पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 305, कुल 1267 में से
संदर्भ में पढ़ें२५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) स हि 'अविकारस्सदा शुद्धो नित्य आत्मा सदा ह
रिः' इत्यादिनाऽविकारः प्रसिद्ध इति ।
( ४ ) अतो ब्रवीति—
सू—ॐ ॥ ईक्षतिकर्मव्यपदेशात्सः ॥ ॐ ॥ १३ ॥
'तदैक्षत' इतीक्षतिकर्मव्यपदेशात्स एव विष्णुरत्रो
च्यते ।
तो 'बहु स्याम्' इत्युत्तरवाक्येन बहुभावाख्यपरिणामस्य विकारस्य
प्रतीतेरिति योजना । 'प्रजायेय' प्रजनयेयं जगत्सृजानि । तदर्थं 'बहु
स्याम्' नियामकबहुरूपी भवेयमिति । 'बहु स्याम्' तदर्थे प्रजायेये-
ति वा श्रुत्यर्थः ॥
( ३ ) विकारित्वप्रतीतावपि कुतोऽयं न विष्णुरित्यत आह—स ही-
ति ॥ 'हि' यस्मात् 'सः' विष्णुः 'अविकारः सदा' इत्यादिप्रमाणे
नाऽविकारः 'प्रसिद्धः' तत्त्वेन निश्चितस्तस्मात् तदसम्भवात् प्रधाने
च तत्सम्भवात् अत्र च विकारप्रतीतेः तत्सत् न विष्णुः, किं तु प्रधा
नमेवेति योजना । श्रुतौ द्वितीयस्य सदाशब्दस्य सदाऽविकार इत्यन्व-
यः । आद्यस्य तु सदा 'शुद्धो' निर्मल इति ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ सूत्रोक्तं व्य-
पदेशं दर्शयति—तदिति । ईक्षतीति धातुनिर्देशेन तदर्थेक्षणक्रिया ल-
क्ष्यते । ईक्षतिकर्मेति सामानाधिकरण्यं तत्कर्तृत्वपरम् । तथा च 'तदै-
क्षत' इति श्रुतावीक्षणाख्यव्यापारे कर्तृत्वोक्तेरित्यर्थः । यद्वा–कर्मशब्देन
सृष्ट्यादिक्रियोच्यते । तथात्वे वैयधिकरण्यम् । ईक्षतिपूर्वकसृष्ट्यादि-
व्यपदेशादित्यर्थः । समन्वयसूत्रात्तदित्यस्य अनुषङ्गसम्भवेऽपि 'एको
नारायण आसीत्स मुनिर्भूत्वा' ( ) इत्यादिसामाख्यामपि प्रमा-
णीकर्तुं स इत्युक्तम् । तदनूद्य विष्णुरिति व्याख्यातम् । विष्णुरेवेत्य-
न्वयः । एवेति तुशब्दार्थः । अनेन समन्वयसूत्रात्तुशब्दमात्रमनुवर्तनी-
यमिति सूचितम् । सूत्रे समन्वेतव्यानुक्तेराह—अत्रेति । 'सदेव' इत्यादि-
स्थान इत्यर्थः । सच्छब्देनेति शेषः । तथा चात्र प्रकरणजाते सच्छब्दे-
न य उच्यते, स विष्णुरेव, न तु प्रधानमिति साध्यवाक्यार्थः । अनेन
अत्र सदेवेत्यादिस्थाने सच्छब्देनोच्यमानः स विष्णुरेव, न प्रधानम् ।
कुतः ? 'ईक्षतिकर्मव्यपदेशात् सः' ततः 'तदैक्षत' इतीक्षणाख्यक्रि-
याकर्तृत्वश्रवणादीक्षितृत्वसृष्ट्यादिक्रिययोर्वा श्रवणाज्जडप्रकृतौ च