न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 153, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १३१
प्रत्यक्षपूर्वकं तस्मात्संज्ञाकर्मेति गीयते ।
क चित्तदेव पूत्यक्षं स्मृतिद्वारेण कारणम् ॥
पूर्वदृष्टे कुरङ्गादौ संबन्धो दर्शितो यथा ।
चैत्रे पूत्यक्षवत्सिद्धिर्दन्तुरादिविशेषणैः ॥
इह पुनरतिदेशवचनसमये गोसादृश्यमात्रोपदेशे सत्यपि संज्ञिनि न निव-
र्त्तते एवोपप्लवः प्रमाणान्तरपरिच्छेदसापेक्षकसंज्ज्ञिरूपोपदेशात् , यत्र गोसादृश्यं
पश्यसीति प्रत्यक्षादेव तर्हि उपप्लवो विरंस्यतीति चेद् न, प्रत्यक्षस्येन्द्रियसन्नि-
कर्षादिखभावस्य संज्ञासंज्ञिसंबन्धबोधकरणासमर्थत्वात् ।
प्रत्यक्षफलमेतत्तु समर्थं सत्यमिष्यते ।
तस्यैव च वयं ब्रूम उपमानप्रमाणताम् ॥
यथा प्रत्यक्षफलमपि धरणिधरकुहरभुवि धूमदर्शनमनिन्द्रियविभावसुबो-
धसाधनत्वादुमानम् एवं गोसारूप्यविशेषितविपिनगतगवयपिण्डदर्शनमप्यक्ष-
फलमपि तदनवगतसंज्ञासंज्ञिसंबन्धबोधविधानादुपमानमुच्यते, यथा च तत्र
पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति तथा इहापि पूर्वश्रुतारण्यक
वाक्यार्थस्मरणम् , यथा तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधर्म-
ताबलाद्विशेषे व्यवतिष्ठते अत्राग्निरिति तथा ऽत्राप्यनवगतवाच्यविशेषाद्वाक्या-
द् बुद्धिरिदानीं वाच्यविशेषे दृष्टे निरुपप्लवा जायते अयं स गवयशब्दामिधेय
इति, नैतावता ऽनुमानमेवेदमित्याशङ्कनीयम् अनपेक्षितधर्मान्वयव्यतिरेकादि-
सामग्रीकस्य तत्प्रत्ययोत्पादात् ।
तस्मादयं स गवयो नामेत्येवंविधा मतिः ।
उपमानैकजन्यैव न प्रमाणान्तराद्भव ॥
न चैषा नास्ति सन्दिग्धा बाध्यते कल्पनामात्रं वेति सर्वथैतस्याः प्रमितेः
साधनमुपमानं प्रमाणमिति सिद्धम् , तदिदमाह प्रसिद्धसाधर्म्यात्साध्यसाधन-
मुपमानम् , प्रसिद्धसाधर्म्यादिति कर्मधारयः तृतीयासमासो बहुव्रीहिर्वा, प्रसिद्धं
च तत्साधर्म्यं प्रसिद्धेन गवा वा साधर्म्यं गवयस्य प्रसिद्धं वा साधर्म्यं यस्य स
प्रसिद्धसाधर्म्यो गवयः तस्मात्प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् , साध्यः
संज्ञिसंबन्धः तस्य साधनं बोधनं संज्ञासंज्ञिसम्बन्धज्ञानं वा साध्यं तस्य साधनं
जननमित्यर्थः, एवं प्रसिद्धसाधर्म्यज्ञानमुपमानं फलं संज्ञासंज्ञिसंबन्धज्ञान-
मित्युक्तं भवति ।
साध्यसाधनशब्देन करणस्य प्रमाणताम् ।
ब्रवीत्येतच्च मन्तव्यं सर्वत्र परिभाषितम् ॥
अत एव मध्ये लिखितमिदं यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति ।