प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 235, कुल 532 में से
संदर्भ में पढ़ेंसर्वमेव हि^१ विज्ञानं विषयेभ्यः समुद्भवत् ।
तदन्यस्यापि^२ हेतुत्वे कथञ्चिद् विषयाकृति ॥ ३६८ ॥
यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि ।
पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥ ३६९ ॥
तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम् ।
विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥ ३७० ॥
अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि ।
अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने ॥ ३७१ ॥
ननु स्वाभासं तावदस्तु ज्ञानम्, परिच्छेदस्वभावत्वात्; विषयाभासं तु कथम्,
यथा विषयं कारणं तथा चक्षुरादिरपीति तदाकारतापि स्याद्? इत्याह—सर्वमेव
हि ज्ञानं विषयेभ्यः समुद्भवदुत्पद्यमानं तेभ्यो विषयेभ्योऽन्यस्येन्द्रियादेरपि
हेतुत्वे कथञ्चित् स्वकारणायातविषयगतशक्तिभेदाद् विषयाकृति भवति,
नेन्द्रियाद्याकारम् ॥ ३६८ ॥
यथैवापत्यजन्मनि पित्रोर्मातापित्रोराहारकालादेश्च हेतुत्वेऽपि तदे-
कस्य पित्रोर्मध्ये एकस्य पितुर्मातुर्वाकारमपत्यं धत्ते, अन्यस्याहारकालादेश्च
कस्यचित् न ॥ ३६९ ॥
यत एवम्, तत् तस्मात् ततो विषयादन्यैरिन्द्रियादिभिर्हेतुत्वेन तुल्ये सदृ-
शेऽपि विषये रूपाद्यौ विषयत्वं ग्राह्यत्वम्, तेन स्वाकारार्पकत्वेनांशेन विशेषणं
मतम्। यस्मादाकारार्पकत्वं विषयलक्षणमवस्थितम्, तस्मात् तस्याकारार्पकत्वस्या-
भावे तद्विषयत्वमिन्द्रियादिषु न भवेत् ॥ ३७० ॥
किञ्च—अर्थवति चेतस्यनर्थाकारता अर्थाकाररहितता शङ्का स्यादपि;
दृश्यमानस्याकारस्यार्थत्वेनैव सम्भाव्यमानत्वाद् अतीतस्यार्थस्य ग्रहे विकल्पा-
त्मके त्वर्थस्याभावात् । अर्थाभासतया च द्विरूपत्वम्, तथा चापरोक्षत्वादात्म-
संवेदनं चेति द्वे अपि^३ स्तां^३ सिद्धे । न हि असन्नेवार्थो दृश्यते । ततोऽर्थाकारता
सा ज्ञानस्यैव । तथाऽर्थेन च परोक्षत्वाभावात् स्वाभासञ्च तत् । न चान्येन ज्ञानेन
१. तु—पाठा० । २. तदर्थस्यापि—पाठा० । ३-३. अप्यस्तु—रा० ।
प्र० वा० : १४