न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 261, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् २३९
स्तु शान्त्यादिक्रियाः स्मृतावित्यभूमिज्ञोक्तिरेषा त्रय्येवात्मीयगोचरा इति एतद्-
पि परममाध्यस्थ्यम् , न ह्यात्मीयः परकीयो वा कश्चिदस्ति वेदार्थः सर्वशाखा-
प्रत्ययत्वादेकस्य कर्मणः।
वेदचतुष्टयसमानत्वोपसंहारः—
तस्मात्समानयोगक्षेमत्वात्सर्ववेदानामेकस्य ततः पृथक् करणं वेदनिन्दाप्रा-
यश्चित्तनिर्भयधियामेव चेतसि परिस्फुरति न साधूनामित्युपरम्यते।
इति तुल्यप्रभावर्द्धिर्वर्धमानोचितस्तवः।
विविधाभिमतस्फीतफलसंपादनोद्यताः॥
चत्वारो ऽपि पराक्षेपपरिहारस्थिरस्थितिम् ।
भजन्ति वेदाः प्रामाण्यलक्ष्मीं हरिभुजा इव ॥
चतुःस्कन्धोपेतः प्रथितपृथगर्थैरवयवैः
कृतान्योन्यश्लेषैरुपचितवपुर्वेदविटपः ।
प्रतिस्कन्धं शाखाफलकुसुमसंदर्भसुभगः
प्रकाशन्ते तस्य द्विजमुखनिपीतोत्तमरसाः ॥
तन्त्रागमादिप्रामाण्यविचारः--
आह—
किमेतदित्थं प्रामाण्यं वेदानामेव साध्यते ।
तन्त्रागमान्तराणां वा सर्वेषामियमेव दिक् ॥
किं चातः—
आद्ये पक्षे परेष्वेवं ब्रुवाणेषु किमुत्तरम् ।
उत्तरत्र तु मिथ्या स्युः सर्वे ऽन्योन्यविरोधिनः ॥
कानि पुनरागमान्तराणि चेतसि विधायैवं वत्सः पृच्छति, पुराणेतिहास-
धर्मशास्त्राणि वा शैवपाशुपतपञ्चरात्रबौद्धार्हतप्रभृतीनि वा तत्र शैवादीनि
तावन्निरूपयिष्यामः, मन्वादिप्रणीतानि धर्मशास्त्राणि वेदवत्तदर्थानुप्रविष्टविशि-
ष्टक्रमोपदेशीनि प्रमाणमेव कस्तेषु विचारः, तेषां तु प्रमाणत्वं वेदमूलत्वेनैव के
चिदाचक्षते, तथा हि न तावन्मन्वादिदेशना भ्रान्तिमूलाः संभाव्यन्ते बाधकाभा-
वात् , अद्य यावदपरम्लानादरैर्वेदविद्भिस्तदर्थानुष्ठानात, नाप्यनुभवमूलाः प्रत्य-
क्षस्य त्रिकालानवच्छिन्नकार्य्यरूपधर्मपरिच्छेददशासामर्थ्यासंभवात् , न च
पुरुषान्तरोपदेशमूलाः पुरुषान्तरस्यापि तदवगमे प्रमाणाभावत्, भावे वा मनुना
किमपराद्धम् , असति हि मूलप्रमाणे पुरुषवचनपरम्परायामेव कल्प्यमानायाम-
न्धपरम्परास्मरणतुल्यत्वं दुर्निवारम् , न च विप्रलम्भका एव भवन्तो मन्वादय
एवमुपदिश्युरिति युक्ता कल्पना बाधकाभावात् साधुजनपरिग्रहाच्चेत्युक्तम् ,