सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 12, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 12

[ • १० • ]
प्रहाणेन प्रामाणिकपाठसमाकलनेनेमं सवृत्तिकं ग्रन्थं प्रकाशयति ।
पाठानां विचित्राणां गुणदोषौ च सूक्ष्मेक्षिकया विचार्य समीचीनं
ग्रन्थं पुरस्करोति ।
बौद्धदर्शनस्य तत्त्वं जिज्ञासवो धर्मकीर्तिप्रणीतस्यास्य
ग्रन्थस्य दौर्लभ्येन नितरां परिदूना अभवन् । ग्रन्थस्यास्य अपरि-
चयश्च खलु इतरदर्शनशास्त्रेषु व्युत्पन्नमपि विद्वांसमेकदेशदर्शिता-
दोषेण कलुषीकुर्यात् । अधुनाऽस्य ग्रन्थस्य सौलभ्यसम्पादनेन
महतो दैन्यस्यावसानं समपीपदत् संस्कर्ता । बौद्धदर्शने व्युत्पि-
त्सवोऽद्यत्वेऽस्य महतो ग्रन्थस्य साक्षात् परिचयसम्पादने लब्धा-
वकाशा भवितारः । किं बहुना, अनेन ग्रन्थमणिना भारतीयदर्शन-
चिन्तायां नवीनः पन्थाः प्रादुर्भावित आसीत् ।
आचार्यधर्मकीर्तेरपीयमाशङ्का प्रादुरभूद् यत्तस्य कृतेः काठिन्यं
विविदिषून्नुत्त्रासयेत्, न कोऽपीमं ग्रन्थमध्येष्यते, समुद्र इव
दुरवगाहोऽयं स्वदेहे जरामपुपैष्यतीति । काठिन्यम्, दुर्बोधता च
यदि नामास्य पदे पदे परिलक्षितम्; तथापि भारतीया विद्वांसो-
ऽहमहमिकया अस्य परिशीलने व्यापारयामासुरात्मानम् । पुरा
स्वयूथ्या वा विरोधिनो वा अस्य धर्मकीर्तिकृतग्रन्थस्य परि-
शीलनमकृत्वा न प्रतिष्ठामलभन्त । पाण्डित्यस्य निकषपाषाणः
समपद्यत अस्मिन् व्युत्पत्तिः । आशास्महे वयम्—बौद्धशास्त्रानु-
रागे पुनर्जागरूके सञ्जातेऽस्माकं विश्वविद्यालयेषु दर्शनशास्त्रान्ते-
वासिनो यथापुरं धर्मकीर्तिप्रदत्तं संग्रामाह्वानं धीरोचितशैल्या
स्वीकरिष्यन्ति । सवृत्तिकस्य प्रमाणवार्त्तिकस्येदमभिनवं
संस्करणम्, तत्त्वसंग्रहश्च पञ्जिकोपेतस्तेषां साधनं भविष्यतः ।
अवश्यं श्रीमतः स्वामिद्वारिकादासमहाभागस्य साध्विदमवदानं
सबहुमानं समाहृतं भविष्यति, प्रमोदभरेण मनसा चास्य पूतं
नामधेयं स्मरिष्यन्ति ।
अद्यत्वे प्रवर्त्तमानो बुद्धिविप्लवो विधिनियमपरिहाणेन
उन्मर्यादा प्रवृत्तिश्च न चिराय स्थास्यति । मन्ये नवीनतरविद्या-
विवृद्धिसम्पादनसमुत्साहस्यायमग्रदूततायमानः शुभतरमुदर्कं पुर-
स्करिष्यति । ईदृश्यामायत्यां स्वामिद्वारिकादासप्रमुखाणां विदुषां
कृतयो बहुमानेन सत्कृता भविष्यन्ति । इति ।
श्रीसातकाड़िमुखोपाध्यायः