सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

१४८ परिभाषेन्दुशेखरः [ १ प्रकरणे-

सुतराम् । अत एव तादृशादर्थबोधः ; अन्यथा शक्ततावच्छेदकानुपूर्व्य-
ज्ञानात्ततो बोधो न स्यात् । एवञ्च रामिति मान्तस्य यस्माद्विहितस्तत्त्वमौ
इत्यस्य परादिवत्त्वेन सुत्त्वमिति तदादितदन्तत्वमार्थसमाजग्रस्तम् ।
छिन्नपुच्छे शुनि श्वत्वव्यवहारवन्मान्ते तत्त्वं लोकन्यायसिद्धम् ।


यावद्घटितस्यापि एकदेशविकृतपदेन ग्रहणात् । इत्थं च स्वघटकोद्देश्यकविकार-
घटितत्व-स्वघटकोद्देश्यकविकारेतरयावद्घटितत्व-स्वविशिष्टघटितत्वैतत्त्रितयसम्बन्धेन
स्वविशिष्टं स्ववद्भवतीति परिभाषार्थः । अत्र वैशिष्ट्यं च स्वाघटकत्व-स्वघटकमात्रो-
द्देश्यकविकारेतरत्वरूपं पूर्वोक्तमनुसन्धेयम् । अत्र मात्रपदनिवेशादेव ‘काण्ड’ इत्यादौ
एतन्न्यायेन प्रातिपदिकत्वानतिदेशान्न प्रकारान्तरेण ह्रस्ववारणपरभाष्यविरोधः ।
शक्ततावच्छेदकानुपूर्वीति । न च शक्ततावच्छेदकानुपूर्वीरूपधर्मस्य विकृतावयव-
घटितत्वेन तदतिदेशासंभवात्कथं परिभाषासत्त्वेऽपि तादृशादर्थबोध इति वाच्यम् ;
‘एकदेशविकृतमनन्यवद्यथा भवेत्तथा करणीयमि’ति परिभाषार्थस्वीकारेण मान्तवृत्त्यानु-
पूर्व्यमिव तच्छक्ततावच्छेदकत्वारोपेण मान्तेऽपि तादृशशक्त्यनुमानेन ततो बोधस्य
निष्प्रत्यूहत्वात् ।
केचित्तु—रामशब्दत्वस्य अखण्डतया विकृतावयवनिबन्धनकार्यत्वाभावेन परि-
भाषाप्रवृत्तिः सुलभवैव । न चैवमेकदेशविकृतत्वासंभवः ; तत्तच्छब्देषु वर्णकल्पनायामपि
रामशब्दत्वादेरखण्डत्वे बाधकाभावात् । न चानुपूर्व्येव रामशब्दत्वावगमप्रयोजिका,
अत एव घटशब्दे न रामशब्दत्वबुद्धिः । तथा चात्र पूर्वोक्तदिशा आनुपूर्व्या अनति-
देशेन कथं रामशब्दत्वावगतिरिति वाच्यम् ; आनुपूर्व्या अभावेऽपि परिभाषाया
एवात्र खण्डरामशब्दत्वावगतिप्रयोजकत्वात् ।
आर्थसमाजेति । अर्थानामयमर्थः, स चासौ समाजस्तेन ग्रस्तम् । अर्थसमाजेति
पाठे तु ‘अर्थानां समाज’ इति व्युत्पत्तिर्बोध्या ।


ननु मूलोक्तव्याख्यानपि कथं सङ्गतम् ? यद्येकदेशविकृतापेक्षयाऽन्यो गृह्यते, तर्हि
सादृश्यस्य भेदघटिततया मान्तापेक्षया अन्यघटपटादिभिन्नत्वे सति घटपटादिगतभूयोधर्मवत्त्वरूप-
सादृश्यस्य निषेधेऽपि मान्ते अदन्तरामशब्दत्वं सुदुर्लभम् । अपि च—अदन्तरामशब्दस्यापि अन्य-
शब्देन सङ्ग्रहात्तद्गतसादृश्यनिषेधे अदन्तरामभिन्नत्वे सति रामगतभूयोधर्मवत्त्वरूपसादृश्या-
भाववत्त्वं मान्तस्येति सुतरामन्यत्वाभावः कथमिति चेत्—अत्रोच्यते ; अन्यो नाम भेदाधि-
करणम्, स च भेदो रामशब्दत्वावच्छिन्नप्रतियोगिताको ग्राह्यः, यद्गतधर्मारोपः कर्तव्यस्तद्गत-
धर्मावच्छिन्नप्रतियोगिताकभेदस्य ग्रहणात् । तथा च भेदाधिकरणगतधर्मः सादृश्यम्, तादृशभेद-
वत्त्वमिति यावत् । तच्च भेदस्वरूपम् । यथा च प्रकृते रामशब्दत्वावच्छिन्नप्रतियोगिकभेदस्य राम-

३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४९
अत एव 'प्राग्दीव्यत' इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानु-
करणमिदमित्युक्त्वा, 'किमर्थं विकृतनिर्देशः ? एतदेव ज्ञापयत्याचार्यो
भवत्येषा परिभाषा 'एकदेशविकृतमनन्यवदि'त्युक्तम् । एतेन अयं न्यायः
शास्त्रीयकार्य एव शास्त्रीयविकार एवेत्यपास्तम् । विकृतावयवनिबन्धन-
अत्र एवेति । एतन्न्यायाङ्गीकारादेवेत्यर्थः । दीव्यतिशब्दैकदेशेति । दीव्यतिशब्दवृत्त्यर्थं-
वत्त्वं तान्ते आरोप्य कृतमनुकरणमित्यर्थः । अत एव अवध्यवधिमतोः साजात्यादर्थ-
निर्देशघटितसूत्र एवाणः सम्बन्धः, तेन 'बाह्वादिभ्यश्चे'त्यादौ नाणः सम्बन्धः ।
एतेन रीश्वरादितिवन्निरर्थकतान्तस्य अवधित्वस्वीकारेऽपि दोषाभावेन परिभाषा-
प्रवृत्तिर्निष्फलेत्यपास्तम् ।
शब्दे निषेधात्

कार्ये तु नायम् , छिन्नपुच्छे शुनि पुच्छवत्त्वव्यवहारवद् विकृतावयवव्यव-
हारस्य दुरुपपादत्वात् ।
एवमक्तपरिमाणग्रहणेऽपि नायम् ,
अक्तपरिमाणेति । अक्तपरिमाणम् = परिच्छिन्नपरिमाणम्, तेन संख्यात्वव्याप्य-
धर्मानयने परिमाणत्वव्याप्यधर्मानयने तद्घटितधर्मानयने चैतदप्रवृत्तिरित्यर्थः ।
तेन शतत्व-शतमुद्गघटतममञ्जूषात्वयोः शेटकत्व-शेटकपरिमितधान्यघटितमञ्जूषा-
त्वयोश्च नातिदेशः ।
केचित्तु-परिच्छेदकधर्मसमनियतधर्मस्यापि नानेनातिदेशः । अत एव शेखरे
चतुष्ट्वसमनियत-जराशब्दत्वस्यानेन अतिदेशाभावेन स्थानिवत्सूत्रेण तदतिदिश्य
जरसादेश उपपादितः । 'गुडोदकमि'त्यत्र दकशब्दे उदकशब्दत्वमनेन न्यायेन
परिच्छिन्नपरिमाणमिति । परिमाणेन परिच्छिन्नार्था अक्तपरिमाणपदेन गृह्यन्ते । परि

[३७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५१

उक्तयुक्तेः ; एतत् 'येन विधिरि'त्यत्र भाष्य-कैयटयोर्ध्वनितम् ।
यत्र त्वर्धं तदधिकं वा विकृतं तत्र जातिव्यञ्जकभूयोवयवदर्शना-
भावेन तत्त्वाप्रतीतौ कार्यसिद्धयर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं च
स्थानिवत्सूत्रम् । क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम् , तेन 'अभीयादि'-
त्यादिसिद्धिः ।


आश्रित्य 'उदके केवल' इति स्वरापादनपरं भाष्यं त्वेकदेश्युक्तिः । अत एव 'अभीयादि'-
त्यत्र भान्ते अभिशब्दत्वातिदेशाभावेन उत्सर्गात्परत्वाद् ह्रस्वो नेति प्राहुः ।
अन्ये तु— 'उदके केवल' इति सूत्रस्थभाष्यविरोधान्नैतद्युक्तम् । 'अभीयादि'-
त्यत्र तु न्यायस्यानित्यत्वाद् ह्रस्वाप्रवृत्तिः ; अत एव 'अभीयात् पतञ्जलिर्'त्यादौ न
जश्त्वमिति वदन्ति ।
उक्तयुक्तेरिति । लोकव्यवहारादित्यर्थः । ध्वनितमिति । तत्र हि 'अक्तपरिमाण-
वाचकाः संख्यापरिमाणशब्दा नैवाधिके न्यूने वा प्रवर्तन्त' इत्युक्तम् ।
नन्वनेनैव न्यायेन सर्वत्र सिद्धेः स्थानिवत्सूत्रं व्यर्थमत आह—यत्रेति । अर्धं
तदधिकं वेति जातिव्यञ्जकभूयोऽवयवदर्शनाभावे हेतुभूतमेवैतत् , न तु न्यायाप्रवृत्तौ ।
अत एव अर्धाधिकविकारभूते मुखादौ न्यायेन श्वत्वावगतिः । कार्येति । 'रामाये'त्यादौ
सर्वविकारे स्थानिवत्त्वेन दीर्घसिद्धयर्थमित्यर्थः ।
वस्तुतस्तु— स्वसमभिव्याहृतवर्णघटितत्व-स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रया-
वधिकपूर्वत्वैतदुभयसम्बन्धेन द्वित्वशास्त्रीयोद्देश्यताश्रयविशिष्टस्य 'पूर्वोऽभ्यास' इत्यनेन
अभ्याससंज्ञाबोधनात् 'चकारारे'त्यादौ दोषाभावेन परिभाषा निष्फलैव, न वा 'रामौ'
इत्यादौ पदत्वाद्यसिद्धिः । यथोद्देशपक्षे पूर्वं जातपदत्वस्य आनुमानिकस्थान्यादेशभावेन
औकारान्ते सुलभत्वात् । न च शक्ततावच्छेदकातिदेशार्थं तत् ; अकारान्तवृत्तिशक्तताव-
च्छेदकधर्मातिदेशाभावेऽपि औकारान्तवृत्तेस्तस्य पूर्ववदतिदेशेन 'रामावि'त्यादौ बोध-
सम्भवात् । न च 'उदके केवल' इति सूत्रस्थभाष्यविरोधः, ज्ञापकपरभाष्यविरोधवत्


ह्रस्वाप्रवृत्तिरिति । 'वार्णादाङ्गं बलीयः' इति परिभाषया प्रथमं ह्रस्वे पश्चात्सवर्ण-
दीर्घे कृतेऽनन्तरं 'लक्ष्ये लक्षण'न्यायेन ह्रस्वाप्रवृत्तौ 'अभीयादि'त्यस्य सिद्धौ न तदर्थमस्य
अनित्यत्वमत आह—अत एवेति ।
मूले—विकृतानल्रूपेति । विकृतोऽनल्रूपोऽवयवस्तत्त्वमित्यर्थः, तेन यशश्शब्दाण्णिचि
टिलोपे अनेनास्त्वालाभेन स्थानिवत्त्वेन तत्त्वमाश्रित्य अस्मायेति विनिः सिद्ध्यति । अनेन
न्यायेन तु विकृतावयवनिबन्धनकार्यं न सेत्स्यतीति भावः ।

१५२ परिभाषेन्दुशेखरः [ १ प्रकरणे, ३७ प० विचारः ]
स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः 'प्रथमयोः पूर्वसवर्ण' इत्यत्र कैयटेन
दर्शितेत्यन्यत्र विस्तरः ॥ ३७ ॥
॥ इति शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥
तस्याकिञ्चित्करत्वात् । न च 'देवदत्तौ आरतुरि'त्यादौ देवादेः समुदायस्याभ्याससंज्ञा-
पत्तिः । पदसंस्कारपक्षे 'आरतुरि'त्यस्य सिद्ध्युत्तरं देवदत्तशब्देन तयोगादिति वाच्यम् ;
वाक्यसंस्कारपक्षाऽऽश्रयणेन देवदत्तादिशब्दस्य द्वित्वशास्त्रीयोद्देश्यताश्रयसमभि-
व्याहृतत्वेन तद्घटिततादृशसमुदायेऽभ्याससंज्ञाया अप्रवृत्तेः । अभ्याससंज्ञीयविशिष्टपदार्थे
स्वनिष्ठोद्देश्यता निरूपितविधेयताश्रयद्वित्वप्रयोजकप्रत्ययान्ततदादिघटकेति विशेषणदानेन
अदोषाच्चेति दिक् ॥ ३७ ॥
॥ इति भूत्तितिलके शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥
मूले—स्पष्टं चेति । अत्र स्पष्टं यथा स्यात्तथेति योज्यम् ; अन्यथा 'दर्शिते'त्यस्य
स्त्रीलिङ्गत्वेन तदसङ्गतिः स्पष्टैव ॥ ३७ ॥
॥ इति श्रीवैयाकरणप्रवर-'गणपतिशास्त्रिमोकाटे'कृते तत्त्वप्रकाशिकाभिधे
'भूति'-व्याख्याने शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम् ॥

२ प्रकरणे ३८-३९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५३
अथ बाधबीजनाम द्वितीयं प्रकरणम्
-: ० :-
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३८ ॥
पूर्वात्परं बलवत् , विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकमिति
यावत् ॥ ३८ ॥
नन्वेवं 'भिन्धी'त्यत्र परत्वात्तातङा बाधितो धिर्न स्यादत आह—
पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ३९ ॥
-: ० :-
अथ भूतिलके द्वितीयं प्रकरणम्
शास्त्रत्वसम्पादकोद्देशप्रकरणानन्तरं क्रमप्राप्तं बाधबीजप्रकरणमारभमाणस्तद्-
बीजानि सङ्कल्य दर्शयति—पूर्वपरेति । उत्तरोत्तरं बलीय इति । आनुपूर्व्ये द्वे वाच्ये
इति द्वित्वम् । पूर्वपरेति समस्तपदघटक-पूर्वपूर्वपदप्रतिपाद्य-शास्त्रापेक्षया उत्तरोत्तरपद-
प्रतिपाद्यशास्त्रस्य बलवत्त्वमित्यर्थः । तथा च सति विरोधे बलीयसा दुर्बलं बाध्यत
एवेति तु लोकतः सिद्धम् ।
अनुमानप्रयोगमाह—पूर्वादिति । 'परशास्त्रं पूर्वशास्त्रावधिकबलवत् परशास्त्र-
त्वात्' । पक्षतावच्छेदकस्य हेतुत्वेनांस्य अप्रयोजकतया विपरीतशङ्काकलुषितत्वात्
तन्निरासायाऽऽह—विप्रतिषेधशास्त्रादिति । एतेन विप्रतिषेधशास्त्ररूपहेतोः शब्दरूपत्वेन
आकाशवृत्तित्वाद्वैयधिकरण्येन नानुमानसम्भव इत्यपास्तम् ॥ ३८ ॥
नन्वेवमिति । एवम् = परशास्त्रस्य परत्वरूपबलवत्त्वेन बाधकत्वकल्पनायाम् ।
धिर्न स्यादिति । अत्र केचित्—तातङ्विधेर्वैकल्पिकत्वेन तदभावपक्षे ध्यादेशेनोक्त-
रूपसिद्धेरवतरणासङ्गत्या 'भिन्धको'त्यत्र धिना परत्वाद बाधितोऽकज् न स्यादिति
पाठभेदेन अवतारयन्ति । तन्न ; घेरन्तरङ्गत्त्वेनातुल्यबलत्वात् परत्वेन बाधासम्भवात् ।
अत एव भाष्ये 'अन्तरङ्गत्वाद्वित्वेकजि'त्येवोक्तम् ।
यत्त—विकल्पस्थलेऽभावस्यापि विधेयत्वेन 'तातङा बाधित' इत्यस्य 'तातङ-
भावेन बाधित' इत्यर्थादवतरणसङ्गतिरिति केचित् । तदपि न समीचीनम् ; अप्राप्त-
विभाषास्थलेऽभावस्य सिद्धत्वेन शास्त्रेण तद्विधानासम्भवात् । अत एव 'मुमुक्षत'
इत्यत्र 'मुचोऽकर्मंस्ये'ति गुणाभावपक्षे अत्र 'लोपोऽभ्यासस्ये'त्यभ्यासलोपो न ।
अन्ये तु—'भिन्धी'ति भिन्तादित्यस्योपलक्षणम्, क्वचिद् भिन्तादित्येव मूल-
पाठः । तथा च 'भिन्तादि'त्यत्र तातङा बाधितो धिर्नैव स्यादिति तातङि स्थानि-
वद्भावप्रतिषेधानर्थक्यमिति शङ्कायामाह—पुनः प्रसङ्गेति । अत एव 'पुनः प्रसङ्ग-
२०

१५४ परिभाषेन्दुशेखरः [ २ प्रकरणे-
नन्वेवं 'तिसृणामि'त्यत्र परत्वात्तिस्रादेशे पुनस्त्रयादेशः स्यादत
आह—
सकृद्गतौ विप्रतिषेधे यद्बाधितं तद् बाधितमेव ॥ ४० ॥
-: ० :-
तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोरसम्भवेन बाधकाभावात्
पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थं विप्रतिषेधसूत्रमिति 'सकृद्-

विज्ञानमि'त्येतावदनुक्त्वा, 'सिद्धमि'त्येतदन्तं भाष्यकृतोक्तम् । इत्थञ्च 'पुनः
प्रसङ्गविज्ञानमि'त्येव परिभाषा, भाष्ये तातङि स्थानिवद्भावप्रतिषेधानर्थक्य-
शङ्कानिवारकतया सिद्धशब्दान्तमुपन्यस्तम् । प्रसङ्गे सति = शास्त्रस्य प्राप्तौ सत्याम् ;
पुनस्तस्य विज्ञानात् = पुनर्बुद्धिविषयीकरणात् सिद्धमतो वार्तिकं तत्प्रतिषेधाय आवश्यक-
मिति तदाशयमुपवर्णयन्ति ।

४० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५५
गति'न्यायसिद्धिः । यथा तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण
कार्यं करोति, यदा तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये, तदा उभयोर्न
करोति यौगपद्यासम्भवात् , तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौग-
पद्येन प्रवृत्त्यसम्भवादप्रतिपत्तौ प्राप्तायामिदं परविध्यर्थम् । तत्र कृते यदि
पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति पुनः प्रसङ्गविज्ञानसिद्धिरिति
विप्रतिषेधसूत्रे भाष्ये स्पष्टम् ।
यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि
शास्त्रयोस्तल्लक्ष्यविषययोरचारितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति
नियमार्थमिदमिति 'सकृद्गति'न्यायसिद्धिः । अत्र पक्षे एतन्नियमवशात्
एतल्लक्ष्यविषयपूर्वशास्त्रानुपप्लव एव । जातिपक्षे तु उद्देश्यतावच्छेदका-
क्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः 'सत्प्रतिपक्ष'न्यायेन युगपदु-
भयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनः प्रसङ्ग-
विज्ञानसिद्धिरित्याहुः । तन्न ; व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति, न
जातिपक्षे इत्यत्र मानाभावात् । 'न ब्राह्मणं हन्यादि'त्यादौ जात्याश्रयसकल-
व्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात् ।
अत एव 'सरूप'सूत्रे भाष्ये जातौ पदार्थेऽनवयवेन साकल्येन विधि-
प्रवृत्तेः 'गौरनुबन्ध्य' इत्यादौ सकलगवानुबन्धनासम्भवात् कर्मणो वैगुण्य-
मुक्तम् । द्रव्यवादे चासर्वद्रव्यावगते 'गौरनुबन्ध्य' इत्यादावेकः शास्त्रोक्तो-
ऽपरोऽशास्त्रोक्त" इत्युक्तम् । किञ्च नहि भाष्योक्ततृजादिदृष्टान्तस्य व्यक्ति-
ण्वुल्तृजूरहितप्रयोगस्यापि साधुतापत्तेः । इत्थञ्च प्रकृतेऽपि बाधकाभावात् 'त्रेस्त्रय'
एतच्छास्त्रीयोद्देश्यतावच्छेदकव्यापकत्वं त्रयादेशस्य तिसृत्रयैतद्वृत्त्यन्यतरत्वेनैव स्यात् ।
एवं 'त्रिचतुरोरि'ति शास्त्रविधेयस्य 'तिसृ'त्यस्यापि उक्तान्यतरत्वेनैव व्यापकत्वं
स्यादिति भावः ।
व्यक्तौ पदार्थ इति । 'व्यक्तिः पदानां वाच्ये'ति मत इत्यर्थः । ननु परमेवेति
नियमकल्पने तद्व्यक्तिविषयक कल्पितपूर्वशास्त्रस्य वैयर्थ्यं दुर्वारमित्यत आह - अत्र पक्ष
इति । जातिपक्ष इति । जातिपदं प्रवृत्तिनिमित्तपरम् । सत्प्रतिपक्षन्यायेनेति । यथा सत्प्रति-
पक्षस्थले न कस्यापि साध्यस्यानुमितिः, परस्परप्रतिबन्धात्तत्रापि तथैव न कस्यापि
शास्त्रस्य प्रवृत्तिः स्यादित्यर्थः । इदमिति । विप्रतिषेध इति शास्त्रमित्यर्थः । सर्वं लक्ष्य-
मिति । कर्म द्वितीयान्तम् । शास्त्रमिति । कर्तृ प्रथमान्तम् । उद्देश्यतावच्छेदकावच्छेदेन
अन्वयस्य सर्वस्मिन्नेव पक्षे अभियुक्तैरङ्गीकारादित्यर्थः । अस्मिन् लोकसिद्धेऽर्थे भाष्य-
सम्मतिं सप्रपञ्चं निरूपयति - न ब्राह्मणं हन्यादिति ।

पक्ष एव सर्वविषयत्वं न जातिपक्ष इत्यत्र मानमस्ति ।
अपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरितार्थयोर्व्यक्ति-
विरोधात्स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्। जातिपक्षेऽपि तज्जात्या-
श्रयतद्व्यक्तिविषयकत्वमेव नैतद्व्यक्तिविषयत्वमित्यत्र विनिगमकाभावः ।
तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृष्टान्ताश्रयणम्, क्वचिल्लौकिक-
दृष्टान्ताश्रयणमिति भाष्यसम्मतमार्ग एव युक्त इति बोध्यम् ।
द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेधशास्त्रोपयोगी । इदम्

कैयटमतं दूषयित्वा स्वमतं निगमयति—तत्रेति । शास्त्रीयदृष्टान्तेति । 'तृजादिभि-
स्तुल्यं पर्यायः प्राप्नोती'ति भाष्योक्ततृजादिदृष्टान्तेत्यर्थः। लौकिकेति। यथा 'तुल्यबले'ति
भाष्योक्तलौकिकदृष्टान्तेत्यर्थः ।
यौगपद्येनासम्भव इति । एकस्मिन् प्रयोगे यौगपद्येनासम्भवो विप्रतिषेध-
शास्त्रप्रवृत्त्युपयोगी, न तु केवलमेकस्य कार्यद्वयासम्भव एव । अत एव भाष्ये

कैयटमतं दूषयित्वेति । अयम्भावः—कैयटः व्यक्तिपक्षे प्रतिलक्ष्यं लक्षणोपप्लवात्
'राम + भ्यस्'इत्यर्थमुपप्लुत-'सुपि च, बहुवचने झल्येदि'त्येतयोरचारितार्थ्यात् तृजादिदृष्टान्तेन
अन्यतरत्वेन व्यापकत्वं व्यापकत्वकुक्षिप्रविष्टाधिकरणतायां वा सङ्कोचे निरुक्तलक्ष्ये उभयोः
पर्यायेण प्राप्तौ परनियमत्वार्थत्वेन सकृद्गतिन्यायसिद्धिः। जातिपक्षे हि उपप्लवाभावात्
क्वचित् चारितार्थयोः 'सत्प्रतिपक्ष'न्यायेन निरुक्तलक्ष्येऽप्राप्त्या परविध्यर्थत्वेन 'पुनः प्रसङ्ग-
विज्ञान'न्यायसिद्धिरित्याह । तन्न ; उभयपक्षेऽपि सम्भवति लघुधर्मस्य व्यापकतावच्छेदकत्वे
गुरुधर्मस्य तत्त्वासम्भवेन उद्देश्यतावच्छेदके सङ्कोचः स्यादित्युभयन्यायासिद्धिरिति नागेशेनोक्तम्-
'व्यक्तिपक्ष' इत्यारभ्य 'अपरोऽशास्त्रोक्तः' इत्यन्तेन । तत्र कैयटः प्रत्यवतिष्ठते—'नैवम्, यतो
ह्युद्देश्यतावच्छेदके सङ्कोचे व्यक्तिपक्षे तल्लक्ष्ये उभयोरप्राप्तौ उपप्लुतशास्त्रवैय्यर्थ्यमेव स्यादिति
तत्राधिकरणतायामेव सङ्कोचः । जातिपक्षे तु सूत्रवैय्यर्थ्याभावात् सम्भवति उद्देश्यतावच्छेदके
सङ्कोच' इति ; अत आह नागेशो मूले—किञ्चेति । तृजादिदृष्टान्तेनाधिकरणतायां सङ्कोचे तस्य
च दृष्टान्तस्य जातिव्यक्त्युभयपक्षकत्वे बाधकाभावेन जातिपक्षेऽप्यधिकरणतायां सङ्कोचे उभय-
न्यायासिद्धिस्तदवस्थैवेति तदाशयः ।
न केवलं प्राप्तिमात्रेणाधिकरणतायां सङ्कोचः, अपि तु यत्रोभयशास्त्रवैयर्थ्यं तत्रैवा-
धिकरणतायां सङ्कोचः । अन्यथा 'श्रीशः' इत्यत्र 'इको यणचि' इत्यस्य 'अकः सवर्णे दीर्घः'
इत्यस्य च प्राप्त्या तत्राप्यधिकरणतायां सङ्कोचे पर्यायापत्तिर्दुर्द्धरैव स्यात् । तस्मात् सूत्रवैयर्थ्ये-
ऽधिकरणतायां सङ्कोचः, तत्सार्थक्ये च उद्देश्यतावच्छेदके एव । तत्र सूत्रवैयर्थ्यं व्यक्तिपक्षे एव, न
जातिपक्षे इति तत्र तृजादिदृष्टान्तप्रसक्तिरिति कैयटाभिमतमाशयं खण्डयन्नाह नागेशो मूले-अपि
चेति । यत्रोपप्लवकशास्त्रवैयर्थ्यं तत्रैवाधिकरणतायां सङ्कोचो न पुनरुपप्लुतशास्त्रवैयर्थ्यं तत्प्रयो-
जकम् । अत एव व्यक्तिपक्षे 'श्रीशः' इत्यत्र यण् न इति तदाशयः । तस्माल्लक्ष्यानुरोधेन क्वचित्
तृजादिदृष्टान्ताश्रयणम्, क्वचिच्च लौकिकन्यायाश्रयणमिति भाष्यसम्मत एव पक्षः श्रेयानिति तत्त्वम् ।

४० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५७
'इको गुणे'ति सूत्रे कैयटे स्पष्टम् । यथा 'शिष्टादि'त्यादौ तातङ्-शाभावयो-
र्युगपत् प्रवृत्तौ स्वत्वनिमित्तानन्तर्यसम्भवो यद्यपि तातङादेः स्थानिवद्भा-
वेनास्त्येव तत्; तथाप्यादेशप्रवृत्त्युत्तरमेव स, न तु तत्प्रवृत्तिकाले । एवं
नुम्-तृज्वत्वयोः 'प्रियक्रोष्टूनी'त्यादौ युगपदसम्भवो 'यदागमा' इत्यस्य
नुम्प्रवृत्त्युत्तरं प्रवृत्तेः । एवं 'भिन्द्धी'त्यत्र तातङ्-धिभावयोर्युगपदेकस्थानि-
सम्बन्धस्य अङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः । नुम्नुटोरपि नुट्च-
जादिविभक्त्याऽऽनन्तर्यबाधो नुमि ह्रस्वान्ताङ्गबाध इत्यसम्भवाद्दिप्रतिषेधः ।
क्वचिद्दिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं
'नावश्यं द्विकार्ययोग एव विप्रतिषेधः, तर्ह्यसम्भवेऽपी'त्युक्तम् । 'द्विकार्ययोग'
इत्यस्य द्वाभ्यां कार्याभ्यां योगो यस्यैकस्य स न विप्रतिषेधविषय इत्यर्थः ।
यथा शिष्टादिति । हिशब्दाव्यवहितपूर्वत्वं धात्वव्यवहितपरत्वं चेत्यादि सर्वं विधेये
विशेषणमिति भावः ।
वस्तुतस्तु—तत्तच्छास्त्राणां स्वविधेयघटितं साध्विति बोधनवत् तदितरत्
असाध्वित्येतावत्पर्यन्तं बोधनेऽपि व्यापारः; अत एव गव्यादीनामसाधुत्वम् । तथा च
'शिष्टादि'त्यादौ 'शाहावि'ति शास्त्रेण 'शाही'त्यस्य साधुत्वं 'शास्तादि'त्यस्य
असाधुत्वं बोध्यते । 'तुह्योरि'ति शास्त्रेण च 'शास्तादि'त्यस्य साधुत्वं 'शाही'-
त्यस्यासाधुत्वं बोध्यत इति परस्परविरोधः स्पष्ट एव । एवं 'प्रियक्रोष्टूनी'त्यत्रापि
बोध्यम् । नुम्-नुटोर्विषये तु 'वारीणामि'ति लक्ष्यस्यैवोभाभ्यां साधुत्वबोधनेऽप्यु-
भयोरपूर्वबोधकत्वासम्भवेनैकस्य विधायकत्वम्, अपरस्यानुवादकत्वं वक्तव्यम् । तत्र
'कस्यानुवादकत्वं कल्प्यमि'ति विचारे अनुवादकस्य लोके निकृष्टतया परिगणनेन
विरोधः स्पष्ट एव । मूलोक्तं तु न युक्तम्; आदेशप्रवृत्तिकाले निमित्तानन्तर्याभावेऽपि
विधेये विशेषणमिति । हिशब्दाव्यवहितपूर्वस्य शासः प्रसङ्गे शासाधुरित्यर्थे शामात्रस्य
साधुत्वापत्त्या निमित्तस्य विधेयविशेषणत्वमावश्यकमिति भावः ।
वस्तुतः 'अन्तरतम'परिभाषया शामात्रस्याऽऽदेशत्वाप्राप्त्या विधेये निमित्तविशेषणं
नाऽऽवश्यकमित्यतः प्रकारान्तरेण विरोधमाह—वस्तुतस्त्विति । परस्परविरोधः स्पष्ट एवेति ।
उभाभ्यामपि शास्त्राभ्यां नकारघटितस्य 'वारिनामि'त्यस्यैव साधुत्वबोधनात् नुमुत्तरं दीर्घो न
भविष्यतीति तु अन्या कथेति भावः ।
वारीणामिति लक्ष्यस्यैवेति पाठस्तु चिन्त्यः । वस्तुतस्तु 'ह्रस्वनद्यापो नुट्' इत्यनेन
अजन्ताङ्गं हलादिविभक्तिश्चेति द्वयोः पौर्वापर्यस्य साधुत्वशासनं 'इकोऽचि विभक्तौ' इत्यनेन
नान्ताङ्गाजादिविभक्त्योरव्यवहितपौर्वापर्यस्य साधुत्वशासनमिति विरोधस्य सुपादत्वेनानुवादक-
त्वोक्तिश्चिन्त्यैवेति बोध्यम् ।

१५८ परिभाषेन्दुशेखरः [ २ प्रकरणे-
कार्यमित्यर्थात्पूर्वमेव भवति । तेन 'सर्वे पूर्वविप्रतिषेधा सङ्गृहीता इति
'स्वरितेने'ति सूत्रे भाष्ये । विप्रतिषेधसूत्रस्थ-परशब्दस्य इष्टवाचित्वात्
तत्सङ्ग्रह इति विप्रतिषेधसूत्रे भाष्ये ॥ ४० ॥
नन्वेवम् 'एधते' इत्यादौ परत्वाद्विकरणे 'अनुदात्तङित' इत्यादि-
तदुत्तरं स्थानिवत्त्वादिना तत्सत्त्वेन असम्भवोपपादनस्यैवासम्भवात् । किञ्च यदा-
गमा' इति न्यायस्य आगमप्रवृत्तिकाले एव प्रवृत्तिः, 'आद्यन्तावि'ति शास्त्रसहकारेण
उद्देश्यग्रहणग्राह्यत्वविशिष्टानामागमानां तत्तच्छास्त्रैर्विधानात् । किञ्च स्वस्वनिमित्ता-
न्तर्याऽसम्भवोऽपि दुरुपपाद एव । पूर्वोक्तरीत्या निमित्तानां विधेयविशेषणत्वेन तदुप-
पादने तु तेषां विधेयकुक्षिप्रविष्टत्वेन 'शास्ती'त्यादावपि हिपरकशादेशापत्तिः । न च
विशिष्टस्य विधेयत्वेऽपि 'प्राप्ताप्राप्तविवेक'न्यायेन शाशब्द एव विधेयता पर्यवस्यति,
हिशब्दपूर्वत्वं तु 'सर्वादीनि'त्यादौ सर्वार्थवाचकत्वमिव उद्देश्यगतमेवापेक्षितमिति न दोष
इति वाच्यम् ; 'शिष्टादि'त्यत्राप्युद्देश्ये शास्-धातौ हिशब्दपूर्वत्वस्य सत्त्वेनासम्भवस्य
दुरुपपादत्वादिति दिक् ।
परशब्दस्य इष्टवाचित्वादिति । अपरमिति पदविभागेन वा तत्सङ्ग्रह इति केचित् ॥४०॥
पूर्वविप्रतिषेधस्य भाष्योक्तस्थल एव प्रवृत्तिरित्याशयेन शङ्कते—नन्विति । एधत
इति । ननु विकरणस्य कृताकृतप्रसङ्गित्त्वेन अतुल्यबलत्वादवतरणासङ्गतिरिति चेत्—
असम्भवादिति । ननु प्रवृत्तिकालिकं विरोधमादाय विप्रतिषेधसूत्रस्य निष्प्रत्यूहं
प्रवृत्तेः सम्भव एवेत्यरुचेराह—किञ्चेति । तत्तच्छास्त्रैर्विधानादिति । इदमपि न युक्तम्—
प्रवृत्तिकाले उद्देश्ये तृजन्तत्वाभावेन तृजन्तरूपविधेये सर्वनामस्थानरूप-निमित्तान्तर्यबाधरूप-
विरोधस्य तादवस्थ्यात् प्रवृत्त्युत्तरं नास्तीत्यन्यदेतदित्यत आह—किञ्चेति ।
निमित्तस्य उद्देश्ये विशेषणत्वेऽसम्भवो दुरुपपादः, विधेये विशेषणत्वे 'शास्ती'त्यादौ
दोषः, आवृत्त्या उभयविशेषणत्वे च गौरवमत आह—न च विशिष्टस्येति । 'प्राप्ताप्राप्तविवेक'-
न्यायेन विधेयताङ्गीकारे 'शास्तो'त्यादौ न दोषः । वैशिष्ट्यञ्च—स्वरूपेणैव । तच्च उपलक्षणम्,
न तु विशेषणम्, विधानकाले तदभावात्, विधानोत्तरन्तु तदस्त्येव । अत एव 'उद्देश्यगतं तद-
पेक्षितमि'त्युक्तिः सङ्गच्छते इति भावः । तदेतदाह—असम्भवस्य दुरुपपादत्वादिति ॥ ४० ॥
मूले—एधत इति । 'स्पर्धते' इत्यादीनामुपलक्षणमिदम् । 'एधते' इत्यत्र तु अनुदा-
त्तेत्करणसामर्थ्यात्तत्प्रवृत्तेः । स्पर्धाधातोरनुदात्तेत्त्वस्य तु लिटि युज्विधौ च चरितार्थत्वमिति न
तत्सामर्थ्याश्रयणं युक्तम् । एधेस्तु लिटि आम्प्राप्त्या अजादित्वात् 'अनुदात्तेतश्च हलादेः'
इत्येतद्विहितयुचोऽप्राप्त्या चारितार्थ्याभावात् । न च 'एधिषीष्ट' इत्यत्र चारितार्थ्यम्, सीयुट-
ष्टित्वात् तकारावयवत्वेन व्यवधानाभावादिति वाच्यम् ; 'अनुदात्तेन्ङिद्घातोरव्यवहितपरस्य
निर्दिश्यमानस्य लस्यात्मनेपदमि'त्यर्थात् सीयुड्विशिष्टस्य 'यदागम'परिभाषाप्रयोज्यत्वेन
निर्दिश्यमानत्वाभावात् । अवतार्यमाणपरिभाषाघटक 'विकरणं'ति पदं सीयुटादीनामुपलक्षणम्,
तेन परिभाषासत्त्वे सीयुटमपि बाधित्वा पूर्वं नियमप्रवृत्त्या सर्वेष्टसिद्धिरिति ।

४१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १४९
नियमानुपपत्तिः, तेन व्यवधानादत आह—
विकरणेभ्यो नियमो बलीयान् ॥ ४१ ॥
—: ० :—
अत्र 'वृद्भ्यः स्यसनोः'ति सूत्रेण स्ये विभाषाऽतङ्‌विधानं ज्ञापकम् ;
अत्र केचित्—'एधत' इत्यस्य 'एधिष्यत' इत्यस्योपलक्षणत्वेन तत्र तस्य शब्दान्तरे
प्राप्नुवत्त्वेनानित्यत्वात् परत्वेन बाधस्य सुवचत्वमिति वदन्ति । तन्न ; 'एध+ल्'
इत्यवस्थायां विकरणेभ्यः परत्वात्तिबादिषु कृतेषु पूर्वं नियमप्रवृत्तावपि तद्घटकेष्वेव
परेषु विकरणप्रवृत्तेर्वाच्यतया शब्दान्तरे इत्यस्य विषयाभावात् । न हि पूर्वमष्टादशसु
परेषु विकरणस्य प्रसङ्गो नियमप्रवृत्त्युत्तरं तु नवस्वेवेति तत्प्रवृत्तिः सुवचा । सर्वथा
तेष्वेव शब्देषु परतो विकरणप्रवृत्तेः शब्दान्तर इत्यस्य विषयाभावात् ।
अन्ये तु—विकरणस्य नित्यत्वेऽपि नियमानुपपत्तिर्दुर्वारेत्यवतरणसङ्गतिः ।
'परान्नित्यं बलवदि'त्युत्तरमस्याः परिभाषायाः पाठे कर्तव्ये पूर्वं पाठस्तूभयोः सङ्ग्रहार्थं
इति वदन्ति ।
यत्तु—केचिद्वक्ष्यमाणानुमानेन नित्यस्य परावधिकबलवत्त्वेऽपि पूर्वावधिक-
बलवत्त्वकल्पने मानाभावः । न च 'दण्डापूपिक'न्यायेन तत्सिद्धिः ; फलाभावेन तद-
कल्पनात् । अन्तरङ्गादौ तु परशास्त्रबाधकत्वासिद्धये तत्कल्पनावश्यकत्वादिति प्राहुः ।
तन्न ; परान्नित्यमि'त्यत्र परपदस्यानित्यपरत्वेन तस्य पूर्वं शास्त्रापेक्षया बलवत्त्वस्यापि
वक्ष्यमाणत्वात् । अत एव 'परत्वान्नित्यत्वाच्चे'ति भाष्यादि सङ्गच्छते । विकरणानां
खश्श्वानशादौ नियमशास्त्राणां लिडादौ चारितार्थ्यं बोध्यम् । स्यविकरणस्यापवादत्वं
तु न शङ्क्यम् ; 'भविष्यति गम्यादय' इति निर्देशेन 'तक्र'न्यायस्यानित्यत्वेन अप्रवृत्तौ
परत्वादेव बाधप्रवृत्तेस्तत्रापि सत्त्वादिति दिक् । विभाषाऽतङ्‌विधानमिति । अतङिति-
च्छेदः, परस्मैपदेति तदर्थः । क्वचित्तु विकल्पविधानं ज्ञापकमिति पाठः ; अत एवाग्रे
विकल्पविधानं व्यर्थं स्यादित्युकम् ।
अत्र कल्पे विषयसप्तम्याश्रयणं विप्रतिषेधशास्त्रबाधश्चेति पक्षान्तरमाह—
तिबादिषु कृतेष्विति । तिप्-तस्-झीति सामान्यशास्त्रेणेत्यर्थः । विहितानां नियम
इति पक्षं स्वीकृत्यैव प्रकृतपरिभाषाया अवतरणदानेन पूर्वं सामान्यशास्त्रेण विहितेषु तिङ्क्षु
परतो विकरणानां प्रवृत्तेस्तदुत्तरं नियमेन क्रियमाणा व्यावृत्तिरव्यवहितपरत्वाभावान्न स्यात् ।
अत एव मूले नियमानुपपत्तिर्दर्शिता, न तु तिङामप्राप्तिरिति ध्येयम् ।
परिभाषायां स्वीकृतायामपि पूर्वं तिङां प्रवृत्तेः तत्प्रवृत्तिकाले स्वरूपविकरणस्याभावेन
'वृद्भ्यः स्यसनोः' इत्यस्याप्रवृत्त्या ज्ञापितेऽपि स्वांशे चारितार्थ्याभाव इत्यतः स्य इति विषय-
सप्तम्याश्रयणम्, तेन तस्य वृताद्यव्यवहितपरत्वेन तत्रानुदात्तङित इति नियमप्रवृत्त्याऽऽत्मनेपद-
मेव स्यादिति पक्षे परस्मैपदविधानार्थं 'वृद्भ्य' इत्यस्य आवश्यकत्वमिति स्वांशे चारितार्थ्य-
मित्याशयेनाह—अत्र कल्प इति ।

१६० परिभाषेन्दुशेखरः [२ प्रकरणे-
अन्यथा स्यव्यवधाने नियमाप्रवृत्तौ सामान्यशास्त्रेणोभयसिद्धौ विकल्प-
विधानं व्यर्थं स्यात् । अत्रार्थे ज्ञापिते तु स्य इति तत्र विषयसप्तमी बोध्येति
‘अनुदात्तङित’ इत्यत्र भाष्य-कैयटयोः स्पष्टम् ।
विकरणव्यवधानेऽपि नियमप्रवृत्तेरिदं ज्ञापकमिति ‘शदेः शित’ इत्यत्र
भाष्ये ध्वनितम् ।
वस्तुतः अस्माज् ज्ञापकादनुदात्तङित इत्यादिप्रकरणं तिबादिविध्येक-
वाक्यतया विधायकम् । तत्र ‘धातोरे’ति विहितपञ्चमी, तत्समानाधि-
करणमनुदात्तङित’ इत्यादि विहितविशेषणमेव । एवञ्च लावस्थायां स्येऽपि
तद्व्यवधाने तङ्सिद्धिः । शबादिभ्यस्तु पूर्वमेव नियमः । यद्वा लमात्रापेक्षत्वात्
विकरणव्यवधान इति । शदेः शित इत्यत्र भाष्ये ध्वनितमिति । तत्र हि 'न्यविशते'त्यत्र
वक्ष्यमाणमूलोक्तरीत्या अटोऽनित्यत्वेन नित्यत्वाद्विकरणे तदन्तस्याटि विश्धातोर्नैः
परत्वाभावेन नियमो न प्राप्नोतीत्याशयेन 'उपसर्गनियमोऽड्व्यवाये उपसंख्यानमि'ति
वार्तिककृतोक्तम् । तच्चोक्तार्थस्वीकारे एव सङ्गच्छते ; अन्यथाऽनेनाऽड्व्यवधाने 'नेर्विश'
इत्यस्य प्रवृत्तिस्वीकारेऽपि विकरणव्यवधानेन तिबादीनां विशः परत्वाभावान्नियमा-
प्राप्त्या तदसङ्गतिः स्पष्टैव ।
ननु 'तिप्-तस्-झी'ति सूत्रेण विहितानामनुदात्तङित इत्यादिनियमे तु जात-
प्रत्ययानां निवृत्तिः ; तदनुरोधेन कल्पितप्रकृतीनां निवृत्तिर्भिन्नवाक्यत्वकल्पना चेति
दूषणमित्याह—वस्तुत इति । तत्र = तिबादिविधायकसूत्रे । विहितविशेषणस्वीकारा-
देव लिट् ‘लुनाती’त्यादौ न तिबाद्यादेशाः । इदं च विहितविशेषणं ‘स्यतासी’ इत्यत्र
‘आयादय’ इत्यत ‘आर्धधातुक’ इत्यनुवृत्त्या लावस्थायामेवान्तरङ्गत्वेन स्यादय इति
भाष्यानुरोधेन ।
वस्तुतस्तु — स्यादिभ्यः परत्वादेव तिबादय इति दिग्योगलक्षणपञ्चम्यामपि न
दोषः । न च स्यप्रत्ययो नित्यः ; शब्दान्तरे प्राप्नुवतो विधेरनित्यत्वात् । न च
‘विपराभ्यामि’त्यादीनामनेकपदसापेक्षत्वेन अन्तरङ्गत्वात् स्ये तद्व्यवधाने तिबादि-
प्रवृत्त्यर्थं विहितविशेषणमिति वाच्यम् ; विपराभ्यां परत्वयोग्यात् जेरित्यर्थस्य शेखर
एव सिद्धान्तितत्वेन तस्यान्तरङ्गत्वाभावात् । पूर्वमेवेति । तद्विधौ कर्त्रर्थसार्वधातुक-
परत्वस्यापेक्षणादिति भावः । एकवाक्यतया विधानमिति पक्षे विहितविशेषणाश्रयण-
प्रयुक्तं गौरवमत आह — यद्वेति । इदं प्राचामनुरोधेन ।
तदसङ्गतिः स्पष्टैवेति । एवञ्च अत्र कल्पे ‘तस्मिन्नि’ति परिभाषाया अबाध इति
लाघवम् । नन्वेवमपि व्यवधानस्य शरणीकर्तव्यतया ‘तस्मादित्युत्तरस्य’ ‘इत्यस्य’ बाधा इति
पूर्वसमत्वमिति चेत् — सत्यम् । अत्र कल्पे विप्रतिषेधशास्त्रस्याबाधात्, परिभाषाश्रयणे तु तद्बाध-
कल्पनादिति पूर्वपक्षापेक्षयाऽत्र पक्षे लाघवमिति बोध्यम् ।

४१ पृ० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६१
अन्तरङ्गा आदेशा लकारविशेषापेक्षत्वात् स्यादयो बहिरङ्गा इति दिग्योग-
लक्षणपञ्चम्यामपि न दोषः । अत्र पक्षे 'वृद्भ्यः स्ये'ति सूत्रं स्वविषय
इति व्याख्येयम् । आत्मनेपदशब्दादौ भाविसंज्ञा आश्रयणीयेति तत्त्वम् ।
भिन्नवाक्यतया सामान्यशास्त्रविदितानां नियमे तु लुगादिनेव निय-
मेन जातनिवृत्तिरङ्गीकार्या । 'भुक्तवन्तं प्रति मा भुङ्क्था इति ब्रूयात् ;
किं तेन कृतं स्यादि'ति न्यायस्तु नात्र शास्त्र आश्रयितुं युक्तः, नियमादि-
शास्त्राणां वैयर्थ्यापत्तेः ।
ननु नियमविधानमिति पक्षे लादेशाभावेन परस्मैपदादिसंज्ञाभावात् तद्विधानानु-
पपत्तिरत आह—भाविसंज्ञेति ।
किं तेन कृतं स्यादिति । तथा च वाक्यानर्थक्यमिति भावः । न च बलवदनिष्टा-
ननुबन्धित्वविशिष्टेष्टसाधनत्वरूपलिङाद्यर्थस्य नञादिनाऽभावो बोध्यते, तेन तत्सत्त्वे
बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावो लिङादिभिर्गम्यते । तथा च 'भुक्त-
वन्तमि'त्यत्र 'त्वत्कर्तृकं भोजनं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववदि'ति
बोधनस्य सम्भवात् कथं तदानर्थक्यमिति वाच्यम् ; विध्यर्थे लिङो विधानात् प्रवृत्ति-
जनकत्वेन तात्पर्यविषयत्वं तदर्थः । नञादिसत्त्वे च निवृत्तिजनकत्वेन तात्पर्यविष-
यत्वं भासते । तथा च कृतभोजने निवृत्त्यप्रयोजकत्वेन तन्नैरर्थक्यस्य स्पष्टत्वात् ।
नात्र शास्त्र इति । वस्तुतस्तु—एतच्छास्त्रे तदाश्रयणेऽपि न दोषः, शास्त्रे प्रवृत्ते-
र्ज्ञानरूपतया तिबादिशास्त्रेण जनितस्य 'इदं साध्वि'ति ज्ञानस्य नियमशास्त्रेण निवृत्ति-
तद्विधानानुपपत्तिरिति । एकवाक्यताकरणे 'लस्य स्थाने आत्मनेपदं भवति' इत्यर्थः
स्यात्, स चानुपपन्नः ; तदानीमात्मनेपदज्ञानाभावात् । तज्ज्ञानञ्च 'तङानावात्मनेपदम्' इत्येत-
ज्ज्ञानाधीनम् । तज्ज्ञानञ्च लस्थानिकत्वापेक्षणेन 'तिप्-तस्-झी'त्यादिवाक्यार्थनिश्चयानन्तरमित्य-
न्योन्याश्रयेण विधानानुपपत्तिरिति भावः ।
अथ 'तङानावि'त्यस्य 'तङानौ आत्मनेपदसंज्ञौ स्तः' इत्येवास्त्वर्थः, मास्तु लस्थानिकौ
तङानावेति वाच्यम् ; शाननः चानशश्च प्राप्तात्मनेपदसंज्ञावारणार्थं तस्याऽऽवश्यकत्वात् । किञ्च
अस्याः परस्मैपदसंज्ञापवादकत्वेन 'उत्सर्गसमानदेशा' इति न्यायेन तस्यापि लस्थानिकत्वस्य
आवश्यकत्वात् ।
ननु 'अनुदात्तङित आत्मनेपदम्' इत्यादीनां नियमार्थत्वात् अनुदात्तेङ्ङिद्धातोरेवाऽऽत्मने-
पदमिति नियमात् अन्येभ्यः परस्मैपदे सिद्धे तद्विधानार्थं कृतस्य शेषात्कर्तरि परस्मैपदम्' इति
सूत्रस्य वैयर्थ्यमिति चेत्—सत्यम् । अनुदात्तेङ्ङिद्धातोः सामान्यशास्त्रतः प्राप्तपरस्मैपदवारणार्थं
तस्याऽऽवश्यकत्वात् । कृते तु तस्मिन् शेषादेव परस्मैपदमिति नियमात् अनुदात्तेदादीनां धातूनां
शेषत्वाभावात् परस्मैपदाप्राप्तेरदोषात् । न च 'वृद्भ्यः स्यसनोः' इति सूत्रस्य नियमार्थत्वेन उभयं
भवति तर्हि एषामेवेति नियमेन अन्येषामुभयपदव्यावृत्तेरदोष इति वाच्यम् ; नियमस्य सजातीया-
२१

१६२ परिभाषेन्दुशेखरः [ २ प्रकरणे-
ध्वनितं चेदं 'स्थानेऽन्तरतम' इति सूत्रे भाष्ये । शास्त्रानर्थक्यन्तु
वृद्धिसंज्ञासूत्रे तिरस्कृतम् । सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्थकैयट-
रीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृतिकल्पनया कार्या, प्रत्यय-
निवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र
विस्तरः ॥ ४१ ॥
परान्नित्यं बलवत् ॥ ४२ ॥
— : ० : —
कृताकृतप्रसङ्गित्वात् । तत्र अक्लृप्ताभावकस्य अभावकल्पनापेक्षया
सम्भवात् । निवृत्तिश्च तज्ज्ञानधर्मिकभ्रमत्वप्रकारकज्ञानरूपा । तत्साधुत्वे पुण्यजनकता-
वच्छेदकत्वाभावप्रकारकज्ञानरूपा वा । पूर्वशास्त्रेण तादृशसाधुत्वबोधनस्य फलन्तु
साधुष्वेव शास्त्रं प्रवर्तते इति नियमानुसारेण उत्तरशास्त्रप्रवृत्तये तदीयोद्देश्यतावच्छे-
दकसम्पादनमेव, तेन भाष्यीय-गगर्यादिशब्देषु न शास्त्रप्रवृत्तिरिति दिक् ।
ध्वनितमिति । तत्र हि तस्य सूत्रस्य जातानामान्तरतमादेशानां निवर्तकत्व-
मुक्तम् ॥ ४१ ॥
परान्नित्यं बलवत् । 'नित्यं परशास्त्रावधिकबलवत्, कृताकृतप्रसङ्गित्वादित्यनुमान-
प्रयोगः । ननु उत्सर्गबहिरङ्गयोर्नित्यत्वेऽपि तदपेक्षयाऽनित्यापवादान्तरङ्गयोर्बलवत्त्वेन
हेतोर्व्यभिचार इति चेन्न । साध्यदलीयपरपदार्थे अन्तरङ्गापवादभिन्नत्वरूपविशेषण-
दानेनादोषात् । न चैवमपि अनित्यपरशास्त्रस्यैव 'विप्रतिषेध' इति शास्त्रेण प्राबल्य-
बोधनाद्धेतोर्बाधितत्वमिति वाच्यम् ; अनेन नित्यस्य प्राबल्यबोधनेन विप्रतिषेधाभावात्
तत्सूत्राप्राप्त्या बाधासम्भवात् । न च श्रुतत्वाद्धिप्रतिषेधसूत्रसहकृतेन पूर्वानुभावेन पूर्वं-
मनित्यपरशास्त्रस्य बलवत्त्वे प्रमाणनिश्चिते बाधितत्वादेतस्य अनुमानस्यासम्भव इति
वाच्यम् ; विप्रतिषेध इत्येतच्छब्दोच्चारणसामर्थ्यादेव पूर्वमेतत्प्रवृत्तेर्ज्ञापनेनादोषात् ।
'परानित्यमि'त्यत्र परपदमनित्यपरम्, तेन अनित्यपूर्वशास्त्रस्य नित्यशास्त्रावधिक-
परत्वाभावेऽपि तद्बाधकत्वं नित्यपरशास्त्रस्य सिद्धयति । अत एव च 'परत्वान्नित्यत्वा-
च्चे'ति भाष्यादिग्रन्थाः सङ्गच्छन्ते । अत्र हेतुदले त्रैपादिकभिन्नत्वे सतीति निवेशनीयम्,
तेन नित्यत्रैपादिकस्य सापादिकाऽनित्यापेक्षया बलवत्त्वविरहेऽपि न क्षतिः । एवं 'पूर्वात्
परं बलवदि'ति पूर्वोक्तानुमानेऽपि पूर्वपदार्थे नित्यान्तरङ्गापवादभिन्नत्वं हेतुदले त्रैपा-
दिकभिन्नत्वं च निवेशनीयमित्यन्यत्र विस्तरः ।
ननु पक्षतावच्छेदकस्यैव हेतुत्वेन अन्वयदृष्टान्ताभावेन हेतोरप्रयोजकत्वशङ्का
तदवस्थैवेत्यत आह—तत्राक्लृप्तेति । बाधद्वयकल्पनापेक्षया एकस्य बाधस्य कल्पने
पेक्षतया समुच्चितोभयपदव्यावृत्तेरपि एकपदस्य प्राप्तस्य व्यावत्याभावात् । अनुदात्तेङिद्धातो-
रात्मनेपदमेवेति नियमेन सिद्धेरेतत्सूत्रं व्यर्थमिति तु वक्तुमशक्यम् ; आत्मनेपदनिमित्तहीनाद्
धातोरुभयपदप्राप्तेः ॥ ४१ ॥

'? No, look at the conjunct:
ह् + र = ह्र. Below it is nothing, so ह्र. Then द: जिह्रदि'ति.
Wait! What root has aṅga 'जिह्रद्'?
Wait! 'ह्राद्' (ह्रादेः) -> णिच् -> ह्रादि -> चङ् -> जिह्राद् -> ह्रस्व -> जिह्रद्!
'मा भवान् अजीह्रदत्' / 'मा भवानुजिह्रदत्' (with un-? No, 'मा भवानजीह्रदत्' or 'मा भवान् अजिह्रदत्')!
Wait, look at the text in L24:
"'मा भवानजीह्रदि'ति"?!
Wait! Look at the first letters of the quote:
' म ा भ व ा न [ु or ज?] ...
Wait! Look closely at the letter after 'भवान्':
It is 'अ' or 'उ'?
It's 'अ'!
Wait, look: ' म ा भ व ा न जी ह्र दि ' ति !
Wait, is it "अजीह्रदत्" or "अजीह्रदिति"?
Look:
' म ा भ व ा न (भवान्)
then:
अ (a)
जी (jee)
ह्र (hra)
दि (di)
' त ि (ti)
Wait, why "दि'ति"?
Wait, in

् करणे, which is उभयपदी (डुकृञ् is ञित् and स्वरितेत्)!
So by 1.3.72 ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’, it gets आत्मनेपद (or नियम: ञितः कर्त्रभिप्राये एव आत्मनेपदम्)!
And look at line 10:
‘करिष्यते’ इति !
Let's re-examine line 10:
द्वितीयोदाहरणम्—‘करिष्यत’ इति or ‘करिष्यते’ इति?
Look at 'त' in 'करिष्यत': above the त, there is a faint stroke, or is it 'करिष्यते'?
Wait, in "करिष्यते", the 'े' matra might be slightly light, or it might be 'करिष्यते'. Let's look very closely:
Yes, there is a slant stroke above 'त' in 'करिष्यते'!
It is ‘करिष्यते’ इति !
And in line 11:
‘स्वरितञित’ or ‘स्वरितञितः’?
Look at the end of the quote:
‘स्वरितञितः’ इत्यस्य !
Wait, does it have visarga inside the quote?
Line 11: ‘स्वरित ञित’ or ‘स्वरितञितः’?
There is a visarga! ‘स्वरितञितः’ !
Wait, is there

४६-४८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६५
यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादिविचारो
यदाऽपि व्यक्तिविशेषाश्रयणाभावः, तदाऽऽह—
क्वचित् कृताकृतप्रसङ्गमात्रेणापि नित्यता ॥ ४६ ॥
—: ❀ :—
कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे
प्रयोजकम् , न तु बाधकाबाधितफलोपहितप्रसङ्गोऽपि तथेति भावः ॥४६॥
तदाऽऽह—
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ ४७ ॥
—: ✻ :—
क्वचित्तु बाधकाबाधितफलोपहितप्रसङ्ग एव गृह्यते ; तदाऽऽह—
यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम् ॥ ४८ ॥
—: ❀ :—
परत्वाद् गुणे कृते रूपासिद्धिरत आह—यदा त्विति । एवञ्च लक्ष्यानुरोधादेषैव परिभाषा
तत्र स्वीक्रियत इति भावः ।
कृताकृतप्रसङ्गि नित्यमिति प्रथमांशघटकप्रसङ्गांशे बाधकाबाधितत्वरूपविशेषण-
सत्त्वासत्त्वद्वैविध्येनोक्तपरिभाषाऽपि द्विविधेत्याशयेऽऽनाह—कृते द्वितीय इति ॥ ४६ ॥
बाधकाबाधितफलोपहितप्रसङ्ग एवेति । इदमेव तु सार्वत्रिकमिति तत्त्वम् ।
कृते द्वितीय इतीति । यस्य च लक्षणान्तरेणेत्यस्योदाहरणं त्वामाचष्टे, त्वापयती'-
त्यादि । मपर्यन्तस्य त्वमौ पररूपात्पूर्वं नित्यत्वाट्टिलोपः, वृद्धिः, पुक् । अत्र पररूपे कृते एकचा-
त्वात् 'प्रकृत्यैकाजि'ति प्रकृतिभावेऽपि टिलोपस्य प्रसङ्ग इति यस्य लक्षणान्तरेण निमित्तं विहन्यते
न तदनित्यमिति प्रकृतपरिभाषया नित्यत्वात् टिलोपस्यैव प्रवृत्तेः । न चान्तरङ्गतवात्पररूपे
प्रत्येकाजिति प्रकृतिभावे च 'त्वादयति, मादयति' इत्येवं रूपमिति वाच्यम् ; 'नाजानन्तर्यं'
इति सत्त्वे तन्निषेधात्, तदसत्त्वे अन्तरङ्गपरिभाषाया अनित्यत्वाच्च । नन्वेवमपि वार्णपरिभाषया
टिलोपस्यैव प्रवृत्तेष्टिलोपस्य नित्यत्वं नोपयुज्यत इति चेत्, तदा उदाहरणान्तरं मृग्यम् ।
धर्मिग्राहकमानाद्भावकार्य विषय एव वार्णपरिभाषा-प्रवृत्तिरित्यन्ये ॥ ४६ ॥
सार्वत्रिकमितीति । एतद्वचनोदाहरणं 'स्योनः' इति । अत्र 'गुणात् पूर्वं नित्यत्वादूठ्
गुणस्तु ऊठि यणा बाधितत्वादनित्य' इति मूले स्पष्टम्, 'अस्मै' इति च कौमुद्यां स्पष्टम् ।

१६६ परिभाषेन्दुशेखरः [ २ प्रकरणे—
सप्तमे कैयटेन एतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम्—'वालि-
सुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हतेऽपि सुग्रीवस्य वालितः प्राबल्यं
न व्यवहरन्ति, भगवत्सहायैः पाण्डवैर्जये लब्धेऽपि पाण्डवानां प्राबल्यं
व्यवहरन्ति चे'ति । सर्वं चेदं लक्ष्यानुरोधाद् व्यवस्थितम् ॥ ४८ ॥
‘लुटः प्रथमस्ये’ति सूत्रे भाष्ये—
स्वरभिन्नस्य प्राप्नुवन्विधिर्नित्यो भवति ॥ ४९ ॥
—: ✤ :—
इति पठ्यते ।
उपष्टम्भकमिति । ष्टभिधातौ सकारटकारयोरुपदेशे सत्त्वेन आद्यसकारस्य
ष्टुत्वेन षकारो न षत्वेनेति बोध्यम् ।
व्यवहारद्वयमिति । अत्र केचित्—रामायणे वालिसुग्रीवयोर्युद्धप्रसङ्गे सुग्रीव-
पलायनस्य रामकर्तृकवालिहननस्य च सुप्रसिद्ध्या सुग्रीवस्य वालितः प्राबल्यं न
व्यवहरन्तीति युक्तमेव। एवं भारते युद्धे भगवत्कर्तृक-शस्त्रग्रहणाभावप्रतिज्ञायाः
पाण्डवकर्तृक-कौरवपराजयस्य च स्पष्टमुल्लेखात् कौरवेभ्यः पाण्डवानां प्राबल्यं
व्यवहरन्तीत्येतदपि युक्तमेवेति दृष्टान्त-दार्ष्टान्तिकयोरत्यन्तं वैषम्यम् ; अन्तर्यामितया
प्रेरणामात्रेण तत्त्वं तु उभयसाधारणमित्ययुक्तोऽयं सन्दर्भंविरुद्धो ग्रन्थ इति वदन्ति ।
परे तु—भगवता युद्धे शस्त्रग्रहणाभावरूपस्वप्रतिज्ञायाः परिरिरक्षिषया शस्त्र-
ग्रहणेऽकृतेऽपि पाण्डवशस्त्रादिषु विशेषशक्त्युत्पादनादिद्वारा सैनिकद्वारा राजेव शत्रून्
जिघांसुर्भगवान्नैव कौरवान् विजये । अत एव ‘निमित्तमात्रं भव सव्यसाचिन्’ इत्यनेन
भगवान् स्वप्रतिज्ञाभङ्गभिया स्वयं साक्षात् शस्त्रमदिधीर्षुरर्जुनं समबोधयत् । इत्थं च
यथा ततोऽधिकबलवत्त्वव्यवहारप्रयोजकस्य वालि-कौरवदमनकर्तृत्वस्य मुख्यबीजस्य
भगवत्येव सत्त्वेऽपि नोभयत्र तद्व्यवहारः, एवं कृताकृतप्रसङ्गरूपस्य बलवत्त्वप्रयोजकमुख्य-
व्यवहारस्य न सर्वत्र बलवत्त्वप्रयोजकत्वमित्यत्यन्तसन्दर्भशुद्धः समदृष्टान्त-दार्ष्टान्तिको
ग्रन्थ इति ग्रन्थतत्त्वविदो विदाङ्कुर्वन्त्विति प्राहुः ॥ ४८ ॥
स्वरभिन्नस्येति । स्वरेण भिन्नस्येत्यर्थः । स्वरोऽपि शब्दान्तरत्वसम्पादक इति
भावः । एतत्परिभाषोदाहरणं 'दध्युदकमि'ति । अत्र हि 'दधि+उदकमि'ति स्थिते
अत्र केचिदिति । हैमवतीकारा इति तदर्थः ॥ ४८ ॥
मूले—लुटः प्रथमस्येति सूत्रे भाष्य इति । तत्र हि “श्वः कर्ता' इत्यत्र ‘तास्यनु-
दात्तेत्' इति स्वरस्य डारौरसाञ्च प्राप्तेः परत्वात्प्राप्तमनुदात्तं बाधित्वा नित्यत्वात् डा इत्युक्त्वा
अनुदात्तस्यापि कृताकृतप्रसङ्गितया नित्यत्वमाशङ्क्य, शब्दान्तरस्य प्राप्त्या तस्यानित्यत्वे उक्ते
डाशब्दोऽपि भिन्नस्वरस्य प्राप्नुवन्नित्य इत्युभयोरनित्यत्वात् परत्वादनुदात्तस्वर” इत्युक्तम् ।

४९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १६७
यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयाऽन्यतरत्तदुभयं
वा तस्य बलवत्त्वे नियामकमुल्लेख्यम् । अत एव तत्र तत्र परत्वान्नित्य-
त्वाच्चेति भाष्ये उच्यते ।
वस्तुतस्तत्र परत्वादित्युक्तिरेकदेशिनः । स्पष्टं चेदं विप्रतिषेधसूत्र-
कैयटे । 'णौ चङि'ति ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः
प्रवृत्तौ नित्यत्वादित्येव भाष्य उक्तम् । एवं नित्यान्तरङ्गयोर्बलवत्त्वमपि
यौगपद्यासम्भव एवेति बोध्यम् ॥ ४९ ॥
नब्विषयस्येत्याद्युदात्तत्वेन इकारस्यानुदात्तस्य यणादेशः प्राप्नोति । उदके केवल इति
कृते तु 'उदात्तस्ये'ति स्वरान्तरस्य प्राप्तत्वेन यणादेशोऽनित्यः । तथा च तं बाधित्वा
उदके केवल इत्यस्य परत्वात्प्रवृत्त्याऽन्तोदात्तस्य यणि 'उदात्तस्वरितयोर्यण' इति
स्वरितत्वमुकारस्य सिद्ध्यतीति भावः ।
अन्यतरत्तदुभयं वेति । न च तस्य नित्यत्वे तुल्यबलविरोधाभावेन विप्रति-
षेधसूत्राप्रवृत्तेरेतदयुक्तमिति वाच्यम् ; विप्रतिषेधे नित्यान्तरङ्गापवादभिन्नेन पूर्व-
शास्त्रेण सह परशास्त्रस्य विरोधे सति परं कार्यमिति विप्रतिषेधसूत्रार्थेन परशास्त्रस्य
नित्यत्वेऽपि पूर्वशास्त्रस्य नित्यत्वाद्यभावेन विप्रतिषेधसूत्रप्रवृत्तौ बाधकाभावात् ।
पूर्वपदार्थे नित्यादिभिन्नत्वविशेषणदानेनोपपत्तौ परपदार्थेऽपि तद्विशेषणदाने माना-
भावात् । तुल्यबलविरोध इति वृत्तेरपि तुल्यबलेन नित्यादिभिन्नेन पूर्वशास्त्रेण सह
विरोध इत्येवार्थः, न तु 'तुल्यबलयोर्विरोधे' इत्यर्थो मानाभावात् फलाभावाच्च ।
न च द्वयोर्नित्यत्वेऽन्तरङ्गत्वे वा परत्वाद् बाधो न स्यात् पूर्वशास्त्रस्य तद्भिन्नत्वा-
भावादिति वाच्यम् ; स्ववृत्तिनित्यत्वाभावविशिष्टं यन्नित्यत्वं तदभाववता स्ववृत्ति-
तन्निरूपितान्तरङ्गत्वाभावविशिष्टं यदन्तरङ्गत्वं तदभाववता चेति पूर्वपदार्थे
विशेषणदानेन अदोषात् । एवं 'परान्नित्यमि'त्यत्र परपदार्थे स्ववृत्तितन्निरूपिता-
न्तरङ्गत्वाभावविशिष्टं यदन्तरङ्गत्वं तदभाववतेति विशेषणं देयम्, तेन द्वयोरन्त-
रङ्गत्वेऽपि नित्यत्वाद् बाधसिद्धिरिति दिक् ।
पूर्वशास्त्रस्य नित्यान्तरङ्गत्वापवादत्वे तु अतुल्यबलत्वं स्पष्टमेव । अत्रैवोपोद्-
बलकमाह—अत एवेति ।
परत्वादित्युक्तिरेकदेशिन इति । पूर्वोक्त-यत्त्वित्यादिना प्रतिपादित-केचिन्मते तु
नित्यत्वादित्युक्तिरेवैकदेशिन इति दिक् । यौगपद्यासम्भव इति । विरोधे सत्येव बल-
वता दुर्बलस्य बाधदर्शनादिति भावः ॥ ४९ ॥
सिद्ध्यतीति भाव इति । अन्ये तु—स्वर-यणित्यनयोः कृताकृतप्रसङ्गित्वेन नित्यत्वात्
परत्वात् स्वरे ततो यणि इष्टसिद्धेर्नतत्फलमिति वदन्ति ।
परे तु—पूर्वोत्तरपदनिमित्तकार्यात् प्रागन्तरङ्गोऽपि एकादेशो नेत्यत्रैकादेशपदं सन्धि-
कार्यस्योपलक्षणम्, तेनैव सिद्धेरिदं निष्फलमित्याहुः ॥ ४९ ॥