सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

on line 5: मामेवं.
Look at मेवाति:
Let's count the glyphs from वक्तु:

  1. व
  2. क्तु
  3. र
  4. भि
  5. म
  6. त
  7. म
  8. े on something?
    Wait, look at the word:
    वक्तुरभिमतमेवातिसामान्यहेतुतामारोप्य
    Let's check if it's वक्तुरभिमतमेवातिसामान्यहेतुतामारोप्य or वक्तुरभिमतत्वमेवाति...
    Wait, let's re-examine letter by letter:
    व
    क्तु
    र
    भि
    म
    त
    म
    े - wait, the top stroke of े is directly above म!
    Wait, what is the glyph after म?
    It is े? No, it's वा!
    Wait, is there a glyph between मे and वा?
    NO!
    Wait, why did I think there was मवेवाति?
    Ah! The म has े on top: मे. Then comes वा. Then ति.
    Wait, before मे, what is there?

छलप्रकरणम् । १७१
अत्रोत्तरम् केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन्नन्य-
वस्थितोऽसि, सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम्, विद्याचरणसंपदः पात्रं
हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोपचितसुकृतपरिणामाद्भवति विद्याचर-
णसम्पत्, न तु तदेव तस्या हेतुरिति, यथा सम्भवन्त्यस्मिन्क्षेत्रे शालय इति
क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते यदि क्षेत्रमेव शालिसम्भवहे-
तुस्तत्र विनापि हलबलीवर्दादिसामग्र्यां महत्यवग्रहे ऽपि शालयो ऽस्मिन्सम्भ-
वेयुरिति, तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत्,
इदं तु भवन्तं पृच्छामि भो महात्मन्—
स्वभावशुद्धा परिनिश्चितार्थसंस्पर्शिनी पुण्यसहस्रलभ्या ।
केनेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ॥
उपचारच्छललक्षणम् ।
धर्मविकल्पनिर्देशे ऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥
गौ. सू. अ. १ आ. २ सू. १४ ।
अभिधानस्य धर्मो ऽनेकप्रकारो मुख्यया वृत्त्या गौण्या वा लाक्षणिक्या
वा यदर्थं प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौणेन लाक्षणिकेन वा
निर्देशे प्रयोगे कृते यो ऽर्थसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं
छलमुपचारच्छलम् ।
यथा मञ्चाः क्रोशन्तीत्युक्ते च्छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो
मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषा एते क्रोशन्ति न मञ्चा इति ।
अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः तत्र न केवलयैव मुख्यया
वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात्, न
च निर्निमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयं सहचरणादिसूत्रनिवेदित-
निमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः,
“सत्यं गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते,
गौणलाक्षणिकयोः कथं विशेष इति एतत् कथ्यताम्” सत्यं गोशब्दः स्वार्थ-
मभिधाय सास्नादिमन्तं तदीयान् गुणानेव जाड्यमान्द्यादीन् समुल्लास-
यति न तावत्येव विरमति स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते,
गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति, यस्तु स्वार्थाभिधानानन्तरं त-
वितरमर्थं गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते श-
ब्दः स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति, तथा चोक्तं । गौणे
ऽपि प्रयोगे न लक्ष्णोत्य(यमित्य)लं शास्त्रान्तरोद्गारगहनाभिः कथाभिः—

्तौव? No, it's सत्तैव. Let's look at कुतो ऽस्य`: space before avagraha.

  • Line 20:
    क्रोशनशक्तिर्निषिध्यते ।

  • Line 21:
    समाधिरपि साधारणशब्दानभिज्ञतां परस्य दर्शयता वाक्छले वाच्यः
    Wait, is it दर्शयता or प्रदर्शयता?
    Look at the word before दर्शयता:
    प र स्य then प्र दर्शयता?
    Wait! Look before दर्शयता: there is a प्र!
    प्रदर्शयता! Yes, प्र दर्श य ता.
    Wait, let's re-read:
    समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः - wait, is there a danda or colon after वाच्यः?
    There is a colon-like mark or visarga: वाच्यः (visarga).

  • Line 22:
    उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान्विशेषः ।

  • Line 23:
    `अविशेषे वा किंचित्साधर्म्यादे

सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते तर्हि वागुपचारच्छले अपि
भिद्येते एवेति दर्शितमतो युक्तं भवत्विदम्, न चानन्त्यमियत्तानियमकारिणो
निमित्तत्रयस्य दर्शितत्वात्—अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जाति-
वदित्यलं प्रसङ्गेन ।
तस्मात्परस्परविविक्तनिजस्वरूपमीदृक् छलत्रितयमेतदिहोपदिष्टम् ।
तस्य क्वचित्स्वयमपि क्रियते प्रयोगो वाच्यः परैरभिहितस्य तथा समाधिः ॥
इति (१४) छलपदार्थः ।
इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाह्निकम् ॥ ११ ॥
अथजातिप्रकरणम् ।
छलानन्तरं जातेरुद्देशात्तस्याः सामान्यलक्षणं तावदाह—
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥
गौ. अ. १ आ. २ सू. १८ ।
अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधर्म्यादिनिरपेक्षमेव प्र-
त्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः, प्रतीपमवस्थानं प्रत्यवस्थानं
तावन्मात्रमेव च यत्किं चिदुत्तरं परप्रयुक्ते हेतौ जायमानत्वाज्जातिरित्यु-
च्यिधीयते,
तच्चानुपपन्नम्—प्रत्यवस्थानमात्रस्य साधर्म्यादिनिरपेक्षस्य जातित्वे हेत्वा-
भासोद्भावनमपि जातित्वमश्नुवीत ।
अथ तस्य सम्यगुत्तरत्वाद्विदुषश्च निर्विशेषणप्रत्यवस्थानमात्रोपादानात्फ-
ल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते, तथापि छलस्य जातित्वप्रस-
क्तिरपरिहार्यैव, तद्व्युदासाय तु तदन्यत्वे सतीत्यादिकं यदि किं चिदध्या-
ह्रियते तन्मुख्य श्रयमाणस्य साधर्म्येण वैधर्म्येण वा प्रत्यवस्थानमस्तीति नैष
दोषः साधर्म्यवैधर्म्याभ्यामित्यसमासकरणेन दिक्प्रदर्शनस्य सूचनात् । सा-
धर्म्येण वैधर्म्येण वा कथमेष हेतुर्हेतुर्भवतीति वा किमनेन क्रियते इति वा यदेवं-
प्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमा-
ने सकलविशेषसंग्रहः त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्र-
कारस्य योजयितुं शक्यत्वात् , न ह्युदाहरणसाधर्म्यं साध्यसाधनमिह विवक्षि-
तं तद्वैधर्म्यं वा साधर्म्यादिमात्रं तु तत्रापि नात्यन्ताय दूरगमिवि यथाश्रुतं सा-
धर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ।
अथ भेदवत्त्वाज्जातेश्चतुर्विंशविधा विभागमाह—
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्र-

१७४ न्यायमञ्जरी
· तिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्य-
नुपलब्धिनित्यानित्यकार्यसमाः ॥
गौ. अ. ५ आ. २ सू. १ ।
अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो
वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः, विशेषलक्षणसूत्रेषु पुनः प्रायेण पुं-
लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति तद्व्याख्यानावसर-
एव वक्ष्यामः ।
जातिव्युत्पादनपरीक्षा—
“नन्वास्तां तावद्विशेषलक्षणवर्णनम् इदमेव तावदौ चिन्त्यताम्--किमर्थ-
मेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते,
एवंप्रकाराणां च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणोपेक्षणी-
यानामसदुत्तराणामानन्त्याच्चतुर्विंशतिसंख्याऽपि कथमिति मनसि महान्वि-
स्मयो ऽस्माकम् ,
यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृद्यंग-
मम् , असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात् ,
अथ विकटाटोपप्रकटनपाटवोपहितापरसंमोहनद्वारेण तद्रक्षणमास्थीयते
तर्हि ष्ठीवितहसितांसमर्दनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्य-
तामिह मोक्षविद्यायाम् ,
तथा ऽपि चेदं विचार्यताम् क्व जातिप्रयोगैः प्रत्यवस्थेयम् , सम्यक्साधने
परेण प्रयुक्ते तदाभासे वा, न तावत्साधनाभासे तस्य हि येन निमित्तेनासिद्ध-
त्वादिना साधनाभासत्वमुपगतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च
परः पराजीयते, नापि सम्यक्साधने तत्र प्रयुक्तानामपि तासामकिंचित्कार्यकर-
त्वात् , न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति ।
अथैकान्तपराजयाद्वरं संदेह इति ताभिरुपक्रमते तत्रापि स तथोपक्रममाणः
कमेव प्रत्याययेत्, नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिभवितुमपार-
यन्किमप्यालजालमालपितुं प्रवृत्त इति, शाकटिकादिप्रत्यायनार्थं तु प्रत्यन्तगह-
रजनपदेषु

‘छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थ उपलक्षितानां स्ववाक्ये परि-
वर्जनं परवाक्ये च पर्यनुयोगः जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः
स्वयं च सुकरः प्रयोग’ इति, यदा हि मुमुक्षोरगमाद्वा युक्तितो वा तत्त्वज्ञानमु-
त्पन्नं न चाद्यापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते तस्यामव-
स्थायां यदि केन चित्किमप्यनुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ
विदितयुक्त्यागमगौरवो ऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसंभावनालेश-
मिवाधिगच्छेत् , तस्मिन्वा दृढप्रत्यये ऽपि तत्पार्श्ववर्तिनः शिथिलास्था भवेयुः,
अतो झगिति स दूषणमपश्यन्प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीते-
त्युक्तं जल्पलक्षणे, परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति
सफलं जातिव्युत्पादनम् , यथा क चिच्चिरव्युप्तस्य संप्रत्युद्भिद्यमानकोमलाङ्कु-
रनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रुततरगामिनो यतः कुतश्चन चतुष्प-
दाद् द्विपदाद्वा ऽभिशङ्क्यते इति तत्परिहाराय समन्ततो निरन्तरकटकशाखा-
संततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्द्वारकं तत्त्वाध्यवसा-
यसंरक्षणं कर्तव्यम् ।
यत्तु विकल्पितं क्व जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यते-
सम्यग् दूषणमपश्यता किल जात्यादि प्रयोक्तव्यं तच्च सम्यक्साधने तदभावा-
देव भवतु साधनाभासे वा प्रमादादिना वेति को ऽत्र विशेषः, मुमुक्षोस्तु ज्ञात-
तत्त्वस्य तत्प्रतिकूलवादिना केन चिदाक्षिप्तस्य तत्प्रयुक्ते तत्त्वप्रतिक्षेपबलात्सा-
धनाभास एव सम्यग् दूषणमपश्यतो जातिप्रयोगावसरः, ज्ञात्वाऽपि साधनाभा-
सतां यथा तथा सत्वरमेव निर्भर्त्स्यतामयं दुराचार इति पार्श्वस्थितसुकुमारम-
तिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः, मुमुक्षुं
प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय ःएव जातिप्रयोगः,
अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् , लाभा-
दिकामानां तु सम्यक्साधने ऽपि प्रयुक्ते युक्त एव जात्याद्युपक्रमः, इतरथा हि
निःसंशय एव पराजयः स्यादित्येतच्चानुषङ्गिकं प्रयोजनमित्युक्तम् ।
यत्पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यते इति, तदप्यसत्-
ह्यासत्यन्तमलौकिकत्वात् , लोको हि तदैवं मन्यते--
नूनमेष न जानाति वक्तुं सदृशमुत्तरम् ।
अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत्कथम् ॥
खेदयेद्वादिनं यस्तु हस्तपादादिचापलैः ।
स संसद्युच्यते सद्भिर्मण्ड एव न पण्डितः ॥
जात्योपक्रममाणस्तु न तथैव विहस्यते ।
न हि संदूषणच्छाया तत्रात्यन्तमसंगता ॥

१७६ न्यायमञ्जर्याम्
तन्न कौपीनवसनापासनादिसाम्यं जात्युत्तराणामिति, यत्तु कस्तैः प्रत्याय्य-
त इति न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः सन्ति हि मध्यमद-
शावर्तिनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन ।
यत्पुनरसदुत्तराणामानन्त्यात्कथं चतुर्विंशतिसंख्येति, तत्राप्युच्यते—सत्य-
म्थानन्त्ये जातीनामसंकीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपवर्णितं न
तु तत्संख्यानियमः कृत इति ।
तदत्र साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोः तत्साधर्म्यस-
मा जातिः, सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते, वैधर्म्येण प्रत्यवस्थानं
वैधर्म्यसमा जातिः, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती इत्येवं
सर्वत्र योज्यम्, स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्ट-
व्यम्, जातिवादी ह्येवं वदति यथा भवत्प्रयुक्तं साधनं तथैदमपि किमिति न
भवतीति, अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् ।
साधर्म्यवैधर्म्यसमयोर्लक्षणे ।
अथ विशेषलक्षणान्याह, तत्र—
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ॥
गौ. अ. ५ आ. १ सू. २ ।
प्रतिषेधापेक्षया पुंलिङ्गनिर्देश इति तत्र तत्र द्रष्टव्यम्, साधर्म्येण वैधर्म्येण
वा साधनमभिधाय सिषाधयिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मवि-
पर्ययोपपादनाय साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्य-
समः प्रतिषेधः, तत्रैव साधर्म्येण वैधर्म्येण वोपसंहारे तथैव वैधर्म्येण प्रत्यव-
स्थानं वैधर्म्यसमः प्रतिषेधः ।
उदाहरणं तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत्प्रयत्नानन्तरीयकं त-
दनित्यं दृष्टं यथा घट इति साधर्म्येण हेतौ प्रयुक्ते जातिवादी साधर्म्येणैव प्रत्य-
वतिष्ठते—नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकाशादि नित्यं दृ-
ष्टमिति, न चात्र विशेषहेतुरस्ति घटसाधर्म्यात्प्रयत्नानन्तरीयकत्वाद नित्यः शब्दो
न पुनराकाशसाधर्म्यान्निरवयवत्वान्नित्य इति, वैधर्म्यहेतावपि साधनादिना प्रयु-
क्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति तत्प्रयत्नानन्तरी-
यकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्व-
यमुदाहर्तव्यमिति ।
यथा च क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूपव्युत्पा-
दनमुपक्रान्तमेवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह—
गोत्वादप्रसिद्धिवत्तत्सिद्धिः॥ गौ. अ. ५ आ. १ सू. ३।

जातिप्रकरणम् । [पृ. १७७]


साधर्म्यवैधर्म्ययोरिदुमुत्तरम् , यदि साधर्म्यमात्रं वैधर्म्यमात्रं वा साध्यसा-
धनं प्रतिज्ञायेत स्यादियमव्यवस्था भवेच्च भवत्प्रयुक्तानामीदृशामपि स्थापनहेतो-
रविशेषः, विशिष्टं तु साधर्म्यं वैधर्म्यं वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्था-
नैरुपहन्यते, यथा सत्यपि सत्तादिसामान्यसंबन्धे सत्यपि शुक्लादिगुणसंबन्धे स-
त्यपि चलनादिकर्मयोगे न गौस्तथा तत्साधर्म्यात्सिद्ध्यति अश्वादिवैधर्म्याद्वा किं
त्वव्यभिचारिणो गोत्वादिसंबन्धादेव तथेहाप्यस्खलितनियमं साधर्म्यं वैधर्म्यं
वा साध्यसिद्धिनिबन्धनं न साधर्म्यादिमात्रमिति ।
उत्कर्षसमादीनां षष्णां लक्षणानि—
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षव-
र्ण्यावर्ण्यविकल्पसाध्यसमाः ॥ गौ. अ. ५ आ. १ सू. ४ ।
दृष्टान्तधर्म साध्ये धर्मिणि योजयन्नसन्त मध्यारोपयन्नुत्कर्षेण प्रत्यवस्थानं
यत्करोति स उत्कर्षसमः प्रतिषेधः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयक-
त्वाद् घटवद् अनित्यः शब्दो घटवदेव मूर्त्तोऽपि भवति न चेन्मूर्त्तो घटवदनित्यो-
ऽपि तद्धर्मो मा भूदिति मूर्त्तस्य धर्मान्तरस्य प्रसञ्जनमुत्कर्षः ।
दृष्टान्तधर्मविकल्पेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यव-
स्थानमपकर्षसमः, पूर्वस्मिन्नेव प्रयोगे घटः खलु प्रयत्नानन्तरीयकत्वादश्रा-
वणोऽस्तु न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्याप-
सरणमपकर्षः ।
ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः तद्विपर्ययादवर्ण्यः सिद्धो
दृष्टान्तधर्मः तावेतौ वर्ण्यावर्ण्यसमौ प्रतिषेधौ भवतः, यदि शब्दो नित्यत्वेन
वर्ण्यते साध्यते घटो ऽपि वर्ण्यतामिति वर्ण्यसमः, घटश्चेन्न वर्ण्यते शब्दो
ऽपि मा वर्णीत्यवर्ण्यसमः ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः, तत्रैव प्रयोगे प्रयत्ना-
नन्तरीयकं किं चिन्मृदु दृष्टं दुकूलराङ्कवशय्यादि किं चित्कठिनं कर्परपरश्वधादि
एवं प्रयत्नानन्तरीयकं किं चिदनित्यं भविष्यति घटादि किं चिन्नित्यं शब्दादीति ।
उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः
प्रतिषेधः, यदि यथा घटस्तथा शब्दः प्राप्तं तर्हि यथा शब्दस्तथा घट इति
शब्दस्यानित्यतया साध्य इति घटोऽपि साध्य एव स्यादन्यथा हि न तेन
तुल्यो भवेदिति ।
अत्र पञ्चानामुत्तरम्—
किंचित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ॥
गौ. अ. ५, आ. १, सू. ५ ।
२३

१७८ न्यायमञ्जर्याम्
किञ्चित्साधर्म्यादुपसंहारः सिध्यति यथा गौरवेमयं गवय इति न तु स-
र्व्वथा रूपभेदस्तयोः कर्त्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे-
तररूपसंकरस्य कर्तुमशक्यत्वात्, एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्य-
मुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोर्धर्मविकल्पमापादयता वैधर्म्यं च किं-
चिदभिदधता प्रतिषेधः कतु लभ्यत इति ।
अथ षष्ठस्योत्तरम्—
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ गौ. अ. ५ आ. १ सू. ६ ।
यदुच्यते घटो ऽपि शब्दवत्साध्यो भवतीति तन्नैवम्, लौकिकपरीक्ष-
काणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः तेनाविपरीततया शब्दोऽतिदिश्यते
यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दो ऽपीति, एवं साध्याति-
देशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते ।
प्राप्यप्राप्तिसमयोर्लक्षणे—
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधक-
त्वाच्च प्राप्यप्राप्तिसमौ ॥ गौ. अ. ५ आ. १ सू ७ ।
प्राप्यप्राप्तिविकल्पनपूर्व्वकमुभयत्रापि दोषापादनं प्राप्यप्राप्तिसमौ प्रतिषेधौ
भवतः, हेतौ साधनवादिना प्रयुक्ते पर आह—सो ऽयं हेतुः प्राप्य वा साध्यं
साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं
साधनं वेत्यविशेषः, अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात् , न ह्यप्राप्य
प्रदीपः प्रकाश्यं प्रकाशयतीति ।
अनयोत्तरम्—
घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥
गौ. अ ५ आ. १ सू. ८ ।
नायं प्रतिषेध उपपद्यते उभयथाऽपि कारणस्य भावदर्शनात् दण्डचक्रसू-
त्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति दृश्यन्ते अभिचारकर्मणा
च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति ।
प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणे—
दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्ते प्रसङ्ग-
प्रतिदृष्टान्तसमौ ॥ गौ. अ. ५ आ. १ सू. ९ ।
अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः, पूर्वोदाहृत एव हेतौ
यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्व इदानीं किं साधनं
तत्साधने किमिति दृष्टान्तस्य घटादेरनित्यतायां कारणं किं चिदुपदिश्यते तेन

जातिप्रकरणम् । १०६
तत्कारणान्वेषणातिप्रसङ्गात्प्रसङ्गसमो ऽयं प्रतिषेधः, प्रतिदृष्टान्तेन प्रत्यवस्थानं
प्रतिदृष्टान्तसमः ।
यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्तरीयकं
नित्यं दृश्यते तद्वच्छब्दो ऽपि नित्यः स्यादिति, कः पुनराकाशस्य प्रयत्नानन्तरी-
यकत्वं वदेत् कूपखननादिना ऽऽकाशकरणं मन्वान एवं ब्रूयादपि कश्चित् ।
“नन्वेवमपि व्यभिचारोद्भावनमेतत्सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः”
नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यव-
तिष्ठते ऽपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जातिप्रयोग एवा-
यम्, हेत्वाभासा अपि स्वरूपनिमह्नपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्श्य-
माना जातितां प्रतिपद्यन्त एव ।
अत्र प्रसङ्गसमस्य तावदुत्तरमाह—
प्रदीपोपादानप्रसङ्गविनिवृत्तिवत्तद्विनिवृत्तिः ॥ गौ. सू. ५ आ. १ सू. १०।
असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि-
पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिका न दीपदर्शनार्थं दीपान्तरपर-
म्परामाहरन्तीति, अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः, एवं लौ-
किकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात्तत्र कारणापदेशो
निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः ।
अथ प्रतिदृष्टान्तसमस्योत्तरम्—
प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥
गौ. अ. ५ आ. १ सू. ११ ।
प्रतिदृष्टान्त एव साधकबुद्ध्या यदि त्वयोपन्यस्तस्तर्हि विशेषहेतुर्वक्तव्यो
ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति न चासौ विशेषे हेतुरुच्यते
तस्मान्न प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति, प्रतिदृष्टान्त-
हेतुत्वेऽपि स्थिते सत्यहेतुर्दृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तमतो
न हेतुर्दृष्टान्तः,
अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूदित्यनया
नीत्या प्रत्यवतिष्ठसे हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथित-
मिति तस्मिन्नसाधके दृष्टान्त एव साधक इति ।
अनुत्पत्तिसमस्य लक्षणम्—
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥
गौ. अ. ५ आ. १ सू. १२।
अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः, प्राक्तन एव प्रयोगे जाति-

१८० न्यायमञ्जर्याम्
वाद्याह अनित्य इत्युत्पत्तिधर्मक उच्यते यश्चोत्पत्तिधर्मकः तस्योत्पत्तेः पूर्वमनु-
त्पत्त्या भवितव्यमनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क्व
वर्त्ततामलब्धपञ्चवृत्तेश्च कथम नित्यत्वं साधयत्वसिद्धे चानित्यत्वे शब्दस्य बला-
न्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकं-
त्वस्याभावादित्यर्थः, तथा च शब्दोत्पादककारणाभावान्नुत्पन्ने शब्दे निराश्रयो
हेतुरिति ।
अस्योत्तरम्—
तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १३ ।
शब्दाख्यधर्मिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते तदसिद्धौ
हि नित्यत्वमपि कस्य भवानभिदधीत, उत्पन्नस्य चास्य तथाभावो भवति नानु-
त्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति नानुत्पन्नः, प्रागुत्पत्तेरलब्धात्मनः
किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसद्भावादयुक्त
एवायं प्रतिषेधः ।
संशयसमस्य लक्षणम्—
नित्यानित्यत्वसाधर्म्यात्संशयसमः ॥ गौ. अ. ५ आ. १ सू. १४ ।
नित्यानित्यसाधर्म्योपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः
प्रतिषेधः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति श-
ब्दस्यानित्यत्वसाधर्म्यं प्रयत्नानन्तरीयकत्वमस्ति च नित्येन सामान्येन साध-
र्म्यमैन्द्रियकत्वमतः किमनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्त्वादनित्यः शब्द उत
नित्यसाधर्म्यादैन्द्रियकत्वान्नित्य इति संशय एवं परः प्रत्यवतिष्ठते, न च साध-
र्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति ।
अस्योत्तरम्—
साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त-
संशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥
गौ. अ. ५ आ. १ सू. १५ ।
स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधर्म्यादूर्ध्वत्वादेः संशयो भवति
न तु शिरःपाण्यादिवैधर्म्यात्प्रत्युत ततो ऽसौ निवर्त्तते यदि पुनरुभयथापि सा
धर्म्यादिव वैधर्म्यादपि संशयः स्यात्तथा सत्यनन्तसंशयः प्राप्नोति, इह च वि
शेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति नित्यत
सामान्यगतं संशयकारंणत्वमिति नाभ्युपगम्यते तस्मादप्रतिषेधो ऽयं नित्यस।
मान्यसाधर्म्यनिबन्धनसंशयापादनरूपः ।

जातिप्रकरणम् । १८१
प्रकरणसमस्य लक्षणम्—
उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः ॥
गौ. अ. ५ आ. १ सू. १६ ।
· पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ तावेव प्रकरणं प्रकरणमनतिवर्त्त-
मानः प्रकरणसमः प्रतिषेधो भवति, पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयव-
त्वादाकाशवदित्येवञ्जातीयकं प्रतिप्रयोगमुपन्यस्यस्वपक्षमुत्थापयति जाति-
वादी, साधर्म्यग्रहणं चोपलक्षणं वैधर्म्येणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव
प्रतिषेधो भवत्युभयवैधर्म्यात्प्रक्रियासिद्धेः प्रकरणसम इति, मूलहेतावपि साध-
र्म्येण वैधर्म्येण वा प्रयुक्ते प्रयोगद्वयमेतद्वेदितव्यम् ,
“ननु ते एवैते साधर्म्यवैधर्म्यसमे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्य-
मानत्वाच्च तयोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवो ऽयं जातिप्रयोगः चतस्र-
श्चैता जातय इत्येकत्वमपि न सङ्गतम्”
उच्यते—तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधन-
च्छाययेति, अत एव प्रकरणसमो ऽयं जातिरनित्यपक्षवन्नित्यपक्षो ऽपि प्रति-
क्रियते ऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया
चतुर्विंशतिभेदत्वं वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।
अत्रोत्तरम्—
प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ॥
अ. ५ आ. १ सू. १७ ।
निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति प्रागुक्तनिर्णयात्तदवस्थानमेव
तदिह प्रकरणमुत्थापयता भवतोभयसाधर्म्यं तदुत्थापनकारणमभिहितमुभय-
साधर्म्यात्प्रक्रियासिद्धेरिति ब्रुवता उभयसाधर्म्यं च मदुक्तमपि साधर्म्यमस्त्येव
अन्यथोभयशब्दार्थः कः, एवं च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते
प्रतिषेधोपपत्तौ वा नोभयसाधर्म्यं प्रकरणकारणं सिध्यतीति निर्णयोत्पत्तिनि-
मित्तं च प्रकरणोपरमाय न किं चिदुक्तमुभयसाधर्म्याभिधानादिति ।
अहेतुसमस्य लक्षणम्—
त्रैकाल्यानुपपत्तेर्हेतोरहेतुसमः ॥ गौ. अ. ५ आ. १ सू. १८ ।
कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधो ऽहेतुसमो भवति,
हेतुः साधनं साधनं च साध्यात्पूर्वं साधनं तदसति साध्ये कस्य साधनम् अथ
पश्चाद् असति साधने कस्येदं साध्यम् अथ युगपत्साध्यसाधने भवतः न तर्हि
तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतुनेर्न
विशिष्यते ।

१८२ न्यायमञ्जर्याम्
अस्योत्तरम्—
न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः ॥
गौ. अ. ५ आ. १ सू. १९ ।
न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः उत्पत्तौ तावदयमपर्यनु-
योगः पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनो ऽसत एव कार्यस्य पटादेः
सिद्धिरित्युक्तत्वात् , ‘बुद्धिसिद्धं तु तदसदि’ति ज्ञापावपि परिहृत एष दोषः उप-
लब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहभावनियमाद्यथादर्शनं व्यवस्थेति प्रमा-
णपरीक्षायामभिधानात् दृश्यते च निर्वर्तनहेतुना निर्वर्त्तनीयस्य निर्वृत्तिरुपलब्धि-
हेतुना चोपलभ्यस्योपलम्भ इति प्रमाणसिद्धे वस्तुनि को ऽयमाक्षेपः ।
प्रतिषेधे च तुल्यो ऽयमनुयोग इत्याह—
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
आ. गौ. ५ आ. १ सू. २० ।
प्रतिषेधो ऽपि प्रतिषेध्यात्पूर्वं पश्चात्सह वा भवेदिति विकल्प्यमाने न प्र-
तिषेध्यं प्रतिषेद्धुमुत्सह्त इति ।
अर्थापत्तिसमस्य लक्षणम्—
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ अ. ५ आ. १ सू. २१
अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधो ऽर्थापत्तिसमो भ-
वति, पूर्वस्मिन्नेव प्रयोगे यदि घटसाधर्म्यात्प्रयत्नानन्तरीयकत्पादनित्यः शब्दः
अर्थादापद्यते आकाशसाधर्म्यान्नित्य इति, अस्ति चास्य नित्येन साधर्म्यमाका-
शादिना द्रव्येण निरवयवत्वमिति, उद्भावनप्रकारभेदाच्च जातिभेद इत्युक्तम् ।
अस्योत्तरम्—
अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥ अ. ५ आ. १ सू. २२ ।
अनुपपादितसाधनमनुक्तमर्थादापद्यत इति वदतः पक्षहानिरप्युपपद्यते मा-
मकानित्यपक्षसिद्धौ हि सत्यामर्थादापद्यते तावकस्य नित्यपक्षस्य हानिरिति ।
दोषान्तरमाह—
अनैकान्तिकत्वाच्चार्थापत्तेः ॥ अ. ५ आ. १ सू. २३ ।
उभयपक्षसमर्थेयमर्थापत्तिः विपर्ययेणापि प्रयोक्तुं शक्यत्वात् , नित्यः श-
ब्दो निरवयवत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधर्म्यान्निरवयव-
त्वान्नित्यः शब्दः अर्थादापद्यते यदनित्यघटादिसाधर्म्यात्प्रयत्नानन्तरीयकत्वाद्-
नित्य इति—न चैवमपि काचिदर्थसिद्धिः न खलु वै घनस्य ग्राव्णः पतनमि-
त्युक्ते ऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति ।

जातिप्रकरणम् । १८३
अविशेषसमस्य लक्षणम्—
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्ते-
रविशेषसमः ॥ अ, ५ आ. १ सू. २४ ।
अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः, यदि शब्दघटयोरे-
कधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते तर्हि सर्वभा-
वानामविशेषप्रसङ्गः, कथं सद्भावोपपत्तेः सत्तासंबन्धादित्यर्थः, सो ऽयमविशेष-
समः प्रतिषेधः ।
एतस्योत्तरम्—
क्वचित्द्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः ॥
गौ. अ. ५ आ. १ सू. २५ ।
क्वचिद्विशेषापादनहेतुरुपपद्यते धर्मः क्वचित्तु नोपपद्यत इत्येवमयम्प्रति-
षेधः, शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोर्धर्मान्तरमविशे-
षरूपमुपपद्यते न तु सर्वभावानामीदृशमविशेषकारणं धर्मजातमस्ति , यत्तु स-
द्भावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत अनित्यत्वमेवं चेत्तर्ह्ययं
प्रतिज्ञार्थो व्यवतिष्ठेतानित्याः सर्वे भावाः सत्त्वादिति, न चायमनुपपत्तेः दृष्टा-
न्तानुपपत्तेः सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो न कश्चिदवशिष्यते, न च प्र-
तिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धसाध्यभेदात्साध्यः प्रतिज्ञातो ऽर्थो
भवति सिद्धश्च दृष्टान्तः, न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामर्थ्य-
मश्नुते, न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तित-
मनित्येष्वेव प्रतिष्ठां लभते यैव विपक्षाद्व्यावृत्तिः स एव साध्येनानुगम इति व-
क्तव्यम्, तन्नीतेः प्रागेव प्रतिक्षेपात् , प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति,
किं चिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किञ्चिन्नित्यमिति नायमेकान्तः
सत्त्वादित्याः सर्वभावा इति, अपि च सर्वभावानामनित्यत्वे साध्यमाने तद-
न्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः ।
उपपत्तिसमस्य लक्षणम्—
उभयकारणोपपत्तेरुपपत्तिसमः । अ. ५ आ. १ सू. २६
उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यद्यनि-
त्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकार-
णमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः,
“ननु सैवेयं साधर्म्यादिसमा प्रकरणसमा वा जातिर्न भेदान्तरम्” मैवम्
उद्भावनप्रकारेण भेदात्परपक्षोपमर्दबुद्ध्या साधर्म्यादिसमा जातिः प्रयुज्यते पक्षा-
न्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति ।

१८४ न्यायमञ्जर्याम्
अत्रोत्तरम्—
उपपत्तिकारणानुज्ञानादप्रतिषेधः । अ. ५. आ. १ सू. २७
उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता भवति
सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत्कथमुभयकार-
णोपपत्तिः उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम्, व्याघा-
तादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्समानो व्याघातस्तेन हि परपक्षवत्स्व-
पक्षो ऽपि प्रतिहन्यत एव न हि व्याघात एकं पक्षं साधयत्येकं बाधत इति ।
उपलब्धिसमस्य लक्षणम्—
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥
गौ. सू. अ. ५ आ. १ सू २८ ।
यदेतदनित्यतायां शब्दस्य प्रयत्न‍ानन्तरीयकत्वं कारणमपदिष्टं तस्याभावे-
ऽपि प्रबलप्रभञ्जनजभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वम्-
न्यत्रापि विद्युदादौ विनाऽपि प्रयत्न‍ानन्तरीयकत्वमुपलभ्यत एवानित्यतेति ।
अत्रोत्तरम्—
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥
गौ. सू. अ. ५ आ १ सू २९ ।
अत्रैतावदेव तावद्वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितं न च
सपक्षैकदेशवृत्तिरगमकः, प्रयत्न‍ानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न पुनरनित्य-
त्वं प्रयत्न‍ानन्तरीयकत्वेन यत्प्रयत्न‍ानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु
यदनित्यं तत्प्रयत्नानन्तरीकमिति, यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्रा-
ग्रिरिति, एवं प्रयत्न‍ानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे
विद्युदादौ वा येयमनित्योपलब्धिर्न सा तस्य हेतुतामपहन्तीति, अपि च
प्रयत्न‍ानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं निय-
म्यते प्रयत्न एवेति तत्र पवननोदनजनिततरुशब्दवत्सत्यपि प्रयत्ने कारणान्तरं
तदुत्पादकमभविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्युदादौ वा न वि-
रुद्धमिति, कथं पुनरिदमेव गम्यते प्रयत्नादिभिरसन्नुत्पाद्यते शब्दो न पुनः
सन्नभिव्यज्यत इति, सतोऽनुपलब्धौ निमित्ताभावात्, आवरणं निमित्तमिति
चेन्न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात्, तस्मान्न मू-
लोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियते इति ।
अनुपलब्धिसमस्य लक्षणम् —
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः
प्रतिषेधः ॥ गौ. सू. अ. ५ आ. १ सू ३० ।

जातिप्रकरणम् । १८५

यदुक्तमावरणानुपलम्भादसत्याश्चानुपलम्भादसत्यावरणे प्रागुच्चारणादसन्ने-
व शब्दः प्रयत्नेनाभिनिर्वर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुपलम्भात्तस्या-
नुपलम्भादभावः अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्र-
तीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्याग्रहणं
नासंस्कृतमिरत्यभिव्यक्तकत्वकृतमेवास्य प्रयत्नादि कारणमिति ।
अस्योत्तरम्—
अनुपल्लम्भात्म(क)त्वादनुपलब्धेरहेतुः ॥ गौ. सू. अ. ५ आ. १ सू ३१
आवरणानुपलब्धिर्नास्त्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुप-
लम्भाभावत्वादनुपलब्धेरुपलम्भप्रतिषेधार्थकत्वादित्यर्थः, अस्तित्वनास्तित्वे
हि भावानामुपलम्भानुपलम्भाभ्यामवस्थाप्येते यदुपलभ्यते तदस्ति शशवद्
यन्नोपलभ्यते तन्नास्ति तद्विषाणवत् , नोपलभ्यते च शब्दस्यावरणं मूलोदका-
देरिव मृत्तिकेत्यनुपलम्भान्नास्तीति गम्यते, अनुपलब्धो ह्ययमावरणविषयो
नानुपलब्धिविषयः स आवरणस्यैव भावं गमयति नानुपलब्धेरित्यनुपलब्धेर्भा-
वादावरणमेव नास्तीति ।
ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ॥
गौ. सू. अ. ५ आ. १ सू. ३२ ।
ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति
मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि
स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति, सा चेयमावरणानुपल-
ब्धिरुपलब्धिवदध्यात्मं संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मूलोदकादे-
रिति, तदेवं बाह्यपदार्थाभावाभाववदान्तरज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्य-
नुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति तस्मात्प्रागुच्चारणादस-
न्नेव शब्द इति सिद्धम् ।
अनित्यसमस्य लक्षणम्—
साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥
गौ. सू. अ. ५ आ. १ सू ३३ ।
सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः, अनित्येन घटे-
साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन
किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः, अविशेषसमैवेयं जातिरिति चेत्,
न हि सत्तायोगात्सर्वभावानामविशेष आपादितः इह तु घटसाधर्म्यादेवानि-
त्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ।
२४

अत्रोत्तरम्—
साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात् ॥
गौ. सू. अ. ५ आ. १ सू. ३४
अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधर्म्यादसिद्धिरनित्यत्वस्येति,
यदि च घटसाधर्म्यादनित्यत्वस्यासिद्धिस्तर्हि तावकस्यास्य प्रतिषेधवाक्यस्या-
प्यसिद्धिः प्रतिषेध्यवाक्यसाधर्म्यात् , अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन
साधर्म्यं प्रतिज्ञाद्यवयवयोगित्वमिति, किं च—
दृष्टान्ते साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात्तस्य
चोभयथा भावान्नाविशेषः ॥ गौ. सू. अ. ५ आ. १ सू. ३५
न हि साधर्म्यमात्रं साधनं भवति अपि तु दृष्टान्तधर्मिण्यवधृतसामर्थ्यं
साधर्म्यं वैधर्म्यं वा तथाविधं चेत्सर्वभावानामस्ति भवतु तेषामनित्यत्वं को
दोषः नास्ति चेत्को ऽयमतिप्रसङ्गः, न हि दृष्टान्तधर्मिणि प्रज्ञातसामर्थ्यं सा-
धर्म्यमुभयथा भवति पक्षान्तरं स्पृशति तेन साधर्म्यविशेषस्य हेतुत्वात्तस्य च
सर्वत्रासंभवान्न सर्वानित्यत्वम् , अविशेषसमायां जातौ यत्साधनमुक्तं तदि-
हापि वक्तव्यमिति ।
नित्यसमस्य लक्षणम्—
नित्यमनित्यभावादनित्ये नित्य(त्वो)पपत्तेर्नित्यसमः ॥
गौ. सू. अ. ५ आ. १ सू. ३६
अनित्यत्वसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रति-
षेधः, अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिद-
मनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत्कदा चित्प्रच्य-
वते तत्प्रच्युतेर्नित्यः शब्दः, अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात्तस्य
च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे
विनष्टे न तदाधारो धर्मो वर्तेतेति ।
अस्योत्तरम्—
प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥
गौ. सू. अ. ५ आ. १ सू. ३७
प्रतिषेध्ये नित्यमनित्यस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति
अनित्योपपत्तेश्च तत्प्रतिषेधो नोपपद्यते नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि
नित्यतां च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः, अथ निरधि-
करणो धर्मः कथं स्यादिति तदुच्यते अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव

इत्यनर्थान्तरम्, अनित्यत्वाद्भाव इति तु व्यवहारमात्रम्, सा चेयमनित्यता
शब्दावच्छिन्ना न शब्दाधिकरणा न खलु घटाभावो घटाश्रितो भवितुमर्हति
भावस्वभावा हि धर्मा धर्म्याश्रिता भवन्ति नाभावः अभावस्त्वाश्रितो ऽपि
न प्रतियोग्याश्रितो भवति किं त्वर्थान्तरवृत्तिर्भूप्रदेश इव घटाभाव इति नित्या-
नित्यत्वविरोधाच्च, नित्यत्वमनित्यत्वं चैकत्र धर्मिणि विरुध्यते तत्कथमभिधीयते
नित्यमनित्यत्वस्य भावाश्रितः शब्द इति ।
कार्यसमस्य लक्षणम्—
प्रयत्नकार्यानेकत्वात्कार्यसमः ॥ गौ. सू. अ. ५ आ. १ सू. ३८
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः, अनित्यः श-
ब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर आह प्रयत्नस्य हि कार्यद्वैविध्यमुपलब्धं
किं चिदसदेव प्रयत्नेन निर्वर्त्यते यथा घटादि किं चित्सदेवावरणव्यपनयनादिना
प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि, एवं प्रयत्ननानात्वादिह प्रयत्नेना-
विद्यमानः शब्दो निर्वर्त्येत घटवदुत विद्यमान एवाभिव्यज्येत मृदन्तरितसलि-
लादिवदिति संशयः, न चेयं संशयसमा जातिर्हेत्वर्थविकल्पनेनेह प्रत्यवस्थाना-
त्, तथा हि निरवयवत्वादाकाशसाधर्म्योपन्यासेन संशय अपादित इह तु
साधनवादयुक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जा-
तीनां वैचित्र्यकारणमित्युक्तमेव ।
अत्रोदाहरणम्—
कार्यान्त्यत्वे प्रयत्नहेतुत्वमनुपलब्धिकारणानुपपत्तेः ॥
गौ. सू. अ. ५ आ. १ सू. ३९
यद्यपि प्रयत्नकार्यान्त्यत्वमुपलभ्यते तथा ऽपि प्रकृते शब्दे प्रयत्नस्याभि-
व्यक्तावहेतुत्वं न प्रयत्नतः शब्दमभिव्यनक्ति किं त्वभूतप्रादुर्भावमेव विधत्ते
कस्माद् अनुपलब्धिकारणानुपलब्धेः यत्र हि सतः पदार्थस्य प्रयत्नोऽभिव्य-
क्तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानं तद-
पोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते शब्दस्य तु न किं चिदनुपलब्धि-
निबन्धनं व्यवधानादि संभवतीति वर्णितमतस्तस्यासत एवात्मलाभनिमित्तमु-
च्चारणादिप्रयत्नो न सतो व्यक्तिनिमित्तं तस्मादनित्यः शब्द इति स्थितम् ,
तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवर्त्मना शब्दानित्य-
त्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन
भवति भगवता सूत्रकृता, इदमपरमिदानीमुपदिश्यते चतुर्विंशतावपि जातिषु
जातिवादिना प्रयुक्तासु मूलसाधनावादी विस्पष्टानुमानोक्तपरीक्षणपुरःसरं
सम्यगेवोत्तरं यथोपदिष्टमभिदधीत न तु जातिप्रयोगानुकारि दुरुत्तरालापन्चा-

' or 'म'?
Letter 10: 'ो'?
Wait, looking at line 32:
परपक्षदोषोपादामोपमत... or परपक्षदोषोपादानोपगत...?
Let's look at the image:
परपक्षदोषोपादा
Then: a character with loop: looks like न or म.
Then: ो with प? No, wait: there's म or प?
Look at परपक्षदोषोपादामोपमत... vs परपक्षदोषोपादानोपगत...:
Wait, the type in this edition (Chowkhamba / Kashi Sanskrit Series):
Letter after 'दा': it has a left loop and right vertical, but look at the bottom, there is a connection? No, it looks like 'न' or 'म'.
Then after it: 'ो' and 'प'?
Wait, the glyphs are:
प-र-प-क्ष-दो-षो-पा-दा-
Then: glyph has a loop like 'म'?
Then: 'ो'?
Then: 'प'?
Then: glyph with two legs like 'म'? Or 'ग'?
Then: 'त'?
Wait, could it be a misprint in the book itself: परपक्षदोषोपादामोपमतमतानुज्ञा... or is it परपक्षदोषोपादानोपगत...?

[Header]
जातिप्रकरणम् । १८९


प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधे ऽपि
समानो दोष इति मय्येव प्रतीपमापीपदस्तदेवं त्वत्त एव शिक्षित्वा ऽहमपि
चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति मम चेन्मतानुज्ञा प्रथमतरां तवासी-
द्भवेदिति तदेतदाह—
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमा-
त्समानो दोषः ॥ गौ. सू. अ. ५ आ. १ सू. ४४
स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्पादनित्यः शब्द इति, त-
ल्लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः, तमपेक्ष्योपपत्ति-
स्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानः परपक्षे
अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनेकान्तिकः प्रतिषेध
[L11