सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 120, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 120

पञ्चमोऽध्यायः । ११३
अभिजायते ॥ ६ ॥
अत्र अभिशब्दो विशेषणे । को विशेष इति चेत् । तदुच्यते ।
यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजोऽमैत्रश्च भूत्वा असङ्गादि-
भावेन जायत इत्येष विशेषः । जायते इति । जनी प्रादुर्भावे ।
तस्मात् कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन युगप-
ज्जायते । अवश्यादिवद् (अ० १, सू० २८) इत्यर्थः ॥ ६ ॥
असङ्गादिभावे कोऽसावभ्युपायो येन जायते ? । उच्यते—
इन्द्रियाणामभिजयात् ॥ ७ ॥
अत्र जितता जयः । तस्माज्जयादसङ्गतादि भवति । अत्र
परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ।
तेषामभिजयादित्यर्थः । आह—कथं बुद्धि(? द्धयादि)सिद्धिरिति चेत् ? ।
तदुच्यते—सिद्धत्वात् । अत्र मतिबुद्धिपिधानस्थापनोपदेशाद् घटपटवत्
सिद्धत्वाच्च बुद्धिः सिद्धा । तथा परोपदेशात् स्वात्मपरात्मप्रतिविभाग-
दर्शनात् सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाचाहङ्कारः सिद्धः । तथा
मनः प्रवर्त्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्ति-
नानात्वं च सिद्धम् । एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ।
तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् । परपरिवादादि(अ० ३, सू० ७)-
वचनाद् उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं समन्ताच्छब्द-
व्यञ्जनसमर्थं सिद्धम् । तथातितपोपदेशात् (अ० २, सू० १६) त्वग्
अन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा । तथा