न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 65, कुल 608 में से
संदर्भ में पढ़ें. प्रथमस्तबके ] न्यायशङ्कासंशयबीजविप्रतिपत्तिनिरूपणम् । ३३
प्रकाशिका ।
सुखहेतुत्वात् । आत्मपदञ्च सुखजनककामिनीरूपमादाय, विशेषपदं च तादृशात्ममनोयोगमादाय
सिद्धसाधनवारणाय । केचित्तु विषयान्तस्य सुखदुःखान्यतरदर्थः, तथा च सुखदुःखान्यतरकारणात्म-
विशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्नवृत्ति न वेति विप्रतिपत्त्यर्थः । तज्जातीयत्वञ्च गुण-
त्वसाक्षाद्व्याप्यजात्या । एवं च निर्विकल्पकादिकमीश्वरज्ञानादिकं जीवनयोनियत्नञ्चादाय न सिद्धसाध-
नावकाशः, विशेषपदाऽऽत्मपदे तु पूर्ववदेव, भावना च यदि कायव्यूहादिद्वारा काचित् सुखहेतुस्तदा
तदन्यत्वेनापि विशेषणम् । लौकिकत्वं च संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वं धर्माधर्मोभयसाधार-
मकरन्दः ।
ननु साक्षाज्जनकत्वं यदि व्यक्तैस्तदा इच्छाद्वेषयोरप्युपायेच्छाद्वेषद्वारा जनकत्वमित्यसम्भवः,
तज्जातीयस्य चेत्तदा ज्ञानेऽप्यतिप्रसङ्गः, उपादानप्रत्यक्षस्य साक्षात्प्रयत्नहेतुत्वादिति चेत् । न ।
फलेच्छायाः स्वरूपसत्याः साक्षादेव प्रयत्नहेतुत्वेन व्यक्तिपक्षस्यैव क्षोदक्षमत्वात् । विजातीयाव्या-
पारकजनकजातीयस्यैव वा साक्षाज्जनकत्वेन विवक्षितत्वादित्याहुः । तच्चिन्त्यम् । फलेच्छायाः
प्रयत्नजनकत्वाभ्युपगमेऽपि साक्षाज्जनकत्वे मानाभावात् । चिकीर्षादिसत्त्वे तां विना तदुत्पत्तौ
विलम्बाभावात् । चिकीर्षोपादानप्रत्यक्षाभ्यां सह युगपदनवस्थानाच्च । क्षणद्वयमात्रस्थायित्वात् ।
चिकीर्षाद्वारेणैवोपपत्तौ समूहालम्बनकल्पने प्रमाणाभावाच्च । भावे वा तद्विषयत्वे न प्रयत्नजन-
कत्वं, गौरवान्मानाभावाच्च । अन्यथोपादानप्रत्यक्षेऽपि उपनीतविशिष्टप्रत्यक्षविषयत्वसम्भवान्निर्वि-
कल्पकमादाय दोषापत्तेः । फलेच्छां विनोपायचिकीर्षाविरहात्तद्धेतुत्वस्यावश्यकत्वात् ।
वस्तुतस्तु न तस्याः प्रयत्नं प्रति जनकत्वं, किन्त्ववच्छेदकत्वमित्युक्तमस्माभिरन्यथाख्याति-
वादे । विजातीयेत्याद्यप्ययुक्तम् । साक्षाज्जनकत्वेनैव विजातीयाव्यापारकं यद् उपादानप्रत्यक्षं त-
ज्जातीयं ज्ञानमादायोक्तसिद्धसाधनतादवस्थ्यात् । न च विजातीयव्यापारनजनकजातीयभिन्नत्वं वि-
वक्षितं, ज्ञाने च विजातीयेच्छाव्यापारकत्वमेवेति वाच्यम् । ज्ञानादीनामदृष्टद्वारा कार्यमात्रहेतुत्वा-
भ्युपगमेनेच्छाया विजातीयव्यापारकप्रयत्नजनकजातीयत्वात् । किञ्च द्वेषस्य प्रयत्नकारणत्वे माना-
भावः, यथा चैतत्तथा प्रवृत्त्यनुमानप्रकाशे । मूले त्वग्रेतनं प्राचीनमतमनुपादेयम् । चिन्ताम-
णिस्वरसोऽप्येवमेव ।
यच्चोक्तं निरुपाधिपदं सोपाधीच्छाविषयकामिनीविशिष्टज्ञानकारणाऽऽत्मविशेषगुणवस्योक्ते
सत्त्वेन सिद्धसाधनवारकमेव । अग्रिमात्मविशेषगुणपदयोः कामिनीरूपात्ममनोयोगादिवृत्तित्वेन सि-
द्धसाधनवारणे तात्पर्यमिति । तदपि चिन्त्यम् । निदिध्यासनजन्यभावना तत्त्वसाक्षात्कारद्वारा
इच्छानिरुपाधिविषयदुःखाभावरूपमोक्षहेतुरिति तामादाय सिद्धसाधनतादवस्थ्यात् । न च निदि-
ध्यासनजन्यमदृष्टमेव । दृष्टेनैवोपपत्तेः । न च तज्जन्यत्वे स्मृतित्वापत्तिः । स्वसमानविषयकसंस्का-
रत्वेनैव हेतुत्वे तथात्वात् । अत्र चात्मविषयकभावनात्वेनैव हेतुत्वात् । तत्त्वसाक्षात्कारस्य विश्व-
विषयकत्वाच्च । अन्यथा संस्कारध्वंसे का गतिः । अत एव मूले वक्ष्यति, अतीन्द्रियार्थदर्शनाभ्यु-
पायो भावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयतीति अदृष्टवत् तस्यापि प्रत्यास-
त्तित्वे विरोधाभावः ।
अस्तु वा तथा । तथापि देवप्रतिमादिदर्शनत्वेनैव स्वर्गहेतुत्वश्रुतेस्तन्निर्विकल्पकस्यापि तथा-
टिप्पणी ।
णत्वे व्यक्तिसाक्षात्कारणत्वगर्भप्रथमकल्पः, फलेच्छायाः साक्षादकारणत्वे द्वितीयः, ज्ञानस्य विजातीये-
च्छारूपव्यापारजनकजातीयत्वात् तद्वारणम्। इच्छाया अदृष्टरूपव्यापारजनकत्वेऽपि तस्य प्रत्यक्षावि-
षयत्वान्न तत्रासम्भवः, निरुपाधिपदन्तु इच्छासोपाधिविषयकामिनीज्ञानजनकनिर्विकल्पकमादाय
५ न्या० कु०