पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 297, कुल 1267 में से
संदर्भ में पढ़ें२५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( २ ) अतो ब्रूते—
सू—ॐ ॥ अक्षरमम्बरान्तधृतेः ॥ ॐ ॥ १० ॥
'एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च'
( बृ. ५-८-११. ) इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवा
क्षरम् ।
त्पक्षे आकाशशब्दः प्रकृत्यन्यतत्पोष्यपरः ॥
अहं 'आहनसं' स्वाभिमन्यमानलताद्वारा यज्ञेष्वभिषूयमाणं
'सोमं' सोमलताभिमानिनं चन्द्रं त्वष्टारं च 'उत पूषणं' पूषणं
च भगं च 'बिभर्मि' दधामीत्यम्भृणीवाक्यस्यार्थः । त्वष्ट्रादयस्तु सू-
र्यप्रभेदाः । तत्त्वप्रदीपसत्तर्कदीपावल्योस्तु बृहद्भाष्यानुसारेण 'सो
मं' उमया सहितं 'आहनसं' आसमन्तात् हन्तारं संहर्तारं रुद्रं बि-
भर्मीति व्याख्यातम् ॥
'अक्षरं' देहतोऽप्यविनाशि, 'अनिर्देश्यं' शब्दागोचरं, 'सर्वत्र-
गं' देशतो व्याप्तं, 'अचिन्त्यं' मनसाऽग्राह्यं, गुणबाहुल्यात्, कूटे आका-
शोऽभिमानित्वेन तिष्ठतीति 'कूटस्थं', 'अचलं' कदापि स्वपदादभ्रष्टं,
'ध्रुवं' उत्पत्तिविनाशशून्यं, 'अव्यक्तं' श्रीतत्त्वं ये पर्युपासते इति
गीतार्थः ॥
प्रलये 'अभूतं' अजातं 'अप्रज्ञातं' प्रत्यक्षावेद्यं अवेद्यलक्षणत्वा-
दलक्षणं अत एव 'अतर्क्यं' अनुमानावेद्यं 'अविज्ञेयं' आगमावेद्यं
अनाद्यविद्याभिमानित्वात्, तमःशब्दवाच्यमिदं लक्ष्म्याख्यं तत्त्वं 'प्रसुप्त-
मिव' निर्व्यापारं 'सर्वतः' सर्वत्रासीदिति स्मृत्यर्थः ॥
( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे गहनार्थत्वा-
त्प्रथमं हेतुभागं व्याकरिष्यमाणोऽसिद्धिपरिहाराय श्रुतिमुदाहरति—
एतस्मिन्निति । इतीत्यनन्तरं 'वाक्ये' इति शेषः । अन्यपदार्थं दर्शय-
न्विग्रहं दर्शयति—अम्बरेति । अम्बरमाकाशः अन्तो यस्य सर्वस्य पृथि-
व्यादेर्धारकत्वोक्तेरित्यर्थः । यद्यपि 'एतस्मिन्' इति वाक्येऽम्बरधृतिरे-
वोच्यते । न तु तदन्तसर्वधृतिः । तथाऽपि 'यदूर्ध्वं गार्गि दिवो यदर्वाक्पृ-
थिव्यायदन्तरा द्यावापृथिवी...आकाश एव तदोतं च प्रोतं च' (बृ. ५-८-
७.) इत्यनेनाकाशस्य चित्प्रकृतेः सर्वाधारत्वमुक्त्वाऽनन्तरं 'एतस्मिन्'
इति वाक्येऽक्षरस्य तादृशप्रकृत्याधारत्वोक्तेः प्रकृतिद्वाराऽक्षरस्याम्बरा-
न्तसर्वाधारत्वमत्रोक्तमेवेति न दोषः । एतच्च सूत्रेऽम्बरान्तेत्यन्तपद्