सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 187, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 187

४० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५७
'इको गुणे'ति सूत्रे कैयटे स्पष्टम् । यथा 'शिष्टादि'त्यादौ तातङ्-शाभावयो-
र्युगपत् प्रवृत्तौ स्वत्वनिमित्तानन्तर्यसम्भवो यद्यपि तातङादेः स्थानिवद्भा-
वेनास्त्येव तत्; तथाप्यादेशप्रवृत्त्युत्तरमेव स, न तु तत्प्रवृत्तिकाले । एवं
नुम्-तृज्वत्वयोः 'प्रियक्रोष्टूनी'त्यादौ युगपदसम्भवो 'यदागमा' इत्यस्य
नुम्प्रवृत्त्युत्तरं प्रवृत्तेः । एवं 'भिन्द्धी'त्यत्र तातङ्-धिभावयोर्युगपदेकस्थानि-
सम्बन्धस्य अङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः । नुम्नुटोरपि नुट्च-
जादिविभक्त्याऽऽनन्तर्यबाधो नुमि ह्रस्वान्ताङ्गबाध इत्यसम्भवाद्दिप्रतिषेधः ।
क्वचिद्दिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं
'नावश्यं द्विकार्ययोग एव विप्रतिषेधः, तर्ह्यसम्भवेऽपी'त्युक्तम् । 'द्विकार्ययोग'
इत्यस्य द्वाभ्यां कार्याभ्यां योगो यस्यैकस्य स न विप्रतिषेधविषय इत्यर्थः ।
यथा शिष्टादिति । हिशब्दाव्यवहितपूर्वत्वं धात्वव्यवहितपरत्वं चेत्यादि सर्वं विधेये
विशेषणमिति भावः ।
वस्तुतस्तु—तत्तच्छास्त्राणां स्वविधेयघटितं साध्विति बोधनवत् तदितरत्
असाध्वित्येतावत्पर्यन्तं बोधनेऽपि व्यापारः; अत एव गव्यादीनामसाधुत्वम् । तथा च
'शिष्टादि'त्यादौ 'शाहावि'ति शास्त्रेण 'शाही'त्यस्य साधुत्वं 'शास्तादि'त्यस्य
असाधुत्वं बोध्यते । 'तुह्योरि'ति शास्त्रेण च 'शास्तादि'त्यस्य साधुत्वं 'शाही'-
त्यस्यासाधुत्वं बोध्यत इति परस्परविरोधः स्पष्ट एव । एवं 'प्रियक्रोष्टूनी'त्यत्रापि
बोध्यम् । नुम्-नुटोर्विषये तु 'वारीणामि'ति लक्ष्यस्यैवोभाभ्यां साधुत्वबोधनेऽप्यु-
भयोरपूर्वबोधकत्वासम्भवेनैकस्य विधायकत्वम्, अपरस्यानुवादकत्वं वक्तव्यम् । तत्र
'कस्यानुवादकत्वं कल्प्यमि'ति विचारे अनुवादकस्य लोके निकृष्टतया परिगणनेन
विरोधः स्पष्ट एव । मूलोक्तं तु न युक्तम्; आदेशप्रवृत्तिकाले निमित्तानन्तर्याभावेऽपि
विधेये विशेषणमिति । हिशब्दाव्यवहितपूर्वस्य शासः प्रसङ्गे शासाधुरित्यर्थे शामात्रस्य
साधुत्वापत्त्या निमित्तस्य विधेयविशेषणत्वमावश्यकमिति भावः ।
वस्तुतः 'अन्तरतम'परिभाषया शामात्रस्याऽऽदेशत्वाप्राप्त्या विधेये निमित्तविशेषणं
नाऽऽवश्यकमित्यतः प्रकारान्तरेण विरोधमाह—वस्तुतस्त्विति । परस्परविरोधः स्पष्ट एवेति ।
उभाभ्यामपि शास्त्राभ्यां नकारघटितस्य 'वारिनामि'त्यस्यैव साधुत्वबोधनात् नुमुत्तरं दीर्घो न
भविष्यतीति तु अन्या कथेति भावः ।
वारीणामिति लक्ष्यस्यैवेति पाठस्तु चिन्त्यः । वस्तुतस्तु 'ह्रस्वनद्यापो नुट्' इत्यनेन
अजन्ताङ्गं हलादिविभक्तिश्चेति द्वयोः पौर्वापर्यस्य साधुत्वशासनं 'इकोऽचि विभक्तौ' इत्यनेन
नान्ताङ्गाजादिविभक्त्योरव्यवहितपौर्वापर्यस्य साधुत्वशासनमिति विरोधस्य सुपादत्वेनानुवादक-
त्वोक्तिश्चिन्त्यैवेति बोध्यम् ।