सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 312, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 312

[ अधि - ५. सू - १५. ] दीपिका सहितम्. २६५
(६) सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकृतव्यम् ।
(७) सत्यकामः परो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत्तत्काम्यकामिता ॥
इति स्कान्दे ॥ १४ ॥
(८) सू- ॐ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ ॐ ॥ १५ ॥
यादिकान् 'अशनपानेच्छाशोकादिदोषान् 'तत्प्रसादात्' तस्य हरे
रनुग्रहादेव 'तरन्ति' अतियन्ति, न स्वत इत्यर्थः। हिशब्दः प्रसिद्धौ।
'पाद्मे' उक्तमिति शेषः । अतो निरपेक्षगुणानामन्यत्राभावात् विष्णो
रेवेत्युक्तमिति भावः॥
(६) ननु रमादिष्वपहतपाप्मत्वादीनामन्यानधीनानामभावेऽपि
यथा कथंचित्सत्त्वादन्यगतैस्तैः कथं विष्णुत्वनिश्चय इत्यत आह—
सापेक्षेति ॥ 'सापेक्षं' अन्याधीनं 'निरपेक्षं' अन्यानधीनं तयोर्मध्ये
इत्यर्थः। चोऽवधारणे, निरपेक्षमेवेति सम्बध्यते । अपहतपाप्मत्वा
दिकमिति विशेष्यं प्रकृतत्वाल्लभ्यते । 'स्वीकर्तव्यं' लिङ्गत्वेनेति शे
षः। तथा च विवक्षितलिङ्गस्यान्यत्राभावात्तेन विष्णुत्वनिश्चयो भव
त्येवेति भावः॥
(७) किं च सापेक्षत्वनिरपेक्षत्वादिविशेषितानामपहतपाप्मत्वा
दीनामभावरूपाणामन्यत्राकाशादौ साक्षाद्वाऽभिमानिद्वारा वा यथा
कथं चिद्वृत्तावपि न कथं चिदन्यत्र सत्यकामत्वाद्यस्तीति युक्तस्तेन
विष्णुत्वनिश्चय इत्याह—सत्यकाम इति ॥ 'अव्ययं' अक्षीणकामम
मोघकामं सत्यकामं विष्णुं 'ऋते' विना 'परोऽन्यः' विष्णोरन्यः स
त्यकामः सत्यसङ्कल्पश्च नास्ति । विष्णौ तद्भावस्य तदन्यस्मिन् तद्
भावस्य च प्रतिपादनाय वक्रोक्तिः । विष्णोरन्येषां रमादीनां क्वचि
दागमे प्रतीयमानमपि सत्यकामत्वं 'तत्काम्यकामिता' विष्णुकामना
विषयविषयककामनावत्त्वरूपमेव भवेन्न मुख्यमित्यर्थः । तथा चापह
तपाप्मत्वं स्वतः पराधीनं चेति यथा द्विविधं, न तथा सत्यकामत्वं
किं त्वेकविधं, तच्च मुख्यं विष्णावेव, अन्यत्र तु पारिभाषिकमिति भा
वः। 'स्कान्दे' उक्तमिति शेषः । अतः सत्यकामत्वादिविवक्षया वि
ष्णोरेव हि ते गुणा इत्युक्तं युक्तमिति भावः ॥
(८) युक्त्यन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्या
सिद्धिपरिहाराय श्रुत्युदाहरणपूर्वकं व्याचष्टे—गतीति ॥ 'इमाः' सु
३४