पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ५. सू - १५० ] दीपिकासहितम्. २६७
( ११ ) अरश्च वै ण्यश्च सुधासमुद्रौ
तत्रैव सर्वाभिमतप्रदौ द्वौ ।
सत्त्वात् । दृष्टमित्यनन्तरं यत इति शेषः । अस्यातोऽपि दहरो विष्णुरे
वेति प्रतिज्ञावाक्येनान्वयः । श्रुतौ ह वा इति निपातौ प्रसिद्धद्योतकौ।
समुद्रयोरन्योन्यसमुच्चये च शब्दौ । तथा च ब्रह्मणो विष्णोर्लोके श्वे
तद्वीपे अरण्याख्यार्णवौ सुधासमुद्रौ अर्णवोपमे सुधासरसी वा स्त
इति श्रुत्यर्थः ॥
( ११ ) ननु हृत्पद्मस्थस्यारण्याश्रयलोकवत्त्वलिङ्गश्रवणेऽपि कुतोऽ
यं विष्णुरित्यतोऽरण्याश्रयत्वस्य विष्णुलौकैकलिङ्गत्वेन स्मृतिसिद्ध
त्वादित्याशयेन सौत्रहिशब्दाभिप्रेतां स्मृतिं दर्शयति—अरश्चेति ॥ वै
शब्दः प्रसिद्धौ । चशब्दौ परस्परसमुच्चये । 'तत्रैव' क्षीराब्धिमध्य
स्थितविष्णुलोक एव 'सर्वाभिमतप्रदौ' सर्वेष्टकरौ स्त इत्यर्थः । ए
वकारोऽन्यत्र सत्त्वव्यावर्तकः । तेनारण्याश्रयलोकवत्त्वलिङ्गस्य वि
ष्णुत्वेनाव्यभिचारः सिद्ध्यति । अत एव भाष्ये तस्यैवेत्येवकारः। 'इ
त्यादिना' पुरुषोत्तमध्यानचक्रवाक्येन 'तस्यैव' विष्णोरेव 'तत्'
सुधार्णवद्वयाश्रयलोकवत्त्वं 'लक्षणत्वेन' लिङ्गत्वेन 'उच्यते' प्रति
पाद्यते इत्यर्थः । 'हि' यस्मादित्यर्थे । तस्मादेतल्लिङ्गबलात् विष्णु
त्वनिश्चयो युक्त इति वाक्यशेषः । यद्वा—ब्रह्मलोकमिति हृत्पद्मस्थ
'विष्णुलोकत्वोक्तेः तदन्तर्गतो विष्णुरित्युक्तं, ब्रह्मलोकपदं कुतो विष्णु
लोकवाचीत्यत आह—अरश्चेति । ब्रह्मलोकपदस्य विष्णुलोके 'अर
श्च' इतिवाक्ये प्रयोगादत्र हृत्पद्मे प्रयुक्त 'एतं ब्रह्मलोकम्' इतिपद
मपि विष्णुलोकपरमेव । न च 'अरश्च' इतिश्रुतावपि ब्रह्मलोकपदं
कुतो विष्णुलोकपरमिति वाच्यम् । यतस्तत्रारण्याश्रयत्वलिङ्गं श्रुत
मित्यर्थः । अथाप्यरण्याश्रयत्वस्य भगवल्लोकलिङ्गत्वं कुत इत्यत आ
ह—अरश्चेति । अस्मिन् पक्षे सौत्रं लिङ्गपदं हृत्पद्मस्थस्य ब्रह्मत्वसा
धकब्रह्मलोकपदाख्यहेतोर्विष्णुलोकपरत्वसाधकारण्याश्रयत्वाख्यहेतु
परम् । अतएवास्य लिङ्गस्य हेतुगतविशेषसाधकत्वेन हृत्पद्मस्थस्य
ब्रह्मत्वरूपप्रधानसाध्ये हेतुत्वाभावात्सूत्रे लिङ्गशब्देन पृथगुक्तिः । पू
र्वव्याख्यानेऽपि गतिशब्दयोरिवास्य लिङ्गस्य विष्णुनिष्ठताया उपपाद
नसापेक्षत्वेन स्पष्टत्वाभावाद्गतिशब्दलिङ्गैरित्यनुक्त्वा लिङ्गं चेति पृथ
गुक्तिर्युक्ता । अनेन-न केवलमुत्तरेभ्यो गुणेभ्यः, किन्तु गतिशब्दा
२६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ १५ ॥
( १२ ) सू— ॐ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ ॐ ॥ १६ ॥
'एष सेतुर्विधृतिः' ( छा. ८-४. ) इति धृतेः,
( १३ ) 'एष भूताधिपतिरेष भूतपालः' ( बृ. ६-४-२२. ) इ
भ्यां च 'अहरहः' इतिवाक्ये हृत्पद्मस्थनिष्ठतया श्रुताभ्यां सुप्तप्रा
प्यत्वब्रह्मशब्दाभ्यां च दहरे विष्णुरेवेति ज्ञायते । न केवलमेताभ्यामे
व, किन्तु यतः 'अरञ्च' इति श्रुतौ 'तथा' गतिशब्दयोरिव 'हि' विष्णु
लिङ्गत्वेन स्मृतिसिद्धमरण्याश्रयलोकवत्त्वरूपं लिङ्गं हृत्पद्मस्थे विष्णौ
लोके प्रयुक्तब्रह्मलोकपदस्य हृत्पद्मे प्रयोगात् 'दृष्टं' श्रुतमतोऽपि दहरे
विष्णुरेव । यद्वा—कुतोऽत्र प्रयुक्तस्य ब्रह्मलोकपदस्य विष्णुलोकपरत्वं ?
'अरञ्च' इति वाक्ये विष्णुलोके ब्रह्मलोकपदप्रयोगात् । अत्रापि 'ए
तं ब्रह्मलोकम्' इति तस्यैव प्रयोगात् । न च तत्रापि विष्णुलोकप
रत्वं कुतः ? यतोऽरण्याश्रयत्वं लिङ्गं 'दृष्टं' श्रुतमत इति सूत्रार्थ उ
क्तो भवति ॥
( १२ ) हेत्वन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्य
व्याचष्टे—धृतेरिति ॥ 'इति धृतेः' इत्यस्य 'अस्मिन्नस्य' इतिपदा
नुवर्तनेनेत्यस्मिन्वाक्येऽस्य हृत्पद्मस्थस्य धृतिपदोक्तसर्वाधारत्वश्रुते
रित्यर्थः । अस्य दहरे विष्णुरेवेति प्रतिज्ञावाक्येनान्वयः । श्रुतौ विधृ
तिः सेतुरित्यन्वयः । तत्र विधृतिरित्युक्तमेतत्सेतुत्वे हेतुः । तथा च य आ
त्मा हृत्पद्मस्थत्वेनोक्तः स एष 'एषां' भूरादिलोकानां 'असंम्मेदा
य' असाङ्कर्याय अविदारणायेति, व्यासतीर्थीयोकरीत्या वर्णाश्रमसा
ङ्कर्याभावायेति वा 'विधृतिः' धारणपोषणसमर्थोऽत एव सेतुरिव
'सेतुः' आश्रय इत्यर्थः । धारकत्वं च न धार्याद्वहिष्ठतया, किन्त्वन्तः
कृतजगत्वेन, 'श्रितमस्मिन् जगत्सर्वमिति सेतुरितीरितः' इत्युक्तेः मु
ख्यार्थ एव वा सेतुशब्दः । यद्यपि 'स सेतुर्विधृतिः' इति छन्दोगश्रु
तिपाठः । तथाऽपि शाखान्तराणामप्यत्रोपसंग्रहायेवमुक्तिः । एवम
न्यत्रापीति सम्प्रदायविदः ॥
( १३ ) एवं सेतुसमुच्चायकसौत्रचशब्दस्य यथाश्रुतान्वयेन लिङ्गो
क्तिपरतया धृतेश्चेत्यंशं व्याख्यायेदानीं समग्रं सूत्रं समानोक्तिरूपस
माख्यापरतया व्याचष्टे—एष इति ॥ धृतेरितिपदमत्रानुषज्यते । अ
स्मिन् पक्षे सौत्रचशब्द उपलब्धेश्चेत्यन्वेति । तथा च न केवलं धृते
[अधि - ५. सू - १६. ] दीपिकासहितम्. २६९
त्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।
लिङ्गात्, किन्तु 'धृतेः' धृतियुक्तायास्तद्बोधिकाया उपलब्धेः वाजस
नेयके 'य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी' ( बृ.
६-४-२२.) इत्याद्युक्त्वा आम्नातायाः 'एष सर्वेश्वर एष भूताधिपतिरे
ष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदय' इत्युक्तेः स
मानोक्तेश्च दहरे विष्णुरेवेति योजना । समाख्यायाः कुतो विष्णुपर-
त्वमित्यत आह—एष इति । इत्यादीति लुप्ततृतीयाविभक्तिको निर्दे-
शः । आदिशब्देन 'एष सर्वस्य वशी एष सर्वस्याधिपतिरेष सर्वेश्व-
रः' ( बृ. ६-४- २२. ) इति पूर्ववाक्यं 'एष सेतुर्विधरण एषां लोका-
नामसम्मेदाय' इत्युत्तरवाक्यं च गृह्यते । अत एव मध्यस्थवाक्यप्र-
हणं कृतम् । अस्य महिम्न इति व्यधिकरणषष्ठी । उपलब्धेरित्यावृत्त-
मत्रान्वेति । तथा च 'अस्मिन्' वाजसनेयके 'एष भूताधिपतिः' इ-
त्यादिना वाक्येन 'अस्य' विष्णोर्भूताधिपतित्वादिमहिम्नः 'अस्मिन्'
दहराकाशगते वस्तुनि 'उपलब्धेः' उक्तत्वादिति योजना । य एष सर्व-
स्याधिपतिः, यश्चैष सर्वेश्वरो, यश्चैष प्रसिद्धो
२७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( १४ ) ' एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च '
( बृ. ५-८-११. ) ' एतस्य वा अक्षरस्य प्रशासने गा-
र्गि ' ( बृ. ५-८-९. )
( १५ ) ' स हि सर्वाधिपतिः स हि सर्वपालः स ईशः स
विष्णुः ' ' पतिं विश्वस्यात्मेश्वरम् ' ( महाना. ११० )
इत्यादिभ्रुतिभ्यस्तस्य ह्येष महिमा ।
( १६ ) सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः ।
इति च स्कान्दे ॥ १६ ॥
हृत्पद्मस्थत्वरूपपक्षधर्मोपपादकतयाऽपि योजनीयः ॥
( १४ ) यदुक्तं सर्वाधारत्वलिङ्गश्रवणात् हृत्पद्मस्थो विष्णुरिति,
तत्र सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकं, तत्समानाधिकरणत्वेनासि-
द्धत्वादित्यत आह—एतस्मिन्निति ॥ ' एतस्य वा अक्षरस्य प्रशासने '
इति प्रतीकग्रहणेन ' एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम-
सौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथि-
व्यौ ' इत्यादिबहुवाक्यानि सूचयति । इमान्यक्षरनये व्याकृतानि ॥
( १५ ) ननु समाख्याश्रुत्युक्तः सर्वेश्वरत्वादिमहिमा कुतो विष्णो-
रवगत इत्यत आह—स हीति ॥ ' स हि ' इत्यारभ्य ' स विष्णुः ' इ-
त्यन्तमेकं वाक्यं श्रुत्यन्तरगतम् । ' सः ' प्रकृतः । ' हिः ' प्रसिद्धौ ।
' पतिं विश्वस्य ' इति नारायणानुवाकस्थं वाक्यम् । ' विश्वस्य ' अ-
चेतनप्रपञ्चस्य पतिं ' आत्मेश्वरं ' चेतनेश्वरं नारायणं तद्विश्वमुपजी-
वतीत्यर्थः । इत्यादीति । एवमादिश्रुतिवाक्येभ्य इत्यर्थः । आदिशब्देन
तज्जातीयं गृह्यते । तृतीयार्थे पञ्चमी । ' तस्य ' विष्णोः ' हिः ' प्रसि-
द्धौ हेतौ वा । ' एष सर्वेश्वरः ' ( बृ. ६-४-२२. ) इत्यादिमहिमा । अ-
वगत इति शेषः । तस्माच्चैतेषां विष्णुत्वरूपसाध्यसामानाधिकरण्या-
सिद्धिरिति वाक्यशेषः ॥
( १६ ) ननु सर्वेश्वरत्वादिकं विष्णुवदन्यस्यापि किं न स्यादित्यत
आह—सर्वेश इति ॥ अत्र सर्वजगच्छब्दौ चेतनाचेतनप्रपञ्चपरौ ।
यद्वा—जगतः पतिरिति प्रतियोगित्वेनैवोक्तस्यानुवादः । अथवा—
' पतिः ' पालकः । तथा च सर्वेश्वरः सर्वपालकश्च विष्णुरेक एव ना-
न्योऽस्तीत्यर्थः । इति स्कान्द इत्यस्य एवकारोक्तपदाध्याहारेण तस्य
ह्येष महिमेति पूर्वेणान्वयः । तस्मान्नैतल्लिङ्गानामन्यत्र सावकाशत्वं
त्रेति परामृश्यते । तथा च 'तत्रापि' पुण्डरीकेऽपि यत्
'दहरं' अल्पं गगनमस्ति तस्मिन् 'अन्तः' अन्तरे 'विशोको' वि
शोकं विशोकपदोपलक्षितं जरादिशून्यं यद्ब्रह्म तदुपासितव्यमित्यर्थः।
विशोकः इति लिङ्गव्यत्ययः छान्दसः । तत्त्वप्रदीपे तु—लिङ्गव्यत्या
स्तस्य पुरुषत्वज्ञापनार्थः । 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्वि
शोकः' इत्यादावुदितगुणानामधिकरणैक्यबलेन सन्निधीयमानानाम
नुकर्षणार्थश्चेति प्रयोजनमुक्तम् ॥
( १८ ) ननु साक्षात् पद्मगतस्य विष्णुत्वाभ्युपगमे सुषिरश्रुतिवि
रोधः । एवं पद्मगताकाशस्यैव विष्णुत्वाभ्युपगमेऽपि सुषिरश्रुतिविरो
धः, सुषिरशब्दस्याकाशवाचित्वात् । एतद्विहाय दहरपद्मस्याकाशत्वं,
विष्णोस्त्वाकाशगतत्वं, तस्यैव सर्वाधारत्वमित्युपगमेऽपि सुषिरश्रु
२७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
(१९) सू—ॐ ॥ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ॐ॥१८॥
'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते'
(छा. ८-१२-३.) 'एष आत्मेति होवाच' (छा.४-
१५-१०) इति जीवपरामर्शात्स इति चेत्—
(२०) न, तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ १८ ॥
तिविरोधः । तत्र साक्षात्सुषिरस्य सर्वाधारत्वोक्तेरित्यत आह—तद
न्तस्येति ॥ बुद्ध्या विविक्तसुषिरश्रुतिपदं षष्ठ्यन्तमत्रान्वीयते । तथा च
'सुषिरश्रुतेः' सुषिरस्याकाशस्यैव साक्षात्सर्वाधारत्वप्रतिपादिकायाः
'तस्यान्ते' इति सुषिरपदघटितश्रुतेः 'तदन्तस्थस्यापेक्षत्वात्' पद्मगतं
सुषिरान्तस्थपरमात्मानमपेक्ष्य प्रवृत्तत्वात्तस्य च सर्वाधारत्वान्न सु
षिरश्रुतिविरोधोऽस्मदभ्युपगमस्येत्यर्थः । यथा मन्दिरस्थमञ्जूषान्त
र्गतमपि वस्तु मन्दिरस्थमिति सङ्गीर्यते, एवमिहापीति भावः । तद्
न्तस्थत्वेनेति पाठे परमात्मनः सुषिरान्तस्थत्वमपेक्ष्य श्रुतेः प्रवृत्तत्वा
दित्यर्थः ॥
(१९) भगवतो हृत्पद्मस्थत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षे
पांशं तावद्व्याचष्टे—इतरेति ॥ 'निष्पद्यते' इत्यनन्तरमित्युक्तस्येति शे
षः । अस्य च समासप्रविष्टजीवपदेनान्वयः । अनेन सूत्रे अस्मिन्न
स्येत्यस्यानुवृत्तिः । इतरपदं सिद्धान्त्यभिमतब्रह्मप्रतियोगिजीवपरम् ।
अत एव श्रुतावेष इति जीवपरामर्शः । सिद्धान्ते श्रुत्यर्थस्तु वक्ष्यते ॥
(२०) धृतिसूत्रात् 'अस्यास्मिन् उपलब्धेः' इत्यस्यानुवृत्तिमभि
प्रेत्य परिहारांशं व्याचष्टे—नेति ॥ हृत्पद्मस्थो न जीव इत्यर्थः । कु
तो नेत्यतस्तत्रानुवृत्तवाक्येन 'अस्मिन्' प्रकरणे 'अस्य' अपहतपाप्म
त्वादेरुपलब्धेरित्यस्य हेतोर्लाभात्तमनुपन्यस्योक्तहेतोर्जीवे निरवका
शत्वोक्तिपरतयाऽसम्भवादित्यंशं व्याचष्टे—तस्येति । जीवस्येत्यर्थः ।
मुक्तभावमादाय जीवे सम्भवात् असिद्धिवारणाय—स्वत इति ।
स्वातन्त्र्येणेत्यर्थः । सत्यकामत्वादिकमादिशब्दार्थः । अनेन—'अस्मि
न्' 'परं ज्योतिः' इतिवाक्येऽभिव्यक्तिकर्तृत्वेनोक्तस्य प्रकृतस्योप
सम्पत्तिकर्मीभूताद्ब्रह्मण इतरस्यास्य जीवस्यात्मेति 'य आत्मा' इ
त्युक्तहृत्पद्मस्थात्मत्वविधानाय 'एषः' इत्येतच्छब्देन 'परामर्शात्'
उपस्थापनात् । जीवपरामर्शकैतच्छब्दश्रवणादिति यावत् । दहरे
स जीव एव, न विष्णुरिति चेत्—न, हृत्पद्मस्थो जीवः । कुतः ? अ
उच्यत इत्यत आह—! Perfect!
-
Let's check line 31:
इति न सौत्रपदव्याख्यानमात्रम् । किन्तूद्देश्यसमर्पकं च । अनेन आवृ
Wait, is itआवृat the end of line 31 andत्तिस्तुशब्दस्यat line 32?
आवृ-त्तिस्तुशब्दस्य=आवृत्तिस्तुशब्दस्य(आवृत्तिः तु-शब्दस्य)!
Yes! -
Let's check the bottom page/section number:
३५
Center aligned at the bottom.
-
Confirm the entire text line by line:
[ अधि - ५. सू - १९. ] दीपिकासाहितम्. २७३
(२१) सू—ॐ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ ॐ ॥ १९ ॥
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ ( छा.८-
१२-३. ) इत्याद्युत्तरवचनाज्जीव एवेति चेत्—
( २२ ) न, तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त
उच्यते ।
[L
२७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( २३ ) यत्प्रसादात्स मुक्तो भवति स भगवान् पूर्वोक्तः ॥ १९ ॥
च्यते स तु परमेश्वरप्रसादादेव 'आविर्भूतस्वरूपः' आविर्भूतो व्यक्तः
स्वरूपः अपहतपाप्मत्वादिः स्वधर्मो यस्य स तथोक्तः । अतो न स्व-
तोऽपहतपाप्मत्वादिगुणकः, अतो न दहरस्थः जीव इति योजना ।
( २३ ) ननु 'परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छां.
८-३-४.) इत्यत्र मुक्तस्याभिव्यक्तापहतपाप्मत्वादिगुणकत्वमेवोच्यते,
न तु तद्गुणानां परमेश्वराधीनत्वम् । अतस्तत्स्वत एवेत्यत आह—यदिति ॥
अस्य यच्छब्दस्य द्वितीयतच्छब्देनान्वयः । प्रसादो नाम इच्छाविशे-
षः । 'सः' जीवः । पुनः स इत्युक्त्या सूत्रेऽनुवृत्तस्य स इत्यस्यावृत्तिः सू-
चिता । पूर्वोक्त इत्यनेन सूत्रे उत्तरत्रेत्यस्य प्रतियोगितया पूर्वत्रेत्युप-
स्कार्यमित्युक्तं भवति । तथेति शेषः । तथा च 'यत्प्रसादात्' यस्या-
नुग्रहात् 'सः' जीवो 'मुक्तः' अपहतपाप्मत्वादिगुणो भवति 'सः'
गुणप्रदाता भगवान् 'पूर्वोक्तः' 'परंज्योतिरुपसम्पद्य' इति पूर्ववा-
क्ये 'तथा' गुणप्रदातृतया उक्त इति योजना । अन्यथा ल्यबन्तपदं
व्यर्थं स्यादिति भावः । उक्त इत्यनन्तरं यत इति शेषः । अस्यातो
नात्र मुक्तगुणप्राप्तेः परमेश्वराधीनत्वोक्त्यभाव इत्युपस्कृतवाक्येना-
न्वयः । अथ वा—ननु जीवेऽन्याधीनस्य तद्गुणजातस्य सत्त्वात्स एवा-
पहतपाप्मत्वादिनोक्तो हृत्पद्मस्थश्चास्त्वित्यत आह—यदिति । योज-
ना तु—यत्प्रसादात्स जीवो जडदेहान्मुक्तो भवति, मुक्तो भूत्वा च
सोऽपहतपाप्मत्वादिगुणो भवति, स भगवानेव 'पूर्वोक्तः' 'य आ-
त्माऽपहतपाप्मा' (छां. ८-१-५.) इत्यादिपूर्ववाक्ये तथाऽपहतपाप्म-
त्वादिनोक्तो न जीवः । दातृप्रतिगृहीत्रोर्मध्ये दातुरेव मुख्यत्वान्मुख्या-
मुख्ययोश्च मुख्यस्यैव ग्राह्यत्वादिति ॥
अनेन—अस्य 'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय' (छां.
८ - ३ - ४. ) इत्युक्तस्य जीवस्य 'उत्तरात्' दहरवाक्यापेक्षया प-
रामर्शवाक्यापेक्षया वाऽनन्तरात् 'स तत्र पर्येति' इत्यादिवचनात्
'अस्मिन्' पूर्वप्रकृते जीवे 'अस्य' सत्यकामत्वस्य 'उपलब्धेः' प्र-
तीतेः, तत एवास्य विशोकत्वादेः सिद्धेश्च । अत एवास्योक्तगुणा-
सम्भवाभावात्स हृत्पद्मस्थो जीव एव नेश्वर इति चेत्—न, यतस्त-
त्र 'स्वेन' इत्युत्तरवाक्यबलादाविर्भूतस्वरूपो मुक्त उच्यते । स
च देहानन्तर्गततया न हृत्पद्मस्थो भवतीति भावः । न च मुक्तस्यापि
[ अधि - ५. सू - २०. ] दीपिका सहितम् २७५
(२४) सू- ॐ ॥ अन्यार्थश्च परामर्शः ॥ ॐ ॥ २० ॥
जीवत्वेन तत्रापहतपाप्मत्वहृत्पद्मस्थत्वयोर्भिन्नकालीनत्वेऽपि सामा-
नाधिकरण्योपपत्तेरस्ति पुनस्तस्य प्राप्तिरिति वाच्यम् । यतोऽत्र वाक्ये
यो मुक्त उच्यते स उत्तरादुत्तमात्परमेश्वरप्रसादादेवाविर्भूतस्व-
रूपो न स्वतः । न चात्र मुक्तस्य तद्गुणत्वमेवोच्यते, न परमेश्वराधी-
नत्वं तद्गुणजातस्येति वाच्यम् । यतः पूर्वत्र 'परं ज्योतिः' इति पूर्वे
वाक्ये यत्प्रसादात्स मुक्तो भवति स परमात्मा तथा गुणप्रदातृतयो-
च्यते । न च यथाकथं चित् जीवस्यापहतपाप्मत्वादिगुणकत्वात्पुनस्त-
स्त्राप्तिरिति वाच्यम् । यतो यस्मादुत्तरादुत्तमाद्भगवतस्तत्प्रसादात्स
मुक्तः 'आविर्भूतस्वरूपः' अभिव्यक्तापहतपाप्मत्वादिगुणकः स तु भ-
गवानेव पूर्वत्र 'य आत्माऽपहतपाप्मा' (छां.८-१-५.) इति पूर्ववाक्ये उ-
क्तो, न मुक्तजीव इति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु 'एषः' जीवो य-
तः 'सम्प्रसादः' सम्यग्विष्णुप्रसादवान् अतो 'अस्मात् चरमशरीरा-
त्' 'समुत्थाय' मुक्तः 'यत्परं ज्योतिः' ब्रह्म 'उपसम्पद्य' प्राप्य
स्वेन रूपेण 'अभिनिष्पद्यते' अभिव्यज्यते 'स उत्तमः पुरुषः' परं
ज्योतिराख्यः । मुक्तस्य विषयैश्चरणप्रकारमाह - स इति । ' सः '
प्राप्तनिजानन्दाविर्भावो मुक्तः 'तत्र' मुक्तिस्थाने परमात्मानुग्रहेणै-
व 'जक्षन्' स्वापेक्षितं भक्षयन् हसन्वा ज्ञातिभिस्सह मुक्तैः अज्ञाति-
भिः पूर्वकल्पमुक्तैः 'क्रीडन्' स्त्रीभिः'रममाणः' रतिं प्राप्नुवन् प्राकृत-
स्त्र्यादिविषयसौख्यमनुभवन् 'पर्येति' परितः सञ्चरतीति ॥
( २४ ) ननु 'एषः' इति जीवं परामृश्य ' आत्मा ' इति तस्य हृत्प-
द्भस्थात्मत्वाभिधानादमुख्यापहतपाप्मत्वादिगुणोऽपि जीवः एतच्छ-
ब्दपरामर्शबलेन हृत्पद्मस्थात्मा किं न स्यादित्याशङ्कां परिहरत्सूत्रमु-
पन्यस्य 'इतरपरामर्शात्स इति चेन्न' इत्यनुवृत्तपूर्ववाक्येनापेक्षितं
स्य सिद्धान्तप्रतिज्ञायाश्च लाभान्नेत्युक्तसाध्ये हेतुतया सूत्रं व्याच-
ष्टे - अन्येति ॥ श्रुतौ 'परंज्योतिः' इति नपुंसकपदनिर्दिष्टस्य यमि-
ति पुल्लिङ्गेन निर्देशो लिङ्गस्याविवक्षितत्वाद्वा विशेष्यशब्दविवक्षर्या
वा युक्तः । अनेन श्रुतौ परंज्योतिरिति एकं पदम् । यद्वक्ष्यति 'परं
ज्योतिःशब्देन परमात्मैवोच्यते' इति, तच्च 'परंज्योतिः परंब्रह्म'
इति पौराणिकरूढ्या विष्णुवाचीत्युक्तं भवति । ज्योतिः प्रकाशरूपं
२७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आ
त्मेति परमात्मार्थश्च परामर्शः ॥ २० ॥
( २५ ) सू— ॐ ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ ॐ ॥ २१ ॥
परं ब्रह्मेति भिन्ने पदे इत्यपि केचित् । अस्मिन् पक्षे उक्तभाष्यविरो
धः । किं च ' यं परंज्योतिराख्यं भगवन्तम् ' इति यच्छब्दव्याख्या
नपरटीकाविरोधः । ' परंज्योतिः परमात्मानम् ' इति विष्णुत्तत्वनि
र्णयटीकाविरोधश्च । श्रुतावुपसम्पद्येत्यस्यार्थः प्राप्येति । सौत्रान्य
पदं पूर्वपक्ष्यभिमतजीवप्रतियोगितया व्याख्याति-परमात्मेति । पर
मात्मैवार्थोऽभिधेयो यस्य स तथोक्तः । ' परामर्शः ' एतच्छब्दः ।
यद्वा— परमात्मन एवात्मत्वविधानमर्थः प्रयोजनं यस्य स तथो
क्तः । तथात्वे ' परामर्शः ' एतच्छब्देन परिग्रहणमित्यर्थः । सूत्रभा
ष्ययोश्चशब्दस्तु न केवलं जीवपक्षेऽपहतपाप्मत्वासम्भवाख्यबाधक
सद्भावः, किन्तु परामर्शाख्यसाधकाभावश्चेति समुच्चयार्थस्तुशब्दा
र्थो वा । चन्द्रिकायां तु— न केवलं परामर्शस्य ईश्वरपक्षे बाधकत्वा
भावः, किन्तु जीवपक्षसाधकत्वाभावश्चेत्युक्तत्वात्परामर्शो जीवान्ये
श्वरार्थ एव जीवार्थ इत्यवधारणार्थतया व्याख्यातः । अनेन— ' इतर
परामर्शात् ' इतरं जीवं ' एषः ' इति परामृश्य तस्य हृत्पद्मस्थत्ववि
धानात्स हृत्पद्मस्थ आत्मा जीव एव नेश्वर इति चेत्— न, कुतः ? य
तः ' एषः ' इति परामर्शः ' अन्यार्थः ' जीवान्येश्वरार्थ एव, न जीवार्थः,
अतः । अथवा— न केवलमसम्भवात्, किन्तु यतः परामर्शोऽन्यार्थोऽ
पि । यद्वा— असम्भवान्न हृत्पद्मस्थो जीवः, किन्त्वीश्वर एव । न चैवं
परामर्शायोगः । यतः ' परामर्शः ' एतच्छब्दस्तु अन्यार्थ इति त्रेधा
सूत्रार्थ उक्तो भवति । ' यं प्राप्य ' यत्समीपं प्राप्येति । अनेन जीवः
परंज्योतिराख्यं परमात्मानमुपसम्पद्यापरोक्षतो ज्ञात्वा अथ समीपं
प्राप्याविद्याविधूननेनानन्दादिस्वेन रूपेणाभिनिष्पद्यते आविर्भूतस्व
गुणो भवतीति यावत् । यं प्राप्य स्वरूपेणाभिनिष्पद्यते जीवः, स
एष आत्मा य आत्मेति प्रागुक्तः परमात्मेति होवाच ब्रह्मादीन् प्रति र
मेति सिद्धान्ते श्रुत्यर्थः ॥
( २६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य श्रुत्युदाहरणेनाक्षेपां
शं तावद्व्याचष्टे— अल्पेति ॥ ' दहरः ' इति प्रतीकग्रहणेन ' दहरोऽ
स्मिन्नन्तर आकाशस्तस्मिन्यदन्तः ' इति वाक्यं गृह्यते । अल्पपदं
[ अधि - ५. सू - २१. ] दीपिकासहितम्. २७७
'दहरः' (छा. ८-१-१.) इत्यल्पश्रुतेर्नेति चेत् -
(२६) न, 'निचाय्यत्वादेवं व्योमवच्च' इत्युक्तत्वात् ।
(२७) 'एष म आत्माऽन्तर्हृदये ज्यायान्' (छा. ३-१४-३.)
चाल्पस्थानस्थितिपरम् । श्रुतेरित्यनन्तरमसम्भवादित्यनुवर्तते । अ-
स्मिन्निति चास्ति । तथा च 'दहरः' इति वाक्ये 'अस्मिन्' दहरग-
ते वस्तुन्यल्पस्थानस्थितिरूपलिङ्गश्रुतेस्तस्याश्चास्मिन्परमात्मनि 'अ-
सम्भवात्' अनुपपत्तेरित्यन्वयः । अस्माद्धेतोर्न दहरे विष्णुः, किन्तु
स जीव एवेतीतरसूत्रानुवृत्तप्रतिज्ञयाऽन्वयः ॥
(२६) सूत्रेऽनुवृत्तनञ् आवृत्तिमभिप्रेत्य परिहारांशं व्याख्याति - ने-
ति ॥ नाल्पस्थानस्थितिश्रवणं विष्णावनुपपन्नमित्यर्थः । कुतो नेत्यतः
प्रवृत्तं तदुक्तमित्यंशं यत इत्यध्याहाराभिप्रायेण हेतुतया व्याख्याति -
निचाय्यत्वादिति । अत्रापीति शेषः । तथा च 'निचाय्यत्वात्' इत्यत्र
सर्वगतस्यापि विष्णोर्व्योमवदल्पस्थानस्थितेरुक्तत्वादित्यर्थः ॥
(२७) ननु युक्तं व्योम्नोऽंशतोऽल्पौकस्त्वं, अंशस्यापूर्णत्वात् । ब्रह्म-
णि तु अंशोऽपि पूर्ण इति कथं तस्यांशतोऽल्पौकस्त्वमित्यतः सूत्रशेषं
प्रकारान्तरेण व्याचष्टे - एष म इति ॥ चशब्दो युक्तिसमुच्चये । सूत्र-
कृच्छ्रुत्युक्तिसमुच्चये वा । 'गुणाः श्रुताः' इति श्रुतिसमुच्चये वा । 'यस्मि-
न्' इति स्मृतिसमुच्चये वा । अनेन 'अल्पश्रुतेः' 'दहरः' इति वाक्ये
सर्वगते वस्तुन्यल्पस्थानस्थितिश्रवणात्, तस्याश्च विष्णावसम्भवाद्
नुपपत्तेर्न दहरे विष्णुः, किन्तु स जीव एवेति चेत् - न, यतः 'तदु-
क्तं' तत्र निचाय्यत्वादिति पूर्वत्र तस्य सर्वगतस्यापि विष्णोर्व्योमव-
त्तदल्पस्थानस्थितत्वम्, तस्मादुपासनार्थं युक्तमित्युक्तम् । न चांशतो-
पिसर्वगततया तत्र तदनुपपत्तिः । यतस्तस्यां 'एष म आत्मा' (छा. ३-
१४-३.) इति छन्दोगश्रुतौ तेन सर्वज्यायस्त्वेन वृद्धतमत्वेन व्याप्तत्वे-
नैव प्रकारेण तस्य विष्णोस्तद्धृदयस्थत्वमुक्तं स्मृत्युक्तं चात इति सू-
त्रार्थ उक्तोभवति । न च श्रुतिस्मृत्युक्तमपि कथमेतदङ्गीकारार्हं, युक्ति-
विरोधादिति वाच्यम् । ब्रह्मणोऽचिन्त्यशक्तित्वादुपपत्तेः । 'गुणाः श्रुताः'
(सौपर्णश्रुतिः) 'यस्मिन्विरुद्धगतयः' इत्यादिवचनाच्च । मम हृदये य
'आत्मा' परमात्माऽस्ति । उपलक्षणमेतत् । सर्वहृदये च य आस्ते 'एषः'
हृदयस्थांशरूपो भगवान् 'ज्यायान्' वृद्धतमः देशकालगुणैः पूर्ण इति
[१७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]]
इति श्रुत्युक्तत्वाच्च ॥ २१ ॥
—:::—
६. अधिकरणम् ॥
( १ ) अदृश्यत्वादयः परमेश्वरगुणा उक्ताः । 'तेषां सुखं
शाश्वतं नेतरेषाम् । तदेतदिति मन्यन्तेऽनिर्देश्यं प
श्रुत्यर्थः । उपनिषदूद्रष्टृऋषिवाक्यमेतत् । ('विरुद्धगतयोऽपि' अन्यत्र
भिन्नाश्रया अप्यणुत्वमहत्त्वादयो धर्माः यस्मिन् 'पतन्ति' वर्तन्ते च ।
न कालभेदेनेत्याह-अनिशमिति। मुक्तसाधारण्यमाशङ्कयाह-विद्यादय
इति । यस्माद्विष्णोरन्यत्राणुत्वमहत्त्वादिविविधशक्तयो धर्माः । वि-
द्या आदिः ऋतिकारणं येषां ते तथोक्ताः । ज्ञानज्ञेया इति यावत् । ह-
रौ विरुद्धधर्मसत्त्वे प्रमाणमाह—आनूपूर्व्येति । 'आनुपूर्वी श्रुतिर्वेद-
स्त्रयी चाम्नाय उच्यते' इत्यभिधानाच्छ्रुत्या सिद्धा इत्यर्थः । यच्छब्द-
स्थ 'तद्ब्रह्माहं प्रपद्ये' इति उत्तरवाक्यगततच्छब्देनान्वयः) ॥ ५ ॥
॥ इति दहराधिकरणम् ॥
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे 'कथं नु तद्विजानीयाम्' इति वाक्योक्तं ज्ञा-
नार्थं ज्ञेयप्रार्थनाविषयत्वं वा 'कथं नु तद्विजानीयां किमु भाति' इ-
ति ब्रह्मज्ञानानुकूलाभिव्यक्त्याख्यभानप्रार्थनाविषयत्वरूपं वा आनु-
कूल्येन गृह्यमाणत्वं लिङ्गं ब्रह्मणि समन्वयीयते । श्रुत्यादिसङ्गतिं विष-
यादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति—अदृश्यत्वादीति ॥
'उक्ताः' आनन्दमयाधिकरणे उदाहृतादृश्य इति वाक्ये इति भावः ।
उक्ता इत्यनन्तरं तत्र प्रविष्टमिति शेषः । प्रथमादिपदेनानिरुक्तत्वादेः,
द्वितीयेन 'कथं नु तद्विजानीयां किमु भाति न भाति वा' (कठ.५-१४.)
इति समन्वेतव्यलिङ्गबोधकोत्तरार्धस्य च ग्रहणम् । न केवलं विष्णोः,
किन्तु ज्ञानिसुखस्यापीत्यपेरर्थः । एवार्थो वापिशब्दः आनुमानिकसू-
त्रगतापिपदवत् । 'अज्ञेयत्वं' साकल्येनाज्ञेयत्वं दुर्ज्ञेयत्वमिति यावत् । च-
शब्दः परस्परसमुच्चये, आनुकूल्येन गृह्यमाणत्वरूपसमन्वेतव्यलिङ्ग-
समुच्चये वा । पूर्वश्रुत्यनुसाराददृश्यत्वादय इति, एतच्छ्रुत्यनुसाराद-
निर्देश्यत्वमिति व्युत्क्रमः । यद्यपि 'तदेतदिति' एतदेवोदाहर्तव्यम् ।
तथाऽपि पूर्वपक्षे तच्छब्दार्थप्रदर्शनाय 'तेषाम्' इति पूर्ववाक्यैकदे-
[ अधि - ६. सू - २१. ] दीपिका सहितम्. २७९
रमं सुखम् ' ( कठ. ५-१३, १४. ) इत्यादिना ज्ञानिसु
खस्याप्यनिर्देश्यत्वमज्ञेयत्वं चोच्यत इति ॥
( २ ) अतो वक्ति—
शोपन्यासः । अतएव तत्त्वप्रदीपे तेषामिति प्रस्तुतिः पूर्वपक्षोत्थापि
केत्युक्तम् । तथाचेत्थं योजना—पूर्वमानन्दमयाधिकरणे येऽदृश्यत्वा
दयो गुणाः परमेश्वरस्योक्ताः । तत्र तेषु प्रविष्टमनिर्देश्यत्वमज्ञेयत्वं
च ' तेषां सुखम् ' इति प्रकृत्यान्नातेन ' तदेतत् ' इत्यादिना काठकवा
क्येन पूर्वपक्षिरीत्या समीपस्थात्तच्छब्दात् परामृष्टस्य ' ज्ञानिसुख
स्यापि ' ज्ञानिसुखस्यैवोच्यत इति । पूर्वार्धेनानिर्देश्यत्वस्योत्तरार्धे
च ' किमु भाति न भाति ' इत्यनेन दुर्ज्ञेयत्वपर्यवसिताज्ञेयत्वस्य चा
र्थादुक्तत्वादिति भावः । टीकायामदृश्यत्वपदस्यानिर्देश्य
२८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
सू—ॐ ॥ अनुकृतेस्तस्य च ॥ ॐ ॥ २२ ॥
' तमेव भान्तमनुभाति सर्वम् ' इत्यनुकृतेः , 'तस्य
प्योः 'अनुभाति' इतिश्रुत्यनुसारादनुभानादिति वाच्यम् । तथाऽपि
तापिनी पाचिनी चैव शोषिणी च प्रकाशिनी ।
नैव राजन् रवेश्शक्तिः शक्तिर्नारायणस्य सा ॥
इति ऐतरेयभाष्योदाहृतपद्मवचनात्सूर्यादिकर्तृकप्रतपनादिकमपि प-
रमात्माधीनमिति दर्शयितुमनुकृतेरित्युक्तम् । सूत्रे तदनुसारिभाष्ये
च चशब्दो द्वितीयसूत्रस्य वक्ष्यमाणव्याख्यानभेदेन सर्वजगत्प्रकाश-
कत्वरूपोक्तहेतुसमुच्चये वा, सूर्याद्यप्रकाश्यत्वरूपानुक्तहेतुसमुच्चये
वा द्रष्टव्यः । सूत्रे समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य तत्त्वित्यस्या-
र्थमाह—परमात्मैवेति । न तु ज्ञानिसुखमित्येवशब्दार्थः । लिङ्गसमन्व-
येन भवत्फलं दर्शयति—अनिर्देश्येति । अनिर्देश्यश्चासौ सुखरूप
इति वा, अनिर्देश्यं यत्सुखं तद्रूप इति वा विग्रहः । अत्र रूपशब्दो
भिन्नक्रमः । तथा चानिर्देश्यं परमं सुखं परमात्मरूपमित्यन्वयः । एक
इत्यादौ पुल्लिङ्गेन प्रकृतस्यैतदिति नपुंसकलिङ्गेन ग्रहणाय रूपशब्द-
प्रयोगः । उपलक्षणमेतत् । अनुग्राह्यश्चेत्यपि द्रष्टव्यम् । वस्तुतस्तु— '
वचनाच्चेतिशब्दस्य सुखरूपश्चेत्यपि सम्बन्धे तेनैवानुकूल्येन गृह्यमा-
णाख्यः साध्यधर्मो सूचित इति ध्येयम् । यद्यप्यनिर्देश्यत्वमज्ञेयत्वं
चेत्युपक्रमादुभयं ग्राह्यं, न त्वेकम्, सुखरूपमिति चाधिकम् । तथाऽ-
पि पूर्वपक्ष्युक्तसुखश्रुतेः सुखरूपे ब्रह्मणि सावकाशत्वज्ञापनाय ' तदे-
तन् ' इतिवाक्योक्तमनिर्देश्यसुखरूपत्वमेव गृहीतम् । अज्ञेयत्वमपि
द्रष्टव्यम् । यद्यप्यत्र भाष्ये लिङ्गद्वय
[ अधि - ६. सू - २२. ] दीपिका सहितम्. २८१
भासा सर्वमिदं विभाति' (कठ. ५-१५.) इति वच
नाच्च परमात्मैव अनिर्देश्यसुखरूपः ।
किन्त्वनिर्देश्यं सुखमित्यत्र समीपोक्तज्ञानिसुखपरित्यागे हेतुरुच्यते इ
त्यत्र ज्ञापकम्, टीकाऽपि तदनुसारिणीत्याहुः । तथा चायं सिद्धान्ते
श्रुत्यर्थः—
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः ॥ (कठ. ५-१२.) ॥
इति पूर्ववाक्ये 'य एको' ज्ञानानन्दाद्यभिन्नः समाभ्यधिकशून्यो वा
यः सर्वमस्य वशेऽस्तीति 'सर्ववशी' यः 'सर्वभूतान्तरात्मा' सर्वप्रा
णिनामन्तर्नियामकः 'य एकं' स्वस्वरूपं बहुधा करोति नियम्यान
न्यान् । 'तं' प्रकृतं 'आत्मस्थं' जीवहृदयस्थितं ये 'धीराः' ज्ञानि
नः अनुपश्यन्तीति प्रकृता ये ज्ञानिनस्तेषामेव 'शाश्वतं सुखं' नित्या
भिव्यक्तसौख्यं नेतरेषाम्। अनेन ब्रह्मसामर्थ्यमुक्तं भवति। एवं 'नित्यो
नित्यानाम्'इति वाक्यमपि ब्रह्ममाहात्म्यपरतया व्याख्येयम् । 'तदेतत्'
इत्यादिनाऽपि प्रकृतभगवत्स्वरूपमेव विशेषतः प्रतिपाद्यते इति। मन्य
न्ते इत्यस्योत्तरत्रान्वयः । तथा च 'यतो वाचो निवर्तन्ते' ( तै.२-४-
१.) 'एषोऽस्य परम आनन्दः' ( बृ. ६ - ३ - ३२.) इत्यादौ प्रसिद्धं
अनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामिति मन्यन्ते इत्यानुकूल्ये
न गृह्णन्ति। ज्ञानार्थं तद्वा-तज्ज्ञानं वा प्रार्थयन्ते। 'किमु भाति न भाति
वा' इति तस्य दुर्ज्ञेयत्वं च वदन्ति ज्ञानिनः। तत् ब्रह्मणो रूपं स्वरू
पभूतं सुखमेतदेकं रूपं बहुधा यः करोतीतिप्रकृतेश्वररूपाभिन्नमिति
मन्यन्ते ज्ञानिन इति। एतच्छब्दस्येश्वरपरत्वेऽपि रूपशब्दसामाना
धिकरण्यात् नपुंसकलिङ्गोपपत्तिः । तदुक्तं न्यायविवरणे—' यद्ब्रह्मा
निर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इति' । का
ठकभाष्ये तु—' तद्गुह्यं ब्रह्म सनातनम्' इत्युपक्रान्तं 'रूपं रूपं
प्रतिरूपो बभूव' (कठ. ५-९.) इति जीवस्य प्रतिबिम्बभूतं
रूपशब्देन प्रकृतमेतत् 'एकं रूपम्' इत्यत्र प्रकृतं च भगवद्रूपं 'अनि
र्देश्यं' इत्थमिति साकल्येन निर्वक्तुमशक्यं परमं सुखमिति मन्यन्ते
ज्ञानिन इति सुखरूपत्वविधिपरतया व्याख्यातम् । भाष्येऽप्यनिर्देश्य
सुखरूप इत्येतावन्मात्रग्रहणेन श्रुतौ सुखरूपत्वं विधेयमिति सूचित
३६
१८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) न हि ज्ञानिसुखमनुभाति सर्वं, न च तद्भासा ।
( ४ ) ' अहं तत्तेजो रश्मीन्' इति नारायणभासा हि सर्वे
भाति ॥ २२ ॥
म् । तदनिर्देश्यपरमसुखात्मकं भगवद्रूपं तत्प्रसादमृते किमु भाति न
भाति वेति सम्यग्भाति न भातीति कथं न्वहं जानीयामिति शिष्टवा-
क्यार्थस्तत्रैवोक्तः । विवृतं चैतद्व्यासतीर्थीये—' तत्' अनिर्देश्यपरम-
सुखात्मकं भगवद्रूपं तत्प्रसादमृते किमु सम्यग्भाति ? न भाति वा ?
इति प्रश्नस्योत्तरभूतं एकं निश्चितार्थं ' कथमहं विजानीयां' न केना-
पि प्रकारेणेति । अत्रेतिशब्द उभयान्वयी । तथा च किमु भातीति प्र-
श्नस्योत्तरभूतं न भातीतिवाक्योक्तमेकमज्ञेयत्वरूपमर्थमिति योजना ।
केचित्तु—यदेवं ब्रह्म तत्प्रसादमृते 'नु' इदानीं 'कथमहं विजानी-
याम्' प्रार्थनायां लिङ् । न कथमपीत्यर्थः । ज्ञानिवाक्यानुकरणमेतत् ।
भगवत्प्रसादादपि किं साकल्येन तज्ज्ञानं भवतीति नचिकेता यमं पृ-
च्छति-किमु भातीति । उशब्दः सम्यगित्यर्थे । किम्बित्येकं वा । तथा-
त्वे सम्यगिति शेषः । उत्तरमाह यमः—न भातीति । वाशब्दोऽवधा-
रणे । न भात्येवेति व्याख्याति ॥
( ३ ) ननु 'तमेव भान्तम्' इतिवाक्ये सूर्यादितेजसां परमात्मा-
धीनप्रकाशकर्तृत्वस्य 'तस्य भासा' इतिवाक्ये च सर्वस्य जगतस्त-
त्प्रभाप्रकाशयत्वस्य च श्रवणेन असिद्धिपरिहारे कुतस्तयोर्विष्णुत्व-
साध्येनाव्यभिचरितत्वम्, येन तल्लिङ्गद्वयबलात्समीपोक्तज्ञानिसुखप-
रामर्शपरित्यागः स्यादित्यत आह—न हीति ॥ सर्वमित्युभयान्वयी ।
भातीति शेषः । तथा च 'हि' यस्मात् 'सर्वं' सूर्यादितेजः ज्ञानिसु-
खमनुसृत्य 'न भाति' न प्रकाशते । तथा 'तद्भासा' तस्य ज्ञानिसु-
खस्य प्रकाशेन 'सर्वं' जगत् 'न भाति' न प्रकाशते चेत्यर्थः । वक्ष्यमाण-
प्रमाणविरोधादिति भावः । चशब्दः समुच्चये । अतो न लिङ्गद्वयमन्यै-
त्रावकाशवदिति वाक्यशेषः ॥
( ४ ) अस्त्वेतदुभयं ज्ञानिसुखेऽनुपपन्नम् । तथाप्यनेन कुतः परमा-
त्मनो ग्रहणं, अस्य परमात्मत्वसाध्यसामानाधिकरण्यानिश्चयादित्य-
तस्तत्र द्वितीयसूत्रस्थापिपदेन सूचितां श्रुतिमाह-अहमिति ॥ अहमिति-
त्यनन्तरं श्रुतेरिति शेषः। इतिशब्द आद्यर्थे। तेन 'तमेव भान्तमनुभा-
ति सर्वं तस्य भासा सर्वमिदं विभाति' (कठ.५-१५.) इत्याथर्वणश्रुतिर
[ अधि - ६. सू - २३. ] दीपिकासहितम्. २८३
(५) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ २३ ॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (गी. १५-१२.)
इति ।
पि गृह्यते । नारायणेति । नारायणाधीनभासेत्यर्थः । हिशब्दो यत इत्य
र्थे, प्रसिद्धौ च । 'सर्वे' सूर्यादितेजः 'भाति' प्रकाशते । यद्वा—' नारा
यणभासा ' नारायणीयभासा 'सर्वे' जगत् 'भाति' प्रकाश्यत इत्य
र्थः । ' इति ज्ञायते ' इति शेषः । श्रुतौ ' रश्मीन् ' इत्यनेन सूर्यादितेज
सां नारायणाधीनप्रकाशकर्तृत्वस्य, 'तेजः' इत्यनेन सर्वस्य जगतो
नारायणीयप्रकाशप्रकाश्यत्वस्य चोक्तत्वादिति भावः । ' अहम्' इति
श्रुतिस्त्वन्तर्नये व्याख्याता । अनेन—तदुक्तमित्यतः सूत्रे तदित्यनुव
र्तते । तस्येत्यावर्तते विपरिणम्यते च । असम्भवादिति चानुवर्तते ।
तथा च—
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयाम् ॥ ( कठ. ५ - १४. ) ॥
इत्यानुकूल्येन गृह्यमाणं तदेतच्छब्दपरामृश्यं सुखं अनिर्देश्यं सुखं त
स्तु विष्णुरूपमेव, न समीपोक्तज्ञानिसुखम् । कुतः ? ' तस्य ' सूर्यादि
तेजसः ' तस्य ' आनुकूल्येन गृह्यमाणस्य सुखस्य तस्मिन् ' तमेव
भान्तम् ' इति ' अनुकृतेः ' अनुभानश्रवणात्तस्यैतदधीनप्रकाशक
र्तृत्वश्रवणादस्यान्तेजोनियन्तृत्वश्रवणादिति यावत् । तथा तस्य
सर्वस्य जगतस्तस्य तत्प्रकाशप्रकाश्यत्वस्य 'तस्य भासा' ( कठ.
५-१५.) इति श्रुतावुक्तत्वात्तस्य सर्वजगत्प्रकाशकत्वोक्तिरिति याव
त् । तस्य च लिङ्गद्वयस्य ' अहं तत्तेजः ' ( चतुर्वेदशिखा. ) इत्या
दिश्रुत्या स्मृत्या च तस्मिन्विष्णावेव निश्चयेनोपपत्तेर्ज्ञानिसुखे च ' अ
सम्भवात् ' अनुपपत्तेः । तथा तस्मिन्नुपसंहारे तस्यानुकूल्येन गृह्य
माणस्य 'न तत्र सूर्यो भाति' इति वाक्ये तस्य सूर्याद्यप्रकाश्यत्वस्य
चोक्तेश्चेति सूत्रार्थ उक्तो भवति ॥
(५) यदेतल्लिङ्गद्वयस्य विष्णुनिष्ठत्वं 'अहम्' इति श्रुत्योपपा
दितम् । तत्स्मृत्याऽप्युपपादयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—अ
पीति ॥ इति स्मर्यत इत्यन्वयः । ' यत् ' आदित्यादिषु स्थितं तेजस्त
त् ' मामकं ' मदधीनं मदीयं च, मत्तेज एवादित्यादिषु प्रेरकत्वेना
:
It has a top bar. Then a curved left belly, going down to a virama. That is clearly a 'त्' with virama!
Wait, why would it be "रश्मीत्"?
Could it be "रश्मीन्"?
Wait, look at "रश्मीत्" vs "रश्मीन्":
Let's look at the top left of the letter: it has a rounded loop/arch, then goes down. 'त' has a single curve: left-down.
'न' has a loop at the bottom left, then goes right to a vertical stem.
The letter in line 20 has NO vertical stem on the right! It is just 'त्'!
Wait, is it "रश्मीत्"? Yes! It looks like रश्मीत् !
Wait, let's search: does "अहं तत्तेजो रश्मीत्" exist, or is it a typo in the book for "रश्मीन्" or "रश्मिषु"?
Wait, maybe "अहं तत्तेजो रश्मीन्" was intended, but the typesetter set 'त्'?
Wait, look at the image really closely:
Is it 'त्' or 'न्'?
Wait, look at 'त्' in line 8: 'प्रतिपाद्यः' - the 'त्' in 'प्रति' has a loop going down to the left.
In line 20: 'तत्तेजो' has 'त्' which curves left-down.
Now
[ अधि - ७. सू - २३. ] दीपिकासाहितम्. २८५
इति च ॥ २३ ॥
७. अधिकरणम् ॥
( १ ) विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ (कठ.५-३.)
इति सर्वदेवोपास्यः कश्चित्प्रतीयते ।
तस्य परमात्मनो भासा ‘सर्वमिदं’ जगत् ‘भाति’ प्रकाश्यते’ इति
व्याख्यातम् । तथापि टीकानुसारात् ‘सर्वं’ सूर्यादि तेजः ‘भान्तं’
प्रकाशमानं भगवन्तमनुसृत्यैव ‘भाति’ प्रकाशते । ‘तस्य’ भगवतो
‘भासा’ प्रकाशेन ‘इदं सर्वं’ जगत् ‘भाति’ प्रकाश्यत इति व्याख्ये-
यम् । व्यासतीर्थीयं तु व्याख्यानान्तरं टीकाकृदभिप्रेतं भविष्यतीति
न तद्विरोधः ॥ ६ ॥
॥ इति अनुकृत्यधिकरणम् ॥
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे ईशाननामसमन्वयः क्रियते । श्रुत्यादिसङ्गतिं
विषयसंशयौ च सूचयति—विष्णुरेवेति ॥ जिज्ञासासूत्रे विष्णुरेव
सर्वैर्मुमुक्षुभिर्मोक्षार्थं जिज्ञास्य इत्युक्तमित्यर्थः । न च तत्र जिज्ञास्य-
त्वायोगव्यवच्छेद एव कृतः, न त्वन्ययोगव्यवच्छेद इति वाच्यम् ।
अन्यस्यापि जिज्ञास्यत्वे तस्यापि मोक्षदातृत्वापत्त्या ‘यतो नारायण-
प्रसाददृते’ इत्यादिविवरणानुपपत्तेरन्ययोगव्यवच्छेदस्यापि तत्राभि-
प्रेतत्वात् । अतोऽत्रैवकार उभयान्वयितया व्याख्येयः । ततः किमित्य-
त आह—तत्रेति । इदं चावर्तते । तत्रेत्यव्ययं तदित्यर्थेऽपि । तथा च
‘अथातो ब्रह्मजिज्ञासा’ इति यत्पूर्वे विष्णोर्जिज्ञास्यत्वमुक्तं ‘तत्र’
जिज्ञास्यत्वे ‘तत्र’ ‘ईशानो भूतभव्यस्य’ इत्युक्त्वा आम्नाते ‘ऊ-
र्ध्वम्’ इति काठकवाक्ये ‘कश्चित्’ ईशानो धर्मित्वेन प्रतीयते । क-
थं? यतोऽयं ‘सर्वदेवोपास्यः’ तैर्जिज्ञास्यः प्रतीयते अत इति वाक्य-
योजना । न च वायोः सर्वदेवोपास्यत्वेऽपि न विष्णोस्सर्वदेवोपास्य-
त्वहानिरिति वाच्यम् । तावताऽपि सर्वैर्मुमुक्षुभिर्विष्णुरेव जिज्ञास्य इ-
ति नियमस्यासिद्धेः । न च श्रुतिगतविश्वेदेवशब्दस्य गणविशेषवा-
२८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( २ ) स च ‘ एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेवसन्नि-
धत्ते’ (प्रश्न.३-४.) ‘योऽयं मध्यमः प्राणः’ (बृ.३-५-२१.)
चित्वात् सर्वदेवोपास्य इत्युक्तिरनुपपन्नेति वाच्यम् । गणविशेषपर-
त्वे तस्य गुणाधिक्यासिद्ध्या सर्वदेवपरत्वावश्यंभावात् । अनेन—
ईशानशब्दस्यान्यनिष्ठत्वाक्षेपमुखेन फलतो मुमुक्षुकर्तृकजिज्ञास्यत्व-
स्यान्यनिष्ठत्वाक्षेपात् जिज्ञासाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भ-
वति । तथेशानाख्यो विषयश्च सूचितः ॥
( २ ) सयुक्तिकं पूर्वपक्षयति—स चेति ॥ अत्रेत्थं योजना—‘ स
च ’ सर्वदेवोपास्यश्चेशानो वायुरेव भवेत्, न विष्णुः । कुतः? अत्र
प्राणव्यवस्थापकत्वश्रवणात् । तथा मध्यमत्वोक्तेः सर्वदेवतोपास्य-
त्वोक्तेश्च । न चैषां वाय्वेकनिष्ठत्वासिद्धिः । यतोऽयं वायुः ‘एवमे-
वैष प्राणः’ (प्रश्न.३-४.) ‘योऽयं मध्यमः’ ‘कुविदङ्ग’ (ऋ.७-९१-१०.)
इत्यादिना वाक्येन स प्राणव्यवस्थापकत्वादिमान् प्रतीयते, अत
इति । काठके हि—
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य ॥ ( कठ. ४-१२. )
इत्यनेन भगवतोऽङ्गुष्ठमात्रत्वं पूर्णषड्गुणत्वं देहमध्यस्थत्वं भूतभवि-
ष्यद्वर्तमानेशानत्वमित्यादिमाहात्म्यमभिधायेशानपदोक्तस्य तस्यैव
‘ ऊर्ध्वम् ’ इत्यादिना महिमान्तरमुच्यते । तत्र मध्यशब्दः सिद्धान्ते
ऊर्ध्वप्रत्यक्छब्दसमभिव्याहारात् देशविशेषवचनः, न त्ववान्तरेश्व-
रत्वादिरूपमध्यमत्वार्थकः । तथा च यः प्राणाख्यरूपेण ‘प्राणं’ प्राणा-
ख्यवायुमूर्ध्वं ‘उन्नयति’ उद्गमयति ऊर्ध्वगतिमत्तया प्रेरयति । अ-
पानरूपी चापानाख्यं वायुं ‘प्रत्यक्’ अधस्ताद्विण्मूत्रादिनिष्कासमहे-
तुतया ‘अस्यति’ निरस्यति प्रेरयतीति यावत् । तं ‘देहमध्ये’ हृद-
ये ‘आसीनं’ उपविष्टं ‘वामनं’ सौन्दर्यप्रधानाः स्त्रियो वामाः ताः ने-
तारं विष्णुं ‘विश्वे देवाः’ सर्वे देवाः ‘उपासते’ जिज्ञासन्त इति
सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्विदं वायुपरं मत्वा मध्यशब्दो
‘योऽयं मध्यमः’ इति श्रुत्यन्तरसमाख्यानान्मध्यमेश्वरत्ववचनो न दे-
शविशेषवचन इत्याह । ‘एवम्’ इति षट्प्रश्नवाक्यं च ‘यथा सम्रा-
डेवाधिकृतान्विनियुङ्क्ते एतान्ग्रामानधितिष्ठस्वेति’ इति दृष्टान्तवाक्ये-
न सह व्याख्येयम् । तत्प्रकारस्तु-यथा ‘सम्राट्’ सार्वभौमः ‘अधिकृता