न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 86, कुल 654 में से
संदर्भ में पढ़ें६४ न्यायमञ्जर्याम्
अनुमेयमितेः पूर्वमूर्ध्वं च निगमे स्मृतेः ॥
अत एवार्थमालोक्य विनैव हि दवीयसा ।
बिलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥
लिङ्गज्ञानं च विनश्यदवस्थमनुमेयप्रतीतौ व्याप्रीयमाणं प्रमाणतां प्रतिप-
त्स्यते, तत्कृतैवोपलम्भानुवादेन लिङ्गिबुद्धिर्भविष्यति, तस्मात्कपित्थादिपदार्थद-
र्शनस्य परामर्शसोपानमनारोहत एवापादेयज्ञानफलता वक्तुं युक्तेति ।
अपि च-अनुमेयविषये वह्न्यादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताज्ञा-
नं तव न समस्त्येव ततश्च तत्रापि तथा चायं ज्वलनजातीय इति परामर्शो
भवता ऽभ्युपेय एव स च किंकरणक इति निरूपणीयम्, न तावदिन्द्रियद्वारकः
पावकस्य परोक्षत्वात् , शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते, धूमाख्याल्लि-
ङ्गादेव स उत्पद्यते इति चेन्न, लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजनननै-
पुणानभ्युपगमात्, धूमपरामर्शस्य च तदानीमतिक्रान्तत्वात्, तथा हि प्रथमं लि-
ङ्गज्ञानं ततो व्याप्तिस्मरणं ततो धूमपरामर्शः ततो वह्निज्ञानं तेनधूमपरामर्शस्य-
विनश्यत्ता ततो ऽग्नौ सुखसाधनत्वानुस्मरणं तदा च धूमपरामर्शस्य विनाश
एवेति तस्मिन्विनष्टे न केवलो धूमस्तदानीमनलपरामर्शं जनयितुमुत्सहते,
अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनर्धूमज्ञानमिन्द्रियादुत्पद्यत इति
चेन्मैवम्-अननुभवात्, भवतु वा धूमज्ञानं तथा ऽपि धूमज्ञानानन्तरं पुन-
र्व्याप्तिस्मृतिः पुनर्धूमपरामर्शश्चावश्यं भवेदित्यत्रान्तरे हुतभुजि सुखसाधन-
त्वानुस्मृतिरतिक्रान्तेति तत्सहायपरामर्शज्ञानजन्यसुखसाधनत्वनिश्चयोत्पादो
न स्यात्, सुखसाधनत्वानुस्मरणेन हि विनश्यदवस्थेन जन्यमानः प्रत्य-
क्षविषये ऽसौ दृष्ट इति,
अथ मन्यसे न तदानीं पुनर्धूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञान-
शृङ्खलाऽभ्युपेयते किं तु प्राक्तन एव धूमपरामर्शः कृशानौ सुखसाधनत्वानु-
स्मरणानन्तरं स्मरिष्यते तेन स्मृतिविषयवर्त्तिना सता तथा चायमग्नि-
जातीय इति ज्वलनपरामर्शो जनयिष्यते इति एतदप्ययुक्तम् , अग्निज्ञाना-
नन्तरं युगपत्स्मरणद्वयोदयप्रसङ्गात्तदैव सुखसाधनतानुस्मृतिः तदैव धूमप-
रामर्शस्मृतिरिति न हि क्रमोत्पादे किंचित्कारणमस्ति ज्ञानयौगपद्यं च
शास्त्रे प्रतिषिद्धम् , भवतु वा क्रमोत्पादः तदापि स्मरणद्वयसमनन्तरमुपजाय-
मानः पावकपरामर्शो नोपलम्भानुवादेन जायते क्रमपक्षे ऽपि च वह्निज्ञाना-
नन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्वं भवेत् ततो धूमपरामर्शस्मरणं
तेन तस्य विनश्यत्ता ततो ऽग्नौ तज्जातीयत्वपरामर्शस्तेन सुखसाधनत्वस्मृते
र्विनाश एवेति पुनरपि सा विनष्टा सती सुखसाधनत्वानुस्मृते निश्चयजन्मनि न
व्याप्रियेतेति, न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितमनल-