सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

प्रारंभिक पृष्ठ एवं बौद्ध प्रमाण-मीमांसा पीठिका

बौद्धभारतीग्रन्थमालायाः
तृतीयं पुष्पम्
धर्मकीर्त्तिनिबन्धावलिः (१)
प्रमाणवार्त्तिकम्
बौद्धभारती
वाराणसी
१९६८

This page is blank and contains no text to transcribe.

बौद्धभारतीग्रन्थमाला-३
Bauddha Bharati Series-3
धर्मकीर्त्तिनिबन्धावलिः (१)
प्रमाणवार्त्तिकम्
सम्पादकः
स्वामी द्वारिकादासशास्त्री

Bauddha Bharati Series-3
Dharmakirtti Nibandhawali (1)
PRAMĀṆAVĀRTTIKA
OF
ACHARYA DHARMAKIRTTI
WITH THE COMMENTARY ‘VRITTI’
OF
ACHARYA MANORATHANANDIN
Critically Edited by
SWAMI DWARIKADAS SHASTRI
Acharya (Vyakaraṇa, Pali & Bauddha Darshana)
VARANASEYA SANSKRITA VISHVAVIDYALAYA
VARANASI
BAUDDHA BHARATI
VARANASI
1968

बौद्धभारतीग्रन्थमालाप्रकाशनम्-३
आचार्यश्रीधर्मकीर्त्तिविरचिता
धर्मकीर्त्तिनिबन्धावलिः (१)
प्रमाणवार्त्तिकम्
आचार्यमनोरथनन्दिवृत्तियुतम्
सम्पादकः
स्वामी द्वारिकादासशास्त्री
व्याकरण-पालिसाहित्य-बौद्धदर्शनाचार्यः
वाराणसेयसंस्कृतविश्वविद्यालयः, वाराणसी
बौद्धभारती
१९६८ ख्रिस्ताब्दः] वाराणसी [२५१२ बुद्धाब्दः

प्रकाशिका : Published by
© बौद्धभारती BAUDDHA BHARATI
नरहरिपुरा,-१ NARAHARIPURA,
वाराणसी VARANASI (INDIA)
प्रथमं संस्करणम् First Edition
मूल्यम् २५.०० Price Rs. 25.00
(पञ्चविंशतिरूप्यकाणि) (Rupees Twenty-five)
[सील/मुद्रा : बौद्धभारती / परिवर्धित मूल्य / ८०/- / वाराणसी-२]
मुद्रक : Printed at
गौरीशंकर प्रेस, The Gauri Shankar Press
मध्यमेश्वर, Madhyameshwar,
वाराणसी-१ VARANASI-1.

प्रकाशकीयम्
चिरं तिष्ठतु सद्धर्मः, चिरं सङ्घश्च तिष्ठतु ।
तिष्ठन्तूपासकाः सर्वे, राजताम् बौद्धभारती ॥
अयि मान्या विद्वांसः !
महान् प्रमोदावसरोऽयमस्मत्कृते यद् वयं सङ्कल्पानुसारमेकस्मिन्नेव वर्षे
बौद्धभारतीग्रन्थमालायास्तृतीयं पुष्पं बौद्धसाहित्यस्य शिरोरत्नभूतं धर्मकीर्त्ति-
निबन्धावलौ प्रमाणवार्त्तिकाह्वयं ग्रन्थं श्रीमतां करकमलेषु समुपाहरामः ।
इदं तु सर्वैर्विदितचरमेव यदिदानीं यावद् धर्मकीर्तेः सर्वा महत्त्वशालिन्यः
कृतयो यथासमयं कथञ्चित् मुद्रिता अपि दुर्लभा एव, येन बौद्धदर्शनजिज्ञासवो
वाञ्छन्तोऽपि न प्रामाणिकं बौद्धसाहित्यं सौलभ्येन प्राप्तुं शक्नुवन्ति स्म ।
प्रमाणवार्त्तिकं तु मुद्राणां चतुःशतकेनापि आपणे नोपलभ्यते—इति गोष्ठीषु
काले काले कल्याणमित्राणां चेतांसि दोदूयन्ते स्म । एतत् सर्वमवधार्यास्माभिः
तत्त्वसंग्रहतोऽनन्तरं प्रमाणवार्त्तिकस्यैव प्रकाशनं कर्त्तव्यमिति निश्चितम् । प्रमाण-
वार्त्तिकस्य चेदानीमुपलभ्यमानासु वृत्तिषु आचार्यमनोरथनन्दिकृता वृत्तिरेव
सर्वाङ्गसौष्ठवसम्पन्ना । यत्र हि 'नामूलं लिख्यते किञ्चित्, नानपेक्षितमुच्यते' इति
एषैव वृत्तिः विदुषामन्तेवासिनां चोभयेषां कृते समा हितावहेति सम्प्रधार्यास्माभिः
ग्रन्थेन सहैषापि योजिता ।
यद्यप्यस्मिन् शतके सर्वतः प्रथमं पण्डितप्रवरश्रीराहुलसाङ्कृत्यायनेनायं
सवृत्तिको ग्रन्थः सम्पादितः, तथापि यथास्मद्गुरुवर्याः वदन्ति—'ते कृतभूरि-
परिश्रमा अपि सामग्रीदारिद्र्येण नास्य सर्वाङ्गसौष्ठवसम्पन्नं संस्करणं कर्तुं
प्राभवन् ।' वयं तु मनोरथनन्दिवृत्तेः, स्वोपज्ञवृत्तेः, कर्णकगोमिवृत्तेः, प्रज्ञाकर-

[ ६ ]
गुप्तविरचितप्रमाणवार्त्तिकालङ्कारस्य च साहाय्येन, बौद्धजगति मार्तण्डायमानानां
श्रीमुखजर्युपाव्हगुरुचरणानां कृपाप्रसादेन च यथामति संशोध्य सम्पाद्य चेमं
ग्रन्थं श्रीमतां समक्षं समुपस्थापयामः । अनेन भवतां भवदन्तेवासिनां च
मनांसि मोदमाप्स्यन्तीत्याशास्महे ।
अनुपद्मेव चास्यां ग्रन्थमालायां सर्वानप्यवशिष्टान् आचार्यधर्मकीर्ति-
प्रणीतान्, वादन्याय-सम्बन्धपरीक्षा-सन्तानान्तरसिद्धि-न्यायबिन्दुप्रभृतिग्रन्थान्
निर्विघ्नं प्रकाशयेम–इत्येतदर्थं भवतां शुभाशंसनं कामयामहे ।
प्रकाशकः

FOREWORD
Swami Dwarika Das Shastri, Acharya is a finished
scholar. He is doing yeoman's service to the cause of
salvaging our ancient cultural heritage. He has edited
the Mādhavīyā Dhātuvṛtti, the Nyāsa and the Pada-
mañjarī on the Kāśikā and the Tattvasaṅgraha of Śānta-
rakṣita with Kamalaśīla's Pañjikā, which were long out
of print. I am happy to be able to record my unqualified
appreciation of the consummate scholarship and technical
skill, which he has brought to bear on the edition of these
abstruse texts. A discerning student will find in them
unmistakable evidence of his mastery of the language and
the logical subtleties of the arguments which make these
works a bugbear to ease-loving and superficial students.
The editor has established his title to our undying gratitude.
He is now bringing out a new critical edition
of Dharmakīrti's Pramāṇavārttika with Manorathanandin's
commentary. This is the only commentary which gives
an intelligible interpretation of the entire work. It is
neither too prolix nor too concise. The first edition of the
text by the Late Paṇḍita Rāhula Sāṅkṛtyāyana was a
pioneer work and in consequence suffered from the imper-
fections natural to pioneering work. Swami Dwarika Das
Shastri has avoided these shortcomings and has given
us a dependable text. This is an achievement which has
been made possible by sedulous collation of texts and
critical understanding.
Students of Buddhist Philosophy were smarting
under the inevitable disappointment of having no access
to this magnum opus of Dharmakīrti. A scholar
who has no acquaintance with this philosophical classic
will be doomed to the charge of charlatanism. The present

( viii )
edition has removed a painful desideratum. A serious
student of Buddhist Philosophy will now have the full
opportunity of making a first-hand study of this momentous
work, which brought about a revolution in Indian
Philosophy.
Dharmakīrti complained that the difficulties of his
work would make it a scare-crow and nobody will favour
it with a perusal. It would be as inaccessible as a deep
sea. But notwithstanding the difficulties and subtleties
of the work the scholars of India of all schools vied with
one another in accepting the challenge. Whether one
might be an admirer or a critic one had to establish his
credentials by proving his acquaintance with the text of
Dharmakīrti. It became a test of scholarship and gave
him the passport for admission to the higher ranks of
academic consummation. I trust that with the revival
of academic interest in Buddhist thought in our universities,
the ambitious students of Buddhist Philosophy will show
the same chivalrous spirit and take up the gauntlet thrown
by Dharmakīrti anew. The present edition of Dharma-
kīrti's work and that of the Tattvasaṅgraha will provide
them with the requisite arms. For this academic service,
the lovers of Buddhism will long cherish the name of
Swami Dwarika Das Shastri with feelings of gratitude.
The present atmosphere of indiscipline and quackery
must be a passing phase and the harbinger of redoubled
academic activities in the near future. The services of
scholars like Swami Dwarika Das Shastri will then be
rewarded with the keen appreciation born of understanding.
41, Babu Bagan Lane,
Calcutta-31.
Satkari Mookerjee.
Quondam Asutosh Professor of Sanskrit,
Calcutta University.
Whilom Director, Nava Nalanda Mahavihara.
Govt. of Bihar.

कलिकाताविश्वविद्यालयस्य संस्कृतविभागे
आशुतोषपीठस्य भूतपूर्वप्राध्यापकानाम्,
नवनालन्दामहाविहारस्याध्यक्षचराणां
डा० श्रीसातकारिमुकर्जीमहाभागानां
शुभाशंसनम्
नानाशास्त्रपारङ्गतो व्युत्पत्तिकाष्ठामधिरुह्य विद्वदग्रेसरः
स्वामी द्वारिकादासशास्त्रिमहाभागो भारतस्य प्राक्तनविद्यास्थान-
समुज्जीवनार्थं कृतसन्नाहः शास्त्ररसिकानां चेतस्यमन्दानन्दं
प्रादुर्भावयति । एष विद्वद्वरो माधवीयां धातुवृत्तिम्, न्यास-
पदमञ्जरीसमाह्वयं काशिकाव्याख्यानद्वयम्, कमलशीलकृतपञ्जिका-
समलङ्कृतं श्रीशान्तरक्षितविरचिततत्त्वसंग्रहं च आधुनिकीं विद्वत्-
समादृतां शैलीमवलम्ब्य सम्पाद्य प्राचकासत् । एतानि सर्वाण्येव
ग्रन्थरत्नानि अलभ्यान्यासन् । एतेषां ग्रन्थरत्नानां पाठनिर्णया-
दिकमभूतपूर्वं समाचरन्नयं विपश्चित् पाण्डित्यस्य वैदग्ध्यस्य च
गरिमाणमाविष्कुर्वन्न केवलं मम, अपि तु समेषां शास्त्रानुरागिणां
हृदि सन्तोषं तनोतीति विवृण्वतो मे महान् हर्षः सञ्जायते ।
प्रेक्षावानध्येता अस्य विद्वत्प्रकाण्डस्य भाषापरिज्ञानं सूक्ष्मयुक्तीना-
मवगाहनं च समीक्षमाणो विस्मेरतामाविष्कुर्वीत । एतेषां ग्रन्थ-
रत्नानां दुर्बोधा भाषा, दुरधिगमं च तर्कजालं श्रमभीरूणामापात-
ज्ञानतुष्टानां छात्राणां च विभीषिकामुदपादयत् । एतेषां प्रति-
संस्कर्ता अयमाचार्यद्वारिकादासशास्त्रिमहोदयोऽस्माकमविनश्वर-
कृतज्ञतामधिकरिष्यति ।
अधुनायं धर्मकीर्त्तिप्रणीतप्रमाणवार्त्तिकस्य मनोरथनन्दिकृत-
वृत्तिसहितस्य पुनः संस्करणं सम्पाद्य प्रकाशने व्याप्रीयते ।
मनोरथनन्दिकृता चेयं वृत्तिः समग्रस्य प्रमाणवार्त्तिकस्य व्याख्यान-
भूता एकैव ग्रन्थस्यास्य समग्रस्य सुगमतया तात्पर्यज्ञाने हस्ता-
लम्बं वितरति । इयं च वृत्तिर्ग्रन्थतो नातिगौरवं नातिलाघवं वा
वा संश्रयते । स्वर्गतपण्डितवरराहुलसांकृत्यायनेनास्याः प्रथमं
संस्करणं सम्पादि । इदम्प्रथमतया, सामग्रीदारिद्र्येण च त्रुटि-
विहीनं तन्नाभूत् । स्वामिद्वारिकादासशास्त्री एतेषामादीनवानां

[ • १० • ]
प्रहाणेन प्रामाणिकपाठसमाकलनेनेमं सवृत्तिकं ग्रन्थं प्रकाशयति ।
पाठानां विचित्राणां गुणदोषौ च सूक्ष्मेक्षिकया विचार्य समीचीनं
ग्रन्थं पुरस्करोति ।
बौद्धदर्शनस्य तत्त्वं जिज्ञासवो धर्मकीर्तिप्रणीतस्यास्य
ग्रन्थस्य दौर्लभ्येन नितरां परिदूना अभवन् । ग्रन्थस्यास्य अपरि-
चयश्च खलु इतरदर्शनशास्त्रेषु व्युत्पन्नमपि विद्वांसमेकदेशदर्शिता-
दोषेण कलुषीकुर्यात् । अधुनाऽस्य ग्रन्थस्य सौलभ्यसम्पादनेन
महतो दैन्यस्यावसानं समपीपदत् संस्कर्ता । बौद्धदर्शने व्युत्पि-
त्सवोऽद्यत्वेऽस्य महतो ग्रन्थस्य साक्षात् परिचयसम्पादने लब्धा-
वकाशा भवितारः । किं बहुना, अनेन ग्रन्थमणिना भारतीयदर्शन-
चिन्तायां नवीनः पन्थाः प्रादुर्भावित आसीत् ।
आचार्यधर्मकीर्तेरपीयमाशङ्का प्रादुरभूद् यत्तस्य कृतेः काठिन्यं
विविदिषून्नुत्त्रासयेत्, न कोऽपीमं ग्रन्थमध्येष्यते, समुद्र इव
दुरवगाहोऽयं स्वदेहे जरामपुपैष्यतीति । काठिन्यम्, दुर्बोधता च
यदि नामास्य पदे पदे परिलक्षितम्; तथापि भारतीया विद्वांसो-
ऽहमहमिकया अस्य परिशीलने व्यापारयामासुरात्मानम् । पुरा
स्वयूथ्या वा विरोधिनो वा अस्य धर्मकीर्तिकृतग्रन्थस्य परि-
शीलनमकृत्वा न प्रतिष्ठामलभन्त । पाण्डित्यस्य निकषपाषाणः
समपद्यत अस्मिन् व्युत्पत्तिः । आशास्महे वयम्—बौद्धशास्त्रानु-
रागे पुनर्जागरूके सञ्जातेऽस्माकं विश्वविद्यालयेषु दर्शनशास्त्रान्ते-
वासिनो यथापुरं धर्मकीर्तिप्रदत्तं संग्रामाह्वानं धीरोचितशैल्या
स्वीकरिष्यन्ति । सवृत्तिकस्य प्रमाणवार्त्तिकस्येदमभिनवं
संस्करणम्, तत्त्वसंग्रहश्च पञ्जिकोपेतस्तेषां साधनं भविष्यतः ।
अवश्यं श्रीमतः स्वामिद्वारिकादासमहाभागस्य साध्विदमवदानं
सबहुमानं समाहृतं भविष्यति, प्रमोदभरेण मनसा चास्य पूतं
नामधेयं स्मरिष्यन्ति ।
अद्यत्वे प्रवर्त्तमानो बुद्धिविप्लवो विधिनियमपरिहाणेन
उन्मर्यादा प्रवृत्तिश्च न चिराय स्थास्यति । मन्ये नवीनतरविद्या-
विवृद्धिसम्पादनसमुत्साहस्यायमग्रदूततायमानः शुभतरमुदर्कं पुर-
स्करिष्यति । ईदृश्यामायत्यां स्वामिद्वारिकादासप्रमुखाणां विदुषां
कृतयो बहुमानेन सत्कृता भविष्यन्ति । इति ।
श्रीसातकाड़िमुखोपाध्यायः

विषयक्रमः
वार्त्तिके यद् वस्तुजातं व्याख्यातं धर्मकीर्त्तिना ।
तस्य क्रमोऽत्र तद्वृत्तेरनुसारं वितन्यते ॥
१. प्रमाणसिद्धिनामा
प्रथम परिच्छेदः
मङ्गलम् १
अनुबन्धचतुष्टयनिरूपणम् २
प्रमाणलक्षणम् ३
१. अविसंवादि ज्ञानं प्रमाणम् ३
अविसंवादनशब्दनिरुक्तिः ३
शाब्दे ज्ञानेऽपि प्रामाण्यम् ४
मीमांसकमतखण्डनम् ५
शास्त्रप्रणयनफलम् ६
२. अज्ञातार्थप्रकाशकं वा ज्ञानं प्रमाणम् ८
सामान्यज्ञानेऽप्रामाण्यम्
भगवति प्रामाण्यम् ९
ईश्वरादावप्रामाण्यम् ९
नित्येऽप्रामाण्यम् ९
अनित्येऽप्यप्रामाण्यम् १०
ईश्वरसाधनदूषणम् ११
१. नैयायिकमतखण्डनम् ११
२. साङ्ख्यमतखण्डनम् १५
ईश्वरबाधकं प्रमाणम् १६

१२ प्रमाणवार्त्तिके
१. ज्ञानवत्त्वाद् भगवान् प्रमाणम् १८
मीमांसकमतखण्डनम् १८
२. हेयोपादेयवेदकत्वादेव भगवान् प्रमाणम् १९
३. कारुणिकत्वादपि भगवान् प्रमाणम् २०
चार्वाकमतनिरसनपूर्वकं परलोकसाधनम् २०
विज्ञानसिद्धिः २३
पुनर्जन्मसिद्धिः ३४
कर्मसिद्धिः ४५
४. शास्तृत्वाच्च भगवान् प्रमाणम् ५०
शास्तृपदनिर्वचनम् ५०
प्रत्येकबुद्धादिभ्यो बुद्धस्य वैशिष्ट्यम् ५१
५. सुगतत्वाद् भगवान् प्रमाणम् ५२
त्रिगुणं सुगतत्वम् ५२
सर्वज्ञबाधने जैमिनीयमतम् ५३
तत्प्रतिवचनम् ५३
६. तायित्वाद् भगवान् प्रमाणम् ५४
चतुरार्यसत्यनिरूपणम् ५४
१. दुःखसत्यम् ५४
२. चतुराकारं समुदायसत्यम् ६३
स्वभाववादखण्डनम् ६४
३. चतुराकारं निरोधसत्यम् ६७
४. चतुराकारं मार्गसत्यम् ७१
मोक्षे दीक्षाविधिरकिञ्चित्करः ८८
नैरात्म्यदृष्टिस्तृष्णाक्षये हेतुः ९२
७. संवादकत्वाद् भगवान् प्रमाणम् ९६

विषयक्रमः १३
२. प्रत्यक्षनामा
द्वितीय परिच्छेदः
प्रमाणस्य द्वैविध्यप्रदर्शनमुखेन
तत्र संख्याविप्रतिपत्तिनिराकरणम् ९८
सत्यद्वयविचारः १००
सामान्यतत्कल्पनानिरासः १००
सामान्यविचारः १०२
अनुमानविचारः ११८
अनुपलब्धिविचारः १२७
प्रत्यक्षविचारः १३८
तत्र लक्षणविप्रतिपत्तिनिराकरणम् १३८
न्यायमतदूषणम् १४१
शङ्करस्वामिप्रभृतिमतखण्डनम् १४३
सामान्यनिराकरणम् १४४
अवयविनिराकरणम् १४५
अनुमानतो न जातिसिद्धिः १४७
अन्यापोहविचारः १५०
प्रत्यक्षे शब्दकल्पनानिराकरणम् १५३
प्रत्यक्षभेदाः १५८
१. इन्द्रियप्रत्यक्षम् १५८
चित्रैकत्वविचारः १६३
२. मानसप्रत्यक्षम् १७२
३. स्वसंवेदनप्रत्यक्षम् १७५
तत्र साङ्ख्यमतनिराकरणम् १८०
४. योगिज्ञानप्रत्यक्षम् १८४

१४ प्रमाणवार्त्तिके
प्रत्यक्षाभासविचारः १८६
प्रमाणफलविचारः १९०
विज्ञप्तिमात्रताविचारः १९६
अर्थसंवेदनम् १९६
स्मृतिविचारः २१०
ज्ञानस्य द्वैरूप्यसाधनम् २१७
अक्षणिकव्यक्तेरसम्भवत्वम् २२२
स्वसंवेदनविचारः २२३
स्वसंवित्तिसिद्धिः २३९
प्रत्यभिज्ञाविचारः २४५
योगिनां ज्ञानम् २५३
हेतुसामग्र्याः सर्वसम्भवत्वम् २५४
आत्मानुभूतं प्रत्यक्षम् २५५
३. स्वार्थानुमाननामा
तृतीयः परिच्छेदः
हेतुविचारः २६७
हेतुलक्षणम् २५७
हेत्वाभासाः २५८
अनुपलब्धिविचारः २५९
शेषवदनुमाननिरसनम् २६३
व्याप्तिविचारः २६४
सामान्यविचारः २७१
न्याय-मीमांसामतनिराकरणम् २७७
सांख्यमतनिराकरणम् ३००
जैनमतनिराकरणम् ३१३

विषयक्रमः १५
शब्दविचारः ३१४
अहेतुकविनाशः ३१७
अनुपलब्धिचिन्ता ३१८
आगमविचारः ३२२
पौरुषेयत्वविचारः ३२५
अपौरुषेयत्वविचारः ३२६
वेदप्रामाण्यनिराकरणम् ३२६
सम्बन्धविचारः ३२८
कुमारिलमतखण्डनम् ३३२
स्फोटनिरसनम् ३३६
भाट्टमतनिराकरणम् ३४७
जैमिनीयमतनिरासः ३६०
४. परार्थानुमाननामा
चतुर्थः परिच्छेदः
आचार्यदिङ्नागसम्मते
परार्थानुमानलक्षणे स्वदृष्टग्रहणफलम् ३६३
अर्थग्रहणफलम् ३६८
पक्षलक्षणविचारः ३६८
इष्टशब्दग्रहणप्रयोजनम् ३७३
स्वयंशब्दग्रहणप्रयोजनम् ३७८
शब्दाप्रामाण्यविचारः ३८०
सहानिराकृतग्रहणप्रयोजनम् ३९२
बाधायाश्चातुर्विध्यम् ३९२
आगम-स्ववचनयोस्तुल्यत्वम् ३९२

१६ प्रमाणवार्त्तिके
प्रतीतिबाधा ३९८
प्रत्यक्षबाधा ४०४
सामान्यविचारः ४०५
पक्षदोषविचारः ४१०
हेतुनिरपेक्षः पक्षदोषः ४१०
अवयविनिरासः ४११
नैयायिकपक्षलक्षणे दोषः ४१५
प्रतिज्ञालक्षणे दोषः ४१८
सामान्यचिन्ता ४२०
हेतुलक्षणविचारः ४२६
हेतुलक्षणम् ४२६
हेतुभेदाः ४२९
कार्यस्वभावप्रभेदनिर्देशफलम् ४३०
‘विवादाद् भेदसामान्ये’ इत्यस्य व्याख्यानम् ४३२
साध्याभावः साधनाभावेन न व्याप्तः ४३३
सामग्रीशक्तिभेदाद् वस्तूनां नानात्मता ४४५
अनुपलब्धिविचारः ४४९
स्वभावानुपलब्ध्या विषयिप्रतिषेधः ४५१
विशिष्टवेदनादेव विशेषावगतिः ४५३
दृश्यानुपलब्धिः सद्व्यवहारबाधिका ४५४
भावस्वभावविचारः ४५६

संक्षिप्तसंकेतविवरणम्
मनोरथनन्दिनो वृत्तौ ये ये ग्रन्था इहोद्धृताः ।
तेषां संक्षेपसंकेतः स्फुटं विव्रियतेऽधुना ॥
संकेत: नाम प्रकाशनस्थानम्
क० कर्णकगोमिकृतटीका किताबमहल, अलाहाबाद
दी० नि० दीघनिकायो नालन्दासंस्करणम्
न्या० सू० न्यायसूत्राणि } अस्मत्सम्पादितम्,
न्या० द० न्यायदर्शनम् } भारतीयविद्याप्रकाशनम्, काशी
न्या० मु० टी० न्यायमुखटीका अमुद्रिता
पाठा० पाठान्तरम्
प्र० वा० प्रमाणवार्त्तिकम् इदमेव संस्करणम्
प्र० स०, प्र० समु० प्रमाणसमुच्चयः महिशूरतः प्रत्यक्षपरिच्छेदान्तो मुद्रित
म० व० महावग्गो नालन्दासंस्करणम्
मा० द० मालवणियासम्पादिता
स्वोपज्ञवृत्तिः हिन्दूविश्वविद्यालयः, काशी
रा० राहुलसांकृत्यायनसम्पादिता
मनोरथनन्दिवृत्तिः बी० ओ० आर० सोसायटी, पटना
वि० का० पा० विज्ञानकायपादः अमुद्रितः
श्लो० वा० श्लोकवार्त्तिकम् चौखम्भासंस्करणम्

由于本页图像严重泛黄、褪色且曝光过度,字迹极度微弱变淡(接近完全隐没),绝大部分文字已无法准确辨认。以下为依稀可见的版面结构与部分残存文字转写:

[विषयानुक्रमणिका / ग्रन्थसूची...]
[...........................................................................]
॥ ................................................................... ॥
[विषय / सूत्र] .................................... [पृष्ठाङ्क]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[...........................................................................]
[—— ❖ ——]

(注:该页墨迹褪色过于严重,对比度极低,无法做出高保真度的准确逐字识读。建议通过数字图像处理增强对比度后重新识别。)