सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 183, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 183

२ प्रकरणे ३८-३९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५३
अथ बाधबीजनाम द्वितीयं प्रकरणम्
-: ० :-
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३८ ॥
पूर्वात्परं बलवत् , विप्रतिषेधशास्त्रात् पूर्वस्य परं बाधकमिति
यावत् ॥ ३८ ॥
नन्वेवं 'भिन्धी'त्यत्र परत्वात्तातङा बाधितो धिर्न स्यादत आह—
पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ३९ ॥
-: ० :-
अथ भूतिलके द्वितीयं प्रकरणम्
शास्त्रत्वसम्पादकोद्देशप्रकरणानन्तरं क्रमप्राप्तं बाधबीजप्रकरणमारभमाणस्तद्-
बीजानि सङ्कल्य दर्शयति—पूर्वपरेति । उत्तरोत्तरं बलीय इति । आनुपूर्व्ये द्वे वाच्ये
इति द्वित्वम् । पूर्वपरेति समस्तपदघटक-पूर्वपूर्वपदप्रतिपाद्य-शास्त्रापेक्षया उत्तरोत्तरपद-
प्रतिपाद्यशास्त्रस्य बलवत्त्वमित्यर्थः । तथा च सति विरोधे बलीयसा दुर्बलं बाध्यत
एवेति तु लोकतः सिद्धम् ।
अनुमानप्रयोगमाह—पूर्वादिति । 'परशास्त्रं पूर्वशास्त्रावधिकबलवत् परशास्त्र-
त्वात्' । पक्षतावच्छेदकस्य हेतुत्वेनांस्य अप्रयोजकतया विपरीतशङ्काकलुषितत्वात्
तन्निरासायाऽऽह—विप्रतिषेधशास्त्रादिति । एतेन विप्रतिषेधशास्त्ररूपहेतोः शब्दरूपत्वेन
आकाशवृत्तित्वाद्वैयधिकरण्येन नानुमानसम्भव इत्यपास्तम् ॥ ३८ ॥
नन्वेवमिति । एवम् = परशास्त्रस्य परत्वरूपबलवत्त्वेन बाधकत्वकल्पनायाम् ।
धिर्न स्यादिति । अत्र केचित्—तातङ्विधेर्वैकल्पिकत्वेन तदभावपक्षे ध्यादेशेनोक्त-
रूपसिद्धेरवतरणासङ्गत्या 'भिन्धको'त्यत्र धिना परत्वाद बाधितोऽकज् न स्यादिति
पाठभेदेन अवतारयन्ति । तन्न ; घेरन्तरङ्गत्त्वेनातुल्यबलत्वात् परत्वेन बाधासम्भवात् ।
अत एव भाष्ये 'अन्तरङ्गत्वाद्वित्वेकजि'त्येवोक्तम् ।
यत्त—विकल्पस्थलेऽभावस्यापि विधेयत्वेन 'तातङा बाधित' इत्यस्य 'तातङ-
भावेन बाधित' इत्यर्थादवतरणसङ्गतिरिति केचित् । तदपि न समीचीनम् ; अप्राप्त-
विभाषास्थलेऽभावस्य सिद्धत्वेन शास्त्रेण तद्विधानासम्भवात् । अत एव 'मुमुक्षत'
इत्यत्र 'मुचोऽकर्मंस्ये'ति गुणाभावपक्षे अत्र 'लोपोऽभ्यासस्ये'त्यभ्यासलोपो न ।
अन्ये तु—'भिन्धी'ति भिन्तादित्यस्योपलक्षणम्, क्वचिद् भिन्तादित्येव मूल-
पाठः । तथा च 'भिन्तादि'त्यत्र तातङा बाधितो धिर्नैव स्यादिति तातङि स्थानि-
वद्भावप्रतिषेधानर्थक्यमिति शङ्कायामाह—पुनः प्रसङ्गेति । अत एव 'पुनः प्रसङ्ग-
२०