सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 115, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 115

१०८ सभाष्ये पाशुपतसूत्रे
आह-पुरुषबहुत्वात् संदेहः । अथ कतमस्मै पुरुषाय ? ।
तदुच्यते-
महादेवाय धीमहि ॥ २३ ॥
अत्र महादेवत्वं च पूर्वोक्तम् । महादेवायति चतुर्थी । धीमहि
इति । धीङ् संश्लेषणे । ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां
संयुज्यामह इत्यर्थः । अत्र धी इति ज्ञानशक्तिपर्यायः । यया सर्व-
पदार्थानां तत्त्वमधिगच्छति, सा ज्ञानशक्तिः । महि इति क्रियाशक्ति-
पर्यायः । यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः
॥ २३ ॥
आह-अथैते दृक्क्रियाशक्ती महादेवात् साधकः किं स्वशक्तित
आसादयति ?, . आहोस्वित् परशक्तितः ?, उतोभयशक्तितः ? ।
तदुच्यते-परशक्तितः । यस्मादाह-
तन्नो रुद्रः प्रचोदयात् ॥ २४ ॥
तद् इति दृक्क्रियाशक्त्योर्ग्रहणम् । नो इत्यात्मापदेशे । अस्माक-
मित्यर्थः । रुद्र इति कारणापदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् । प्र
इत्यादिकर्मणि । चुद प्रेरणे । चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ।
याद् इति लिप्सा । संयोजयस्व मामित्यर्थः । उक्तं हि- "रुद्रस्येच्छा-
पूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः, तच्चोदन-
माहुरार्याः " ॥ २४ ॥
एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये चतुर्थोऽध्यायः
सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥