न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६३
व्यतिरेकसन्देहप्रसङ्गाच्च । कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या
कार्यत्वव्यावृत्तिः, उत करणव्यावृत्त्या । एवं किमुपादानव्यावृत्त्या, किमसमवायि-
व्यावृत्त्या, किं निमित्तव्यावृत्त्येति । कार्यत्वात् करणमुपादानमसमवायि निमित्तं
वा बुद्ध्यादिषु न सिद्धयेत् । कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितं, तदेव त्वसिद्ध-
मिति चेत् । किं पटादौ कुविन्दादिकारणमेव कर्त्ता, प्रस्तुते चोदासीन एव
साधयितुमुपक्रान्तः । तस्माद् यत्किञ्चिदेतदपीति ॥
ननु कर्त्ता कारणानामधिष्ठाता साक्षाद्वा शरीरवत्, साध्यपरम्परया वा
दण्डादिवत् ? । तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् । न द्वितीयः,
द्वाराभावात् । न हि कस्यचित् साक्षादधिष्ठेयस्याऽभावे परम्परया अधिष्ठानं
सम्भवति ॥
तदयं प्रमाणार्थः—परमाण्वादयो न साक्षाच्चेतनाऽधिष्ठेयाः, शरीरेतरत्वात् ।
यत्पुनः साक्षादधिष्ठेयं न तदेवं, यथाऽस्मच्छरीरमिति । नापि परम्परया अधिष्ठेयाः,
स्वव्यापारे शरीरानपेक्षत्वात् , स्वचेष्टायामस्मच्छरीरवत् । व्यतिरेकेण वा दण्डा-
प्रकाशः ।
अन्यथा सत्प्रतिपक्षाभिधानाय भूमिकामारचयति नन्विति ॥ यत्र प्रयत्नवदात्मसंयोगा-
समवायिकरणकक्रियोत्पादको यः, स तत्र साक्षादधिष्ठाता, यथा स्वशरीरे अस्मदादिः ।
शरीरक्रियया यो यत्क्रियाजनकः, स तत्र परम्पराऽधिष्ठाता, यथा दण्डादौ कुलालादिः । आद्ये पर-
माण्वादिः शरीरं स्यात् तादृशक्रियाश्रयत्वादित्याह परमाण्वादीनामिति ॥ स्वव्यापार
इति ॥ स्वक्रियायां शरीरव्यापारानपेक्षत्वादित्यर्थः ॥ स्वचेष्टायामिति ॥ शरीरक्रियायास्त-
त्क्रियानपेक्षत्वादित्यर्थः ॥ व्यतिरेकेणेति ॥ यत् परम्पराऽधिष्ठेयं तन्न स्वव्यापारे शरीरक्रियान-
प्रकाशिका ।
लक्षणस्वव्यापारापेक्षतया स्वशरीरं दृष्टान्तः साधनविकलमित्यत आह स्वक्रियायामिति । यद-
वच्छिन्न इति । यदवच्छिन्ने आत्मन्यैन्द्रियककार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यः, तस्यैवेन्द्रिया-
श्रयत्वमित्यर्थः । यद्यपि मूले न भोगान्तर्भावः, तथापि तात्पर्यार्थोऽयमिति भावः ।
टिप्पणी ।
तस्माद्व्यतिरेकव्याप्तिसंदेह इत्यर्थः । तथा च कर्तृभावोऽपि कार्याभावप्रयोजकः सामान्यतः कारणा-
भावोऽपीत्युभयोरेव प्रयोजकत्वम् । किं निमित्तव्यावृत्त्येति । तस्मात् कारणेष्वन्यतमव्यतिरे-
कस्यापि कार्य्यानुत्पादप्रयोजकत्वं सिध्यति, अन्यथा धूमादावपि तार्णवह्नयभावप्रयुक्तोऽतार्णवह्निभाव-
प्रयुक्तो वा धूमाभाव इत्यादेर्वक्तुं शक्यत्वात् क्वचिदपि व्यतिरेकव्याप्तिर्न सिध्येदित्यन्वयव्यतिरेकानु-
मानमात्रमुच्छिद्येतेत्यर्थः । दूषणान्तरमप्याह कार्यत्वादिति । न सिध्येदिति । तत्रापि हि
कारणाभावप्रयुक्त उपादानाद्यभावो वा कार्यत्वाभाव इति संदिहानो न व्यतिरेकव्याप्तिं परिच्छेत्तु-
मर्हतीत्यर्थः । अकारणमेव कर्तेति । तथाच कुविन्दादिव्यतिरेकेऽपि पटादिः प्रादुर्भवेत् नचैवम्
तस्मात् कुविन्दादेरपि कारणत्वमिष्टमेव, कारणेषु चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतो भवति
कर्तृत्वं नाकारणस्येत्यर्थः । प्रस्तुते सकर्तृकत्वानुमाने, यदि कर्ता कारणं न स्यात् तदा कथं कार्यत्वेन
हेतुना स सिध्येत्, न चेष्टापत्तिः प्रकरणपराह तत्वा दिति । प्रकारान्तरेण सत्प्रतिपक्षत्वमाशंकते ननु
कर्तेत्यादिना । तदर्थमेव-अधिष्ठानार्थमेव । तथासति-अधिष्ठितस्याप्यधिष्ठानापेक्षितत्वे सति ।
ईश्वराधिष्ठितस्यापि कारणस्य कुविन्दादिरूपाधिष्ठानापेक्षायामविशेषात् कुविन्दाधिष्ठितस्याप्यधिष्ठा-
नापेक्षा स्यात्, एवं क्रमेणानवस्था स्यादित्यर्थः । कार्यत्वेन हेतुना बुद्धिमत्पूर्वकत्वे साध्ये जन्यप्रयत्न-
४६४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां
द्युदाहरणम् । एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यति-
षोड्या सत्प्रतिपक्षत्वम् ॥
अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानाथमपेक्षा, तेषामचेतनानां
स्वतोऽप्रवृत्तेः, आहो कारकत्वेन ? । न पूर्वः । तेषां परमेश्वरेणैवाधिष्ठानात् । न
ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति । न चाधिष्ठि-
तानामधिष्ठात्रन्तरापेक्षा तदर्थमेव । तथा सत्यनवस्थानादेवाऽविशेषात् । न
द्वितीयः । अधिष्ठातृत्वस्यानङ्गत्त्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः । न च
हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् । एवन्तर्हि यत्कार्यं तत्सहेतुकमिति
व्याप्तिः, न तु सकर्तृकमिति । तथा च तथैव प्रयोगे सिद्धसाधनात् ॥
किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन
स्वभावप्रतिबद्धम् । न ह्यनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनाऽपेक्ष्यते,
येन तन्निवृत्तावष्यकार्यबुद्धिर्न निवर्त्तते इति ॥
तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते । तथाहि—साक्षादधिष्ठातरि
साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं, यत् प्रसज्यते ? यदि
साक्षात्प्रयत्नवदधिष्ठेयत्वं तदिष्यत एव । न च ततोऽन्यत् प्रसञ्जकमपि । अथेन्द्रि-
प्रकाशः ।
पेक्षमपि तु तदपेक्षमेव, यथा दण्डादीति व्यतिरेकीत्यर्थः । एवं कारणपक्षकानुमानमुक्तवा कार्यपक्ष-
कमाह एवमिति । सिद्धसाधनमभिधातुं भूमिकामारचयति अपि चेति । अधिष्ठातृत्व-
स्येति । क्षित्यादेश्चेतनाधिष्ठितहेतुजन्यत्वे साध्ये पटादिदृष्टान्तः साध्यविकलः, कुविन्दादेः कार-
कत्वेनैवापेक्षणीयतया कारणाधिष्ठातृत्वेन तदभावादित्यर्थः । तथा चेति । कर्तृजन्यत्वेऽप्यचेतन-
समवायादिहेतुकत्वस्य मयाऽप्युपगमादित्यर्थः ।
उपाधिमाह किञ्चेति । न हीति । यथा शरीरनिवृत्तावप्यकार्या बुद्धिर्न निवर्त्तते, तद्वद-
नित्यप्रयत्ननिवृत्तावप्यकार्यबुद्धिर्न निवर्त्तते इति न । शरीरं हि बुद्ध्या कारणत्वेनापेक्ष्यते इति
शरीरनिवृत्तौ कार्या बुद्धिर्निवर्त्तते इति युक्तं, न पुनरनित्यप्रयत्नो बुद्ध्या कारणत्वेनापेक्ष्यते, येना-
नित्यप्रयत्ननिवृत्तौ कार्या बुद्धिर्निवर्त्तते न नित्येति स्यात्, अपि तु व्यापकत्वमात्रेणेत्यर्थः । शरीर-
वदिति प्रथमासमर्थाद्वतिः । बुद्ध्या शरीरं यथा कारणतयाऽपेक्ष्यते, न तद्वदनित्यः प्रयत्नः कारण-
तयेत्यर्थः । तन्निवृत्तावपीति । अनित्यप्रयत्ननिवृत्तावपीत्यर्थः ।
तदेतदिति । विशेषस्य विशेषं प्रति प्रयोजकत्वादित्यादिना । अत्र प्रसङ्गदशायां तावद्
दूषणमाह यदीति । इष्टापादनमित्यर्थः । न चेति । आपाद्यादापादकस्याविशेष इत्यर्थः ।
टिप्पणी
पूर्वकत्वस्योपाधित्वं तस्य द्यणुकादौ साधनाव्यापकत्वात्, उपाध्यभावेन च बुद्धिमत्पूर्वकत्वमात्रं निवर्तते
नतु जन्यबुद्धिपूर्वकत्वमित्याह किञ्चेति । व्याप्तिम्-बुद्धिमत्पूर्वकत्वनिरूपिताम् । यथाऽस्मिन्ननु-
माने शरीरपूर्वकत्वं नोपाधिरुद्भावर्नाहः यतो बुद्धिं प्रति शरीरस्य कारणतया उपाध्यभावेन (शरीरा-
भावेन) कार्यबुद्धयभावस्यैव सिद्धिः स्यान्न तु नित्यबुद्ध्यभावस्यापीति नित्यबुद्धिसिद्धौ बाघकाभावात्,
एवमनित्यप्रयत्नोऽपि यदि बुद्धिम्र्पति शरीरमिव कारणं स्यात्तदाऽयमपि नोद्भावनीयः स्यान्न त्वेवं
बुद्धिम्र्पत्यनित्यप्रयत्नस्याकारणत्वादिति प्रघट्टकार्थः । शरीरत्वसाक्षाच्चेतनाधिष्ठितत्वयोरापाद्यापादक-
योरैक्यमप्याह नचेति । अर्थाश्रयत्वमिति । अर्थः प्रयोजनं स्वीयसुखसाक्षात्कारात्मको भोगः
तदाश्रयत्वमवच्छेदकतासम्बन्धेन, नित्यसुखसाक्षात्कारात्मकमीश्वरज्ञानं यद्युपेयेत यदि वा भोगभिन्नमेव
पञ्चमस्तवके ] ईश्वरबाधकखण्डनम् । ४६५
याश्रयत्वम् ? । तन्न । तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रिया-
णामुपयोगात् । अनवच्छिन्ने प्रयत्ने नायं विधिः । नित्यत्वात् । अत एव नाऽर्थाश्र-
यत्वम् । न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेष-
त्वात् । न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि । विशेषादर्शनाभावे मिथ्याज्ञाना-
नवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् ॥
तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्या-
विशिष्टम् । अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रय-
मप्यन्यथासिद्धम् । अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगा-
यतनमपि, स्पर्शवद्वेगवद्द्रव्यानुद्यत्वात्तदनपेक्षमपि स्यात् । अचेतनत्वाच्चेतनाधि-
ष्ठितमपि स्यादिति को विरोधः ॥
प्रकाशः।
अथेति । तथा च आपाद्यापादकयोर्भेद इत्यर्थः । तत्राप्रयोजकत्वमाह तदवच्छिन्नेति । साक्षात्प्र-
यत्नाधिष्ठितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम् । यदवच्छिन्न आत्मनि प्रयत्नस्तदवच्छिन्नात्मनिष्ठज्ञाने-
नेन्द्रियकार्येण भोगो जनयितव्यः । अकार्यो तु ज्ञानप्रयत्नाविनिन्द्रियाश्रयत्वं विनाऽपि स्यातामिति
न विरोध इति मूलशैथिल्यमित्यर्थः । प्रयत्नोत्पत्ताविति, निमित्तसप्तमी । अत
एवेति । सोपाधित्त्वेन मूलशैथिल्यादेवेत्यर्थः । उपाधिमाह न हीति । ज्ञानानित्यत्वमुपाधि-
रित्यर्थः । न च नित्येति । यदवच्छिन्नात्मन्यर्था भोगं जनयन्ति तस्यार्थाश्रयत्वम् , नित्यज्ञा-
नाश parse: नाशparse: नाशparse: नाश्रियस्य त्वीश्वरस्य भोगाभावान्न तदर्थं तदपेक्षेत्यर्थः ।
प्रसङ्गदूषणेनैव तदनुग्राह्यो हेतुरपि दूषित इत्याह तस्मादिति । शरीरत्वं यदि साक्षात्प्र-
यत्नाधिष्ठेयत्वं, तदा शरीरेतरत्वं साक्षात्प्रयत्नानधिष्ठितत्वम् । तथा स्वव्यापारे शरीरानपेक्षत्वं
साक्षात्प्रयत्नाऽधिष्ठेयानपेक्षत्वमेव, तथाच साध्याविशेष इत्यर्थः । यदि चेन्द्रियाऽऽश्रयत्वं भोगाश्रयत्वं
वा शरीरत्वं, तदा शरीरेतरत्वादित्यस्यानिरिन्द्रियाश्रयत्वादभोगायतनत्वादित्यर्थः । स्वव्यापारे
इन्द्रियाश्रयानपेक्षत्वाद्रोगायतानापेक्षत्वादिति वा द्वितीयहेत्वर्थः । तदेतत् सर्वमन्यथासिद्धमित्याह
अनिन्द्रियाश्रयत्वादिति । अन्यथासिद्धिमेवाह अभोगायतनत्वादिति । ईश्वरे ह्यदृष्टा-
भावेन भोगाभावात् परमाण्वादिर्भोगानवच्छेदकत्वेनानिन्द्रियाश्रयोऽपि स्यात्, स्पर्शवद्वेगवद्द्रव्या-
प्रकाशिका ।
ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वमर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः।
तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयानपेक्षत्वमेव परम्परानधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः।
तदनपेक्षत्वादित्यत्र तच्छब्देनोभयपरामर्शाद्धेतुद्वयलाभ इत्याह स्वव्यापार इति । एवं च त्रयमिति
मूलमग्रिमसाध्यहेत्वोस्तत्साध्यकत्वेनैकत्वं विवक्षित्वा समाधेयम् । वस्तुतस्तुष्टयमिति बोध्यम् ।
मकरन्दः ।
ज्ञानानित्यत्वमिति । अनित्यज्ञानवत्त्वमित्यर्थः । अर्थाश्रयत्वं = अर्थप्रयोज्यभोगाश्रयत्वमि-
त्यर्थः । तथेति । स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयापेक्षत्वमेव परम्पराधिष्ठेयत्वमिति साध्याविशेष
इत्यर्थः । यदवच्छिन्ने आत्मनि ऐन्द्रियकार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यस्तस्यैवेन्द्रियाश्रयत्व-
मित्यर्थः । यद्यपि भोगान्तर्भावेन न मूलार्थस्तथापि तात्पर्यार्थोऽयमिति भावः ।
टिप्पणी ।
तज्ज्ञानमुपेयेत उभयथापि नित्यत्वान्न प्रयत्नमपेक्षते इत्यर्थः । कारणविशेष(रूप)त्वात्-तथा च
तत्तत्कार्यनिरूपितमेव कारणं यत्नः स्यादित्यर्थः । अनुद्यत्वात्-प्रदर्शितद्रव्येण नोदनाख्यसंयोगाभा-
४६६ व्याख्यायात्रोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकान्याख्यायो
तथा च साक्षात्प्रयत्नाऽधिष्ठितेतरजन्यत्वादिति साध्यसमः। इन्द्रियाश्रयेतर-
जन्यत्वाद् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम्। कार्यज्ञानाद्यनपेक्ष-
त्वाच्छरीरेतरजन्यमपि स्यात्। अचेतनहेतुकत्वाच्चेतनाधिष्ठितमपीति को विरोधः॥
अप्रसिद्धविशेषणश्च पक्षः। नहि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाण-
सिद्धम्। न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात्।
गगनादेरपि सपक्षाद्व्यावृत्तेः॥
यत् पुनरुक्तं-कुविन्दादेः पटादौ कथमपेक्षेति। तत्र कारकतयेति कः सन्देहः।
किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः। तदैव चाऽधि-
ष्ठातृत्वम्॥
यत्त्वधिष्ठिते किमधिष्ठानेनेति। तत् किं कुविन्द उद्धार्यते, ईश्वरो वा,
अनवस्था वाऽऽपाद्यते। न प्रथमः। अन्वयव्यतिरेकसिद्धत्वात्। न द्वितीयः।
प्रकाशः।
न्तराप्रेर्यमाणत्वाच्छरीरानपेक्षक्रियोऽपि स्याद्, न विरोध इत्यर्थः। क्षित्यादिकं न चेतनाधिष्ठितहे-
तुकं शरीरेतरजन्यत्वादित्यत्रापि शरीरपदार्थस्य विकल्पत्रये दोषमाह-तथा चेति।
दूषणान्तरमाह अप्रसिद्धेति। ननु चेतनाऽधिष्ठितहेतुकत्वं तावदन्यत्रावगतमतः प्रतीतप्रति-
योगिकत्वे तन्निषेधः शक्यसाधनः स्यादित्यत आह न चेति। कुविन्द इति। ईश्वरेणैव
तन्त्वादेरधिष्ठानात् किं तदर्थं कुविन्देनेत्यर्थः। ईश्वरो वेति। कुविन्देनैव च तन्त्वादेरधिष्ठानात्
किं तदर्थमीश्वरेणेत्यर्थः। अनवस्था वेति। घटादेर्द्विकर्तृकतया तद्दृष्टान्तेन कार्यत्वात् क्षित्यादे-
रपि द्विकर्तृकत्वापत्तौ तस्यापि पक्षधर्मतावलात् सर्वज्ञेन सर्वज्ञाधिष्ठातृसिद्धौ पुनर्पटादिदृष्टान्तेन
क्षित्यादौ कर्तृत्रयं स्यादिति पुनर्धटवत् क्षितिः क्षितिवद् घट इत्यादीश्वरानन्त्यं स्यादित्यर्थः। अन्व-
येति। कुविन्दव्यापारस्यान्यवयव्यतिरेकादित्यर्थः। ईश्वरज्ञानादीनां नित्यत्वेन सर्वविषयत्वात् पटा-
प्रकाशिकाः।
क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेषः, उपाधिभेदात्। तथापि चेतनाधिष्ठानमपि
प्रयत्नाधिष्ठानद्वारैवेति प्रयत्नाधिष्ठितहेतुकत्वमेव फलतः साध्यमिति साध्याविशेषो द्रष्टव्यः। वस्तुतः
साध्यवदसिद्धो हेतुरित्येव साध्यसम इति द्रष्टव्यम्। मास्तु सर्वविषयत्वं तथापि प्रकारान्त-
मकरन्दः।
तदनपेक्षत्वादित्यत्र तत्पदेनोभयपरामर्शाद्धेतुद्वये तात्पर्यमित्याह स्वव्यापार इति। एवं च
त्रयमिति मूलस्य चतुष्टयमिति तात्पर्यम्। क्षित्यादिकमिति। यद्यपि यथाश्रुते न साध्याविशेष
उपाधिभेदात्, तथापि चेतनाधिष्ठानप्रयत्नद्वारैवेति प्रयत्नानधिष्ठितहेतुकत्वमेव साध्यमभिप्रेतम्।
यद्वा साध्याविशेष उक्तः। यद्वा साध्यवद्धेतुरप्यसिद्ध इति साध्यसमः। ननु सर्वविषयत्वमेव तस्या-
टिप्पणी।
वात्। हेतोः-शरीरेतरजन्यत्वस्य। व्यावृत्तेः-विपक्षात्तु घटादेर्व्यावृत्तिः स्फुटैव। अनवस्था चेति।
अयमाशयः द्यणुकादिकं द्विकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन शरीरिकर्तृकत्वबाधात् पक्षधर्मता-
बलात् सर्वाधिष्ठातेव द्वितीयोऽपि कर्ता (ईश्वरः) सिध्येत् घटादेरपि कर्ता स्यात् तथा च घटादेस्त्रि-
कर्तृकत्वमायातुम्। एवं द्यणुकादित्रिकर्तृकः कार्यत्वात् घटादिवत् इत्यनुमानेन सिध्यत् तृतीयोऽपि
कर्ता पक्षधर्मतावलात् सर्वाधिष्ठाता ईश्वर एवानुमितिगोचरः स्यात् एवं क्रमेणानवस्था प्रसज्यते इति!
पंचमस्तवके ] ईश्वरबाधकखण्डनम् । ४६७
परमाण्वदृष्टाद्यधिष्ठतृत्वसिद्धौ ज्ञानाऽऽदीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि
न्यायप्राप्तत्वात् । न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः ॥
न तृतीयः । तस्मिन् प्रमाणाभावात् । तथाप्येकाऽधिष्ठितमपरः किमर्थमधि-
तिष्ठतीति प्रश्ने किमुत्तरमिति चेत् । हेतुप्रश्नोऽयं, प्रयोजनप्रश्नो वा ? । नाद्यः ।
ईश्वराधिष्ठानस्य नित्यत्वात् । कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् । न
द्वितीयः । कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् ॥
एकाधिष्ठानेनैव कार्यं स्यादिति चेत् । स्यादेव । तथापि न सम्भेदेऽन्यतर-
वैयर्थ्यम् । परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामर्थ्योपलब्धौ सम्भू-
यकारित्वोपपत्तेः ॥
अस्ति तत्र वैजात्यमिति चेत् । इहापि किञ्चिद्भविष्यतीति । न चाकुर्वतः
कुलालादेः कायसङ्क्षोभादिसाध्यो भोगः सिद्ध्येदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनु-
मन्यते, तदर्थमात्रत्वादैश्वर्यस्येति ॥
यच्चानित्यप्रयत्नेत्यादि । भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निव-
र्त्तेत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात् । हेतुभूता
बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् । कारकविषया
बुद्धिनिर्वर्त्तत इति चेन्न । उदासीनस्यापि कारकोद्भूतत्वात् । न हि घटादिकम-
प्रकाशः ।
द्युपादानविषयत्वमपीति कथं न तेषां पटादिकारणत्वं, कुविन्दज्ञानादितुल्यत्वादित्याह परमा-
ण्विति । पटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् पटादिगोचरमपि ज्ञानं सिद्धमिति भावः ।
न त्विति । न त्वधिष्ठिताधिष्ठानार्थमेवेत्यर्थः । यथा कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वर-
स्याधिष्ठानं, ज्ञानादीनां नित्यतया' सर्वविषयत्वात् । तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति,
येनानवस्था स्यात् । कार्ये हि कर्तृत्वेन कारणता, न द्विकर्तृत्वादिनेति न तत्सिद्धिरित्याह प्रमाणा-
भावादिति । वैजात्यमिति । प्रत्येकजन्यव्यावृत्तं कारणमेलकव्यङ्ग्यमित्यर्थः । इहापीति ।
द्विकर्तृके घटादावेककर्तृकक्षित्यादेर्वैजात्यमित्यर्थः । उदासीनस्येति । कारणानि अव्यापारयत
प्रकाशिका ।
रेणापि घटादिगोचरत्वं तस्य सिद्धमित्याह पटाकाशेति । ननूदासीनो निःप्रयत्न एवोच्यते तथा
च प्रयत्नाभावेपीति व्यर्थमत आह कारणानीति । उदासीनशब्दस्य कारकाव्यापारयितृत्वमर्थपूर्व-
मकरन्दः ।
सिद्धमिति पटादिविषयत्वासिद्धेस्तदुपादानाधिष्ठानं न स्यादित्यत आह पटाकाशेति । वस्तुतो
नियतविषयता कारणाधीनेति नित्यतयैव सर्वविषयत्वमिति भावः । तदिदमाह नित्यतयेति ।
टिप्पणी ।
प्रमाणाभावादिति । कार्यं प्रति कर्तृत्वेन कारणता नतु द्विकर्तृत्वेन तथा च द्विकर्तुकत्वानुमान-
मनुकूलतर्कशून्यमित्यर्थः। संभेदे-द्वयोः प्राप्तौ सत्याम् । सम्भूयेति । प्रचयजन्यतूलकपरिमाणोत्प-
त्तिस्थले प्रत्येकं स्वस्वकार्यं प्रति कारणयोरपि संख्यापरिमाणयोरवर्जनीयतयाऽऽसङ्गतत्वात् यथा त्रयाणां
सन्निपातस्त्येत्यर्थः । त्रयाणां सन्निपातस्थलेवैजात्यमाशङ्कते अस्तीति । स्वीकारोति इहापीति ।
कायसंक्षोभादिः-कायव्यापारादिः । किंचित्कार्यमकुर्वतः कुलालादेः कायव्यापारसाध्यो भोगश्च न सिध्ये-
दतः कुलालादेरपि कर्तृत्वमित्याह नचेति । अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीव्यकर्तृत्वमि-
त्यादिनाऽभिहितमुपाधिं निरस्यति यद्विवति । अनित्यप्रयत्नस्य बुद्धिव्यापकत्वे तन्निवृत्तौ बुद्धिनिवर्ते-
तातस्तस्य व्यापकत्वं विघटयति उदासीनस्येति । अव्यवहितपूर्वत्वसम्बन्धेन कृतिविशिष्टा या
६३ न्या० कृ०
कुर्वन्तश्चक्रादिकं नेष्टामहे। हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न। अयतमान-
स्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात्। चिकीर्षाहेतुभूतोऽ-
नुभवो निवर्त्तते इति चेन्न। केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भ-
वात्। अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिर्निवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्।
तथाचानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वकत्वमिति
तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वा-
दिति बुद्धिमत्पूर्वकत्वसाध्यपक्षे परीहारः। सकर्तृकमिति प्रयत्नप्रधानपक्षे शङ्कव
नास्ति, तस्यैव तत्रोपाधित्वात्॥
एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा-
प्रकाशः।
इत्यर्थः। उदासीनबुद्धेरिति कर्मधारयः। दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति
विग्रहः। तस्य बुद्धेरित्यर्थः।
तत्रेति। बुद्धिमत्पूर्वकत्वे साध्ये । तस्य-अनित्यप्रयत्नस्य । प्रयोजकत्वे चोदासीनबुद्धेर्निवृ-
त्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया
परिहृतम्। यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते,
तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति।
ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रधानीभूता कुतः सिद्ध्येत्? न हि यत्नात्त-
त्सिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवच-
त्वात्, तथा च कृतिमात्रशाली कर्त्ता प्राप्त इत्यत आह—
एतेनेति। प्रयत्ननित्यत्वस्यानुपाधित्वेनेत्यर्थः। कार्यत्वादेकैकजन्यत्वं सिद्ध्येत् त्रित-
येजन्यत्वमपि सिद्ध्यति। आर्थस्तु समाजः। अत एव—ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेकः,
किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो-
प्रकाशिका।
मुक्तमिति तदर्थत्वे प्रयत्नाभावान्नोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थ-
लाभः स्यादित्यभिप्रेत्याह कर्मधारय इति। कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कार-
कत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति। यद्यपि विशिष्टाविशिष्टभेदाद्युपाध्युपा-
धिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति
मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः। वस्तुतो हेतौ विपक्षबाधकादेव
नायमुपाधिरिति स्मर्त्तव्यम्। प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः।
मकरन्दः।
नन्वूदासीनो निष्प्रयत्न इत्यनर्थान्तरम्, तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणा-
नीति। प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति। पूर्वोक्तव्याख्यानेन तदलभेऽपि प्रयत्नाजन-
कबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः। पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति।
एतच्च कारकत्वद्योतनार्थम्। यदा त्विति। यदि कृतिजन्यत्वमेव साध्यमित्यर्थः। एवञ्च बुद्धि-
मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम्। यद्यपि विशिष्टाविशिष्टभेदादुपोधित्वं सम्भवति,
तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्व-
मिति भावः। वस्तुतो हेतौ विपक्षबाधकसंभवादत्र न तदभावान्न तथात्वमिति।
प्रयत्ननित्यत्वस्येति। तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः। वस्तुतस्तु समूहालम्ब-
धिरिति निरस्तम् । यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रय-
त्नेन बुद्धिं बुद्धिनिवृत्त्या प्रयत्ननिवृत्तिं साधयेत्, स एवं कदाचिदुपालभ्यः ।
वयं त्ववगतहेतुभावं कलितसकलशक्तिकारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमा-
स्कन्दनीयाः, तत्र तस्यानुपाधित्वात् । न च प्रयत्न आत्मलाभार्थमेव मतिमपे-
क्षते । विषयलाभार्थमप्यपेक्षणात् । ततः प्रयत्नाद् बुद्धिः, तन्निवृत्तेश्च प्रयत्न-
निवृत्तिः सिद्धयत्येवेति विस्तृतमन्यत्र । कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो
निवर्त्तते, न नित्यः । नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्त्तते, नानित्या । न हि
तया तस्य विषयलाभसम्भवः । शरीरादेः प्राक् तदसम्भवे देहानुपपत्तौ सर्वानु-
पपत्तेः । शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति संक्षेपः ।
प्रकाशः ।
र्विशिष्टसिद्धिः, साध्याभावव्यापकाभावप्रतियोगिन एव साध्यगमकत्वात्—इत्यपास्तम्, ज्ञानाद्येकै-
कजन्यत्वस्यैव साध्यत्वात्, तयैव व्याप्तेरिति भावः ।
तत्रेति । ज्ञानाद्येकैकजन्यत्वे साध्ये इत्यर्थः । तस्य प्रयत्नगतकार्यत्वस्येत्यर्थः । किञ्च यदि-
प्रयत्नेन बुद्धिः स्वोत्पत्त्यर्थमेवापेक्ष्यते, तदा प्रयत्नगतकार्यत्वमेवोपाधिः स्यात्, न चैवम्, प्रय-
त्नस्य निर्विषयकत्वेन ज्ञानविषयेषु कार्यजनकमिति तदर्थं बुद्ध्यपेक्षा स्यादेवेत्याह, न च प्रयत्न
इति । तथापि नित्या बुद्धिः कुतः सिद्ध्यतीत्याह नित्ये च प्रयत्न इति । न हीति । बुद्धेरनि-
त्यत्वे तद्धेतुशरीरात् प्राक् तदभावे शरीरोत्पत्तिरेव न स्यादिति कदाऽपि सा बुद्धिर्न जायेतेत्यर्थः ।
अनित्यप्रयत्नाजन्यत्वात् क्षित्यादेरकर्तृकत्वे साध्ये शरीराजन्यत्ववद्व्यर्थविशेषणत्वमित्याह शरीरा-
जन्यत्ववदिति ।
प्रकाशिका ।
वस्तुतो न प्रयत्नात्तत्सिद्धिरपि तु तत्समूहलम्बन्यरूपैवानुमितित्रितयगोचरेत्याह कार्यत्व-
स्येति । ज्ञानाद्येकैकेति । प्रत्येकव्याप्तिरिति भावः । प्रयत्नगतेति । बुद्धिजन्यत्वे साध्येऽनित्यप्र-
यत्नजत्वं नोपाधिः, प्रयत्न एव साध्याव्यापकत्वात्, प्रयत्नजत्वे च तन्नोपाधिः, सामान्ये विशेषस्या-
नुपाधित्वादिति भावः । प्रयत्नस्य निर्विषयकत्वेनेति । ज्ञानवत् स्वाभाविकसविषयकत्वाभावे-
नेत्यर्थः । तथा च समानाधिकरणस्वाधिकरणक्षणाव्यवहितपूर्ववर्त्तिताज्ञानमेवेच्छाप्रयत्नविषयतेति ।-
मकरन्दः ।
नरूपैवानुमितिर्न तु प्रयत्नात्तत्सिद्धिरित्येकदैव त्रितयजन्यत्वं सिद्ध्यतीत्याह कार्यत्वादिति ।
ज्ञानाद्येकैकेति । प्रत्येकव्याप्तिभिरिति शेषः ।
टिप्पणी ।
चिकीर्षा तत्कारणं या बुद्धिस्तद्व्यापकत्वमनित्यप्रयत्नस्येति शंकते अनपेक्षेत्यादि । ननु क्षित्यादौ
बुद्धिपूर्वकत्वेन हेतुना शरीरपूर्वकत्वानुमाने यथा कार्यबुद्धिपूर्वकत्वमुपाधिर्मा प्रत्यभिधीयते, एवं भव-
त्पन्थेऽपि प्रयत्नेन बुद्धद्यनुमाने कार्यप्रयत्नस्योपाधित्वं स्यादित्याशंकामपाकरोति एतेनेति । तत्र
हेतुमाह यो हीति । बुद्धिनिवृत्त्येति । तत्र व्यतिरेकव्याप्तौ प्रयत्नेन बुद्धिः साध्या तत्र जन्यप्रयत्न-
स्योपाधित्वमिति भावः । वयं त्विति । तथा च क्षितिः सकर्तृका कार्यत्वादित्यनुमाने यदि जन्यप्रयत्ना-
दिरुपाधिः स्यात् तदा उपाधेस्तस्याभावेन सकर्तृकत्वाभावोऽनुमीयेत, तत्र यदि क्षित्यादिकं सकर्तृकं
न स्यात्कार्यमेव न स्यादिति प्रतिकूलतर्कस्य जागरूकत्वान्नौपाधिरिति भावः । आत्मलाभः-उत्प-
त्तिः । विषयलाभार्थमिति । मतिविषयविषयक एव भवति प्रयत्नोऽतस्तां विना प्रयत्नस्वरूपमेव
न निष्पद्येतातोऽपि प्रयत्नस्य निरुपाधिकी बुद्धिव्याप्तिरित्यर्थः । बुद्धिरिति सिद्ध्यत्येवेत्यन्वयः ।
५०० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यांयो
तर्काभासतयाऽन्येषां तर्कशुद्धिरदूषणम् ।
अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् ॥ ३ ॥
कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः । चेतनाचेतनव्यापारयोर्हेतुक-
र्तृभावावधारणात्कारणान्तराभावे इव कर्त्रभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि
कारणत्वात् ।
यस्त्वह—प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः ।
प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात्, धूमाग्निवत्, कम्प-
मारुतवच्च । न हि धूमः कार्योऽनलस्येति उदर्थस्यापि, न हि शाखाकम्पो मात-
रिश्वन इति स्तिमितस्यापि स्यात्, किन्तु भौमस्पृश्ययोरेव । तथेहापि शरीरवत
एव कारणत्वमवगन्तुमुचितं, नान्यस्येति ।
प्रकाश ।
तर्कपरिशुद्धिश्च यदि प्रतिकूलतर्कप्रतिघातस्तदा तेषां यदि ईश्वरः कर्त्ता स्याच्छरीरी स्या-
दित्यादीनां तर्काणामीश्वरसिद्धयसिद्धिभ्यां व्याघातेनाभासत्वान्न दूषणत्वमित्याह- तर्काभास-
तयेति । अथानुकूलतर्काभावरूपा सा ?, तत्राह अनुकूलस्त्विति । कर्तुः कारणस्याभावे कार्यं न
स्यादित्येवानुकूलस्तर्क इत्यर्थः ॥
ननु कर्त्रभावेऽपि कारणान्तरव्यापारात् कार्यं स्यादित्यत आह- कारकव्यापारेति । कार-
कान्तरव्यापारं प्रति चेतनव्यापारस्य हेतुत्वात् कर्त्रभावे सोऽपि न स्यादित्यर्थः । कारणान्तरव्या-
पारसत्त्वेऽपि कर्त्रभावे कार्यं न स्यात् यत्किञ्चित्कारणाभावस्य कार्यानुत्पत्तिव्याप्यत्वादित्याह-कार-
णान्तरेति ।
सौगतमाह यस्त्विति । कृतिमात्रकार्यमात्रयोर्नान्वयव्यतिरेकाभ्यां व्याप्तिग्रहः, तन्मते
व्यापककृतेः सत्त्वेनार्योग्यकृतेर्व्यतिरेकाऽनिरूपणात् । यदि च कृतिमात्रेण व्याप्तिग्रहाददृश्यकर्तृ-
सिद्धिः, तदा वह्निमात्रव्याप्यधूमाददृश्यजाठर्यादिवह्निरपि सिद्ध्येत् । शाखाकम्पे चायोग्यस्यापि
स्तिमितवायोः कारणताग्रहश्च स्यादित्यर्थः ।
प्रकाशिका ।
तदर्थतो तत्सिद्धिरिति भावः । न चैवं घटपटगोचरज्ञानेन पटेष्टसाधनतानवगाहिना जनितायां घटमा-
त्रगोचरेच्छायां पटगोचरतापतिरिति वाच्यम् । तज्ज्ञानस्य घटांश एवेच्छाविषयतात्मकत्वात् ज्ञानरूप-
संबन्धस्य फलवलकल्पनीयत्वादिति । अयोग्यस्यापीति । अयोग्यत्वम् = उद्भूतस्पर्शशून्य-
मकरन्दः ।
अयोग्यस्यापीति । उद्भूतस्पर्शवेगशून्यवायोरित्यर्थः । आलोकात्मकस्येति । आलोक-
टिप्पणी ।
प्रयत्नपूर्वकत्वसाधने कार्यबुद्धेरुपाधित्वं प्रतिक्षिपति कार्यबुद्धीति । तर्काभासतयेति । अन्येषाम्
क्षित्यादिकं यदि सकर्तृकं स्यात् शरीरजन्यं स्यात्, यदि बुद्धिमत्पूर्वकं स्यात् अनित्ययत्नजन्यं स्यात्,
यदि नित्यप्रयत्नजन्यं स्यात् बुद्धीच्छाजन्यं न स्यात् ईश्वरो यदि कर्ता स्यात् शरीरी स्यादिति तर्का-
णामाभासत्वात्प्रतिकूलतर्केण या क्षितिः सकर्तृका कार्यत्वादित्यनुमानेऽशुद्धिरीश्वरास्तित्वनिराकरणरू-
पोद्भाव्यते सा न दूषणम् तत्र हेतुमाह । मदीये त्वनुमाने क्षित्यादिकं सकर्तृकं न स्यात् कार्यमेव न
स्यात् कार्यलोपः स्यात् इत्यनुकूलस्तर्को भूषणमस्तीत्यर्थः ।
दृश्ययोरेव कार्यकारणभावो नादृश्ययोः यतोऽयं प्रत्यक्षानुपलम्भाभ्याम् 'तत्सत्त्वे तत्सत्त्वं तदभावे
तदभाव' इत्यन्वयव्यतिरेकाभ्याम् अवधार्यते न चादृश्ययोरेतौ सम्भवत इति सौगतमतमाह यस्त्विथ-
पञ्चमस्तबके ] ईश्वरबाधकखण्डनम् । ५०१
तदसत् । प्रत्यक्षाऽनुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये, न तु
दृश्यतैव तत्रोपेया । किन्नाम दृश्याश्रितं सामान्यद्वयम् । तदालीढस्य हि तदुत्प-
त्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति ।
यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव, अस्माकञ्चातीन्द्रियसमवा-
यादिसिद्धौ । न चेदेवमुदाहृतयोरेव दहनपचनयोरालोकरूपवतोस्तदुत्पत्तिनिश्चये
कथमनालोकनिरस्तरूपयोः सिद्धिर्यदुद्दर्शितस्तिमितसाधारणी सिद्धिः स्यादिति ।
तद्ब्वदेवैवं यदि शरीरादिकं विना कार्यमिव भौमं स्पर्शवद्वेगवत्तञ्च विनाऽ-
प्रकाशः ।
कृतिविशेषकार्यविशेषयोरन्वयव्यतिरेकग्रहो बाधकं विना कृतिमात्रकार्यमात्रयोर्व्याप्तिग्रहो-
पायः, न तु पक्षधर्मतालब्धविशेषयोरन्वयादिग्रहः, यथा वह्निधूमविशेषयोरन्वयादिना तत्सामा-
न्ययोरपि व्याप्तिग्रहः, अन्यथाऽनुमानमात्रोच्छेदादित्याह—प्रत्यक्षाऽनुपलम्भाविति । अन्यथा
पाकं प्रत्यालोकात्मकस्यैव वन्हेः कम्पं प्रति रूपवत एव दण्डादेः प्रत्यक्षानुपलम्भाभ्यां कारण-
त्वनिश्चयादनालोकात्मकजाठर्यदहनस्य निरस्तरूपस्य पवनस्य च कथं सिद्धिः स्यादित्याह न
चेदेवमिति । उदाहृतयोः पूर्वोक्तयोरित्यर्थः । दहनपचनयोरालोकनिरस्तरूपयोः कुतः सिद्धि-
रालोकरूपवतोरेव तदुत्पत्तिनिश्चये सतीति योजना । आलोकवत एव वन्हेर्धूमोत्पत्तिनिश्चये रूपवत
एव हस्तादेर्लङ्घादौ कम्पनिश्चये सतीत्यर्थः । अदृश्यवह्नेर्धूमानुत्पत्तेः पवनमात्राच्च कम्पानुत्पत्तेस्तत्र
प्रकाशिका ।
त्वम् । स्तिमितत्वं = वेगशून्यत्वम् । कृतिविशेषेति । अतिप्रसक्तत्वेनाज्ञातस्यान्यन्वयव्यतिरेक-
विषयवृत्तितया ज्ञायमानस्य व्यवच्छेदकत्वग्रह इति भावः । आलोकात्मकस्येति । आलोकवत
इत्यर्थः । तथा च पाकेन जाठर्यवन्हिसिद्धिः कम्पेन च पवनो नानुमीयेतेत्यर्थः । पूर्वोक्तयोरिति ।
यद्यपि पवनस्तिमित एव पूर्वमुक्तम् , स च न कम्पानुमेयः, तथापि च कम्पमारुतवच्चेत्यनेन
कम्पजनकतयारोपि पूर्वोक्तत्वमिति भावः । दहनस्तु जाठर्य एव बोध्यो न तु धूमामिवदित्यनेनोदा-
हृतः, अत एवोदाहृतयोरित्यस्य पूर्वोक्तयोरिति व्याख्या कृता, अन्यथा दृष्टान्तकृतयोरित्यर्थे धूमजनका-
मिलाभे प्रकृतासङ्गतेः । पाकोत्पत्तिनिश्चय इति प्रामाणिकः पाठः । क्वचिद् धूमोत्पत्तिनिश्चय
इति पाठः, तत्र धूमपदं पाकपरम् । एवमूष्ममात्रादित्यत्राप्यूष्मपदं वाष्पमात्रपरम् । क्वचित् पाठ एव
तथा ।
मकरन्दः ।
वत इत्यर्थः । तथा च पाकेन जाठर्य्यवह्निः कम्पेन पवनो नानुमीयेतेत्यर्थः । पूर्वोक्तयोरिति ।
यद्यपि पवनः स्तिमित एव पूर्वोक्तः स च न कम्पानुमेयस्तथापि कम्पमारुतवच्चेत्यनेन कम्पज-
नकवायोरपि पूर्वोक्तत्वमिति भावः । दहनस्तु धूमाग्निवदित्यनेनोक्तो न बोध्यः, किन्तु जाठर्य्य एव।
उदाहृतस्थल एवेति जाठर्य्यलाभात् पूर्वोक्तयोरित्यर्थ इति व्याख्यातमिति ध्येयम् । धूमोत्पत्तिनिश्चय
इति पाठे धूमपदेनैव पाक उपलक्षितः । तस्यैव जाठर्य्यवह्रिसाधकत्वादुपक्रान्तत्वाच्चेति । तेनापि
जाठर्य्यवह्रिसिद्धिर्न स्यादित्यर्थः ।
ऊष्ममात्राच्चेति यदि पाठस्तदा ऊष्मपदं वायुपरमेवेति बोध्यम् । दोषान्तरमाह प्रकृतादिति ।
टिप्पणी ।
ति। कार्यतावच्छेदककोटौ कारणतावच्छेदककोटौ च दृश्यत्वमप्रवेश्यैव तेन तेन सामान्यरूपेण कार्य-
कारणभाव इत्याह नतु दृश्यतैवेत्यादि । तदालीढस्य-उक्तसामान्यधर्मावच्छिन्नस्य ॥ ३ ॥
ग्निमात्रात् पवनमात्राद्वा धूमकम्पौ स्याताम्; न त्वेवम् । नचैवं चेतनव्यभिचा-
रोऽपि शक्याऽभिधान इत्यलं बालप्रलापानां समाधानैः।
तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्त्तार-
मतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति । एतच्च
सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते । एवञ्च सिद्धे प्रति-
बन्धे न प्रतिवन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिवन्धसिद्धाविष्टापादनात्। तद-
सिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति ।
ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वर-
पक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगर-
दाहः । तन्न । स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् । ॐमिति ब्रुवतः सौग-
तस्य दत्तमुत्तरं प्राक् ।
आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥
प्रकाशः ।
दृश्यत्वमेव तन्त्रमिति न धूमाददृश्यवहिसिद्धिर्न वा कम्पात् पवनमात्रस्यानुद्भूतस्पर्शस्य सिद्धिरि-
त्याह न त्विति ।
कारणत्वसिद्धावपि प्रकारान्तरेण कार्यलोपप्रसङ्गं वक्तुमाह तदुत्पत्तेरिति । ननूपा-
धिविधूननमेव कथमित्याह एतच्चेति । प्रतिवन्ध्यादेरिति । शशे पशुत्वाद् दृश्यशृङ्गवा-
धेऽप्यऽदृश्यशृङ्गसिद्धिरित्यादेरित्यर्थः । प्रतिवन्धसिद्धाविति । वस्तुतो विपक्षाबाधकाभावाद्या-
प्त्यभाव इत्यर्थः । प्रकृतादर्थादर्थान्तरं शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्वेनायोग्यं शृङ्गं विरोधा-
च्छङ्कितुमप्यशक्यं शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षवाधश्चेति भावः । तत एवें
प्रतिवन्धासिद्धेरेवेत्यर्थः । अप्रसङ्ग इति शेषः शशशृङ्गादेरित्यर्थः । दत्तमिति । कार्यस्याहेतुकत्वे
कादाचित्कत्वानुपपत्तिरित्यादिनेत्यर्थः ।
नन्वागमादेवेश्वरसिद्धौ तत्रे न्यायप्रदर्शनं व्यर्थमित्यत आह आर्षमिति । तर्कानुसन्धानं
विनाऽऽर्षधर्मोपदेशे तात्पर्यमेव निश्चेतुमशक्यमित्यर्थः । यद्वा आगमाविरोधं न्यायमाह
प्रकाशिका ।
शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मत्वस्यापि योग्योपाधिव्यङ्ग्यत्व-
नियमः, यदि तत् संसारिमात्राविश्रान्तं तदेदमपि योग्यशृङ्गनियतमिति नायोग्यप्रत्यक्षबाधः, तथापि
विपक्षबाधकाभाव एव दूषणम्, शृङ्गस्य व्यतिरेकानिश्चये पशुत्वस्य केवलान्वयित्वस्वीकारे
मीमांसकस्यापसिद्धान्तश्चेति भावः। शेष इति। तदसिद्धौ तत एवाप्रसङ्ग इति मूलपाठपते पूरण-
मिदम्। क्वचित्तु तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति पाठः, तत्र च न पूरणापेक्षा। न त्वेतावतापि
तर्कप्रदर्शनमुचितम्, न तु न्यायप्रदर्शनमित्यत आह यद्वेति । अनेन समानविषयताप्रतिपाद-
मकरन्दः ।
शृङ्गत्वस्येति । यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्ववदात्मनोऽपि योग्योपाधिमत्त्वनियमः।
यदि च तत्संसारिमात्राविश्रान्तं तदा तदपि योग्यशृङ्गविश्रान्तमिति अयोग्यस्य न बाधः प्रत्यक्षे-
णापि, तथापि विपक्षबाधकाभाव एव मूलम्; अन्यथा पशुत्वस्य केवलान्वयित्वापत्तेः, तस्य च
त्वयाऽनभ्युपगमादिति भावः । नन्वेवमपि तर्कोपदर्शनमात्रमहं न तु न्यायोपदर्शनमित्यत आह
यद्वेति। अनेनोभयोः समानविषयत्वप्रतिपादनात् विरोधमाह इत्यर्थः ॥३॥ मूलोक्तस्य तस्य व्योमादौ
तमिममर्थमागमः संवदति, विसंवदति तु परेषां विचारम्—
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः ॥
अत्र प्रथमेन सर्वज्ञत्वं, चक्षुषा दृष्टेरुपलक्षणात् । द्वितीयेन सर्ववक्तृत्वं, मुखेन
वागुपलक्षणात् । तृतीयेन सर्वसहकारित्वं, बाहुना सहकारित्वोपलक्षणात् । चतु-
र्थेन व्यापकत्वं, पदा व्याप्तेरुपलक्षणात् । पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वं,
तौ हि लोकयात्रावहनाद् बाहू । षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वं, ते हि गतिशील-
त्वात् पतत्त्रव्यपदेशाः-पतन्तीति । सन्धमति, सञ्जनयन्निति च व्यवहितोप-
सर्गसम्बन्धः । तेन संयोजयति समुत्पादयन्नित्यर्थः । द्यावा इत्यूर्ध्वसप्तलोकोपल-
क्षणम्, भूमीत्यधस्तात्, एक इत्यनादितेति । स्मृतिरपि—अहं सर्वस्य प्रभवो मत्तः
सर्वं प्रवर्त्तते-इत्यादि । एतेन ब्रह्मादिप्रतिपादका आगमा वोद्धव्याः ॥ ३ ॥
आयोजनात् खल्वपि—
स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् ।
हेत्वभावे फलाभावो विशेषस्तु विशेषवान् ॥ ४ ॥
परमाण्वादयो हि चेतनायोजिताः प्रवर्त्तन्ते अचेतनत्वाद् वास्यादिवत् ।
अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः । अचेतनक्रियायाश्चेतनाधिष्ठानकार्य-
प्रकाशः ।
आर्षमिति । अस्मन्न्याये नागमविरोधोऽपि तु तत्संवादः, परोक्तन्याये तु नैवमित्याह तमिम-
मिति । व्यवहितेति । व्यवहिताश्चेत्यनेन उपसर्गसंज्ञाविधानादिति भावः । एतेन ब्रह्मादीति ।
ब्रह्मादिशरीरमधिष्ठाय ईश्वर एव जगत् सृजतीत्यर्थः ॥ ३ ॥
खल्वपीति निपातसमुदायः, उदाह्रियते-इत्यर्थे वर्त्तते, न समुच्चयार्थः । स, साध्यो विश्व-
विदव्यय इत्यनेनान्वीयते इत्येके । साद्ध्यते इत्यनुवर्त्तते इत्यन्ये । एवमग्रेऽपि ।
आ युज्यते संयुज्यतेऽन्योन्यं द्रव्यमनेनेत्यायोजनं द्व्यणुकारम्भकसंयोजनकं सर्गाद्यकालीन-
परमाणुकर्मेह विवक्षितम् । तद् यदि स्वप्रयत्नादेव तेषां स्यात्, तदा परमाणूनामचैतन्याद्युपपत्ति-
रित्याह स्वातन्त्र्ये इति । यदि च प्रयत्ननिरपेक्षाददृष्टादेव तत् स्यात्, तदा द्व्यणुकादीनामपि
तत एवोत्पादः स्यादिति हेत्वन्तरोच्छेद इत्याह नादृष्टमिति । चेतनव्यापारसहितात्तस्मादिति
भावः । तथाच सर्गाद्यकालीनद्व्यणुकोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वाच्चेष्टावदिति
मानार्थः । विपक्षे किं बाधकमित्याह हेत्वभाव इति । हेतोश्चेतनव्यापारस्यान्यत्रोपलब्धस्या-
भावे क्रियारूपफलाभाव इत्यर्थः । ननु चेष्टारूपः क्रियाविशेषस्तथा, न तु क्रियामात्रमित्यत
आह विशेषस्त्विति । चेष्टा हि भोक्तृगतप्रयत्नस्य प्रयोज्या, न तु प्रयत्नमात्रस्येत्यर्थः ।
तर्कोपकार्यं मानमाह परमाण्वादयो हीति । आयोजिता उत्पादितकर्माणः प्रवर्त्तन्ते
कार्यमारभन्ते इत्यर्थः । विशेषणीभूतकर्मपक्षत्वे पूर्वदर्शितानुमाने तात्पर्यम् । विशेषस्त्वित्यि-
प्रकाशिका ।
नादुभयोरगमानुरोधमाहेत्यर्थः ॥ ३ ॥ मूलोक्तानुमानस्य व्याप्यमादौ व्यभिचारादाह सर्गाद्यका-
मकरन्दः ।
व्यभिचारात्रापरितुष्यन् स्वयं तर्कोपकार्यमानमाह सर्गाद्यकालीनेति । अत एवाह विशेष-
टिप्पणि ।
स्वातन्त्र्ये जडताहानिरित्यादि । आयोजनं (-कर्मविशेषः.) प्रयत्नजन्यं कर्मत्वात् मदीय-
५०४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
त्वावधारणात्। क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि
चेतनाधिष्ठानमपेक्षते इति चेत्। अथ केयं चेष्टा नाम?। यदि प्रयत्नवदात्मसंयोगाऽ-
समवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम्। तन्न। तस्यैव
तत्रानुपाधित्वात्। अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम्। तन्न। विषभक्षणो-
द्वन्धनाद्युद्वापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत्। कर्त्तारं प्रत्यन्यं वा?।
उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया
अपि चेतनव्यापारापेक्षणाच्च। शरीरसमवायिक्रियात्वं तदिति चेन्न। मृतशरीर-
क्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः। जीवत इति चेन्न। नेत्रस्पन्दादेश्चेतनाधिष्ठा-
·प्रकाशः।
निराकार्यं चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति। प्रयत्नवदात्मसंयोगाऽसमवायि-
कारणकत्वे हि परमाणुक्रियायां चेतनायोजितत्वमिति साध्यम्, तच्च नोपाधिः, साधनव्यापक-
त्वादित्यर्थः। विषेति। विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः। इष्टेति। विष-
भक्षणानुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्य-
भावादित्यर्थः। उभयथाऽपीति। परमाण्वादिक्रियायास्तत्कर्तुरीश्वरस्याऽस्मदादेश्चेच्छाविषयार्थ-
हेतुत्वादित्यर्थः। तथाच साधनव्यापकत्वादद्यनुपाधित्वमिति भावः।
साध्याव्यापकत्वमप्याह भ्रान्तेति। भ्रमप्रवृत्तस्पन्दस्येष्टरजता प्रापकत्वादनिष्टशुक्त्यपरी-
हारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः। न च रजतत्वेनेच्छाविषयस्य शुक्तेः प्रापकत्वमस्त्येवे-
ति वाच्यम्। येन रूपेणेष्टं तद्रूपेण प्राप्तेर्विवक्षितत्वादिति भावः। मृतेति। वाय्वाऽऽदिना।
प्रकाशिका।
लीनेति। अत एवाह विशेषणीभूतेति। अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः।
साधनव्यापकत्वादीति। प्रयत्न जन्यत्वञ्चेत्, तत् कर्ममात्रे -तदा तदाश्रयसंयोगासमवायि-
कारणकत्वमपि तत्र यः स्पन्द इत्यादिप्रव्याप्तेरिति भावः। साध्याव्याप्तेरिति। तन्मत इति शेषः।
इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्त्वात्। त्वन्मत इति। स्पर्शव-
दद्रव्यान्र्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम्। यदि तु शरीरसमवायित्वस्य विशे-
षणमिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम्। ननु साक्षात्परम्परया वेति। न समुच्चयः एक
त्र्रोभयाधिष्ठानाभावात्। प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति।
मकरन्दः।
णोभूतेति। अत एवं चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः। साधनव्यापकत्वादिति। न च
कर्म्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम्। यः स्पन्द
इत्यादिप्रागुक्तन्यासेस्तथात्वादिति भावः। मृतशरीरे क्रियैव कथमित्यत आह वाय्वादिनेति।
तन्नोदनादिनेति भावः। इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम्। मन्मते तत एव साध्यापत्तेरि-
ष्टत्वात् त्वन्मत इति। यद्यपि सत्यन्तं शरीरगर्भमुपाधिविशेषणमिति ज्वलनक्रियायां तदभावादन्नो-
क्तिसम्भवाभावस्तथापि तद्गर्भतायामिदं, तद्गर्भत्वेऽन्योन्याश्रय इति विकल्प्य दूषणे तात्पर्य्यम्।
ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात्, प्रत्येकगर्भसाध्ये च
व्यभिचार इत्यत आह प्रयत्नप्रतिवद्धपतनमिति। एतेन मूले व्यर्थविशेषणमपि सूचितम्।
टिप्पणी।
व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिध्यति, अत्रापि कार्यत्वादेव निरूपाधित्वम्।
पञ्चमस्तबके ] ईश्वरसाधनम् । ५०५
नाभ्युपगमप्रसङ्गात् । स्पर्शवद्द्रव्यान्तराप्रयोगे सतीतिचेन्न । ज्वलनपवनादौ तथा-
भावाभ्युपगमापत्तेः । शरीरस्य स्पर्शवद्द्रव्यान्तराप्रयुक्तस्येति चेन्न । चेष्टयैव
शरीरस्य लक्ष्यमाणत्वात् । सामान्यविशेषश्चेष्टातृत्वं, यत उन्नीयते प्रयत्नपूर्विकेयं
क्रियेति चेन्न । क्रियामात्रेणैव तदुन्नयनात् । भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्,
तर्हि तद्विश्रान्तत्वमेव तस्य । न चैतावत्तैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतना-
धिष्ठानेन व्याप्तिरपसार्यते । विशेषस्य विशेषं प्रति प्रयोजकतया सामान्यव्याप्तिं
प्रत्यविरोधकत्वात् । अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् ॥
एतेनाऽशरीरत्त्वादिना सत्प्रतिपक्षत्वमपास्तम् ।
अत्राप्यागमसंवादः—
यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥ इत्यादि ॥
अत्र जागरस्वप्नौ सहकारिलाभालाभौ । ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च
हेतू दर्शितौ परमाण्वादिसाधारणौ । स्वर्गश्वभ्रे चेष्टानिष्ठोपलक्षणे । एतदेव सर्वा-
धिष्ठानमुत्तरत्र विभाव्यते-मयेत्यादिना । न केवलं प्रेरणायामहमधिष्ठाता, अपितु
प्रतिरोधेऽपि । यो हि यत्र प्रभवति, स तस्य प्रेरणावद्धारणेऽपि समर्थः । यथाऽ-
र्वाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना ॥ ४ ॥
प्रकाशः ।
मृतशरीरक्रियायां साध्याव्याप्तिरित्यर्थः । एतच्च समव्याप्तोपाध्यभिप्रायेण । मृतेत्युपलक्षणं,
जीवशरीरस्याऽपि वायुवशात् क्रियायां तथात्वमिति भावः । विषमव्याप्तोपाधिपक्षे तु शरीरावयव-
क्रियायां साध्याव्यापकत्वं मन्तव्यम् । नचेति । इदमपि दूषणं समव्याप्तोपाधिपक्षे । विषमव्याप्तौ
तु करादिक्रियायां साध्याव्यापकम् । स्पर्शवदिति । नेत्रादिस्पन्दनन्तु स्पर्शवद्वायुनोदनजन्यमिति
नोक्तदोष इत्यर्थः । ज्वलनेति । तन्मते ज्वलनादिक्रिया न प्रयत्नजन्या, किन्त्वदृष्टवदात्मसंयो-
गजन्येत्यतस्तत्रापि समव्याप्तोपाधिपक्षे साध्यापत्तिरित्यर्थः । चेष्टयैवेति । चेष्टाश्रयः शरीरमिति
लक्षणपक्षेऽन्योन्याऽऽश्रय इत्यर्थः । लक्षणान्तरे तु करादिक्रियायां साध्याव्याप्तिरिति भावः ।
सामान्येति । अतो नोक्तदोष इति भावः । तत्र मानमाह यत इति । क्रियामात्रेणेति ।
क्रियामात्रस्यैव मया प्रयत्नजन्यत्वानुमापकत्वाङ्गीकारादिति न तेनैषा जातिः सिद्ध्यतीत्यर्थः ।
विशेषस्येति । क्रियाप्रयत्नयोः सामान्यतः कार्यकारणभावनिश्चये साध्याऽव्यापकत्वमावश्यकमिति
भावः । यद्वा प्रयत्नवदात्मसंयोगजसंयोग एव साध्याव्यापकत्वमिति भावः ।
ननु परमाणवो न चेतनाधिष्ठिताः प्रवर्त्तन्ते शरीरेतरत्वादिति सत्प्रतिपक्षता स्यादित्यत
आह—एतेनेति । शरीरेतरक्रियायाश्चेष्टात्वाभावाद्वोक्तृप्रयत्नजन्यत्वं निवर्त्तते, क्रियामात्रे तु प्रयत्न-
जन्यत्वं स्यादेवेत्यर्थः । 'यदा स देव' इत्यादिपरकीयविचारे आगमविरोधप्रदर्शनम् । अध्यक्षेण
प्रकाशिका ।
तत्साध्येऽन्तर्भावयतीति सामान्योपादानेनायमपि विशेषः संगृहीत इति द्योतयतीत्यर्थः ।
६४ न्या० कु०
५०६ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां
धृतेः खल्वपि। क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा
विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यऽपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत्
तत्संयुक्तद्रव्यवच्च। एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्या-
ताः। सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः-आत्मैवेदं सर्वमिति। यथैक
एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि।
अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत्। तद्भावेऽपि प्रयत्नस्यान्वयव्य-
तिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात्। कारणैकदेशस्य च कार-
णान्तरं प्रत्यनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात्। शरीरस्थिति-
रेवं नत्वन्यस्थिति रितिचेत्। न। प्राणेन्द्रिययोः स्थितेर्व्यापनात्, प्राङ्न्यायेना-
पास्तत्वाच्च। अत्राप्यागमः-'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ-
विधृते तिष्ठतः' इति। प्रशासनं-दण्डभूतः प्रयत्नः।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः॥ इति स्मृतिः। अत्रोत्तमत्वमसं-
सारित्वं सर्वज्ञत्वादि च। परत्वं सर्वोपास्यता। लोकत्रयमिति सर्वोपलक्षणम्।
आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः। भरणं धारणम्। अव्ययत्वमागन्तुक-
विशेषगुणशून्यत्वम्। ऐश्वर्यं संकल्पाप्रतिघातः इति। एतेन कूर्मादिविषया अप्या-
गमा व्याख्याताः।
प्रकाशः।
अधिष्ठात्रा प्रकृतिः परमाणुः। क्षित्यादीति। क्षित्यादिकं प्रयत्नप्रतिबद्धपतनं(१) गुरुत्वे
सत्यपातित्वादित्यर्थः। विहंगादिसंयुक्तद्रव्यान्तरेण व्यभिचारनिरासाय तत् साध्येऽन्तर्भावयति
साक्षात् परम्परया वेति। तत्र दृष्टान्तमाह तत्संयुक्तेति। एतेन धारकप्रयत्नधृतत्व-
व्युत्पादनेन। व्याख्याताः, मुख्यार्थतयेति शेषः। नन्विन्द्रादिदेवताभेदप्रतिपादकागमस्य
मुख्यार्थतायामभेदप्रतिपादकागमविरोध इत्यत आह सर्वावेशेति। आवेशो ज्ञानादिमत्संयोग-
इति वक्ष्यते। तद्भावेऽपीति। पतनप्रतिबन्धकसंयोगभेदः स्थितिः। अत एव वायुसंयोगाद-
प्रकाशिका।
तत्र दृष्टान्तमिति। तद्विशेषपुरस्कारेण सामान्यदृष्टान्तमित्यर्थः। शेष इति। तल्लोक-
धारकप्रयत्नाश्रयतया तेषां परस्परमन्त्राच्च भेदसिद्धावद्वैतनिरासे मुख्यार्था एवेन्द्रादिदेवताभेदप्रति-
पादकागमा इत्यर्थः। आवेश इति। ज्ञानादिमत्ता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारणः
यथाश्रुते व्यापकेऽव्याप्तेः। अत एवेति। अन्वयव्यतिरेकाभ्यां स्थितिं प्रति प्रयत्नस्य हेतुत्वादेवेत्यर्थः।
अदृष्टद्वाराऽस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानका-
मकरन्दः।
मुख्यार्थतयेति शेष इति। धारकप्रयत्नात्तदाश्रयाच्च भेदसिद्धावद्वैतनिरासे इन्द्रादिदेवतानां पर-
स्परभेदप्रतिपादकागमा मुख्यार्था एवेत्यर्थः। आवेश इति। ज्ञानादिमता ईश्वरेण संयोगः सम्बन्धः
साक्षात्परम्परासाधारण इत्यर्थः। वक्ष्यते इति। यो लोकत्रयमाविश्येत्यत्रावेशपदव्यख्यानावसरे
मूल एव। अत एवेति। प्रयत्नान्वयव्यतिरेकानुविधानेन स्थितिं प्रति तद्धेतुत्वादेवेत्यर्थः। नन्वदृष्ट-
द्वारा अस्मदादिनाश्रयत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति। स्वजनकप्रयत्नेन समानकालीनं
(१) प्रयत्नप्रतिरुद्धेति प्रकाशिकाभिमतः पाठः।
संहरणात् खल्वपि । ब्रह्माण्डादिद्व्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विना-
श्यत्वात् पाठ्यमानपटवत् । अत्राप्यागमः—
एष सर्वाणि भूतानि समभिव्याप्य मूर्त्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् ॥
सर्वभूतानि कौन्तेय ! प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ इत्यादि ।
एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः ।
पदात् खल्वपि—
कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः ।
विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् ॥ ५ ॥
प्रकाशः।
काशपत्रस्थितिवत् सा स्यादित्यपास्तम् । अनुपाधित्वादिति । साधनव्यापकत्वादित्यर्थः ।
प्राङ्न्यायेन, विशेषश्च विशेषवानिति न्यायेनेत्यर्थः । किमिदं शरीरत्वं यत्साक्षात् प्रयत्नाधिष्ठितत्वे
परमाणूनां प्रसज्यते इत्यादिना वेत्यर्थः । धृत्यादेरित्यादिपदसंग्राह्यमाह संहरणादिति ।
ब्रह्माण्डादीति । ब्रह्माण्डादिकं स्वजनकप्रयत्नसमानकालीनचरमकारणनाशप्रतियोगीति
साध्यार्थः । सर्वभूतानीति । परमाणुमात्रावशिष्टानीत्यर्थः ।
ननु नाशविशेष एव प्रयत्नपूर्वोकोऽन्यस्त्वन्यथाऽपि भविष्यतीत्याशङ्क्य वृत्तसमाधानं कुर्वाण
एव ग्रन्थलाघवाय वर्त्तिष्यमाणेऽप्यऽतिदिशति—
कार्यत्वादिति । यथा धृतिविनाशयोः कार्यकारणभावो विपक्षे बाधको निरुपाधित्वग्राहकः ।
तथा पदस्याऽपि स एव तद्ग्राहक इत्यर्थः । न चादिमत्त्वमुपाधिः । प्रलये विच्छेदादनादित्वाभावेन
साधनव्यापकत्वादित्याह विच्छेदेनेति । प्रत्ययादिहेतुष्वपि पूर्ववत् कार्यकारणभाव एव
विपक्षबाधक इत्यर्थः ।
प्रकाशिका ।
लीनं चरमकारणं यस्यैवंभूतो योः नाशः तत्प्रतियोगीत्यर्थः। स्वपदं ध्वंसपरं, साध्यप्रसिद्धिरूहास्मदा-
दिप्रयत्ने, तन्नाशचरमकारणस्य तद्गोचरसाक्षात्कारस्य विषयीभूतप्रयत्नसमानकालत्वात् तस्य च
प्रयत्नस्य प्रतियोगिता नाशकारणत्वात् संसारिप्रयत्नसमानकालीनं कालादिकमादायार्थान्तरं तत्प्र-
यत्नस्यापि अदृष्टद्वारा नाशकत्वादिति । चरमेति । कालादिसमानकालीनं चरमकारणमादायार्थान्तर-
मिति प्रयत्नेति । उदासीनप्रयत्नसिद्धावप्रयोजकत्वमिति जनकेति । पाठादिश्च पक्षसम एवेति
मकरन्दः।
चरमकारणं यस्य नाशस्य तत्प्रतियोगीत्यर्थः । अदृष्टद्वारकप्रयत्नस्यापि कालादिकारणसमानकाली-
नतयाऽर्थान्तरतादवस्थ्यमत उक्तं चरमेति । कालीनादिसमानकालीनत्वमादायार्थान्तरत्वमत आ-
ह प्रयत्नेति । उदासीनप्रयत्नसिद्धावर्थान्तरमत उक्तं स्वजनकेति । केचित्तु उदासीनसिद्धावप्र-
योजकत्वमिति विपक्षबाधकसूचनाय तदित्याहुः । स्वपदं चरमकारणपरं ध्वंसपरं वा । न चैवं
टिप्पणी
ननु व्यवहारस्यानादित्वात्पूर्वपूर्वकुलालादिप्रयुक्त एव सर्वो व्यवहारः सेत्स्यतीति किमीश्वरेणेत्यत
आह विच्छेदेनेति । प्रलये विच्छेदेन व्यवहारस्य नानादित्वम् । एवं वक्ष्यमाणवेदजन्यधीप्रामा-
ण्य्यरूपप्रत्ययादिहेतोः आदिपदग्राह्यवक्ष्यमाणश्रुतिसंख्याविशेषयोरपि पूर्ववत् कार्यत्वादेव निरुपा-
धित्वम्, अनुकूलतर्कवत्त्वं बोध्यम् ।
५०८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकान्याख्यायां
पदशब्देनात्र पद्यते गम्यते व्यवहारोऽङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते।
अतोऽपीश्वरसिद्धिः। तथाहि-यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दाऽऽदीनां,
वाग्व्यवहारश्च व्यक्तवाचां, लिपिशक्तक्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरु-
षविश्रान्तो व्यवहारत्वात्, निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्र-
मैत्रादिपदवत्, पत्राक्षरवत्, पाणिनोयवर्णानिर्देशक्रमवच्चेति।
आदिमान् व्यवहार एवम्, अनन्तवनादिरन्यथाऽपि भविष्यतीति चेन्न। तद-
सिद्धेः। आदिमत्तामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्र-
सङ्गः। तथापि तस्याविरोधात्। न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्य-
नादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति। अस्मदवर्-
गदर्शी कश्चिदेवात्र मूलमिति चेन्न। तेनाऽशक्यत्वात्, कल्पादावादर्शाभासस्या-
प्यसिद्धेः। साधितौ च सर्गप्रलयौ।
ननु व्यवहारयितुर्वृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं
स्यात्। न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्ये तस्यापितद्वत्त्वात्। गृह्णाति हि
ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति। अत्राप्यागमः-
पिताऽहमस्य जगतो माता धाता पितामहः।
तथा,
यदि ह्यहं न वर्त्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्॥ इति॥
एतेन 'नमः कुलालेभ्यः कर्मारेभ्य' इत्यादि यजूंषि चोद्धव्यानि।
प्रकाशः।
व्यक्तवाचो मनुष्याः। स्वतन्त्रेति। तज्जातीयव्यवहारानुपजीवित्वं पुरुषस्य स्वातन्त्र्यम्।
साध्येषु क्रमेण दृष्टान्ताः-निपुणेत्यादि। आदिमानिति। सादिव्यवहारत्वमुपाधिरित्यर्थः।
अन्यथाऽपीति। स्वतन्त्रपुरुषं विनाऽपीत्यर्थः। तथापीति। पूर्वपूर्वसर्गेऽपि तज्जातीयव्यवहार-
स्येश्वरपूर्वकत्वादित्यनादित्वं न विरुद्ध्यते इत्यर्थः। इदानीन्तनापूर्वव्यवहारस्य सादित्वेऽपि न
भवस्यानादित्वं हीयते इत्याह न हीति। तदनादित्वे इत्यत्रापि न हीत्यनुषज्यते। आदर्शेति।
यद्व्यवहारं दृष्ट्वा व्यवह्रियते, सोऽपि नास्तीत्यर्थः। शरीरान्वयेति। ईश्वरस्यादृष्टाभावेऽपि
तच्छरीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टादेवेश्वरस्य शरीरोत्पत्तिरिति भावः। पिताऽहम-
स्येति। अस्य जगतोऽहमेव पित्रादिरित्यर्थः। यदि ह्याहमिति। यदि ह्यहं न वर्त्तेयं तदा
लोक्यन्ते इति लोकाः प्रामाणिकव्यवहारा उत्सीदेयुरिति व्यवहितेनान्वयः। अत्र हेतुः-मम
वर्त्मेति। एतेन-घटादिव्यवहारस्य स्वतन्त्रपुरुषपूर्वकत्वव्युत्पादनेन। कुलालादिदेहवत ईश्नरस्य
तथाभावादित्यर्थः।
प्रकाशिका।
न तेन व्यभिचारः। पित्रादिरिति। व्यवहारपितृत्वादिति भावः। मूले कारणपदं व्यर्थं अदृष्टादिजत्व-
मकरन्दः।
साध्याप्रसिद्धिः, अस्मदादिप्रयत्नस्यैव दृष्टान्तत्वात्। तन्नाशचरमकारणस्य स्वविषयकसाक्षात्कारस्य
स्वजनकप्रयत्नेन विषयीभूतेन समानकालत्वात्। यत्ध्वंसकारणयत्नसमानकालीनस्वसाक्षात्कारहेतुक-
नाशप्रतियोगित्वाच्च। घटादिश्च पक्षसम इति न तेषु व्यभिचारः।
पित्रादिरिति। व्यवहारयितृत्वादिति भावः। ननु मूले कारणपदवैयर्थ्यं, अदृष्टादिजन्यत्वमा-
पञ्चमस्तबके ] ईश्वरसाधनम् । ५०९
प्रत्ययोऽपि । प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते । तथाच
प्रयोगः-आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् । न
हि प्रामाण्यप्रत्ययं विना कचित् समाश्वासः । न चाऽसिद्धस्य प्रामाण्यस्य
प्रतीतिः । न च स्वतः प्रामाण्यमित्यावेदितम् । न च नेदं प्रमाणं, महाजनपरिग्रहा-
दित्युक्तम् । न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति । न चासर्वज्ञस्य गुण-
वत्तेति निश्शङ्कमेतत् ।
श्रुतेः खल्वपि । तथाहि-सर्वज्ञप्रणीता वेदाः, वेदत्वात् । यत् पुनर्न सर्वज्ञप्र-
णीतं, नाऽसौ वेदो यथेतरवाक्यम् ।
-प्रकाशः।
प्रत्ययपदं समाश्वासशक्तं तत्सम्बन्धि तद्विषयं प्रामाण्यं लक्षयतीत्याह—
प्रत्ययशब्देनेति। तथा चेति। आगमस्य सम्प्रदायः प्रवाहः प्रमात्वप्रयोजकवाक्यार्थ-
प्रमाणरूपगुणजन्यो यथार्थचिख्यापयिषादिवक्तृगुणजन्यो वा प्रमाणशब्दत्वात् लौकिकप्रमा-
णशब्दवदित्यर्थः । लक्षणाबीजं सम्बन्धमाह न हीति । न च प्रमाणत्वमसिद्धं, प्रामाण्याज्ञाने
पारलौकिके कर्मणि वेदोद्बोधिते प्रेक्षावतां प्रवृत्त्यनुपपत्तेरित्याह । न चेति । तथापि तेन वक्तृगुण-
पूर्वकेणैव भाव्यमित्यसिद्धमित्यत आह न च स्वत इति । तथापि वक्तुः सर्वज्ञत्वं कुतः सिद्धय-
तीत्याह न चेति । तथाहीति । यद्यपि परैः सर्वज्ञानङ्गीकारात्तत्प्रणीतत्वं परं प्रत्यसिद्धं,
तथाप्यात्मत्वमसंसारिवृत्ति जातित्वात् घटत्ववत् । स चासंसारी किञ्चिद्वाक्यप्रयोक्ता पुरुषत्वादिति
साध्यप्रसिद्धौ, वेदा असंसारिपुरुषप्रणीता इति साध्यम् । न चास्मदाद्युच्चरिते वेदे व्यभिचारः।
प्रकाशिका ।
मादायर्थान्तरं मनसि अभिचारश्चेत्यन्यथा माचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक-
सूचनाय न साध्यप्रविष्टमत एवाग्रिमसाध्ये तन्नोपात्तम् । अध्यापकादिप्रमामादायर्थान्तरमिति साध्या-
न्तरमाह यथार्थेति। न चात्रापि तद्दोषतादवस्थ्यं वक्तृपदस्य स्वतन्त्रवक्तृपरत्वात् । तथाप्यात्मत्व-
मिति । न च सुखसमवायिकारणतावच्छेदकजातौ व्यभिचारः । नित्यस्येत्यादिन्यायेनेरन्भ्युपगमेन
तस्यात्रैव पक्षत्वात् । न चाप्रयोजकत्वमन्यथा सुखित्वमसंसारिवृत्तिसुखित्वव्यापकत्वादित्यपि स्यादिति
वाच्यम् । ईश्वरप्रतिपादकागमस्यात्र विपक्षबाधकत्वात् तत्र च तदभावादिति भावः । न चास्मदा-
दीति । तत्प्रणीतत्वं तत्कण्ठतलत्वाद्यभिघातजन्यत्वमित्याशयेन व्यभिचारोद्भावनमिदम् , अन्यथास्म-
मकरन्दः ।
दायार्थान्तरं, मनसि व्यभिचारश्चेत्यन्यथा व्याचष्टे प्रमात्वप्रयोजकेति । एतच्च विपक्षबाधक-
सूचनाय, न तु साध्ये प्रविष्टम् , अत एवाग्रिमसाध्ये नोपात्तम् । अध्यापकत्वमादायर्थान्तरमित्य-
रुचेराह यथार्थेति । न चात्रापि दोषतादवस्थ्यम्, अस्मदादेरनुवक्तृतया वक्तृत्वाभावात् ,
स्वतन्त्रवक्तृपरत्वाद्वा ।
न चाप्रयोजकत्वम्, अन्यथा दुःखित्वमसंसारिवृत्ति धर्मत्वादित्यादिकमपि स्यादिति
वाच्यम् । ईश्वरप्रतिपादकागमादेर्विपक्षबाधकस्य सत्त्वात्तत्र च तदभावात् । न चास्मदादीति ।
ननु तस्य पक्षत्वात् पक्षसमत्वाद्वा कथं तत्र व्यभिचारः, अन्यथा वेदज्ञानाजन्यत्यादिसिद्धान्ते
का गतिः, यदि चाजन्यज्ञानमादाय तत्र साध्यसत्त्वमिति व्यतिरेकित्वमविकलं, तदाश्रयपुरुष-
मादाय प्रकृतेऽपि तथेति तुल्यमिति चेत् । न । असंसारिपुरुषप्रणीतत्वं तत्कण्ठतालवाद्युच्चरितत्वम-
भिप्रेत्य व्यभिचारदर्शनात् । एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनम् , अन्यथा
५१० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् ,
अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति
चेन्न । अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् । न
ह्यस्मदादीनां प्रत्यक्षादि मूलम् । भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् । नापि
परम्परैव मूलं, महाप्रलये विच्छेदादित्युक्तम् ।
प्रकाशः ।
वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति भावः । विरुद्धत्वादिति । प्रतारकवाक्यस्याप्यदृष्ट-
विषयत्वादित्यर्थः । मन्वादीति । मन्वादिवाक्यस्याप्यदृष्टविषयप्रमाणत्वादित्यर्थः । अनुपलभ्य-
मानेति । मन्वादिवाक्ये च वेदस्यैव मूलान्तरस्योपलभ्यमानत्वादित्यर्थः ॥
ननु वाक्यत्वमसिद्धम् , समुदायस्याप्रतिपादकत्वात् । न च शाखासमुदायो वेदः ।
प्रकाशिका ।
दुच्चरितवेदस्य पक्षसमत्वेन तदनुपपत्तेः एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनं वेद-
ज्ञानाजन्येति । वेदज्ञानेतिविशेषणमप्रसिद्धिवारणाय अन्यथा अस्मदाद्युच्चरितवेदस्यापि
पक्षसमत्वान्न तेन व्यभिचार इति भावः । न चैवं वेदत्वघटकभूतशब्दत्वस्यैव हेतुत्वमिति
व्यर्थविशेषणतेति वाच्यम् । व्यतिरेकव्याप्तावखण्डाभावतया तदभावात् । न चैवं व्यतिरेकव्याप्तौ
नीलधूमादित्यपि हेतुः स्यादिति वाच्यम् । इष्टत्वात् अन्वयव्याप्तावेव तस्य हेत्वाभासत्वात् ।
विशिष्टैकार्थप्रतिपादकत्वं वाक्यत्वं पदधर्मः समुदाये नास्तीत्याशङ्कते ननु वाक्यत्वमिति ।
ननु समुदितानि पदान्येव समुदायः तत्र च प्रतिपादकत्वमस्त्येव, अन्यथा वाक्यत्वमप्रसिद्धमेव
स्यात्, प्रत्येकपदस्य वाक्यत्वाभावात्, समुदायस्य चाप्रतिपादकत्वात् । किञ्चैवं प्रमाणत्वस्य प्रतिपाद-
कत्वविशेषतया तद्गर्भसिद्धान्तलक्षणमपि वेदस्यायुक्तं स्यादित्यरुचेः पक्षतावच्छेदकविकल्पमाह
मकरन्दः ।
तस्यापि सर्वज्ञप्रणीतत्वेन तदभावात् । अन्यथा तु चिन्त्यम् । वेदज्ञानाजन्येति । अप्रसिद्धि-
वारणाय वेदज्ञानेति विशेषणम् । अस्मदाद्युच्चरितवेदस्यापि पक्षत्वाज्जन्यज्ञानमादाय साध्यसत्त्वा-
त्तन्न न व्यभिचारः । न चैवं वेदत्वहेतुविवेचने व्यर्थविशेषणत्वम् । अखण्डाभावतया व्याप्तिग्रहे
तदभावात् । वस्तुतस्तथा सति व्यतिरेकिणि व्यर्थविशेषणत्वं नोद्भाव्येत । न चेष्टापत्तिः, कथक-
सम्प्रदायविरोधात् । नीलधूमस्यापि व्यतिरेकतया गमकत्वापत्तेः । यदि च व्यतिरेकसहचारेणा-
न्वयव्याप्तिरेव गृह्यते इति मतं, तदा प्रकृतेऽपि तुल्यमिति पूर्वास्वरसादेवान्वयतो वेति कल्पान्तर-
मिति । समुदायस्येति । पदवाक्यसमुदायविशेषो वेदः पक्षः, तत्र विशिष्टैकार्थप्रतिपादकत्वरूपस्य
वाक्यत्वस्य समुदाये विरहादसिद्धिरित्यर्थः । ननु समुदितानि पदान्येव समुदायः, अतिरिक्तस्या-
नभ्युपगमात् । तत्र च प्रतिपादकत्वसत्त्वाद्वाक्यत्वमप्रत्यूहमेव । अन्यथा वाक्यत्वमप्रसिद्धमेव
स्यात् । प्रत्येकपदे वाक्यत्वाभावात् । समुदायस्याप्रतिपादकत्वात् । यदि च नैवं, तदा प्रमाण-
त्वस्यापि प्रतिपादकगर्भतया तद्गर्भसिद्धान्तलक्षणमपि भज्येतेति चिन्त्यम् । शब्दतदुपजीवीति
शब्दप्रकाशे विपश्चितम् । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीयत्वस्याभेद-
टिप्पणी ।
महाप्रलय इति । अत्राखिलकार्यद्रव्यध्वंसाधारः कालो महाप्रलयो बोध्यः, अयमपि तत्तत्खण्ड-
प्रलयापेक्षया महाप्रलय उच्यते, निखिलभावकार्यध्वंसाधारः कालो मुख्यो महाप्रलयस्तु नात्राभिप्रेतः
तदनन्तरं सृष्टेरभावात् , स हि क्रमशः सर्वेषु जीवेषु मुक्तेषु भवति तदनन्तरं कस्यचिदप्यदृष्टादि-
रूपकारणाभावान्न भवति सृष्टिरित्यवगन्तव्यम् ।
पञ्चमस्तवके ] ईश्वरसाधनम् । ५२१
अन्वयतो वा। वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद्, अस्मदादिवाक्यवत् ।
अस्मर्यमाणकर्तृकत्वान्नैवमिति चेन्न। असिद्धेः ।
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःस्रुताः ।
प्रतिमन्वन्तरञ्चैषा श्रुतिरन्या विधीयते ॥
वेदान्तकृद्वेदविदेव चाहम्, इति स्मृतेः । तस्माद्, 'यज्ञात् सर्वहुत ऋचः
सामानि जज्ञिरे' इत्यादिश्रुतिपाठकस्मृतेश्च ।
प्रकाशः ।
तस्य वेदनिरूप्यत्वात् । नापि महाजनानां वेदाकारानुगतव्यवहाराद्वेदत्वं जातिः । देवदत्तीयत्वानुमा-
पकशब्दवृत्तिजातिभिः सङ्करप्रसङ्गात् । नापि स्वर्गकामादिशब्दः । स्मृत्यादौ तथात्वात् ।
उच्यते । शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दाजन्य-
वाक्यार्थज्ञानजन्यप्रमाणशब्दत्वं वेदत्वम् । ईश्वरप्रमाया अजन्यत्वात् । वेदार्थस्यानुमानादिविषयत्वे-
ऽप्यनुमानादेर्वेदोषजीवकत्वात् । स्मृत्यादीनां वेदसमानार्थत्वेऽपि शब्दजन्यधीजन्यत्वात् । वेदार्थं
प्रतीत्य तत्प्रणयनात् ।
वाक्यादिति सङ्गृहीतं हेतुं व्याचष्टे । अन्वयतो वेति । ननु किं पौरुषेयत्वम् ? । न तदर्थ-
धीजन्यत्वं, तदुच्चारणधीजन्यत्वं वा । अध्यापकतदुभयजन्यत्वेन सिद्धसाधनात् । नापि स्वतन्त्र-
पुरुषप्रणीतत्वम् । इदानीं पठ्यमाने वेदे तदभावात् । न च स्वतन्त्रपुरुषप्रणीतजातीयत्वं साध्यम् ।
आद्यस्मृत्यादौ व्यभिचारात् । तज्जातीयस्य स्वतन्त्रपुरुषप्रणीतत्वाभावात् । नाप्यर्थं प्रतीत्य तदर्थ-
परतया प्रतिसन्धीयमानपदत्वं पौरुषेयत्वम् । अर्थज्ञानवताऽध्यापकेन सिद्धसाधनात् ।
अत्राहुः—सजातीयोच्चारणानपेक्षोच्चरितजातीयत्वं पौरुषेयत्वम् । आद्यस्मृतावपि तज्जातीयत्वान्न
व्यभिचारः । यद्वा वेदत्वं सजातीयोच्चारणानपेक्षोच्चरितवृत्ति प्रमाणत्वावच्छेदकवाक्यधर्म-
त्वात् । स्मृतित्ववत् ।
यज्ञादिति । यज्ञो विष्णुः । ननु वेदे कर्तृस्मरणमर्थवादतया न मानम्, कार्यान्वितज्ञानज-
प्रकाशिका ।
न च शाखासमुदाय इति । स्मृत्यादाविति । आद्यस्मृत्यादावित्यर्थः । एतदपि तज्जातीय-
त्वस्य भेदगर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यसङ्गतेः । वस्तुत उच्चारणानपेक्षोच्चारणकर्तृत्वमेव स्वात-
न्त्र्यमिति पूर्वपक्षिणः तात्पर्यमिति स्मृतिमात्र एतदभाव इति यथाश्रुत एव ग्रन्थः । अत एव
सजातीयपदप्रक्षेपेण सिद्धान्त इति बोध्यम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं यद्यनति-
रिक्तवृत्तित्वं तदेदानीन्तनवेदत्वे व्यभिचारः, यदि चान्यूनतिरिक्तवृत्तित्वं तदासिद्धिरिति वाच्यम् ।
मकरन्दः ।
गर्भत्वविवक्षायामन्यथा सिद्धान्तेऽप्यगतेरिति ध्येयम् । प्रमाणतावच्छेदकेति । न चावच्छेदकत्वं
यद्यन्यूनतिरिक्तवृत्तित्वं तदाऽसिद्धिः, अनतिरिक्तवृत्तित्वमात्रञ्चेत्तदा पठ्यमानवेदत्वादौ व्यभिचार
इति वाच्यम् । स्वसमानानुपूर्वीकसकलवाक्यवृत्तिधर्मत्वादित्यत्र तात्पर्यात् । न च विशेष्यभागस्यैव
व्याप्यत्वं तावन्मात्रञ्च स्वरूपासिद्धमिति वाच्यम् । अखण्डाभाववदखण्डोपाधौ न व्यर्थत्वमिति
मतेनोक्तत्वात् । यन्निष्ठा यन्निरूपितेति न्यायात् । अत एव प्रमेयत्वादेः शास्त्रे हेतुत्वेनाभिधानं
प्रयोजनाभावान्नान्यत्र विशेषणप्रक्षेपः । अन्यथा अखण्डाभावे का गतिः । तत्रापि प्रतियोगिको-
टावनेकविशेषणप्रक्षेपसंभवात् । अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकल-
भोगाधिकरणवृत्तित्वादित्यत्र भोगाधिकरणपदं सार्थकम् । यत्तु व्याप्याश्रयसंकोचकविशेषणस्य
व्यर्थत्वं यथा नीलधूमे, न तु विकासकस्य, यन्निष्ठा यन्निरूपिता इति न्यायेन तद्विशेषणं विना
५१२ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां
: अर्थवादमात्रमिदमिति चेन्न । कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् । तथा चास्म-
रणे कालिदासादेरस्मरणात् । एवञ्च कुमारसम्भवादेरकत्तृकत्वप्रसङ्गः । अनैका-
न्तिकत्वं वा हेतोः ।
प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेन्न । प्रणेतारं प्रत्यसिद्धेः ।
प्रकाशः ।
न कस्यैव पदस्य शक्तिग्रहादित्याह अर्थवादेति । 'आदित्यो वै यूप' इत्यादैरर्थवादस्य मुख्यार्थत्वे
बाधकादप्रमाणत्वात् , स्तुतिपरत्वेऽपि प्रकृते बाधकानां निरासादविध्यर्थस्याऽपि मुख्यार्थत्वमेव ।
अन्यथा यन्न दुःखेन सम्भिन्नमित्यादेरपि स्वाऽर्थपरित्यागप्रसङ्गात् । कालिदासस्मरणेऽपि विध्य-
भावात् तत्काव्यस्याप्यकत्तृकत्वप्रसङ्गात् ।
सकर्तृकत्वे वा तत्रैवायं हेतुरनैकान्त इत्याह कर्तृस्मरणस्येति ।
प्रमाणान्तरेति । वेदा न पौरुषेयाः प्रमाणान्तरागोचरार्थत्वात्, यन्नैवं तन्नैवम् ,
यथा मन्वादिवाक्यमित्यर्थः । यदि वेदप्रणोतृप्रमाणान्तरागोचरार्थत्वं हेतुः, तदा तत्प्रणेतुरीश्वरस्य
प्रत्यक्षगोचरत्वादसिद्धिः । अथ यस्य कस्यापि प्रमाणान्तरागोचरार्थत्वं, तदाऽनैकान्तिकमित्याह
प्रकाशिका ।
समानानुपूर्वीकसकलवाक्यवृत्तिधर्म्मत्वस्य हेतुत्वात् । न च विशेषमात्रमेव व्याप्यमिति वाच्यम् ।
स्वसमानाधिकरणानुपूर्वीसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याखण्डाभावस्य हेतुत्वात् । अत
एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्तिसकलभोगाधिकरणवृत्तित्वादित्यत्रापि भोगसमा-
नाधिकरणात्यन्ताभावाप्रतियोगित्वहेतुरित्यन्यत्र विस्तरः । आकस्मिकमहेतुकं न च तत्र बीजसम्भव
मकरन्दः ।
तन्निष्ठव्याप्तेरग्रहात् । प्रकृते च विशेष्यभागस्य न्यूनवृत्तित्वविशिष्टस्याधिकवृत्तित्वमिति तस्य
विकाशकत्वमिति । तत् प्रमादविजृम्भितम् । व्याप्याश्रयस्यैवंविकाशेऽपि व्याप्याश्रयविकाशाभावात्
तद्घटितोपाधेरेकत्वात् ।
न च व्याप्याश्रयविकाशस्यापि न व्यर्थत्वं, तत्र यन्निष्टेत्यादिन्यायस्याप्यसम्भवेन मानाभा-
वादिति । अन्यथा धूमालोकान्यतरत्वादावपि व्यर्थविशेषणत्वं न स्यात् । आलोकादिपदस्या-
योगोलकादिन्याप्याश्रयविकाशत्वात् ।
आकस्मिकञ्च तत्र बीजञ्चेति व्याहतमत आह दृष्टेति ।
टिप्पणी ।
अर्थवादमात्रमिति । अर्थवादस्त्रिधा भवति गुणवादोऽनुवादो भूतार्थवादश्च, तदुक्तम्-विरोधे-
गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र प्रमाणान्तर-
विरोधे गुणवादः, यथाऽऽदित्यो यूप इत्यादिः, प्रमाणान्तरावगतार्थबोधकोऽनुवादः, यथाऽग्निर्हिमस्य
भेषजमित्यादिः, प्रमाणान्तरेण प्राप्तिविरोधयोरभावे भूतार्थवादः, यथा इन्द्रो वृत्राय वज्रमुदय-
च्छदित्यादि ।
प्रणेतारमिति । प्रणेतृप्रमाणान्तरागोचरार्थकत्वस्य हेतुत्वं न संभवति अपौरुषेयत्वं
साध्यतां भवतां मीमांसकानां मते वेदे पदे प्रणेतृघटितहेतोरभावादित्यर्थः । यत्किंचित्पुरुषीय-
प्रमाणन्तरगोचरार्थकत्वस्य हेतुत्वं दूषयति अन्यं प्रतीति ।