न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 598, कुल 654 में से
संदर्भ में पढ़ें१८४ न्यायमञ्जर्याम्
अत्रोत्तरम्—
उपपत्तिकारणानुज्ञानादप्रतिषेधः । अ. ५. आ. १ सू. २७
उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता भवति
सा चेदनुज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत्कथमुभयकार-
णोपपत्तिः उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम्, व्याघा-
तादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्समानो व्याघातस्तेन हि परपक्षवत्स्व-
पक्षो ऽपि प्रतिहन्यत एव न हि व्याघात एकं पक्षं साधयत्येकं बाधत इति ।
उपलब्धिसमस्य लक्षणम्—
निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥
गौ. सू. अ. ५ आ. १ सू २८ ।
यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावे-
ऽपि प्रबलप्रभञ्जनजभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वम्-
न्यत्रापि विद्युदादौ विनाऽपि प्रयत्नानन्तरीयकत्वमुपलभ्यत एवानित्यतेति ।
अत्रोत्तरम्—
कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ॥
गौ. सू. अ. ५ आ १ सू २९ ।
अत्रैतावदेव तावद्वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितं न च
सपक्षैकदेशवृत्तिरगमकः, प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न पुनरनित्य-
त्वं प्रयत्नानन्तरीयकत्वेन यत्प्रयत्नानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु
यदनित्यं तत्प्रयत्नानन्तरीकमिति, यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्रा-
ग्रिरिति, एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे
विद्युदादौ वा येयमनित्योपलब्धिर्न सा तस्य हेतुतामपहन्तीति, अपि च
प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं निय-
म्यते प्रयत्न एवेति तत्र पवननोदनजनिततरुशब्दवत्सत्यपि प्रयत्ने कारणान्तरं
तदुत्पादकमभविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्युदादौ वा न वि-
रुद्धमिति, कथं पुनरिदमेव गम्यते प्रयत्नादिभिरसन्नुत्पाद्यते शब्दो न पुनः
सन्नभिव्यज्यत इति, सतोऽनुपलब्धौ निमित्ताभावात्, आवरणं निमित्तमिति
चेन्न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावरणस्याग्रहणात्, तस्मान्न मू-
लोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियते इति ।
अनुपलब्धिसमस्य लक्षणम् —
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः
प्रतिषेधः ॥ गौ. सू. अ. ५ आ. १ सू ३० ।