाधिकरणे ये अदृश्यत्वादिसुणा अक्षरस्य विष्णोरुक्ताः । ते
वाजसनेयके 'तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादिना वाक्येन
'मध्यमाक्षरस्य' श्रीतत्त्वस्य 'उक्ताः' उच्यन्ते इत्येका योजना ।
अपरा तु—'तस्य' तेषामदृश्यत्त्वादिगुणानां 'तस्य' तस्मिन् मध्य
माक्षरेऽपि सम्भवादुक्तत्वात् 'तस्य' चन्द्राद्याधारत्वलिङ्गस्यापि
'अहं सोममाहनसम्' इत्यादिवाक्यात्तस्मिन्नक्षरे उपपत्ते

२५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( २ ) अतो ब्रूते—
सू—ॐ ॥ अक्षरमम्बरान्तधृतेः ॥ ॐ ॥ १० ॥
'एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च'
( बृ. ५-८-११. ) इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवा
क्षरम् ।
त्पक्षे आकाशशब्दः प्रकृत्यन्यतत्पोष्यपरः ॥
अहं 'आहनसं' स्वाभिमन्यमानलताद्वारा यज्ञेष्वभिषूयमाणं
'सोमं' सोमलताभिमानिनं चन्द्रं त्वष्टारं च 'उत पूषणं' पूषणं
च भगं च 'बिभर्मि' दधामीत्यम्भृणीवाक्यस्यार्थः । त्वष्ट्रादयस्तु सू-
र्यप्रभेदाः । तत्त्वप्रदीपसत्तर्कदीपावल्योस्तु बृहद्भाष्यानुसारेण 'सो
मं' उमया सहितं 'आहनसं' आसमन्तात् हन्तारं संहर्तारं रुद्रं बि-
भर्मीति व्याख्यातम् ॥
'अक्षरं' देहतोऽप्यविनाशि, 'अनिर्देश्यं' शब्दागोचरं, 'सर्वत्र-
गं' देशतो व्याप्तं, 'अचिन्त्यं' मनसाऽग्राह्यं, गुणबाहुल्यात्, कूटे आका-
शोऽभिमानित्वेन तिष्ठतीति 'कूटस्थं', 'अचलं' कदापि स्वपदादभ्रष्टं,
'ध्रुवं' उत्पत्तिविनाशशून्यं, 'अव्यक्तं' श्रीतत्त्वं ये पर्युपासते इति
गीतार्थः ॥
प्रलये 'अभूतं' अजातं 'अप्रज्ञातं' प्रत्यक्षावेद्यं अवेद्यलक्षणत्वा-
दलक्षणं अत एव 'अतर्क्यं' अनुमानावेद्यं 'अविज्ञेयं' आगमावेद्यं
अनाद्यविद्याभिमानित्वात्, तमःशब्दवाच्यमिदं लक्ष्म्याख्यं तत्त्वं 'प्रसुप्त-
मिव' निर्व्यापारं 'सर्वतः' सर्वत्रासीदिति स्मृत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे गहनार्थत्वा-
त्प्रथमं हेतुभागं व्याकरिष्यमाणोऽसिद्धिपरिहाराय श्रुतिमुदाहरति—
एतस्मिन्निति । इतीत्यनन्तरं 'वाक्ये' इति शेषः । अन्यपदार्थं दर्शय-
न्विग्रहं दर्शयति—अम्बरेति । अम्बरमाकाशः अन्तो यस्य सर्वस्य पृथि-
व्यादेर्धारकत्वोक्तेरित्यर्थः । यद्यपि 'एतस्मिन्' इति वाक्येऽम्बरधृतिरे-
वोच्यते । न तु तदन्तसर्वधृतिः । तथाऽपि 'यदूर्ध्वं गार्गि दिवो यदर्वाक्पृ-
थिव्यायदन्तरा द्यावापृथिवी...आकाश एव तदोतं च प्रोतं च' (बृ. ५-८-
७.) इत्यनेनाकाशस्य चित्प्रकृतेः सर्वाधारत्वमुक्त्वाऽनन्तरं 'एतस्मिन्'
इति वाक्येऽक्षरस्य तादृशप्रकृत्याधारत्वोक्तेः प्रकृतिद्वाराऽक्षरस्याम्बरा-
न्तसर्वाधारत्वमत्रोक्तमेवेति न दोषः । एतच्च सूत्रेऽम्बरान्तेत्यन्तपद्

[ अधि - ३. सू - १०. ] दीपिकासहितम्. २५१
( ३ ) य उँ त्रिधातु पृथिवीमुत द्या
मेको दाधार भुवनानि विश्वा । ( ऋ. १-१५४-४. )
( ४ ) भर्ता सन्भ्रियमाणो बिभर्ति ।
एको देवो बहुधा निविष्टः ।
यदा भारं तन्द्रयते स भर्तुं ।
परास्य भारं पुनरस्तमेति । ( तै. आ. ३-१४. )
( ५ ) यस्मिन्निदं संचविचैधि सर्वं
यस्मिन् देवा अधि विश्वे निषेदुः । ( महाना. १-२०. )
प्रयोगात्सूचितम् । सूत्रे तद्वित्यनुवृत्तपदद्वयोपेतप्रतिज्ञाभागं व्या
ख्याति-ब्रह्मैवेति । अक्षरं ब्रह्मैवेत्यन्वयः । अनेन-अक्षरस्य 'एतस्मिन्'
इति प्रकृतिद्वाराऽऽकाशान्तसर्वाधारत्वश्रुतेरक्षरं ब्रह्मैवेति सूत्रार्थ उ
क्तो भवति ॥
( ३ ) सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकमित्यतः तस्य विष्णु
लिङ्गत्वेन श्रुतिसिद्धत्वादित्याह-य इति ॥ व्याख्यातेयं श्रुतिर्जन्मनये॥
( ४ ) 'भर्ता सन्' इति तैत्तिरीयाणां श्रुतिः । 'देवः' प्राणाख्यो
भगवान् स्वार्थं जगता जीवेन वा हृदि भ्रियमाणः तत् 'बिभर्ति'
धत्ते पुष्णाति च । तर्हि जगदीशयोः साम्यापत्तिरित्यत आह—भर्ता
सन्निति । जगतो मूलभर्ता सन्नेव भ्रियमाणः, न स्वकीयस्थित्येत्य
र्थः । नन्वेकस्यैव भगवतः भर्ता भ्रियमाणो बिभर्तीत्यनेकविधव्यव
हारविषयत्वं कथमित्यत आह—एको बहुधेति । एकोऽपि भर्तृत्वादि
ना 'बहुधा' बहुरूपेण च 'निविष्टो' व्याप्त इत्यर्थः । तत्र प्रविष्ट इति
वा । 'यदा भारं तन्द्रयते स भर्तुं परास्य भारं पुनरस्तमेति' इति वा
क्यशेषः । 'स' विष्णुर्यदा तं जगद्भारं 'परास्य' अधो विधाय पुन
र्भर्तुं 'तन्द्रयते' नेच्छति तदा असौ भारः 'अस्तमेति' नश्यतीत्यर्थः॥
( ५ ) 'यस्मिन्' इत्यपि तैत्तिरीयेऽन्यद्वाक्यम् । अत्र यच्छब्दस्य 'त
देव ब्रह्म परमम्' (महाना. १-६.) इत्युत्तरवाक्यस्थतच्छब्देनान्वयः ।
चौ प्रकारसमुच्चये । तथा च-'यस्मिन्निदं' सर्वं जगत् 'सं' सम्यक्
'वि' विविधं 'चैधि' अवर्धत । एधतेर्लिङि छान्दसं रूपमेतत् । यद्वा—
एधि वर्धते । अस्तीति वार्थः । अस्मिन् पक्षे अस्तेर्लिटि मध्यमपुरुषैक
वचने छान्दसं रूपम् । वस्तुतो लोटि मध्यमपुरुषैकवचने रूपमेतत् ।
यस्मिंश्च 'विश्वे' सर्वे देवाः 'अधिनिषेदुः' यमध्यगुस्तदेव ब्रह्मेत्य

२५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
इत्यादिश्रुतेः ।
( ६ ) पृथिव्यादि प्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
विष्णुरेको बिभर्तीदं नान्यस्तस्मात्क्षमो धृतौ ॥
इति च स्कान्दे ।
( ७ ) सू— ॐ ॥ सा च प्रशासनात् ॥ ॐ ॥ ११ ॥
सा च धृतिः प्रशासनादुच्यते । 'एतस्य वा अक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' (बृ.
५-८-९.) इत्यादिना ।
( ८ ) तच्च प्रशासनं विष्णोरेव ।
र्थः । इत्यादिश्रुतेरित्यस्य अम्बरान्तधृतेरित्यनेनान्वयः । ब्रह्मण्यवगता
या इति शेषः । तृतीयार्थे पञ्चमी । आदिशब्देन 'येनावृतं खं च दि
वं महीं च येनादित्यस्तपति तेजसा भ्राजसा च' (महाना. १-३.) इत्या
दिकम्, 'तमे

[ अधि - ३. सू - ११० ] दीपिकासहितम्. २५३
( ९ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा
विधर्मणि । ( ऋ. १-१६४-३६. )
( १० ) चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यती
र्वी विपत् । ( ऋ. १-१५५-६. ) इत्यादिश्रुतेः ।
( ११ ) एकश्शास्ता न द्वितीयोऽस्ति शास्ता ।
यो हृच्छयस्तमहमिह ब्रवीमि ।
( १२ ) न केवलं मे भवतश्च राजन्
ष्टये वा चशब्दः । ' विष्णोरेव ' विष्णुकर्तृकमेव । न त्वन्यकर्तृकमि
ति एवार्थः । एवकारस्योत्तरत्रोपयोगः ॥
( ९ ) कुत एतज्ज्ञायत इत्यतस्तच्चेत्यनेन प्रतिज्ञातार्थे श्रुतिं प्रमाण
यति--सप्तेति ॥ आ ऋद्धगर्भाः आर्धगर्भाः । ब्रह्माण्डाख्यातिसमृद्धग
र्भाः । निगरणेन म्रियन्त इति गर्भास्तदावरणभूता इति यावत् । रेत
इति लिङ्गव्यत्ययेनैकवचनं प्रथमाबहुवचनार्थे । तथा च-' भुवन
स्य ' लोकस्य ' रेतसो ' रतिप्रदाः सारभूता वा । यद्वा-भूमत्वात्पू
र्णत्वाद्भजननीयत्वाद्वन्दनीयत्वाद्भुवनस्य विष्णो रेतो रूपाः ' सप्त ' महद
हङ्कारपञ्चमहाभूताख्याः ब्रह्मादयो देवाः । भुवनस्य ' रेतो ' रेतसो
जगद्रतिप्रदस्य विष्णोः ' प्रदिशा ' आदेशेनाज्ञया ' विधर्मणि ' विवि
धविश्वधारणे तिष्ठन्तीति ऋङ्मन्त्रार्थः । विश्वेश्वरतीर्थीये तु ' अर्ध
स्य ' विष्णोः ' गर्भाः ' सप्त देवाः भुवनस्य ' रेतः ' कारणम् । एते
च विष्णोः प्रदिशा विधर्मणि तिष्ठन्तीत्यर्थ उक्तः ॥
( १० ) ' चतुर्भिः ' इति वाक्यन्तु जन्मनये व्याख्यातम् । एवंजाती
यकश्रुतिरादिशब्दार्थः । श्रुतेरित्यस्य ज्ञायत इत्यध्याहारेण तच्चेति पू
र्ववाक्येनान्वयः ॥
( ११ ) सर्वधृतिहेतुप्रशासनं विष्णोरिवान्यस्यापि किं न स्यादित्य
त आह-एक इति ॥ इदं च भारतवाक्यं सभापर्वगम् । ' शास्ता '
सर्वधृतिहेत्वाज्ञाकर्ता । ' एकः ' न तु द्वितीयोस्ति, स च विष्णुरेवेत्य
र्थः । 'गर्भे शयानं पुरुषं कोऽस्ति शास्ता' इति शिष्टवाक्यम् । ' यो
हृच्छयः ' इत्यन्यद्वाक्यमुत्तरवाक्यपर्यालोचनया प्रकृतसङ्गतम् । ' यः '
सर्वधृतिहेतुप्रशासनाय ' हृच्छयः ' सर्वहृदयनिवासी तमहमिह स्था
ने ब्रवीमीत्यर्थः ॥
( १२ ) ' न केवलम् ' इत्यादि हिरण्यकशिपुं प्रति प्रह्लादवाक्यम् ।

-8?
Wait, BU chapter is 3, but in Madhva tradition / Kanva / Madhyandina:
It says ५-८-८.?
Look at the numbers:
First digit: ५ or ३?
Wait! Look at ३ in [अध्या - १. पा - ३.] in line 1.
The ३ has two curves like modern 3.
In line 14: the first digit has a loop at the bottom, like ५!
Wait, in Madhva's numbering or Shatapatha Brahmana numbering:
Brihadaranyaka is often numbered by adhyaya of Shatapatha (e.g. 14 or 5) or prapathaka. In some editions it is 5-8-8 or 3-8-8. Here it clearly has ५-८-८.). Wait, or is it ३-८-८.)?
Let's compare:
In line 1: ३ (round top, round bottom).
In line 4: ( १३ ) - ३ has two round curves.
In line 14: first digit is ५! It has a vertical-ish left, loops down and up like a Devanagari 5.
Wait, let's look at the second digit: ८.
Third digit: ८.
Wait, is the first digit ५? No, wait

[ अधि - ३. सू - १२. ] दीपिकासहितम्. २५५
'अस्थूलमनणु' (बृ. ५-८-८.) इत्यादिना स्थूला
ण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च ।
( १४ ) 'अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको यो
वायु' पीडारूपश्वासोच्छ्वाससहितम् । यद्वा—व्यासतीर्थीयोक्तरीत्या
अवायवनाकाशमतेजस्कमित्येतैस्तदारब्धशरीररहितमित्युच्यते । अ-
त एव 'अच्छायमतमोऽवाय्वनाकाशम्' इत्यत्र सर्वात्मना निषेध इ-
त्युक्तं सुधाटीकयोः । 'असङ्गं' सर्वगतमपि तत्कृतलेपरहितम् । अ-
रसमगन्धमित्याभ्यामुपलक्षणया प्राकृतरसगन्धादिराहित्यमुच्यते ।
अचक्षुष्कमित्यादिना प्राकृतस्वभिन्नचक्षुरादिराहित्यम् । 'अतेजस्कं'
प्राकृतवर्चोरहितम् । 'अप्राणं' उक्तचक्षुरादिव्यतिरिक्तप्राकृतज्ञाने-
[L

२५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
ऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः '
इत्यादेर्विष्णोरेव ते धर्माः ।
( १५ ) अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।
विरुद्धधर्मरूपोऽसावैश्वर्यात्पुरुषोत्तमः ॥
इति च ब्राह्मे ॥ १२ ॥
र्मध्यमस्तथा ' इत्युक्तेः मध्ये मीयमानत्वान्मध्यम इति व्याख्यातम् ।
अस्मिन् पक्षे नियतमध्यमपरिमाणशून्यत्वान्नानित्यत्वमिति परिहारो
ऽभिप्रेतः । न विद्यतेऽन्यो व्यापको यस्यासावव्यापकः । लोकविलक्ष
णव्यापक इति वा । ' व्यापकः ' सर्वदेशकालव्यापी । आदिः कारण
मनादिस्तच्छून्य उत्पत्तिशून्य इति वा । न विद्यते विश्वः पूर्णो य
स्मादविश्वः । पूर्णत्वाद्विश्वः । यद्वा— ' अविश्वो' लौकिकेष्वप्रविष्टः ।
' विश्वः ' जगद्धृदयं वा प्रविष्टः । ' सगुणो ' ज्ञानानन्दादिगुणवान् ।
' निर्गुणः ' सत्त्वादिगुणहीन इत्यर्थः । ' इत्यादेः ' इतिवाक्यात् । आ
दिशब्देन ' अणोरणीयान्महतोमहीयान् ' ( कठ. २-२०. ) इति कठश्रु
तिर्गृह्यते । ' ते ' अस्थूलत्वादयः । यत इति निश्चिता इति शेषः । अ
स्य अतस्ते अक्षरस्य विष्णुत्वनिश्चायका भवन्तीत्युपस्कृतवाक्येना
न्वयः । ननु तथाऽपि ते विष्णोरेवेति कथं, यस्मात्तेऽप्राकृतविग्रहे मध्य
माक्षरेऽपि सन्ति । नैष दोषः-यतस्ते तत्र भगवदपेक्षयैव सन्ति । अ
न्यानपेक्षा एव धर्माह्यत्र हेतुत्वेन विवक्षिताः ॥
( १५ ) ननु लौकिकपरिमाणादिराहित्यं कथं विष्णोर्युक्तं, लोके स
र्वपदार्थानां प्राकृतपरिमाणस्यैव दर्शनादित्यत आह—अस्थूलेति ॥
' असौ पुरुषोत्तमः ' भगवान् ' अस्थूलोऽनणुरूपो भवति ' प्राकृतलौ
किकस्थूलाणुत्वरूपधर्मरहितवपुर्भवति । एवं ' अविश्वो विश्वश्च '
लोकबाह्यभूतो लोकान्तर्गतश्च भवति । तथा विरुद्धधर्मरूपश्च भव
ति । लोके परस्परं विरुद्धाः स्थूलत्वाणुत्वादयो धर्माः स्वरूपभूता य
स्य स तथोक्तः । कथमित्यतो घटकमाह—ऐश्वर्यादिति । अचिन्त्यै
श्वर्यसामर्थ्यादित्यर्थः । ऐश्वर्यादेवेत्यनेन नात्रोपपादकान्तरमन्वेषणीय
मित्युक्तं भवति । इति ब्रह्माण्डे इत्यस्य उक्तत्वात् युक्ता इत्यध्याहारे
ण ते धर्माः विष्णोर्युक्ता एवेति पूर्ववाक्येनान्वयः ॥ ३ ॥
॥ इति अक्षराधिकरणम् ॥

[ अधि - ४. सू - १३. ] दीपिकासहितम्. २५७
४. अधिकरणम् ॥
( १ ) 'सदेव सोम्येदमग्र आसीत्' ( छा. ६-२. ) इत्यादि
ना सतः स्रष्टृत्वमुच्यते ।
( २ ) तच्च सत् 'बहु स्यां प्रजायेय' ( छा. ६-२. ) इति परि
णामप्रतीतेर्न विष्णुः ।
४. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽनेकप्रकरणात्मकं 'सदेव' इत्यादिस्थानं स
मन्वीयते । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूच
यति—सदिति ॥ 'इत्यादिना' छान्दोग्यवाक्येन । आदिशब्देन 'एक
मेवाद्वितीयं, ( छा. ६-२-१. ) तत्तेजोऽसृजत, ( छा. ६-२-३. ) सन्मू
लाः सोम्येमाः, ( छा. ६-८-६. ) सता सोम्य तदा सम्पन्नो भवति'
( छा. ६-८-१. ) इत्यादिकं गृह्यते । तच्चेत्यतः तदित्याकृष्यते । तथा
च इत्यादिना सतः 'तत्' जन्मनयोक्तं 'स्रष्टृत्वं' अनन्याधीनकारण
त्वम् । उपलक्षणमेतत् । सर्वोत्तमत्वसर्वाधारत्वसुप्तिगम्यत्वादिकं च
'उच्यते' प्रतिपाद्यते इति योजना । अनेन जन्माधिकरणोक्तकारण
त्वस्य विष्ण्वन्यस्मिन् प्रधाने आक्षेपात्तेनास्य आक्षेपिकी सङ्गतिरुक्ता
भवति । तथा विषयवाक्यम्, सदाख्यो विषयश्चोक्तः । 'सदेव' इत्यु
द्दालकवाक्यम् । हे 'सोम्य' भक्तिज्ञानलक्षणसोमार्ह श्वेतकेतो 'इदं'
अस्य जगतः 'अग्रे' तत्सृष्टेः पूर्वं प्रलये सच्छब्दोक्तं ब्रह्मैवासीत् स्वा
तन्त्र्येणेति शेषः । तत्सत् 'एकमेवाद्वितीयं' स्वगतस्वावयवभेदाभे
दशून्यं सर्वोत्तमम् । प्रजाः 'सन्मूलाः' सद्ब्रह्मैव मूलं यासां तास्त
थोक्ताः । 'तदा' सुप्तौ सता सम्पन्नो भवति सुप्त इति सिद्धान्ते श्रु
त्यर्थः । ब्रह्मलक्षणाभिधायकानेकवाक्यसङ्ग्राहकादिशब्दप्रयोगेन सि
द्धान्तेऽप्यत्र प्रधानस्य प्रतिपाद्यत्वाभ्युपगमेनानिष्टाभावादधिकरणवै
यर्थ्यमिति शङ्का निरस्ता भवति । अत्र प्रकरणे श्रुतानां ब्रह्मलक्षणानां
प्रधानेऽसम्भवेन ब्रह्मणोऽपि प्रतिपाद्यत्वेन प्रधानमात्रस्य प्रतिपाद्य
त्वानभ्युपगमात् ॥
( २ ) सयुक्तिकं पूर्वपक्षयति—तच्चेति ॥ चशब्दः प्रधानमिति प
दाकर्षकस्त्ववधारणे च । तदित्यावृत्तं विपरिणम्यते । तथा च 'तत्'
छान्दोग्ये श्रुतं सत्प्रधानमेव भवेत्, न तु विष्णुः । कुतः ? 'तस्य' स
३३

२५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) स हि 'अविकारस्सदा शुद्धो नित्य आत्मा सदा ह
रिः' इत्यादिनाऽविकारः प्रसिद्ध इति ।
( ४ ) अतो ब्रवीति—
सू—ॐ ॥ ईक्षतिकर्मव्यपदेशात्सः ॥ ॐ ॥ १३ ॥
'तदैक्षत' इतीक्षतिकर्मव्यपदेशात्स एव विष्णुरत्रो
च्यते ।
तो 'बहु स्याम्' इत्युत्तरवाक्येन बहुभावाख्यपरिणामस्य विकारस्य
प्रतीतेरिति योजना । 'प्रजायेय' प्रजनयेयं जगत्सृजानि । तदर्थं 'बहु
स्याम्' नियामकबहुरूपी भवेयमिति । 'बहु स्याम्' तदर्थे प्रजायेये-
ति वा श्रुत्यर्थः ॥
( ३ ) विकारित्वप्रतीतावपि कुतोऽयं न विष्णुरित्यत आह—स ही-
ति ॥ 'हि' यस्मात् 'सः' विष्णुः 'अविकारः सदा' इत्यादिप्रमाणे
नाऽविकारः 'प्रसिद्धः' तत्त्वेन निश्चितस्तस्मात् तदसम्भवात् प्रधाने
च तत्सम्भवात् अत्र च विकारप्रतीतेः तत्सत् न विष्णुः, किं तु प्रधा
नमेवेति योजना । श्रुतौ द्वितीयस्य सदाशब्दस्य सदाऽविकार इत्यन्व-
यः । आद्यस्य तु सदा 'शुद्धो' निर्मल इति ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ सूत्रोक्तं व्य-
पदेशं दर्शयति—तदिति । ईक्षतीति धातुनिर्देशेन तदर्थेक्षणक्रिया ल-
क्ष्यते । ईक्षतिकर्मेति सामानाधिकरण्यं तत्कर्तृत्वपरम् । तथा च 'तदै-
क्षत' इति श्रुतावीक्षणाख्यव्यापारे कर्तृत्वोक्तेरित्यर्थः । यद्वा–कर्मशब्देन
सृष्ट्यादिक्रियोच्यते । तथात्वे वैयधिकरण्यम् । ईक्षतिपूर्वकसृष्ट्यादि-
व्यपदेशादित्यर्थः । समन्वयसूत्रात्तदित्यस्य अनुषङ्गसम्भवेऽपि 'एको
नारायण आसीत्स मुनिर्भूत्वा' ( ) इत्यादिसामाख्यामपि प्रमा-
णीकर्तुं स इत्युक्तम् । तदनूद्य विष्णुरिति व्याख्यातम् । विष्णुरेवेत्य-
न्वयः । एवेति तुशब्दार्थः । अनेन समन्वयसूत्रात्तुशब्दमात्रमनुवर्तनी-
यमिति सूचितम् । सूत्रे समन्वेतव्यानुक्तेराह—अत्रेति । 'सदेव' इत्यादि-
स्थान इत्यर्थः । सच्छब्देनेति शेषः । तथा चात्र प्रकरणजाते सच्छब्दे-
न य उच्यते, स विष्णुरेव, न तु प्रधानमिति साध्यवाक्यार्थः । अनेन
अत्र सदेवेत्यादिस्थाने सच्छब्देनोच्यमानः स विष्णुरेव, न प्रधानम् ।
कुतः ? 'ईक्षतिकर्मव्यपदेशात् सः' ततः 'तदैक्षत' इतीक्षणाख्यक्रि-
याकर्तृत्वश्रवणादीक्षितृत्वसृष्ट्यादिक्रिययोर्वा श्रवणाज्जडप्रकृतौ च

[अधि - ४. सू - १३.] दीपिकासहितम्. २६९
(५) ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. ५-७-२३.) ‘नान्यदतो
ऽस्ति द्रष्टृ’ (बृ. ५-८-११.) इत्यादिना तस्यैव हि त
ल्लक्षणम् ।
(६) बहुत्वं चाविकारेणैवोक्तम् ‘अजायमानो बहुधा वि
तदसम्भवादिति सूत्रार्थ उक्तो भवति । सूत्रे सच्छब्देनेति शेषं विना
स इत्यस्यावृत्तिः, तत्रैकस्य प्रतीकग्रहणार्थत्वमिति पक्षे ईक्षतिकर्म
व्यपदेशात् ‘सः’ ‘सोऽकामयत’ (तै. २-६.) इत्यादिप्रकरणप्रति
पाद्यः स विष्णुरेव भवेत्, न प्रधानमित्यर्थोऽवसेयः ॥
(५) नन्वीक्षणकर्तृत्वं विष्णोरिवप्रधानस्य किं न स्यादित्यतश्चेतन
स्यापि इह हेतुत्वेनाभिमतं मुख्येक्षणं न सम्भवति, किमु जडस्येत्या
शयेन तत्र प्रमाणमाह—नेति ॥ ‘अतो’ ब्रह्मणः सकाशात् ‘अन्यः’
स्वातन्त्र्येण द्रष्टा द्रष्टृ च नास्तीति वाजसनेयप्रकरणद्वयगतवाक्यद्वय
स्यर्थः । आदिशब्देनैवंजातीयकं वाक्यं गृह्यते । ‘तस्य’ विष्णोरेव।
हिशब्दः प्रसिद्धौ । स्वातन्त्र्येणेक्षणकर्तृत्वलक्षणं लिङ्गं उक्तमिति शे
षः । अस्य तस्मान्न लिङ्गस्य अन्यगामित्वं मन्तव्यमित्युपस्कृतवाक्ये
नान्त्रयः ॥
(६) ननु विष्णोरविकारितया सिद्धत्वेन तत्र बहुभावाख्यविका
रान्वयायोगान्निरवकाशाविकारित्वलिङ्गेनात्रेक्षतिर्गौणो व्याख्येयः ।
‘सत्त्वात्सञ्जायते ज्ञानम्’ इति स्मरणात् ज्ञानोपादानतया सिद्धे प्रधा
ने तत्कर्तृत्वसम्भवेन तत्र तस्यामुख्यत्वादित्यत आह—बहुत्वं चेति ॥
चस्त्वर्थे । ‘अविकारेण’ विकारित्वं विनैव स्वरूपबहुत्वेनैवेत्यर्थः ।
इत्यादिनोक्तमित्यन्वयः । तथा च बहुत्वस्य सावकाशत्वात् न तद्बले
न ईक्षतेर्गौणत्वं कल्पनीयमिति भावः । यद्वा—‘बहुत्वं’ ‘बहु स्याम्’
इति बहुभाववचनं च ‘उक्तं’ व्याख्यातम् । तथा च इत्येवमादिप्रमा
णवाक्येन ‘बहु स्याम्’ इति बहुभाववचनं ‘अविकारेण’ विकारं विनैव
नियामकस्वरूपबहुत्वेनैव मुख्यप्रतिपाद्येनैव युक्तमित्युक्तं इति योजना ।
तथा च—सिद्धान्ते ‘बहु स्याम्’ इत्यस्य तत्तन्नियामकस्वरूपबहुभा
वसङ्कल्पोऽर्थ इत्युक्तं भवति । न चैवं नियामकस्वरूपबहुभावसङ्कल्पा
नन्तरं नियम्यसृष्टिरयुक्तेति वाच्यम् । गुरुत्वराजत्वादेः शिष्यभृत्य
सापेक्षत्वेन तत्सङ्कल्पानन्तरं शिष्यादिसम्पादनवत् नियामकताया
नियम्यसापेक्षत्वेन नियामकबहुभावसङ्कल्पानन्तरं तत्सापेक्षनियम्य

२६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३ . ]
जायते' ( तै. आ. ३ - १४. ) इति ॥
—-:-:—
५० अधिकरणम् ॥
( १ ) चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च ' अथ य
सृष्टेर्युक्तत्वात् ' अजायमानः ' अविकुर्वाणः इति श्रुत्यर्थस्तु द्युभ्वादि
नयेऽभिहितः ॥ ४ ॥
॥ इति सप्तदधिकरणम् ॥
—
—
५० अधिकरणम् ॥
( १ ) अत्राधिकरणे सर्वाधारतयाऽन्वेष्टव्यतया च साक्षाद्वा व्यवधा
नेन वा सामान्यतो हृत्पद्मस्थत्वलिङ्गस्य ब्रह्मणि समन्वयः क्रियते ।
श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्ति
कं पूर्वपक्षयति-चन्द्रेति ॥ 'एतस्य वा अक्षरस्य' ( बृ. ५-८-९. ) इत्या
दिनेति वर्तते । आदिपदेन द्यावापृथिव्यादिकं गृह्यते । ततः किमित्यत
आह-तच्चेति । तदित्यावर्तते । चः समुच्चयेऽवधारणे च । तथा च 'तत्र'
छन्दोगश्रुतौ यदक्षरनयोदाहृतवाक्योक्तं चन्द्रादित्याधारत्वं तदेव तथा
तत्समानाधिकरणं हृत्पद्मस्थत्वं च आकाशस्य 'अथ' इत्यादिना वा
क्येन प्रतीयत इति योजना । यद्यपि बृहद्भाष्ये अक्षरनयोदाहृत बृह
दारण्यकश्रुतिगतसूर्यचन्द्रपदयोर्ब्रह्मरुद्रपरतया व्याकृतत्वादेवमनुवा
दोऽनुपपन्नः। तथाऽपि तयोः प्रसिद्धचन्द्रसूर्यपरत्वस्याप्यनुमतत्वादेव
मुक्तिः । यद्वा-अत्र भाष्येऽपि चन्द्रादित्यपदे रुद्रब्रह्मपरे । अत एव तत्त्व
प्रदीपे अक्षरनये 'अहं सोमम्' (ऋ० १०-१२५-२.) इति वचने सोमशब्दो
रुद्रपरतया व्याकृतः । तथा च न कोऽपि विरोधः । अनेनाक्षरनयो
क्तचन्द्रादित्याद्याधारत्वस्य साक्षात् हृत्पद्मस्थाकाशनिष्ठताक्षेपात्तेन
अस्याक्षेपिकी सङ्गतिरुक्ता भवति । एवं सर्वाधारत्वान्वेष्टव्यत्वसमा
नाधिकरणः साक्षाद्व्यवधानेन वा सामान्यतो हृत्पद्मस्थत्वरूपो विष
यश्च दर्शितः । न चैवं 'चन्द्रादित्य' इतिभाष्येण स चन्द्रादित्याद्या
धारः किं दहराकाशः स्यात् ? आहोस्चित्तत्स्थः कश्चित् ? इति तत्त्व
ऽदीपेन च विरोध इति वाच्यम् । तयोरक्षराधिकरणाक्षेपेण अत्र पू
र्वपक्ष इति दर्शयितुं प्रवृत्तत्वेन विषयप्रदर्शनायाप्रवृत्तत्वात् । 'आका
शस्य' इत्यनेन प्रसिद्धभूतस्याकाशस्यैव सर्वाधारतया साक्षात् हृत्प

? Wait! Look at the letter after द: It is मा? Wait, no, is that a caret/correction, or is it मा? Wait, look above line 14: there is a little caret ^betweenरोपसङ्ग्रहाथैव! Wait, in line 13, look at 'यदिदमास्मिन्': Wait, is that 'आ' matra on 'म'? Wait, it looks like यदिदमास्मिन्orयदिदमस्मिन्? Wait, why does the commentary say: "यद्यपि 'यदिदमास्मिन्' इति श्रुतिपाठः । तथाऽपि समानजातीयश्रुत्यन्तरोपसङ्ग्रहाथैवमुदाहृतमिति ध्येयम् ।" Wait! Why would it say "यद्यपि 'यदिदमास्मिन्' इति श्रुतिपाठः"? Wait, is it "यदिदमस्मिन्" vs something else? Wait, look at line 1: In line 1: दिदमस्मिन् ब्रह्मपुरे दहरं...Wait, why did line 1 haveदहरं? Wait, look at line 13 again: यद्यपि 'यदिदमास्मिन्'? Wait, look at line 1: दिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं`
Look at line

२६२ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ३.]
'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्रा-
णि' (छा. ८-१.) इत्यादिनाऽऽकाशस्य प्रतीयते ।
(२) स चाकाशो न विष्णुः । 'तस्यान्ते सुषिरं सूक्ष्मं त
यः 'आकाशः' तदाख्यः परमात्माऽस्तीति । नन्वणौ तस्मिन् कथं
द्यावापृथिव्याद्यवस्थितिरित्यतस्तस्य व्याप्तत्वमाह—यावानिति । 'अ
यं' बहिःस्थितः 'आकाशः' तदाख्यो भगवान् गुणतः परिमाणत
श्च यावान् एष आन्तरोऽपि तावानेव । तथा चाणावपि रूपे ईशश
क्त्या महत्तत्त्वस्यापि सत्त्वाद्ब्याप्तस्य तस्यानेकाधारत्वं युज्यत एवे
ति भावः ॥
अन्यपरित्यागेनास्यैव जिज्ञास्यत्वे को हेतुरित्यतोऽस्य स
र्वाधारत्वाख्यं महिमानमा

[ अधि - ५. सू - १४. ] दीपिकासहितम्. २६३
स्मिन् सर्वं प्रतिष्ठितम्' (महाना. ११.) इति श्रुतेरिति ।
( ३ ) अत आह--
सू— ॐ ॥ दहर उत्तरेभ्यः ॥ ॐ ॥ १४ ॥
'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजि-
घत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः सोऽन्वेष्टव्यः
त्वं सिध्यतीत्यत आह—स चेति ॥ चस्त्वर्थः, प्रतिज्ञासमुच्चये वा ।
तथा च यस्सर्वाधारतया हृत्पद्मस्थत्वेन च श्रुत्युक्तः 'स चाकाशो
न विष्णुः' भूतमेव न तु विष्णुरित्यर्थः । कुतो वा न विष्णुरित्यत आ-
ह—तस्यान्त इति । स चेत्यनुषक्तश्चशब्दोऽत्र बुद्ध्या विविक्तसुषिरप-
देनान्वीयतेऽवधारणे चायम् । श्रुतिसमानोक्त्युपलक्षकं चैतत् ।
तथा च 'तस्यान्ते' इति वाक्ये 'सुषिरपदश्रुतेः' सुषिरशब्द-
श्रवणात् सुषिरस्य छिद्रात्मकप्रसिद्धाकाशस्यैव श्रुतेः सर्वाधारतया
हृत्पद्मस्थत्वोक्तेः तत्समाख्यानादित्यर्थः । 'तस्य' 'पद्मकोशप्रतीका-
शं हृदयं चाप्यधोमुखम्' इतिपूर्ववाक्ये प्रकृतस्य हृत्पद्मकोशस्य
'अन्ते' अन्तरे तन्मध्ये सूक्ष्मं 'सुषिरं' छिद्रमस्ति, तस्मिन् 'सर्वं'
जगत्प्रतिष्ठितमिति तैत्तिरीयश्रुत्यर्थः ॥
( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ 'इत्यादि-
भ्यः' इत्यादिरूपेभ्यः 'उत्तरेभ्यः' विषयवाक्यानन्तरभाविभ्यः 'श-
ब्देभ्य उक्तेभ्यः' इति शेषः । इत्यादिउत्तरवाक्येभ्य इति पर्यवसिता-
र्थः । यद्वा—'गुणेभ्यो' गुणवचनेभ्य इत्यर्थः । हेत्वसिद्धिपरिहारा-
य श्रुत्युदाहरणम् । आदिपदेन 'विशोकोऽविजिघत्सोऽपिपासः सत्य-
कामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इत्यादिकं गृह्य-
ते । गुणेभ्य इत्यनेनोत्तरपदमुत्तरत्रश्रुतानेकशब्दवाच्यगुणोपलक्षक-
मित्युकतं भवति । 'दहरे' हृत्पद्मगतल्पाकाशे इत्यनेन सूत्रे 'दहरे'
इति सप्तम्यन्तं पदं, न परमत इव प्रथमान्तमित्युक्तं भवति । स्थितोऽ-
न्वेष्टव्यतयोक्त इति शेषः । समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य त-
च्वित्यस्यार्थो विष्णुरेवेति । अनेन-'यः' इति दहरवाक्यादुत्तरवाक्ये षु
तेभ्यो गुणेभ्यो 'दहरे' विजिज्ञास्यतयोक्तो 'तत्तु' विष्णुरेव न भूताका-
शादिरिति सूत्रार्थ उक्तो भवति । यो हृत्पद्माकाशगतः परमात्मा 'न व-
धेनास्य हन्यते' (छा. ८-१-५.) इति प्राक् शरीरस्य नाशेनावध्यत्वेनो-
क्तः सः 'अपहतपाप्मा' नित्यमेव स्वतोऽपहतपाप्मा पापात्यन्ताभाववा-

स विजिज्ञासितव्यः' (छा. ८-७.) इत्यादिभ्य उत्त-
रेभ्यो गुणेभ्यो दहरे विष्णुरेव।
(४) 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति'
(बृ. ५-५०) 'स एष सर्वेभ्यः पाप्मभ्य उदितः'
(छा. १-६-७.) इत्यादिना विष्णोरेव हि ते गुणाः।
(५) नित्यतीर्णोशनायादिरेक एव हरिस्स्वतः।
अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि॥
इति पाद्मे॥
निति यावत्। अत एव न तत्कार्यं जरादिकमस्येत्युच्यते-विजर इत्या-
दिना। 'अविजिघत्सः' बुभुक्षारहितः। 'अपिपासः' पानेच्छारहित
इति। 'बुभुक्षादिना पीडाभाव उच्यते' इति ज्ञानपादीयटीकोक्तं नो-
दनपानेच्छाभावोऽभिधीयते, प्रमाणबाधितत्वात्। किन्तु तत्पीडाभा-
वः। अत्र हेतुः-सत्यकाम इति। तस्य यदिष्टं तत्स्वत एव भवेदिति
सत्यकामः। तत्रापि हेतुः-'सत्यसङ्कल्पः' अप्रतिहतसङ्कल्प इति।
य एवं भूतः सोऽन्वेष्टव्य इति श्रुत्यर्थः॥
(४) अपहतपाप्मत्वादिकं कथं विष्णुत्वनिश्चायकं, तद्गतत्वेना-
सिद्धत्वादित्यत आह-य इति॥ बृहदारण्यकश्रुतिरियम्। 'अशना-
या' अशनेच्छा। 'पिपासा' पानेच्छा। ते 'अत्येति' अतिक्रम्य वर्त-
ते। यश्च 'शोकं' दुःखं 'मोहं' मूर्छा 'जरां' मरणं चात्येतीत्यर्थः।
अत्रत्यस्य यच्छब्दस्य 'तमात्मानं विदित्वा' इति तच्छ्रुतिस्थतच्छब्दे-
नान्न्वयः। 'स एषः' इति छन्दोगश्रुतिः। 'स एषः' परमात्मा 'पा-
प्मभ्यः' पापेभ्यः 'उदितः' नित्यं स्वत एवोद्गतः पापरहित इत्यर्थः।
'इत्यादिना' वाक्येन। आदिशब्देन सत्यकामतवादिगुणान्तरबोधक
वाक्यानि गृह्यन्ते। हिशब्दो बत इत्यर्थे। ते अपहतपाप्मत्वादिरूपो-
त्तरवाक्योक्ताः सिद्धा इति शेषः। तस्माच्च तेषां विष्णुलिङ्गत्वनिश्च-
यः इति वाक्यशेषेणास्यान्वयः। अन्यत्र पापाद्यभावस्य कथञ्चिद्योगे-
ऽपि सर्वथा सत्यकामतवादिकं न युज्यत इति ज्ञापनायादिशब्दबहुव-
चनयोः प्रयोगः॥
(५) तथाऽपि नैते गुणा विष्णोरेव, रमादिष्वपि सम्भवादित्यत
आह-नित्येति॥ 'स्वतः' अन्यानपेक्षया नित्यं तीर्णा अशनायादयो
येन स हरिरेक एव, नान्योऽस्ति। हरेरन्ये रमाब्रह्मादयस्तु 'अशना-

[ अधि - ५. सू - १५. ] दीपिका सहितम्. २६५
(६) सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकृतव्यम् ।
(७) सत्यकामः परो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत्तत्काम्यकामिता ॥
इति स्कान्दे ॥ १४ ॥
(८) सू- ॐ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ ॐ ॥ १५ ॥
यादिकान् 'अशनपानेच्छाशोकादिदोषान् 'तत्प्रसादात्' तस्य हरे
रनुग्रहादेव 'तरन्ति' अतियन्ति, न स्वत इत्यर्थः। हिशब्दः प्रसिद्धौ।
'पाद्मे' उक्तमिति शेषः । अतो निरपेक्षगुणानामन्यत्राभावात् विष्णो
रेवेत्युक्तमिति भावः॥
(६) ननु रमादिष्वपहतपाप्मत्वादीनामन्यानधीनानामभावेऽपि
यथा कथंचित्सत्त्वादन्यगतैस्तैः कथं विष्णुत्वनिश्चय इत्यत आह—
सापेक्षेति ॥ 'सापेक्षं' अन्याधीनं 'निरपेक्षं' अन्यानधीनं तयोर्मध्ये
इत्यर्थः। चोऽवधारणे, निरपेक्षमेवेति सम्बध्यते । अपहतपाप्मत्वा
दिकमिति विशेष्यं प्रकृतत्वाल्लभ्यते । 'स्वीकर्तव्यं' लिङ्गत्वेनेति शे
षः। तथा च विवक्षितलिङ्गस्यान्यत्राभावात्तेन विष्णुत्वनिश्चयो भव
त्येवेति भावः॥
(७) किं च सापेक्षत्वनिरपेक्षत्वादिविशेषितानामपहतपाप्मत्वा
दीनामभावरूपाणामन्यत्राकाशादौ साक्षाद्वाऽभिमानिद्वारा वा यथा
कथं चिद्वृत्तावपि न कथं चिदन्यत्र सत्यकामत्वाद्यस्तीति युक्तस्तेन
विष्णुत्वनिश्चय इत्याह—सत्यकाम इति ॥ 'अव्ययं' अक्षीणकामम
मोघकामं सत्यकामं विष्णुं 'ऋते' विना 'परोऽन्यः' विष्णोरन्यः स
त्यकामः सत्यसङ्कल्पश्च नास्ति । विष्णौ तद्भावस्य तदन्यस्मिन् तद्
भावस्य च प्रतिपादनाय वक्रोक्तिः । विष्णोरन्येषां रमादीनां क्वचि
दागमे प्रतीयमानमपि सत्यकामत्वं 'तत्काम्यकामिता' विष्णुकामना
विषयविषयककामनावत्त्वरूपमेव भवेन्न मुख्यमित्यर्थः । तथा चापह
तपाप्मत्वं स्वतः पराधीनं चेति यथा द्विविधं, न तथा सत्यकामत्वं
किं त्वेकविधं, तच्च मुख्यं विष्णावेव, अन्यत्र तु पारिभाषिकमिति भा
वः। 'स्कान्दे' उक्तमिति शेषः । अतः सत्यकामत्वादिविवक्षया वि
ष्णोरेव हि ते गुणा इत्युक्तं युक्तमिति भावः ॥
(८) युक्त्यन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्या
सिद्धिपरिहाराय श्रुत्युदाहरणपूर्वकं व्याचष्टे—गतीति ॥ 'इमाः' सु
३४

३६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ ( छा. ८-
३-२.) इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।
(९) ‘सता सोम्य तदा सम्पन्नो भवति’ ( छा. ६-८.) इ
ति श्रुतेस्तं हि सुप्तो गच्छति ।
(१०) ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ (छा. ८-५-३.)
इति लिङ्गं च तथा दृष्टम् ।
साः प्रजाः ‘अहरहः’ प्रतिदिनमेतं ‘गच्छन्त्यः’ प्राप्यमाणाः ‘एतं’
ब्रह्मलोकं ब्रह्मणो विष्णोरावासस्थानभूतं हृत्पद्मं तद्द्वारा तत्रत्यं ब्रह्म
साक्षालोकपदोक्तं ब्रह्माख्यमाश्रयं वा ‘न विन्दन्ति’ न विजानन्ति,
स एष आत्मा हृदीति श्रुत्यर्थः । इतीति । इति छान्दोग्यवाक्ये ‘सुप्त
स्य’ चेतनस्य ‘तद्गतिः’ अहरहो हृद्गतं ब्रह्मलोकं प्रति गतिः प्राप्तिः
‘उच्यते’ व्यपदिश्यत इत्यर्थः । ‘ब्रह्मशब्दः’ इत्यत्रापि तदिति पदं
बुद्ध्या विविच्य विपरिणामेन सम्बध्यते। तथा च तस्मिन् प्राप्यमाणे
हृद्गते ब्रह्मलोके ‘ब्रह्मशब्दः’ ‘उच्यते’ श्रूयते इत्यर्थः । उच्यते च इत्य
पि सम्बन्धः । चः समुच्चये । यत इति शेषः । अस्यातोऽपि दहरे वि
ष्णुरेवेति प्रधानसाध्येनान्वयः ॥
(९) सुप्तप्राप्यत्वं कुतो विष्णुत्वनिश्चायकमित्यत आह-सतेति ॥
हे ‘सोम्य’ भक्तिज्ञानार्ह श्वेतकेतो ‘तदा’ सुप्तिकाले ‘सता’ ब्रह्म
णा ‘सम्पन्नः’ सङ्गतो भवतीत्यर्थः । उद्दालकवाक्यमेतत् । श्रुतेरिति
पञ्चमी । ‘तं’ विष्णुम् । हिशब्दः प्रसिद्धौ । ‘गच्छति’ प्राप्नोति । इ
ति ज्ञायते इति शेषः । तथा च सुप्तप्राप्यत्वस्य विष्णुलिङ्गत्वेन श्रुति
प्रसिद्धत्वात् तेन विष्णुत्वनिश्चयो भवतीति भावः ॥
(१०) ‘लिङ्गं च तथा हि दृष्टम्’ इति सूत्रशेषं हेत्वन्तरपरतया
व्याचष्टे—अरश्चेति ॥ चशब्दो हेतुसमुच्चये । यथा सुप्तगम्यत्वं ‘अह
रहः’ इति श्रुतौ हृत्पद्मस्थे दृष्टम्, तथा अरण्यनामामृतसमुद्रद्वया
श्रयलोकवत्त्वरूपं लिङ्गमपि ‘अरश्च’ इति श्रुतौ हृत्पद्मस्थे दृष्टं श्रुत
मिति । उपमायां तथाशब्दः । अनेनासिद्धिः परिहृता । न च गतिशब्द
योरिवास्य सन्निधौ हृत्पद्मस्थस्यानुक्तेरसिद्धिनिवृत्तिरिति वाच्यम् ।
हृत्पद्मस्थस्य ब्रह्मण आवासत्वेन निमित्तेन तल्लोकभूते हृत्पद्मे ‘एतं
ब्रह्मलोकम्’ इतिप्रयुक्तस्य ब्रह्मलोकशब्दस्यारण्याश्रयलोकेऽपि प्रयो
गात्तन्मुखेन तादृशलोकवत्त्वरूपलिङ्गस्य हृत्पद्मस्थब्रह्मनिष्ठतायः प्रा