सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 66, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 66

३४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां
प्रकाशः।
कमानसप्रत्यक्षाविषये वर्त्तते न वा ? यद्वा, लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्यजात्यधिकरणत्व-
मात्मगुणे वर्त्तते, न वा ? भावनात्वन्तु न गुणत्वसाक्षाद्व्याप्यम्, अदृष्टत्वन्तु न जातिः ।
प्रकाशिका।
ण्यायोभयगर्भत्वम्, प्रत्येकगर्भतायान्तु विप्रतिपत्तिद्वयमेव । मानसत्वञ्चाखण्डजातिरेवेति न वैय्यर्थ्य-
मिति प्रथमकल्पसाधारणमेव समाधानमिति दिक् । अत्र च कारणान्तं भावनासामान्यमादाय सिद्ध-
साधनवारणाय ।
लौकिकेति । प्रत्यक्षाविषयत्वं न्यायमतेऽप्रसिद्धमिति लौकिकत्वं विशेषणम्, परमते च
तदुपरजकमेव तदर्थश्च विषयजन्यत्वम् । सुखत्वादिकमादायर्थान्तरमित्यविषयान्तं विशेषणम् ।
गुरुत्वमादायर्थान्तरमिति आत्मपदम् । गुणपदं स्पष्टार्थम् । साक्षात्पदव्यावर्त्यमाह । भावना-
त्वमिति । जातिपदव्यावर्त्यमाह । अदृष्टत्वमिति । जातिपदाप्रक्षेपे दर्शनानर्हगुणत्वस्य गुण-
त्वव्याप्यजात्याव्याप्यतयाऽऽत्मसंयोगादिवृत्तितया च सिद्धसाधनमिति तत्पदमिति भावः ।
केचित्तु धर्मत्वमधर्मत्वञ्चादृष्टत्वव्याप्यतया साक्षाद्व्याप्यमेव न भवति, अदृष्टत्वं च जातिरेव
नेति विधिकोटेर्बाध इत्यत आह । अदृष्टत्वमिति । यत एवादृष्टत्वं न जातिः, अत एव गुणत्व-
व्याप्यजात्यव्याप्यत्वलक्षणं साक्षादून्याप्यत्वं धर्मत्वादीनामिति न बाध इति व्याचक्षते ।
मकरन्दः ।
त्वाविशेषात्तमादाय सिद्धसाधनम् । सुखदुःखकारणाऽऽत्मविशेषगुणत्वमीश्वरज्ञानादावपीति तदा-
दाय सिद्धसाधनम् । न ह्यग्रिमात्मपदमपि संसारिपरतया व्याख्यातम् । तत्परत्वेऽपि पूर्वदोषानु-
द्वारात् । जीवनयोनियत्नमादाय सिद्धसाधनतादवस्थ्याच्च । न च तस्य न सुखदुःखजनकत्वं,
किन्तु जनकजनकतेति वाच्यम् । अन्वयव्यतिरेकाभ्यां तद्धेतुत्वात् । अन्यथा प्राणादेरपि तथात्वे
तद्धेतुत्वं न स्यात् । एतेन प्रयत्नत्यादिना विषयान्तेन सुखदुःखयोरेव विवक्षितत्वात् सुखदुःखान्य-
तरकारणतामविशेषगुणत्वे तात्पर्यमित्यपास्तम् ।
अत्र ब्रूमः । सुखदुःखान्यतरकारणात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्ने
वर्त्तते न वेति विवक्षितम् । साजात्यञ्च गुणत्वसाक्षाद्व्याप्यजात्या । धर्माधर्मोभयसाधारणयार्थमुभ-
यगर्भत्वम् । यथाश्रुतेऽपि सुखदुःखयोरनुगमे तदेव बीजम् । प्रत्येकगर्भतया प्रत्येकं विप्रतिपत्तिद्व-
यमेव वा विवक्षितम् । एवञ्चेश्वरज्ञानादिकं निर्विकल्पकं जीवनयोनियत्नञ्चादाय सिद्धसाधनानव-
काशः । सर्वेषां तज्जातीयत्वात् । धर्माधर्मौ तु न तथा । न चैवं विशेषपदवैयर्थ्यं, संयोगमात्र-
स्यैव तादृशप्रत्यक्षाविषयतयाऽऽत्ममनोयोगमादाय सिद्धसाधनापत्तेः । कामिनीरूपवृत्तित्वेन सिद्ध-
साधनवारणायात्मपदम् । भावनावृत्तित्वेन तद्वारणार्य कारणान्तम् । यदि च निदिध्यासनजन्यभा-
वना कायव्यूहादिद्वारा सुखादिकारणं, तदा तदन्यत्वमपि सुखदुःखविशेषणम् । नच लौकिकत्वं
योगजधर्माद्यजन्यत्वगर्भं, तच्च तन्मतेऽप्रसिद्धम्, साध्ये उपरजकस्याप्यदानाद् व्यर्थत्वञ्चेति
वाच्यम् । संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वस्य विवक्षितत्वात् । अखण्डाभावे साध्ये चावैयर्थ्यादिति ।
वस्तुतः पूर्वापरितोषादाह । यद्वेति । प्रत्यक्षाविषयत्वमप्रसिद्धमिति लौकिकत्वं विशेषणम् ।
परमते चोपरञ्जकमेतद् बोध्यम् । सुखत्वादिकमादायं सिद्धसाधनवारणायाविषयान्तम् । गुरुत्वा-
दिना सिद्धसाधनवारणायात्मपदम् । गुणपदं स्पष्टार्थम् । साक्षात्पदव्यावर्त्यमाह । भावनात्व-
टिप्पणी ।
सिद्धसाधनवारणाय, सुखजनकेश्वरज्ञानमादाय सिद्धसाधनवारणाय द्वितीयास्यात्मविशेषपदस्योपा-
दानम् । अदृष्टत्वन्तु न जातिरिति । यतोऽदृष्टत्वन्न जातिरतो धर्मत्वाधर्मत्वयोरदृष्टत्वमादाय