पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 116, कुल 166 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ।
इदानीं पञ्चमाध्यायमवसरप्राप्तं सम्बन्धं कृत्वा वक्ष्यामः ।
यस्मादाह—असङ्गयोगी इत्येव तावत् पञ्चमस्याध्यायस्यादिरिति ।
इदानीं पञ्चमस्य चतुर्भिरध्यायैः सह सम्बन्धं कृत्वा व्याख्यानं
करिष्यामः । आह--चतुर्विधत्वात् सम्बन्धस्य संदेहः । इह
चतुर्विधः सम्बन्धो भवति । तद्यथा—सूत्रसम्बन्धः प्रकरणसम्बन्धो-
ऽध्यायसम्बन्धो दूरस्थश्चेति । उक्तं हि—
“सूत्रप्रकरणाध्यायैः सम्बन्धस्त्रिविधः स्मृतः ।
दूरस्थश्चार्थशेषेण पूर्वात् सम्बन्ध इष्यते ॥”
एवं चतुर्विधः सम्बन्धो भवति यस्माद् , अतो नः
संशयः कतमोऽयं सम्बन्ध इति ? । तदुच्यते—न तावदयं
सूत्रसम्बन्धो न प्रकरणसम्बन्धो न दूरस्थसम्बन्धः । किन्त्वय-
मध्यायसम्बन्धः । आह--यद्येवं तस्माद् उच्यतां, कतमस्य
पदार्थस्य शेषेणायं सम्बन्धः कथ्यते ? । योगशेषेण । आह—अस्मिन्
योगपदार्थे किं शेषम् ? । किं वा नियतं शेषत्वेन यत् सम्बध्यते ? ।
तदुच्यते—पूर्वं चतुर्ष्वध्यायेषु कारणत्ववहुत्वनानात्वेनोक्तस्य भगवत
एकत्वं नोक्तम् । तद् वक्ष्यामः । तत्र कारणत्वं तावदुक्तं—पतिः
सन् आद्योऽजातो भवोद्भव (अ० १, सू० ३८, ४० & ४४) इति ।
बहुत्वमुक्तं—वामो देवो ज्येष्ठो रुद्रः कामी शङ्करः कालः कलविकरणो
बलप्रमथनः सर्वभूतदमनो मनोऽमन (अ० २, सू० १-४, ६, २० &
२३-२७) इति । नानात्वं चोक्तम्—अघोरो घोरो घोरतर (अ० ३,
सू० २१--२३) इति । एवं कारणत्ववहुत्वनानात्वेनोक्तस्य भगवत