पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 117, कुल 166 में से
संदर्भ में पढ़ें११० सभाष्ये पाशुपतसूत्रे
एकत्वं वक्ष्यामः। यादृशं महेश्वरे योक्तव्यं तत्तत्त्वनिर्देशं करिष्यामः।
उक्तं च—‘उभयथा यष्टव्यः’ (अ० २, सू० ९)। अथ कीदृशे महेश्वरे
उभयथा यजनादयः कर्तव्याः ?। तदुच्यते---यादृशे महेश्वरे उभयथापि
यजनादयः कर्तव्याः, भक्तिसमीपं देवनित्यता नित्ययुक्तता अध्ययनं
ध्यानं स्मरणं सायुज्यं चित्तस्थितिर्दृष्टव्या, तथा वक्ष्यामः । यथा
चायमात्मा दोषादिविशिष्टः शुद्धो युज्यते, तथा वक्ष्यामः । तन्निष्ठा-
योगलक्षणं, निष्ठायोगक्रियायोगयोः प्रतिविभागं वसत्यर्थे वृत्तिबलं
क्रियाबलं च तद् वक्ष्यामः । तथा समीपप्राप्तस्य चित्तस्थितिं च
वक्ष्यामः । अत एभिरुक्तशेषैः पञ्चमोऽध्यायः सम्बध्यते । यस्मादाह—
असङ्गः ॥ १ ॥
अत्र अकारः सङ्गप्रतिषेधे । अत्र सङ्गो नाम यदेतत् पुरुषे
विषयित्वम् । तेन विषयित्वेन योगाद्धर्मेण चायं पुरुषो यदा अध्ययन-
ध्यानादिभ्यश्च्यवति । दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत् त्रैकाल्य-
मित्यर्थः(१)। असङ्गत्वमप्यतीतानागतवर्तमानानां विषयाणामननुचिन्तनं
भिक्षुवत् । एवं महेश्वरे भावस्थितिस्तदसङ्गत्वमित्यर्थः ॥ १ ॥
आह—किमसङ्गत्वमेवैकमुक्तं नान्यल्लक्षणम् ? । उच्यते—
यस्मादाह—
योगी ॥ २ ॥
इति । अत्र योगो नाम—आत्मेश्वरसंयोगो योगः प्रत्येतव्यः ।
उक्तं हि—
१. 'तल्लक्ष्यमाणस्य सङ्गस्यात्यन्तहानिरसङ्गत्वम्' । २. 'केवलरुद्रतत्त्वा-
वस्थितचित्तत्वं योगित्वम्'। गणकारिकाव्याख्या page 16.