सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

२४० पृथ्वीराजविजयमहाकाव्यम्
स्त्रीणां हृदयैरिवोप(l.15)दिष्टं रंहो यस्य स मनोवच्छीघ्रगामीत्यर्थः तथो-
द्धतेषु युद्धतत्वस्य दर्शको राजा गुडपुरम्(l.16)वेष्टयत् ॥ ३०.
दलयितुमयतन्तं दुर्गभाजा-
मथ हृदयं नृपसैन्यसिंहनादाः .
असमसमरस(l.17)त्रनिर्विवित्त-
त्पितृपतिमङ्गलसूक्तपाठकल्पां: ॥
दुर्गप्रविष्टानां मनो दलितुं राजकटकसिं(l.18)हनादाः प्रवृत्ताः अस-
मो यस्समरस्स एव सत्रैमनवरतान्नदानस्थानं तत्र निर्विवित्सुन्न्रवेष्टुका-
मः(l.19) यः पितृपतिर्यमस्तस्य मङ्गलसूक्तपाठसदृशाः . सत्रे च भोक्तुकामो
ब्राह्मणस्सूक्तानि पठति ॥(l.20) ३१.
अवनिपतिभयादुपैत्य पार्श्वं
सह चंलता कलिनेव दत्तशिक्षः .
दयितमपि विमुच्य वीरधर्मं(l.21)
क्वचिदपि विग्रहराजभूरयासीत् ॥
सह चरता सहचरेण कलियुगेन राजभयान्निकटमे(l.22)[त्य दत्तो]-
पदेश इव विग्रहराजपुत्रोभीष्टमपि वीरधर्मं त्यक्त्वा क्वापि पलायितः ॥ ३२.
समर‿(l.23)‿ ‿ — — — — —
समरसहेषु बहुष्वपि स्थितेषु .
स मरणमपवादसंज्ञमाप्तुं
समरस[योर्भयल्लजयोर्ममज्ज ?] ॥(l.24)
…………हेषु वीरेषु बहुष्वपि स्थितेषु स राजा पुत्रसंभ्रामार्थं न
प्रवृ……(l.25**69)………[अय]शोनामकं मरणं लब्धुं तुल्ययोर्भय-
[ल]जयोर्मग्नः . अन्योपि कि………… ३३.
1 Ms. °तन्तु. 2 Ms. °ल्पः. 3 Ms. गङ्ग.° 4 Ms. °तानु°. 5 Ms. °र°
written above °लं°. Comm. °चर°. 6 Sic. Is it राजा यत्सं° or राजपुत्रस्सं°?,

˙दशमः सर्गः . २५१
‿ ‿ ‿ ‒ (l.1)मपदे विमुक्तसत्वं
‿ ‿ ‿ रजोपि तमोदशां प्रपन्नं .
तदपि समरसाक्षिणोप्यवृण्वन्
‿ ‿ ‿ ‿ देवभटा?
दयः प्रवीराः ॥
राज्ञा भीतानां मारणाभावादपदे अस्थाने भ्रष्टसत्वं तं तमोदशां प्रा-
प्नुवद्रजो य・・・・・・(l.3)दयत्तद्देवभटादयः संवव्रुः . देवभटादिभिस्तत्सत्व-
भ्रंशो गोपितं इत्यर्थः . रजस्तमसी गुणौ . ३४.
परिद्रुढरहितशिरोविहीनो
भवति पुमानिति यः पृथुप्रवादः .
अहितभुजभृतां ‿ ‿ ‿
तमगमयच्चरितार्थतां नरेन्द्रः ॥
अस्वामिको लोकशिरोरहितो भवतीति यो महाञ्जनप्र[वादस्तं श]-
(l.6)त्रुभटानां शिरांसि छित्त्वा सत्यार्थत्वमनयत् . विग्रहराजपुत्रे चलिते
शत्रूनवधीदित्यर्थः ॥ ३५.
भुवि पतितवतां स्वयोधमूर्ध्ना-
मनुसरणार्थमिवावनम्रमुख्या .
सममहितमहीपतेर्जनन्य्या
सुभटघटाँः प्रभुरानिनाय बध्वा ॥
छेदेन भुवि पतितानां निजभटशिरसामनुगमनार्थमिवा[न]तमुख्या
शत्रुराजमात्रा सह बध्वा(l.9) राजा सुभटपंक्तींनानयत् ॥ ३६.
असुरुधिरसिन्धुतीर्थिकानां
नर[रुधिराच]मनं शुपेयपानं .
1 Ms. 'दे.' 2 Ms. °दयसंवक्रः. 3 Ms. °तं. 4 Is it अहितभटशिरांसि
कर्त्तीयरक? 5 Ms. 'चं. 6 Ms. °टाम्°. 7 Sic. Read °क्तीरा.°

२५२ पृथ्वीराजविजयमहाकाव्यम्.
इति नृ(l.10)पतिशरा इवं त्रपातो
झगिति निषङ्गनिषङ्गितामगच्छन् ॥
पृथ्वीराजेनासुरसमाशरात्रवो नित्यं······(l.11)अतोसुररक्ताब्धौ ती-
र्थिकानां तद्वाणानां नररुधिरेणाचमनमपेयस्य पानमयुक्तं भवतीतीव लज्जा-
तो राजं(l.12)शरास्तूणे तूर्णं प्रवेशमगच्छन् ॥ ३७.
अथ विजयिनि राजनि प्रविष्टे
क्षणमपि निर्गमनं श्रियोतिभीमा .
अरुणदजयमेरुगोपुरस्य
प्रतिभटमूर्धभिरेव तोरणस्रक् ॥
ततः प्राप्तजये राज्ञि पुरं प्रविष्टे सति शत्रुमस्तककृता अजय-
मेरुदुर्गस्य तोरणस्रगेवातिभीमत्वान्निर्गमनं श्रियोरुणत् . श्रीस्तत्रैव स्थिरा-
भूदित्यर्थः ॥(l.15) ३८.
मरुदिव दिशि पश्चिमोत्तराया-
र्मतिबलवानधिपस्समस्त एव .
तदुपरि परमार्थपौरुषद्धर्या हय-
पतिरेव तिरस्करोति सर्वान् ॥
यथा वायुस्तथा पश्चिमोत्तरायां वायव्यविदिशि सर्व एव प्रभुशति-
बलवान्भवति तदुपरि हयपतिरेव सहजविक्रमसमृद्धस्सन्सर्वान-
भिभवति ॥ ३९.
तमपि मुषितगर्जनाधिकारं
विरसलघूं शरदभ्रवन्न्यधाद्यः .
कदनकुशलो गवामरित्वा-
त्समुदितगोरिपदापदेशमुद्रः. ४०.
1 Ms. ॰तिशि. 2 Ms. ॰वाश्च. 3 Ms. ॰च्छत. 4 Ms. ॰न्नाश॰.
5 Ms. ॰मोन्तरायोस्तित्ति॰. 6 Ms. ॰मोन्तरायं. 7 Ms. ॰गौरि॰.

दशमः सर्गः . २५३
वृपचरणनिपातपातक्तित्व-
। प्रकरणासामयिकः कलेर्युगस्य .
स किल सकलराजमएड[लश्री](l. 20)-
व्यवधिविधानविधुन्तुदत्वमैच्छत् ॥
गर्जनाख्यो देशविशेषो गर्जनं गर्जितं च तत्र मुषितोधिकार[ो यस्य तं]
(l. 21)यश्शरदभ्रमिव विरसं हृतभूमिकं निर्जलं चातो लघुमनादरणीयं हे-
लातुल..........(l. 22)गोघ्नत्वात्कुत्सितभोजनकारी तथा समुदिते संभू-
य स्थिते' गोरिरिति व्यपदेशो मुद्रा [यस्य]...(l. 23*).............[प]-
दरुछेद्रेन पातक्तित्व..........राणकर्पणक्रिया तत्र क......(l. 1)......-
...[चन्]द्रो नृपाश्च राजानस्समस्तराजमण्डलशोभायाश्छादने राहुभ[ाव]
............(l. 2)... ........छादयति ॥ 41.
किमपरमपरीक्ष्य दीक्षितत्वं
क्षपणविधौ नररक्षसां स पापः .(l. 3)
[व्यसृ]जदजयमेरुमेरुभृ-
त्कुहरहरेरपि दूतमकमग्रे ॥
किमम्यत्तस्य वर्ण्यत इति शेषः . न(l. 4)[रर]क्षांसां म्लेच्छानां विनाश-
करणे तस्य प्रतिज्ञामविमृश्य स म्लेच्छराजोजयमेरुनामदुर्गमेव मेरुष(l. 5)-
.........रे हरोस्सिंहस्येन्द्रस्य सूर्यस्य वा दूतमकं विसृष्टवान् ॥ 42.
तमित्यन्तं दूतवर्णनपरं कुलकम् ॥(l. 6)
निरवधिकपिलावधैप्रशस्तिं
लिखितुमतीय विशालभालपट्टम् .
कृतमिव विधिनैव बुद्धिपूर्वे(l. 7)
खलतिदशां गमितं शिरो दधानम् ॥
'1 Is it °दितस्संभूय स्थितो गो°? 2 Ms. °यमेरूभू.° 3 Ms. °क्षानां.
4 See note 2, p. 254. 5 Ms. °विप्र°. 6 Ms. °भाव्.

२५४ पृथ्वीराजविजयमहाकाव्यम्.
राजद्वास्थवर्गस्तमापतन्तं सन्तं कथमपि क्षिपिपेथेति¹ संबंधः (l.8). ख-
लतिदशां लुञ्चनं प्रापितं शिरः कर्मभूतं दधानम् अतस्संभाव्यते निरवधी-
नामसंख्यानां कपिला(l.9)नां गोविशेषाणां वधो मारणं तत्प्रशस्तिं लिखितु-
मिव वेधसैव विस्तीर्णंललाटपट्टं सृष्टम्. लि(l.10)खितुमिति चिन्त्यम्॥ 43.
परिहृतकचकूर्चपक्ष्मरोम-
व्रजमिव कालिकयाप्यवद्यभीत्या•
स्वपदसु(l.11)लभगोस्तनीगुलुच्छ-
प्रतिफलितामिव बभ्रुतां वहन्तम्॥
स्वपदे गर्जनदेशे सुलभा या गोस्त(l.12)नी द्राक्षा तद्गुलुच्छेभ्यस्सं-
क्रान्तामिव कपिलवर्णतां दधानं अतस्संभाव्यते पापभयात्कालत्वेना(l.13)पि
त्यक्तकेशादिकम्॥ 44.
दधतमपुनरुद्गमाय लूनै-
स्सह चिकुरैरिव लुप्तमूर्धवर्णीम्•
विपिन(l.14)विहगवाशितायमानां
तनुमिव धिगिरमप्यशुद्धवर्णाम्॥
धिङिन्दायाम्. वनपक्षिरुतसमां(l.15) गिरं दधतम् लुप्ता मूर्धवर्णा
ऋटवर्गरेफा यस्यास्ताम् तनुमिव. तत्पक्षे मूर्धवर्णाः कालत्वं अशुद्धो(l.16)
[व]र्णो जनङ्गमत्वं यस्याम्॥ 45.
' हृतमिव हिमतश्शुचित्ववर्णां
जननभुवः ककुभो हिमाद्रिमत्याः•
सिं(l.17)[च]यसमुचितं विपाण्डिमानं
वपुषि वहन्तमवद्यरोगकल्पम्॥
1 Ms. °पेथिसं.° 2 The verse referred to by this part of the Comm.
is lost. 3 Ms. °यौल.° 4 Ms. °सानां.

दशमः सर्गः . २५५
सिचयानां वाससामुचितं पा(1.18)[ण्डुर]त्वं शरीरे धारयन्तं. पांडुवर्ण-
मित्यर्थः . अवद्यो गर्हो रोगिश्वित्रादिः तत्समम् अतस्संभाव्यते शु(1.19)-
[चि]त्वं शुद्धिशुभ्रत्वं च तद्वर्णं यत्रैवं कृत्वोत्तरादिशो जन्मभूमेर्हिमादिवा-
हृतम् ॥ 46.
कलयति कथ(1.20)[मा]ङ्गिकस्य शोभा-
मंशुचिनि जन्मनि वाससोपि शुद्धिः .
इति वृजिनमिवेत्य कञ्चुकित्वं
कृतपरिरंभ(1.21) ⁓ ⁓ [मुद्वहन्त]म् ॥
अशुचिनि जन्मनि चाण्डालत्वे मलिने च जन्मनि सत्याङ्गिकस्य श-
रीरस्थस्य(1.22)·············[विहि]तालिङ्गनं वृजिनं पापं कर्मभूतमुद्वह-
न्तम् ॥(1.23**70)⁶ 47.


न्धिस्थानेषु मग्नास्सर्वव·····यस्य भाजनं दृष्ट्वा राज्ञां षडङ्ग··········
···(1.1)न केवलं जनानामङ्गान्य···मग्नानि यावद्राजाङ्गान्यपि दुर्गाङ्के
मग्नानीत्यर्थः . भयात्सर्वे दुर्गं प्रविष्टा इति तात्पर्यम् ॥ 48.
भाषादोषवशाद्गिरां बलरजस्तोमैर्दिशामम्भसा-
मक्ष्णां भानुरुचां च दुष्कृतभराद्व्यावापृथिव्योरपि .
काठिन्यात्कुलिशस्य मारकफलासङ्गादिषूणां वधा-
द्धेनूनां [च] धरण्यरोधि दशधा तथ्याभिधैर्गोरिभिः ॥
दशधा गौरिभिर्गोभिर्विभवैर्धरणी गौररोधि विप्लुता . तानेव
दशप्रकारन्भाषादोषेत्यादिनाह . भाषादोषवशाद्गिरां रोधः . बलरेणु-
निकरैर्दिशां गवां रोधः . तथाम्भसां गवां तैरेव रोधः . तथाक्ष्णां गवां
1 Ms. पाडुं°. 2 Ms. °मश्शिं°. 3 Ms. °ङ्गि°. 4 Ms. °भासं°. 5 Ms. °बैल्य.
6 Copyist's remark अत ऊर्ध्वं द्वित्राणि पत्राणि प्रायः गलितानि. 7 Ms. °गौं°. 8 Ms. °गौं°.

२५६ पृथ्वीराजविजयमहाकाव्यम्.
तैरैव रोधः. पापभराद्यावापृथिव्योर्गवोर्बाधा. कुलिशस्य गोः कोठिन्याज्जयैः.
(l. 7) शराणां मारफलकफले लोहमये मुखे आसङ्गाद्धेनूनां गवां वधात्.
तथा च कोशः.
वाग्भूमिदृग्रश्मि(l. 8)वज्रेषु पश्वक्षित्वर्गवारिषु
गोशब्दस्य स्मरणाद्दशधा र्तथ्याभिधैस्सत्यार्थनामभिः॥ ४९.
कारागाराधिका(l. 9)राहितरणरणकैः प्रेतनाथस्य याव-
त्तैर्दुर्गे गूर्जराणां नृतनुभिरसुरैर्नैडुवलाख्ये निमग्नम्.
पृथ्वीराज(l. 10)स्य तावन्निखिलादग्भयारम्भसंरम्भसीमा-
भीमा भ्रूभङ्गभङ्गी विरचनसमयं कार्मुकस्याचचक्षे॥ (l. 11)
कारागारे बन्धनस्थानेधिकाराय प्रेतनाथस्य जनितं रणरणकं चिन्ता
यैः. पूर्वं यमकारागारस्य शून्यत्वा(l. 12)च्चिन्ता नाभूत् तदा तु यमेन कारा-
गारं प्रवेशिताः अतो यमस्य प्रत्यवेक्षाचिन्ता जातेत्यर्थः. तैर्मनूष्यैरू(l. 13)-
पैरसुरैर्नड्डूलनाम्नि दुर्गे यावन्निमग्नं तावद्दिशामभयदानस्य सीमावधिः भ्रु-
कुटिर्धनुषो न(l. 14)मनमाख्यत्. राज्ञा यदा भ्रुकुटिः कृता तदा भटैर्धनुर्नमि-
तमित्यर्थः॥ ५०.
भ्रुकुटिकुटिलः पृथ्वीभर्तुर्गद(l. 15)न्नवनेरिशवं
मिलदरुणिमा भाले कोपि व्यभाव्यत कालिमा.
जलधर इवाकस्माद्दैर्रम्मदेन संहार्चि(l. 16)षा
चिकुरसरणिं प्राप्तः कर्तुं प्रतापहतिं द्विषाम्॥
राज्ञो भ्रुकुटीरूपः कुटिलश्च तथा मिलन्न(l. 17)रुणिमा कोपरागो
यस्य स कालिमा काष्ण्यं ललाटे जनने(?) व्यभाव्यत दृष्टः शत्रूणां प्रतापं
हन्तुं वैद्यु(l. 18)तेनाग्निना सह केशसीमा प्राप्तो मेघ इव. नेयं भ्रुकुटिः
किन्तु मेघः न चायं कोपरागः कि(l. 19)न्तु विद्युदग्निः. विद्युत्सहितो मेघ-
श्शत्रूणां प्रतापाग्निं शमयितुं संप्राप्त इति सम्भावनमिति भ(l. 20)द्रम्॥ ५१.
1 Ms. °शगोकां. 2 Ms. °य. 3 Sic. Is it °रफलके? Is the text °मारफलका°?.
4 Ms. तिथ्या°. 5 Ms. °र्गैर्मू°. 6 Ms. नभू°.
7 Ms. °रै°. 8 Ms. महा°. 9 Ms. वैरिणा crossed before कें°.

दशमः सर्गः . २५७
श्रीश्रीकण्ठचरित्रकाव्यविवृतौ विश्रस्य निश्वस्य च
च्छायाभाजि किरातकाव्यविवृतौ(1.21) विश्रम्य रम्यश्रियि .
पृथ्वीराजजयाख्यकाव्यविवृतौ संवेशमिच्छाम्यहं
शांखक्षोदजखेदमेदु(1.22)रमतिर्ज्योत्स्नाकरो लावणिः ॥
श्रीलोलराजसुतपण्डितभट्टनोन-
राजात्मजो विवरणेन स जोनराजः .
सर्गं चकार दशमं सुखमत्र पृथ्वी-
राजाख्यराजविजयाभिधकाव्यराजे ॥(1.24)
पृथ्वीराजविजयविवरणे श्रीजोनराजकृते दशमस्सर्गः ॥⁴

1 Ms. °दृमशा°. 2 Ms. °तिज्यो°. 3 Ms. °राजविव°. 4 Ms. ॐ नमश्शिवाय.
३३

[ एकादशः सर्गः ]
——————————————तेजसा .
तेजन्तरतिरोधानं व्यानञ्ज नृपतेर्मुखम् ॥
अ..............(l.1)............स्पृष्टं राज्ञो मुखं तेजोजन्तराणा-
ऽन्येषां तेजसामन्तर्धानमकरोत् ॥
1.
दर्पणेण्विव सं(l.2)क्रान्तं मुखेषु भुजशालिनाम् .
सहस्रमुखतां प्राप तस्य शूरस्य तन्महः ॥
आदर्शेष्विव वीराणां मुखे(l.3)षु संक्रान्तं तस्य शूरस्य रवेश्च तेज-
ऽस्सहस्रप्रकारतां प्रापत् ॥
2.
ततः कदम्बवासेन धैर्यावासेन मन्त्रिणा .
वि(l.4)ज्ञसत्सत्यदासेन संभाव्यासेन पार्थिवः ॥
धैर्यावासत्वादिगुणविशिष्टेन कदम्बवासाख्येन मन्त्रिणा(l.5) राजा
विज्ञमः ॥
3.
राजन्नवसरो नायं रुषां भाग्यनिधेस्तव .
किं क्रमेलकभक्ष्येपु तार्क्ष्यः फणिंपु कुप्यति ॥(l.6)
भ......वतो नायं रोषकालः उष्ट्रैर्भक्तुं शक्येषु सर्पेषु गरुडंः किं
पराक्रमते ॥
तिलोत्तमामिवोद्दि(l.7)श्य रसामातमनोरमाम् .
सुन्दोपसुन्दभङ्ग्या ते स्वयं नंक्ष्यन्ति शत्रवः ॥
1 Ms. °नन्यां. 2 Ms. °क्षिपु. 3 Ms. गरुडः written above क्रमेलकः(!)

एकादशः सर्गः. २४६
यथा तिलोत्तमामुद्दिश्य(l.8) सुन्दोपसुन्दौ नष्टौ तथा तव मनोज्ञां ल-
क्ष्मीमुद्दिश्य शत्रवस्स्वयं नाशमेष्यन्ति ॥ 5.
इति तस्मिन्वदत्येव(l.9) महीनं विनयानतः .
तेजसेव भ्रमदृष्टिः प्रतीहारो व्यजिज्ञपत् ॥
एवं तस्मिन्कथयत्येवं वि(l.10)नयेन नतोतस्तेजसेव सम्भ्रान्तदृष्टिः प्र-
तीहारो विज्ञप्तवान् ॥ 6.
हृद्यमान्तमिवानन्दं विकस्वरमुखो(l.11) वमन् ..
लेखहस्तः पुमान्प्राप्तो देव गूर्जरमण्डलात् ॥ 7.
आकर्ण्येति प्रतीहारभारतीं भारतेश्वरः .(l.12)
तूर्णं प्रवेशयेत्यूचे स च दूतमवीविशत् ॥
एवं प्रतीहारविज्ञप्तिं श्रुत्वा त्वमेनं प्रवेशयेति(l.13) राजा तमेवं प्रत्यु-
क्तवान् प्रतीहारश्च दूतं प्रवेशितवान् ॥ 8.
मुखे प्रसादसंवादसंमतैस्स मितैः(l.14) पदैः .
गूर्जरोपज्ञमाचख्यौ घोरं गोरिपराभवम् ॥
मुखे प्रसादस्य संवादेन प्रियैरल्पैः पदैः(l.15) स दूतो गूर्जराणामुपज्ञाद्य-
ज्ञानं. प्रथमं गूर्जरैरेव कृतामित्यर्थः . गोरीणां म्लेच्छानां पराभवं कथि(l.16)-
तवान् . उपज्ञोपक्रममिति नपुंसकम् . उपज्ञा ज्ञानमाद्यं स्यादित्यमरः ॥ 9.
उच्चैश्रवस्स्वसा(l.17) लक्ष्मीर्मुनेव कलङ्किता .
इति क्रोधेन निःशेषैः परित्यक्तं तुरङ्गमैः ॥
उच्चैश्रवसस्सोदरी श्रीर(l.18) ......... दूषितेतिव रुषा सर्वैरश्वैस्त्य-
क्तम् ॥ 10.
1 Ms. °गतः. 2 Ms. °त्वेव. 3 No Comm. 4 Ms. °र्ति.
5 Ms. °द्यं गो°. 6 Panini, 2. 4. 21. 7 Amara. 2. 692.

२६० पृथ्‍वीराजविजयमहाकाव्‍यम्.
द्विजराजो मम भ्राता द्विजराजाश्रयः पतिः .
कथं(l. 19) [मातङ्ग]सङ्गो मे न्याय्य इत्युज्झितं श्रिया ॥
द्विजराजश्चन्द्रो ब्राह्मणश्च मम भ्राता भवति द्विजराजो गरुडस्तदा-
(l. 20)·············तो ममं मातङ्गैर्म्लैच्छैश्चाण्डालांश्च सङ्गः कथमुचित इति
लक्ष्म्या त्यक्तम् ॥ 11.
अपवि(l. 21)[त्रमु]खन्द्रष्टुमसमर्थैरिकासुभिः .
पृष्ठव्रणमुखेनेव त्यक्तनिशेषसैनिकं ॥
अशुचित्वान्मुं(l. 22**71)खं द्रष्टुमशक्तैरिव·····पृष्ठव्रणमार्गेणैवो-
द्भिगतसर्मं[स्त]············(l. 1)इत्यर्थः ॥ 12.
निशम्य दुर्यशोमात्रसैन्यं हयपतिं गतम् .
विज्ञापयितुमारेभे पार्थिवं [पृथिवीभटः] ॥(l. 2)
अपयशोमात्रमेव सैन्यं यस्य तं हयपतिं गतं श्रुत्वा पृथिवीभटो रा-
जानं विज्ञप्तवान् ॥ 13.
――――(l. 3)मासाद्य स्वामिन्मा स्मावमन्यथाः .
भाव्यर्थदर्शिनात्मानं धन्यं मन्यस्व मन्त्रिणा ॥
हे स्वामि·········(l. 4)त्वं मावमंस्थाः भविष्यन्तमर्थं जानता कद-
म्बवासेन मन्त्रिणा करणभूतेन त्वमात्मानं धन्यं मन्यस्व ॥ 14.
[तिलोत्तमे](l. 5)व हि रमौ रज्यन्ती त्वंयि गोपतौ .
स्वयं जगाम लोभान्धगोरिक्षयनिमित्ताम् ॥
गोर्भूमेस्स्वर्गस्य·········[त्व](l. 6)यि सानुरागा लक्ष्मीस्तिलोत्तमा
यथा लोभान्धानां गोरीणां म्लेच्छानां क्षयकारित्वं गता ॥ 15.
1 Ms. ब्राह्मयाश्च lc. under l. 20. 2 Ms. दिरां, 3 Ms. सम. 4 Ms. °ष्ठसमम°.
5 Ms. °वामु°. 6 Ms. ष्ठ°. 7 Ms. °नेव. 8 Ms. °त्वा॰सुन्मुखं. 9 Ms. has 7 on margin-
10 Ms. °मस°, 11 Ms. °ना°. 12 Ms. °व्यार्थदर्शि°, 13 Ms. धनं, 14 Ms. रजा ' '

एकादशः सर्गः . २६१
इ ◡ — ◡ — (l 7) — — — मन्तरहरिरभ्यधात् •
उपमानं श्रियः केयमिति प्रासङ्गि ◡ — ॥
••••••••••••क्यान्त••••••(l.8)वदत् केयं लक्ष्म्या उपमानं उक्ते-
ति शेषः ॥ 16.
इतिहासशताभ्यासव्यासः क्ष्मावास[सन्निधौ] (l.9) •
इतिहासशुचिं वन्दी भूयोप्युदहरद्गिरम् ॥
पुरावृत्तज्ञाने व्यासो वन्दी राजान्तिके एव•••••••••(l.10) तां वाचं
पुनरभ्यधात् ॥ 17.
तिलोत्तमेति ललिता काप्येषा चतुरक्षरी .
देव व्यस्तसमस्तत्वात्प[श्लेषोः] (l.11) पंचसायकी ॥
तिलोत्तमेत्यक्षरचतुष्टयं पञ्चबाणम्य पञ्चशरा भवन्ति व्यस्तसम-
••••••••••••(l.12)गुणस्य उकारस्य विश्लेषण पञ्चाक्षरतोदयात् ॥ 18.
रूपस्योत्तममुच्चित्य रम्भादि ◡ — लंति-¹. (l.13)
परीक्षापूर्वकारी यां ससर्ज चतुराननः ॥ 19.
भवद्रुमफलं मत्वा यन्मुख ◡ — — — .(l.14)
मिथस्सुन्दोपसुन्दाभ्यां युद्ध चक्रे पदं दिवि ॥
यन्मुखदर्शनमेव जन्मवृक्षस्य••••••••••••(l.15)सुन्दाभ्यां स्वर्गे यु-
द्धा स्थितिः कृता ॥ 20.
आनन्दसम्पदो मा गात्तन्मुखस्या[र्ध]भागिताम् .
[इतीव²] — ◡ — (l.16) व्याधिमन्दमिन्दुं व्यधाद्विधिः ॥
तस्य मुखस्य संबन्धिन्या हर्षश्रियोध्यागी चन्द्रो मा••••••(l.17)-
राजयक्ष्मणा हतं चन्द्रं विधिः कृतवान् ॥ 21.
1 Is it ॰दिकसंलतिकाम् ? 2 No. Comm. 3 Ms. ॰ता. 4 Ms. चन्द्र crossed after 'र्ध'.

२६२ पृथ्वीराजविजयमहाकाव्यम्.
रूपमायत्ततां यातं तथास्यास्सुरयोषितः .
अनुरक्त?मिवोपास्ते चित्रस्थामपि तां यथा ॥
रूपं......विधेयं तथाभूदनुरागादिव रूप......लिखि-
तामपि तां सेवते ॥ २२.
तथा च पूर्वचारित्रं त्वदीयं यत्र चित्रितम् .
देव तत्रेयमभ्येति पश्य धात्रीसुतामपि ॥
तथा हि त्वदीयं पूर्वजन्मचरितं यत्र यत्र लिखितमस्ति त......-
......सीतामप्यभ्येत्यनुकरोति ॥ २३.
इति पृथ्वीभटेनोक्ते दूतं संतोष्य पार्थिवः .
विसृज्य मन्त्रिणः सर्वानविशच्चित्रमण्डपम् .
वन्दिनेत्युक्ते दूतं प्रतिमुच्यामात्यान्विसृज्य स चित्रस्थानम्......
(l.23*) २४.
-------------------------जो व्यजिज्ञपत् ॥
समस्तानां रा............(l.1)...तयाङ्गुल्या चित्रं दर्शय......
...[विज्ञ]प्तवान् ॥ २५.
लूनैरैत्र दशाननस्य भगवान् (l.2)[ष्टाभिराष्ट्रे?]र्मुखै-
र्मन्ये मानवदेव शस्तुरकरोदष्टावधीनास्तनूः .
कृत्तं यद्वदनं त्वनेन नवमं प्रायच्छदस्मात्फ(l.3)[लं]
[त्वत्तो मृत्यु]मतोधिकं त्वसुलभं मत्वाप्यरौत्सीत्करम् ॥
हे मानवानां देव कृत्तैरष्टाभिर्मुखैर्हेतुभिर(l.4)[ष्टौ पृथ्वि]व्यादीस्तनू-
र्मूर्ती रावणस्यायत्ताः कृतवान् ततो रावणेन नवमं मुखं यल्लूनं फलं त्व-
त्कृतं मरण(l.5)[मदात्] ततो दशमशिरश्छेदोदारम्भे हरोस्य करं रुद्धवान्
1 Ms. °स्मरयोषित. 2 Ms °तम°. 3 Ms. °ने°. 4 Ms. °त्ते°.
5 Ms. °नून्°. 6 Add तस्य. 7 Ms. °रक्तं°.

crossed after ˚न्ये. 2 Ms. ˚रच्छे˚. 3 Ms. ˚वर˚.
Line 24:
4 Is it ˚ष्ठोयम˚?. 5 Ms. ˚धान्व˚ See p. 168, note 5. 6 Is it यदहरत ल˚?
Line 25:
or यदनयत ल˚?. 7 Is it ˚दहरत˚? or ˚दनयत˚?

Wait, let's check footnote 1:
"1 Ms. इत्याख्याहारः crossed after ˚न्ये."
Wait, "इत्याख्याहार:" or "इत्याख्याहारः"? It's a visarga: "इत्याख्याहारः".
Let's check footnote 4:
"4 Is it ˚ष्ठोयम˚?."
Wait, "˚ष्ठोयम˚?." or "˚ष्ठेोयम˚?."?
Look at line 24:
"4 Is it ˚ष्ठोयम˚?."
Wait, is there an extra matra? "˚ष्ठोयम˚?." - standard Devanagari ष्ठो.

Let's check footnote 2:
"2 Ms. ˚रच्छे˚."
Footnote 3:
"3 Ms. ˚वर˚."

Footnote 6 & 7:
"6 Is it यदहरत ल˚?"
"or य

२६४ पृथ्वीराजविजयमहाकाव्यम्.
उत्क्षिप्तोयं मुहूर्तं स्फटिकगिरिरितश्चक्रवृत्तिन्यमु(1.19)[ष्मि-
न्नन्त]स्संक्रान्तिभाजि प्रथमजलधरश्या मले राक्षसानां •
देवस्यार्धेन्दुमौलेर्वपुरनुपग(1.20)[तत्वेपि?] मृत्युंजयाख्यं
पुष्णाति स्पष्टलक्ष्माभर णकुमुदिनीकान्तबिम्बासनत्वम् •
सजल(1 21)[मेघनि?]कांमेस्मिन्द्राक्षसानां चक्रवर्तिनि रावणे प्रतिबि-
म्बिते सति मृत्युंजयसंज्ञं रूपमधा(1.22**72)रय[तो ]प हरस्य प्रकटकल-
ङ्कचन्द्रबिम्बाननत्वं कर्म स्तु............(1.1)यदा कैलासो रावणेन कराग्रे
उत्क्षिप्तस्तदा रावणे प्रति[बिम्बिते?].........मृत्युंजयरूपोचितं
चन्द्राँसनत्वं संपादयति ॥
29.
लङ्कायां पुरि~~~~~~~~~~~~~~~~~~~~~(1.3)
प्रायं सोदरजातमातुरतमा यावत्प्रयुंक्ते रमा •
तावत्त्वां~~~~~~~~~~~~~~~~~~~~~(1.4)शि-
ग्रामश्यं कृतकप्रसुप्तममरस्तोमः स्तुतिं प्रस्तुते ॥
.........(1 5)द्वाप्ताप्ताववसादं समुद्रमुखाच्छ्रुत्वात्याकुला लक्ष्मीस्त्वां
या[व]......(1.6)ण क्रीडासहाये फणि......षे कृतकं कृत्वा त्वां प्रसुप्तं
बुध्वा स्तुतिम......अयमर्थः रावणो (1.7)... दुर्तानामै[राव] णादी......
मुपद्रवनिवारणार्थं लक्ष्मीस्त्वां यावत्प्रेरयति [तावद्देव] वर्गस्स्तुतिं कर्तुं प्र (1.8)-
वृत्त: ॥
30.
आवेदितैषु दशकन्धरदुर्नयेषु
लज्जाभरानतमुखैस्त्रिदशै[: पुरस्ते] .
एतानि पश्य तनु[भृ(1.9)न्ति?] भृशं ज्वलन्ति
पातालसंतमसजिन्ति तवायुधानि ॥
राक्षसमात्रेण वयं जिता इति लज्जा (1.10) भरेण नम्रैश्च सद्भिर्देवै ' राव-
णाप[न]येषु तवाग्रे निवेदितेषु सत्सु देवतारूपमूर्तीनि तवायुधानि भृशं ज्व-
(1.11)लन्ति . अतः पाताले संतसमं जितवन्ति क्रोधादिति भावः ॥ 31.
1 Ms. °कां° 2 Ms. चन्दा°. 3 Ms. °त्त्वं. 4 Ms. °तसं°. 5 Ms. तना°.
6 Ms. देवतारूप lç. under l,10.,

एकादशः सर्गः । २६५
पश्यामी चरणनखांशुभिस्त्वदी(l.12)यै-
र्गङ्गाम्भश्शिररचितानुचर्यचर्याः .
पेयूषोद्धरणादिनाधिकप्रमोदाः
क्षीरोदादमृतभुजः खमुत्पतन्ति ॥
त्वत्पादनखरश्मिभिर्हेतुभिर्गङ्गाजलेनेव चिरं रचितानुचर्यचर्या••••-
(l.14)•••नखरश्मिभिः कृतगङ्गास्नाना इवेत्यर्थः अमृतभुजोमराः पेयूष-
स्योद्धरण••••••(l.15) दो येषां ते क्षीराम्बुनिधेर्दिवं गतास्त्वं पश्य . अयमर्थः
रावणकृतमवमानं••••••••(l.16)प्रणम्य देवा गता नाकम् ॥ ३२.
नाकेसदां परिषदि प्रतिमुच्य यान्त्यां
संवाहने चरणयोर्विहितोद्यमायाः .
श्रीर्हारमध्यमणिदर्पणबिम्बितेयं
गर्भप्रवेशमिव वांञ्छति कर्तुमन्याः ॥
•••••(l.18)मुच्य देववर्गे गते सति त्वत्पादसेवोद्यताया भूमेर्हार-
मध्यप्रतिबिम्बिता लक्ष्मीखन्तः प्रवेशं कर्तुमि(l19)वेच्छति . अयमर्थः श्री-
स्वामिनोतिप्रियां भुवं मत्वा तत्प्रवेशे इव प्रवृत्तेति अन्यञ्च••••••••
करोति ॥ ३३.
शान्तां कान्तां च बिभ्रत्त्वतनुमिव तनुं पुत्र[कामेष्टियाजी?]
सावित्रस्यैष राज्ञो मुनिसदसि प(l.21)रामृश्यतामृश्यशृङ्गः .
शृङ्गं श्रुत्वा ललाटे ︶ ︶ ︶ तरलितः काममस्यैव मध्या-
दर्भेरुद्धृत्य पात्रं कनकमयमयं पूर्णपात्रीकरोति ॥
नाम्ना शमित्वेन् च शान्तां कान्तां कान्तिमतीं••••••(l.23)मूर्तिं द-
धत्सावित्रस्य सूर्यवंशस्य राज्ञो दशरथस्य पुत्रकामेष्टियाजक ऋश्य•••-
••••••(l.24*)••••••••••णे शृङ्गं श्रुत्वा साश्चर्योयं दशरथोग्नेर्मध्यात्सु-
, 1 Ms. °रषा°. 2 Ms. श्रीहा°. 3 Ms. वांञ्छ°. 4 Is it कुलुकत°?
३४

२६६ पृथ्वीराजविजयमहाकाव्यम्.
वर्णपात्रमुत्पाद्या(l.1) .........तीत्यर्थः . अयमर्थः दशरथस्य पुत्रकामेष्टि-
मृश्यशृङ्गो¹ यदाकरो(l 2)त्तदाग्नि.........चरुपूर्णा दधत्पुरुषः प्रादुर्भूतः
ततो दशरथस्तां सुवर्णपात्रीमृश्यशृ(l.3)ङ्गाय दत्तवान् ॥ ३४.
योयं पयश्चरुरयं तुहिनांशुबिम्ब-
मेतत्तले कनकभाजनमेष भानुः .
अग्नेरुदेति(l.4) पुरुषोयमिति क्षयाय
धामत्रयं घटितमत्र निशाचराणाम् ॥
यः क्षीरचरुस्स चन्द्रः क्षीरच(l.5)र्वाधारभूतं हेमपात्रं स सूर्यः अग्नेर्यः
पुरुषो निर्गतस्सोयमग्निरिति निशाचराणां क्षयार्थं धामत्रयं संघ(l.6)टित-
मिति संभावनम् ॥ ३५.
अम्भोधेरुदरे चिरस्य जनितं तेजोवधं निद्रया
संमृज्येव महर्षिमन्त्रनिन(l.7)दैः⁵ पुत्रीयया चानले .
वीर्यं वैष्णवमुद्गतं चरुमिषादेतद्धरित्रीस्रुज-
स्सावित्रस्य करद्वयेत्रं पुरुषः(l.8) कोप्येष विन्यस्यति ॥
चिरं समुद्रमध्ये निद्रया जनितं तेजोवधं मन्त्रध्वनिभिरग्नौ पुत्रीये-
ष्ट्या च होमेन(l.9) संमृज्य निवार्येव चरुरूपमुद्गतं विष्णुतेजः कोपि दिव्य
एष पुरुषस्सावित्रस्य राज्ञो हस्तद्वये न्यस्यति(l.10) . अयमर्थः तेजोजलयोर-
न्योन्यप्रतिपक्षभूतत्वात्समुद्रान्तर्निद्रया हरेस्तेजोवधो जातस्तस्य च शब्दै-
(l.11)र्होमेनं च निवृत्तिरुचिता ततो वीर्यं दशरथस्य दिव्यः पुमान्प्रति-
पादयति ॥ ३६.
दत्त्वात्कोशलकैकेयेन्द्र(l.12)सुतयोरभ्यर्थिताभीष्टयो-
र्वाग्देवीवरमयोरिवामृतचरोश्चित्तादिवांशावुभौ .


1 Ms. °श्यशृङ्गो° lc. on margin, °दशरथो° crossed in the text. 2 Ms. °तत्सुप्ते.
3 Ms. समूहः. 4 Ms. °चराणां lc. under l. 5. 5 Ms. संमृ°. 6 Ms. °निननदैः.
7 Ms. °रत्वये°. 8 Ms. °सुषतं lc. under l. 9. 9 Ms. °र्हेमे°. 10 Ms. °कैक°.

एकादशः सर्गः . २६७
लेभेसौ मलयेश्वरस्य(l. 13) तनया पुण्यप्रतापौ यथा
नीतेः पूर्णमिवाप्तवान्सुतचतुर्वर्गं³ ततः पार्थि(l. 14)वः ॥
सरस्वतीक्ष्मयोरिव पूज्यवल्लभयोः कौसल्याकैकेय्योः(l. 15) दंत्ताच्चि-
त्ताद्वि द्वौ भागौ पुण्यप्रतापाविव सुमिं(l. 16)त्रा लेभे ततो राजा नीतेः
पूर्णे नीतिमयं सुतानेव चतुर्वर्गं धर्मार्थकाममोक्षांल्लव्धवान्(l. 17). पूरणगुणे-
ति षष्ठी. अयमर्थः कौसल्या वाग्देवीवदभ्यर्चिता कैकेयी लक्ष्मीवदभीष्टा
(l. 18)ताभ्यां दशरथाच्चित्तवत्त्वरुभागः प्राप्तः ताभ्यां च दाक्षिण्यात्सुमित्रायै
भागांशौ दत्तौ इति पुत्रचतु(l. 19)ष्ट्योत्पत्तिरित्यर्थः ॥ ३७.
जन्मान्तरं स्वयमरिष्टगृहे तदेत-
द्वेव त्वमत्र परिभावय रामनाम .
हस्ता(l. 20)ङ्गुलीर्विनिदधद्वदने पुरैव
पौलस्त्यमूर्धगणनाभिव निर्मिमाणम् ॥
राम इति नाम यन्न (l. 21) [तज्जन्मा]न्तरमर्थात्पूर्वरूपं परिभावय पश्य
अरिष्टगृहे सूतिकागृहे मुखे हस्ताङ्गुलीः सिं(l. 22)•••••संभाव्यते पुरैव
प्रथममेव रावणशिरोदर्शकसंस्याभिव⁵ कुर्वन्⁶ ॥ अयमर्थः स्वभावे(l. 23)-
•••••ङ्गुलीर्माला आस्ये क्षिपन्ति तत्रोत्प्रेक्ष्यते दशाननस्य शिरोगणना-
हेतोः क्षिपतीति ॥(l. 24**73⁷) ३8.
सेयं कोसलचक्रवर्तितनया त्वत्पीतवामस्तनी
देवी ल[क्ष्मणपीतदक्षिणकुचा?]~~~~(l. 1)दृशोः .
शत्रुघ्नेन सह स्तनंधर्ययुता⁸ कैकेय्यसावप्यसौ

सेयं कौसल्या देवीह्यास्ति कीदृशी त्वया पीतो वामस्त[नो यस्याः]
***
1 Copyist leaves a blank between "ण्य" and "प्र", "थि" and "वः, "व्योः" and
द्द°, "मिं" and "श्रा°". 2 Ms. °तापौ. 3 Ms. °र्वंग. 4 Panini, 2. 2. 11.
5 Ms. °शसं°. 6 Ms. °र्वन्. 7 Ms. has पृ. रा. प. vertically on margin.
8 Ms. °नंध्यु°.

........(l.3)पीतो दक्षिणः कुचो यस्याः अतृत्स्रापत्न्ये स्नेहाधिक्याद्दू-
ष्टयोगिङ्गोयात्रेत्यारोपः(?) भरतशत्रुघ्नाभ्यां पीत(l.4)स्तनी असौ च कैकेयी
असौ सुमित्रा सपत्नीविनयान्नतमुख्यस्ति . हेतुरुत्प्रेक्ष्यते . निष्प्रयोजना-
स्तन्य(l.5)भरात् . स्नेहदाक्षिण्यवशात्कौसल्याकैकेयीभ्यां सुमित्रातनययोः
पोषितत्वादिति भावः ॥ 39.
अ[न्वितौ]¹(l.6) रामभरतौ रविनारायणाविव .
इमौ लक्ष्मणशत्रुघ्नौ विनतानन्दनाविव ॥
सूर्यनारायणावि(l.7)व रामभरतौ अन्वितावविद्युतौ सह लिखिता-
विह स्तः विनतानन्दनौ अरुणगरुडाविव लक्ष्मण(l.8)शत्रुघ्नाविह स्तः. अयं
भावः रविनारायणौ कश्यपसुतौ तयोर्द्वैमातुरौ² विनतासुतौ यथा त(l.9)था
रामभरतयोर्लक्ष्मणशत्रुघ्नौ ॥ 40.
उपनयनगृहं तदेतदस्मिन्मुनिरयमाभरणाय(l.10)ते वसिष्ठः .
अधरिततपनैर्महोभिरस्य प्रबलयतीव निजं वपुः कृशानुः ॥
तदुपनयनगृह(l.11)मेतत् . अस्मिन्नुपनयनावासेयं वसिष्ठो भूषणीभूतः
सूर्याधिकैरस्यैव तेजोभिरत्रामिस्रवदी(l.12)ग्निं प्रबलामिव³ कुरुते . आज्यादि-
जाता तेजोवृद्धिर्वसिष्ठतेजोभिः कृतेति सम्भावनम् ॥ 41.
चूडापं(l.13)चकमण्डनीकृतनखज्योत्स्नाप्रसूनोत्करः
पर्यायेण मुनिर्विभाति भवतां पा⁴-श्चतुर्णामयम् .(l.14)
मन्येनेन सुतेजसा विरचिते पञ्चाङ्गमन्त्रार्पणे
देवस्याद्यतनेपि जन्मनि मनाङ्नास्ति कचिद्दुर्न्न(l.15)यः ॥
क्रमेण चतुर्णां भवतां चूडापञ्चके मण्डनीकृतो नखज्योत्स्नापुष्पस-
मूहो येन तेजस्वि(l.16)ना पञ्चाङ्गस्य मन्त्रस्यार्पणे कृते सत्यस्मिञ्जन्मन्य-
पि कापि न तव दुर्नेय इत्यहं जाने . पूर्वजन्मा(l.17)न्तरे यस्तेनाशीर्वादः
प्रयुक्तस्तन्माहात्म्यादद्यापि भवतां सर्वत्र प्रसिद्धिरित्यर्थः ॥ 42.
1 Ms. 'यां' lc. under l. 4. 2 Ms. 'योद्वैमातरौ. 3 Ms. 'योल'. 4 Ms. 'त्पाद'.;

एकादशः सर्गः. २६६
अयमृषि(l.18)दृषा विश्वामित्रस्तपोग्निदिधिक्षित-
त्रिजगदभयक्रीडादानप्रतिग्रहिवेधसम् .
उपकरणतां(l.19)मानेतुं त्वां जगन्निधिमध्वरे
रघुकुलपतेर्धन्यस्याग्रे प्रसारितवान्करम् ॥
अयं विश्वामित्र(l.20) ऋषिर्दशरथस्याग्रे हस्तं प्रसारितवान् किं कर्त्तुं
त्वां यज्ञे उपकरणतां नेतुं तपसाग्निनेवं(l.21) ·दग्धुमिष्टं यत्त्रिभुवनं तस्या-
भयक्रीडादाने प्रतिग्रही वेधा ब्रह्मा यस्य तम् दश……(l.22)को भूत्वा
विश्वामित्रस्त्वां यज्ञरक्षणार्थं नीतवानित्यर्थः ॥ ४३.
उपाकुरुत कौशिक~~~~त्रिशङ्कं पुरा
ततः कुलपरम्परागतमृणं मृजां नेष्यतः .
अनन्तवपुषा धृता~~~~~~~~(l.24*)

कौशिको विश्वामित्रस्त्रिशङ्कनामानं राजानमुं(l.1)[प]……त्रिशङ्कौ
श्वृणं पतितम्. ततो हेतोः कुलक्रमागतं त्रिशङ्करूपकाराख्य(l.2)मृणं शुद्धिं
नेष्यत[स्त]व पदपातेन भूरियं सुस्थतां व्रजति शेषशरीरेण शिरसि धृता
सती दौस्थ्यं म(l.3)न्यमाना. अयमर्थः . पूर्व्वर्णं शोधयतस्तव पादपातं शेष-
शिरोधराणामुत्तमं मन्यते इति ॥ ४४.
देव(l.4)स्यैकशरेण भिन्नहृदया सेयं पुरस्ताटका
पुत्रस्याब्धिमुपेप्यतोस्त्रमरुता मार्गोपदेशोन्मुखी .
त(l.5)त्कालं स्तनशृङ्गसङ्घटविनिर्यातैन रक्तापगा-
पूरेणैव निजेन लाघववती दूरं यतो नीयते ॥(l.6)
भवत एकेनैव शरेण भिन्ना ताटका सेयमत्र लिखितास्ति इयमखवा-
1 Ms. *नश्रुतिं, 2 Ms. °रणां. 3 Ms. कर्तुं. 4 Ms. °ग्निरेव.
5 Ms. तत् 6 Ms. °पायता. 7 Ms. °ङ्कौपतिं.