पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 272, कुल 330 में से
संदर्भ में पढ़ेंदशमः सर्गः . २५५
सिचयानां वाससामुचितं पा(1.18)[ण्डुर]त्वं शरीरे धारयन्तं. पांडुवर्ण-
मित्यर्थः . अवद्यो गर्हो रोगिश्वित्रादिः तत्समम् अतस्संभाव्यते शु(1.19)-
[चि]त्वं शुद्धिशुभ्रत्वं च तद्वर्णं यत्रैवं कृत्वोत्तरादिशो जन्मभूमेर्हिमादिवा-
हृतम् ॥ 46.
कलयति कथ(1.20)[मा]ङ्गिकस्य शोभा-
मंशुचिनि जन्मनि वाससोपि शुद्धिः .
इति वृजिनमिवेत्य कञ्चुकित्वं
कृतपरिरंभ(1.21) ⁓ ⁓ [मुद्वहन्त]म् ॥
अशुचिनि जन्मनि चाण्डालत्वे मलिने च जन्मनि सत्याङ्गिकस्य श-
रीरस्थस्य(1.22)·············[विहि]तालिङ्गनं वृजिनं पापं कर्मभूतमुद्वह-
न्तम् ॥(1.23**70)⁶ 47.
न्धिस्थानेषु मग्नास्सर्वव·····यस्य भाजनं दृष्ट्वा राज्ञां षडङ्ग··········
···(1.1)न केवलं जनानामङ्गान्य···मग्नानि यावद्राजाङ्गान्यपि दुर्गाङ्के
मग्नानीत्यर्थः . भयात्सर्वे दुर्गं प्रविष्टा इति तात्पर्यम् ॥ 48.
भाषादोषवशाद्गिरां बलरजस्तोमैर्दिशामम्भसा-
मक्ष्णां भानुरुचां च दुष्कृतभराद्व्यावापृथिव्योरपि .
काठिन्यात्कुलिशस्य मारकफलासङ्गादिषूणां वधा-
द्धेनूनां [च] धरण्यरोधि दशधा तथ्याभिधैर्गोरिभिः ॥
दशधा गौरिभिर्गोभिर्विभवैर्धरणी गौररोधि विप्लुता . तानेव
दशप्रकारन्भाषादोषेत्यादिनाह . भाषादोषवशाद्गिरां रोधः . बलरेणु-
निकरैर्दिशां गवां रोधः . तथाम्भसां गवां तैरेव रोधः . तथाक्ष्णां गवां
1 Ms. पाडुं°. 2 Ms. °मश्शिं°. 3 Ms. °ङ्गि°. 4 Ms. °भासं°. 5 Ms. °बैल्य.
6 Copyist's remark अत ऊर्ध्वं द्वित्राणि पत्राणि प्रायः गलितानि. 7 Ms. °गौं°. 8 Ms. °गौं°.