पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 275, कुल 330 में से
संदर्भ में पढ़ें[ एकादशः सर्गः ]
——————————————तेजसा .
तेजन्तरतिरोधानं व्यानञ्ज नृपतेर्मुखम् ॥
अ..............(l.1)............स्पृष्टं राज्ञो मुखं तेजोजन्तराणा-
ऽन्येषां तेजसामन्तर्धानमकरोत् ॥
1.
दर्पणेण्विव सं(l.2)क्रान्तं मुखेषु भुजशालिनाम् .
सहस्रमुखतां प्राप तस्य शूरस्य तन्महः ॥
आदर्शेष्विव वीराणां मुखे(l.3)षु संक्रान्तं तस्य शूरस्य रवेश्च तेज-
ऽस्सहस्रप्रकारतां प्रापत् ॥
2.
ततः कदम्बवासेन धैर्यावासेन मन्त्रिणा .
वि(l.4)ज्ञसत्सत्यदासेन संभाव्यासेन पार्थिवः ॥
धैर्यावासत्वादिगुणविशिष्टेन कदम्बवासाख्येन मन्त्रिणा(l.5) राजा
विज्ञमः ॥
3.
राजन्नवसरो नायं रुषां भाग्यनिधेस्तव .
किं क्रमेलकभक्ष्येपु तार्क्ष्यः फणिंपु कुप्यति ॥(l.6)
भ......वतो नायं रोषकालः उष्ट्रैर्भक्तुं शक्येषु सर्पेषु गरुडंः किं
पराक्रमते ॥
तिलोत्तमामिवोद्दि(l.7)श्य रसामातमनोरमाम् .
सुन्दोपसुन्दभङ्ग्या ते स्वयं नंक्ष्यन्ति शत्रवः ॥
1 Ms. °नन्यां. 2 Ms. °क्षिपु. 3 Ms. गरुडः written above क्रमेलकः(!)