प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 7, कुल 532 में से
संदर्भ में पढ़ेंप्रकाशकीयम्
चिरं तिष्ठतु सद्धर्मः, चिरं सङ्घश्च तिष्ठतु ।
तिष्ठन्तूपासकाः सर्वे, राजताम् बौद्धभारती ॥
अयि मान्या विद्वांसः !
महान् प्रमोदावसरोऽयमस्मत्कृते यद् वयं सङ्कल्पानुसारमेकस्मिन्नेव वर्षे
बौद्धभारतीग्रन्थमालायास्तृतीयं पुष्पं बौद्धसाहित्यस्य शिरोरत्नभूतं धर्मकीर्त्ति-
निबन्धावलौ प्रमाणवार्त्तिकाह्वयं ग्रन्थं श्रीमतां करकमलेषु समुपाहरामः ।
इदं तु सर्वैर्विदितचरमेव यदिदानीं यावद् धर्मकीर्तेः सर्वा महत्त्वशालिन्यः
कृतयो यथासमयं कथञ्चित् मुद्रिता अपि दुर्लभा एव, येन बौद्धदर्शनजिज्ञासवो
वाञ्छन्तोऽपि न प्रामाणिकं बौद्धसाहित्यं सौलभ्येन प्राप्तुं शक्नुवन्ति स्म ।
प्रमाणवार्त्तिकं तु मुद्राणां चतुःशतकेनापि आपणे नोपलभ्यते—इति गोष्ठीषु
काले काले कल्याणमित्राणां चेतांसि दोदूयन्ते स्म । एतत् सर्वमवधार्यास्माभिः
तत्त्वसंग्रहतोऽनन्तरं प्रमाणवार्त्तिकस्यैव प्रकाशनं कर्त्तव्यमिति निश्चितम् । प्रमाण-
वार्त्तिकस्य चेदानीमुपलभ्यमानासु वृत्तिषु आचार्यमनोरथनन्दिकृता वृत्तिरेव
सर्वाङ्गसौष्ठवसम्पन्ना । यत्र हि 'नामूलं लिख्यते किञ्चित्, नानपेक्षितमुच्यते' इति
एषैव वृत्तिः विदुषामन्तेवासिनां चोभयेषां कृते समा हितावहेति सम्प्रधार्यास्माभिः
ग्रन्थेन सहैषापि योजिता ।
यद्यप्यस्मिन् शतके सर्वतः प्रथमं पण्डितप्रवरश्रीराहुलसाङ्कृत्यायनेनायं
सवृत्तिको ग्रन्थः सम्पादितः, तथापि यथास्मद्गुरुवर्याः वदन्ति—'ते कृतभूरि-
परिश्रमा अपि सामग्रीदारिद्र्येण नास्य सर्वाङ्गसौष्ठवसम्पन्नं संस्करणं कर्तुं
प्राभवन् ।' वयं तु मनोरथनन्दिवृत्तेः, स्वोपज्ञवृत्तेः, कर्णकगोमिवृत्तेः, प्रज्ञाकर-