परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 178, कुल 373 में से
संदर्भ में पढ़ें१४८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
सुतराम् । अत एव तादृशादर्थबोधः ; अन्यथा शक्ततावच्छेदकानुपूर्व्य-
ज्ञानात्ततो बोधो न स्यात् । एवञ्च रामिति मान्तस्य यस्माद्विहितस्तत्त्वमौ
इत्यस्य परादिवत्त्वेन सुत्त्वमिति तदादितदन्तत्वमार्थसमाजग्रस्तम् ।
छिन्नपुच्छे शुनि श्वत्वव्यवहारवन्मान्ते तत्त्वं लोकन्यायसिद्धम् ।
यावद्घटितस्यापि एकदेशविकृतपदेन ग्रहणात् । इत्थं च स्वघटकोद्देश्यकविकार-
घटितत्व-स्वघटकोद्देश्यकविकारेतरयावद्घटितत्व-स्वविशिष्टघटितत्वैतत्त्रितयसम्बन्धेन
स्वविशिष्टं स्ववद्भवतीति परिभाषार्थः । अत्र वैशिष्ट्यं च स्वाघटकत्व-स्वघटकमात्रो-
द्देश्यकविकारेतरत्वरूपं पूर्वोक्तमनुसन्धेयम् । अत्र मात्रपदनिवेशादेव ‘काण्ड’ इत्यादौ
एतन्न्यायेन प्रातिपदिकत्वानतिदेशान्न प्रकारान्तरेण ह्रस्ववारणपरभाष्यविरोधः ।
शक्ततावच्छेदकानुपूर्वीति । न च शक्ततावच्छेदकानुपूर्वीरूपधर्मस्य विकृतावयव-
घटितत्वेन तदतिदेशासंभवात्कथं परिभाषासत्त्वेऽपि तादृशादर्थबोध इति वाच्यम् ;
‘एकदेशविकृतमनन्यवद्यथा भवेत्तथा करणीयमि’ति परिभाषार्थस्वीकारेण मान्तवृत्त्यानु-
पूर्व्यमिव तच्छक्ततावच्छेदकत्वारोपेण मान्तेऽपि तादृशशक्त्यनुमानेन ततो बोधस्य
निष्प्रत्यूहत्वात् ।
केचित्तु—रामशब्दत्वस्य अखण्डतया विकृतावयवनिबन्धनकार्यत्वाभावेन परि-
भाषाप्रवृत्तिः सुलभवैव । न चैवमेकदेशविकृतत्वासंभवः ; तत्तच्छब्देषु वर्णकल्पनायामपि
रामशब्दत्वादेरखण्डत्वे बाधकाभावात् । न चानुपूर्व्येव रामशब्दत्वावगमप्रयोजिका,
अत एव घटशब्दे न रामशब्दत्वबुद्धिः । तथा चात्र पूर्वोक्तदिशा आनुपूर्व्या अनति-
देशेन कथं रामशब्दत्वावगतिरिति वाच्यम् ; आनुपूर्व्या अभावेऽपि परिभाषाया
एवात्र खण्डरामशब्दत्वावगतिप्रयोजकत्वात् ।
आर्थसमाजेति । अर्थानामयमर्थः, स चासौ समाजस्तेन ग्रस्तम् । अर्थसमाजेति
पाठे तु ‘अर्थानां समाज’ इति व्युत्पत्तिर्बोध्या ।
ननु मूलोक्तव्याख्यानपि कथं सङ्गतम् ? यद्येकदेशविकृतापेक्षयाऽन्यो गृह्यते, तर्हि
सादृश्यस्य भेदघटिततया मान्तापेक्षया अन्यघटपटादिभिन्नत्वे सति घटपटादिगतभूयोधर्मवत्त्वरूप-
सादृश्यस्य निषेधेऽपि मान्ते अदन्तरामशब्दत्वं सुदुर्लभम् । अपि च—अदन्तरामशब्दस्यापि अन्य-
शब्देन सङ्ग्रहात्तद्गतसादृश्यनिषेधे अदन्तरामभिन्नत्वे सति रामगतभूयोधर्मवत्त्वरूपसादृश्या-
भाववत्त्वं मान्तस्येति सुतरामन्यत्वाभावः कथमिति चेत्—अत्रोच्यते ; अन्यो नाम भेदाधि-
करणम्, स च भेदो रामशब्दत्वावच्छिन्नप्रतियोगिताको ग्राह्यः, यद्गतधर्मारोपः कर्तव्यस्तद्गत-
धर्मावच्छिन्नप्रतियोगिताकभेदस्य ग्रहणात् । तथा च भेदाधिकरणगतधर्मः सादृश्यम्, तादृशभेद-
वत्त्वमिति यावत् । तच्च भेदस्वरूपम् । यथा च प्रकृते रामशब्दत्वावच्छिन्नप्रतियोगिकभेदस्य राम-