न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रारंभिक पृष्ठ एवं मंगलाचरण
॥ श्रीः ॥
काशी संस्कृत ग्रन्थमाला
३०
॥ श्रीः ॥
श्रीमदुदयनाचार्यप्रणीतः
न्यायकुसुमाञ्जलिः
( व्याख्याचतुष्टयोपेतः सटिप्पणः )
श्रीमद्वरदराजप्रणीतया 'बोधन्या' महोपाध्यायश्रीवर्धमानोपाध्याय-
प्रणीतेन 'प्रकाशेन' नैयायिकशिरोमणिश्रीमेघठक्कुरप्रणीतया
'प्रकाशिकया' ( जलदेन ) महोपाध्यायश्रीरुचिदत्तो-
पाध्यायप्रणीतेन 'मकरन्देन' सर्वतन्त्रस्वतन्त्र-
श्रीधर्मदत्त (बच्चाझा) प्रणीतया 'टिप्पण्या'
च समुल्लसितः ।
सम्पादकौ
न्यायाचार्यः श्रीपद्मप्रसादोपाध्यायः
तथा
न्यायाचार्यः श्रीढुण्ढिराजशास्त्री
प्राक्कथनलेखकः
महामहोपाध्यायः श्रीगोपीनाथकविराज एम. ए.
प्रस्तावनालेखकः
पण्डितराजः श्रीराजेश्वरशास्त्री द्राविडः
PDF Creation, Bookmarking and
Uploading by: Hari Parshad Das
(HPD) on 21 April 2014
प्रकाशकः—
चौखम्बा-संस्कृत-सीरिज आफिस,
पो० बा० नं० ८, वाराणसी-१
(बनारस)
(पुनर्मुद्रणादिकाः सर्वेऽधिकाराः प्रकाशकाधीनाः)
(द्वितीयावृत्तिः)
वि० संवत् २०१३
मूल्यं १८)
मुद्रकः—
विद्याविलास प्रेस,
वाराणसी-१
KASHI SANSKRIT SERIES
30
THE
NYĀYA KUSUMĀÑJALI
OF
ŚRĪ UDAYANĀCHĀRYA
WITH FOUR COMMENTARIES—
THE BODHINĪ, PRAKĀS'A, PRAKĀS'IKĀ (JALADA)
AND MAKARANDA
by
VARADARĀJA, VARDHAMĀNOPĀDHYĀYA, MECHA THAKKURA
AND RUCHIDATTOPĀDHYĀYA
and
NOTES
by
ŚRĪ DHARMADATTA (BACHCHĀ JHĀ)
EDITED BY
Nyāyāchārya Pt. S'rī Padmaprasāda Upādhyāya
&
Nyāyāchārya Pt. S'rī Dhuṇḍhirāja S'āstrī
WITH FOREWORD
BY
M. M. Dr. Gopināth Kavirāj, M. A., D. Litt.
and
Introduction by
Paṇḍitarāja S'rī Rājes'wara S'āstrī Drāviḍa
THE
CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI (Banaras)
1957
FOREWORD
I congratulate the Chowkhamba Sanskrit Series
authorities of Banaras on the publication of a new
edition of Udayana's Nyaya Kusumanjali with five
commentaries and sub-commentaries, including those
of Vardhamana and Ruchidatta which accompanied its
first edition. The text of Kusumanjali consists of
a number of mnemonic verses ( karikas ) arranged
into five groups and furnished with the author's own
commentary in prose. The work has come down to us in
two forms, as (i) a complete work ( called Prakarana )
containing both the verses and the author's comen-
tary and (ii) as a smaller hand-book containing the
verses only with the prose portion left out.
UDAYANA'S language, a faithful reflection of
his abstruse ideas, is generally stiff and terse. An
illuminating commentary bringing out the implica-
tions of each line and the hidden significance of
the context is often felt to be a necessity. Vardha-
mana's commentary, inspite of the great learning
displayed in its pages, is not of much help in this
respect, as it does not follow Udayana line by line
and phrase by phrase. Varadaraja's Bodhani however
is more useful from this point of view, as it is a
running commentary on the whole work. In view of
this fact I had it published more than 35 years ago,
from the Government Sanskrit College Banaras, as the
first work of the Saraswati Bhavana Texts Series.
Unfortunately the work was incomplete, being based
on an old manuscript of the College which did not
extend beyond the third chapter. This edition is
not now available. The inclusion of Varadaraja's
commentary in the present edition is therefore
welcome. Now that the last two chapters of Bodhani
are also available, it is expected that the publishers
[ 2 ]
will try to add these also as a supplement. The
value of the edition has been generally increased
by the addition of Bhagiratha alias Megha Thakkura's
sub-commentary Jalada and Bachha Jha's notes.
Bhagiratha Thakkura was an elder brother of Mahesha
Thakkura, Raja of Mithila, who was himself a Naiyayika
of high order. He lived by the end of the 15th
and the beginning of the 16th century. Ruchidatta
also lived about the same time. Both were disting-
uished pupils of the great Pakshadhara Misra.
It may be pointed out that besides Varadaraja and
Vardhamana, Gunananda Vidyavagisa, probably of the
16th century, wrote also a commentary on the complete
text of Nyaya Kusumanjali which was held in great
repute in those days. It is to be hoped that in the
next edition of this great work the publishers will
try to reclaim from oblivion this useful commentary
which will facilitate the study of Udayana. The
Chowkhamba Sanskrit Series anthorities have been
rendering a valuable sevice to Sanskrit scholarship
by publishing regularly rare Sanskrit works for the
last sixty years or more. It is hoped that they
will continue this noble work with great zeal and
help forward rapidly the cause of Sanskrit Culture.
2/A Sigra, } Gopi Nath Kaviraj
Banaras } Mahamahopadhyaya
M. A., D. LITT.
- श्रीगुरुः शरणम् *
प्रस्तावना
[ पण्डितराजः श्रीराजेश्वरशास्त्री द्राविड़ः
काशीस्थवल्लभरामशालिग्रामसाङ्गवेदमहाविद्यालयध्यक्षः । ]
न्यायाचार्यश्रीमदुदयनाचार्यप्रणीतो न्यायकुसुमाञ्जलिग्रन्थः वर्धमानप्रकाशमकरन्दमेघ-
ठक्कुररुचामहाकृतटीकाप्रटीकादिभिः सम्भूषितः नूतनतया निजेनामोदेनामोदयन् सहृदयमनांसि
पुरःस्थितो दृश्यते । नास्तिकदर्शनेष्विचारितकदर्शनेष्वपि निरीश्वरवादिमतं साङ्ख्यैः मीमांसकैश्चादृतं
खण्डयित्वा अत्र ग्रन्थे ईश्वरतत्त्वसाधनिका कृता । तस्याः साधनिकाया एतावतैवात्युत्कृष्टत्वं
सिद्ध्यति यत् न्यायाचार्यमतानुसारेण इच्छाविशेषरूपां शाब्दीभावनामङ्गीकुर्वन् खण्डदेवः स्वनि-
र्मितायां भाट्टदीपिकायां ईश्वरनिराकरणपराणि मीमांसासूत्राणि शाबरभाष्यदृष्टीकाद्यनुसारेण
व्याचक्षाणोऽपि अन्ते भीतभीतः मम त्वेवं वदतोऽपि जिह्वा दूषयति इति हरिस्मरणमेवात्र शरणमिति
प्रायश्चित्तं विदधौ । बौद्धास्तु स्वसमय एवाचार्यैः भारतवर्षाद्दुत्खाताः इत्यहो आचार्याणां वैदुष्या-
तिशयः प्रभावातिशयश्च ! ऐतिहासिकदृष्ट्या पुराणवाङ्मयनिर्माणानन्तरं सहस्रसम्वत्सरात्मके
काले आयुर्वेदग्रन्थान् सुश्रुतवाग्भटादीन् विहाय दर्शनप्रतिपादकः वर्णाश्रमिणां कोऽपि शास्त्रीयो ग्रन्थः
प्रामाणिकैरादृतः यद्योपलभ्यते महाभाष्यं विहाय, तेन एतत्सुष्ठ्ववगम्यते बौद्धधर्मानुसारिणां
राज्ञां काले वर्णाश्रमिणां विद्याः क्रमशः विलुप्यमाना आसन् राजकीयप्रभावातिशयात् । तथापि
आयुर्वेदविषयस्यारोग्याश्रितत्वात् बौद्धैरपि आरोग्यार्थं वर्णाश्रमधर्मोऽवश्यं स्वीकार्य इति मत-
मासीत् । प्रथमशताब्दीभवेन नागार्जुनेन संशोषितस्य सुश्रुतग्रन्थस्य षष्ठशताब्दीभवस्य वाग्भट-
ग्रन्थस्य च पर्यालोचनादिदं सिद्ध्यति । नीतिसारदृष्ट्यापि 'संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव
चे'त्यत्रत्यवचनानुसारेण जनपदग्रामादिसन्निवेशस्यारोग्यायत्तत्वात् तस्य च बलायत्तत्वात्
बलस्य च शीलायत्तत्वात्तस्य च व्यसने चाभ्युदये चाविकारकरि यत्सत्त्वं तद्रूपत्वेन तस्य ईश्वरीयज्ञाना-
नुसरणाद्यत्तत्वमवगम्यते । विस्तरेण विवेचितोऽयमर्थः गीर्वाणवाग्वर्धिनीसभापञ्चाशदब्द्युत्सव-
स्मारकनिबन्धेऽस्माभिरिति नेह तन्यते । विष्णुसहस्रनामस्तोत्रजपस्य ज्वरादिनिवर्त्तकत्वेन विधानं
चरकाद्युक्तमेत एव संगच्छते । न्यायशास्त्रं हि विषादिनाशकमन्त्रागुर्वेदप्रामाण्येन वेदप्रामाण्यं
साधयत् मीमांसकान् जीवयतीति स्पष्टमस्मात्कृतान्यत्र निबन्धे । आयुर्वेदोपदर्शितमीश्वरमप्यादा-
वुपन्धस्य प्रत्यभिज्ञाप्य च कुसुमाञ्जलिग्रन्थस्य महत्त्वमस्यां भूमिकायां प्रकटीकर्तुमिच्छामः ।
जाठरो भगवानग्निः ईश्वरोऽन्नस्य पाचकः ।
सौक्ष्म्याद्रसानादानानो विवेक्तुं नैव शक्यते ।
इति उदयगनेरीश्वरत्वेनोपासना आयुर्वेदीयानां सम्मता । इति निम्नलिखितडल्हणकृतसुश्रुतटी-
कादर्शनात् प्रतिपद्यते । एतदंप्रतियन्तः केचनं वर्तमाना वैद्याश्चरकादिग्रन्थेषु भगवानिति विशेषणमात्र-
दर्शनात्, वायुमेवेश्वरत्वेनोपास्यं मन्यन्ते ! तत्तु सुश्रुतवचने ईश्वरशब्दस्य प्रत्यक्षं निर्देशदर्शनात्
तन्मूलकेन डल्हणवचनेन विरुध्यत इति न प्रीणाति हृदयं सहृदयानामित्यन्यदेतत् । जाठराग्ने-
रीश्वरत्वेनोपासनं हि न केवलं वैद्यक्रमूलकमपि तु--;
( २ )
'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥'
इति गीतादर्शनात्, 'तस्याः शिखाया मध्ये परमात्माव्यवस्थितः, स ब्रह्म स शिवः स
हरिः सेन्द्रः सोक्षरः परमः स्वराट्' इति तैत्तिरीयोपनिषद्द्वचनाच्च सिद्धम् । यद्यपि 'प्राणो ब्रह्म
खं ब्रह्म' इत्यादि श्रुत्या प्राणाद्युपासनान्यपि विहितानि, तान्यपि सत्यान्येवेति नास्ति सन्देहः ।
तथापि पूर्वोक्तडल्हणवचनदर्शनात्, जाठराग्नेरेवोपासनाप्रतीकत्वं वैद्यकमतसिद्धमिति प्रतीमः ।
सोऽयं जाठराग्निः कथमेश्वरो भवितुमर्हतीति प्रथमतः किञ्चिद्विरतरेणोच्यते । तत्र नैयायिकैः
साध्यमानमीश्वरत्वं कार्यमात्रंप्रति कर्तृत्वरूपमेव । तदुक्तं 'यं शैवाः समुपासते शिव इति ब्रह्मेति
वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः' इति । तत्तु कर्तृत्वं कार्यमात्रनिरू-
पितोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वरूपमेवेति न्यायकुसुमाञ्जलिदर्शनात् नैयायिकैः स्पष्ट-
मेवागम्यते । यद्यपि 'स्वतन्त्रः कर्ता' इति पाणिनीयसूत्रे स्वातन्त्र्यरूपमेव कर्तृत्वमिति प्रतीयते,
तच्च कारकान्तराप्रयोज्यत्वे सति स्वेतरसकलकारकप्रयोक्तृत्वरूपमेवेति वैयाकरणा वर्णयन्ति । न्याय-
वार्तिककारोऽप्युद्योतकर एवंविधमेव शरीरात्मनोः सादृश्यमावहं कर्तृत्वं वर्णयांवभूव । तथापि निष्कृष्य-
माणे स्वोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिसमष्टिमित्येव पुरुषे तादृशं स्वातन्त्र्यं विश्राम्यतीति हेतो-
रेवंविधे ईश्वरत्वे सर्वेषामेतेषां अविप्रतिपत्तिरेव । अत एव ज्ञानसमर्जनार्थं प्रयत्नः सर्वसंग-
परित्यागेन विचारसिकैः क्रियते स्वातन्त्र्यस्येश्वरस्वरूपस्य लाभायेत्यत्र नास्ति चार्वाकस्यापि विप्रति-
पत्तिः । कर्तव्यविस्मरणमेव जाड्यापरपर्यायं पारतन्त्र्यापादकं भवति । ज्ञानन्तु स्वातन्त्र्यापरपर्याये-
श्वरत्वापादकमिति सर्वेषां हृदयाभ्यनुज्ञातोऽयमर्थः । एवंस्थिते प्राप्ताप्राप्तविवेकेन परिपूर्णज्ञानस्येश्व-
रतारूपत्वे, तज्ज्ञानं किण्वादिभ्यो मदशक्तिवत् भूतपरिणामरूपमेवेति चार्वाकाः, ततोऽन्यदिति
आस्तिका इति मतभेदस्थितावपि चार्वाकमतेऽपीश्वरत्वापादकं ज्ञानतत्त्वं नापह्नोतुं शक्यत इति
वस्तुस्थितिस्तु वक्तव्यैव भवति । पाश्चात्त्यविज्ञानशास्त्रेऽपि हि सेन्द्रियविज्ञानं निरिन्द्रियविज्ञानमिति
विभागद्वयं कृत्वा सेन्द्रियविज्ञानमध्ये प्राणिशरीरावयवसापेक्षोत्पत्तिकानां शर्कराघृततण्डुलगोधूमादीनां
द्विलक्षाधिकपदार्थानां संयुक्तानां वर्णनं यदुपलभ्यते तत्तेषां निरुक्तजाठराग्निमात्रसाध्यत्वादेव ।
वनस्पतिषु स्थितस्य पर्णहरितद्रव्यस्य सूर्यप्रकाशादेव सिद्धेः सौरशक्तेरसाधारणकारणत्वमिव
शुक्लपक्षे समारोपितानामेव वंशानां रोगविनिर्मुक्तानां दर्शनात् चान्द्रमसज्योतिष्यपि जीवनोपयो-
गित्वसिद्धेस्तेजस्त्रयस्याप्यस्य जाठराग्निसाहाय्येन कार्यकरत्वं स्पष्टम् । 'तस्य मध्ये महानग्निर्विश्वार्चि-
र्विश्वतोमुखः । सोऽग्रभुक् विभजन्तिष्ठन्नाहारमजरः कविः । तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य
संतता । संतापयति स्वं देहमापादतलमस्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
नीलतोयदमध्यस्था विद्युल्लेखेव भारवरा । नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा । तस्याः शिखाया
मध्ये परमात्मा व्यवस्थितः' । इति तैत्तिरीयोपनिषदि सुषुम्नाकाण्डस्थितज्ञानतन्तुगतानामूर्ध्व-
मुखानां वेगानामाश्रयभूते वह्नौ परमात्मदृष्ट्योपास्यत्वं विधीयते ।
'धातवः सप्तभूतानामन्तः सप्ताग्नयः स्थिताः ।
केचिदग्नय इत्येवं केचिदूमति जानते ।
त्वग्रक्तमांसमेदोस्थिमज्जाशुक्राणि धातव ।'
इत्यादिना भावप्रकाशनकारेण शारदातनयेन वैद्यके एतदनूदितं जाठराग्निविषये । तस्योष्म-
रूपत्वपक्षे चरकानूदिते अनुद्भूतरूपत्वात् अतीन्द्रियत्वम् । सुश्रुतंमते तु 'सौक्ष्म्याद्रसानाददानो
विवेक्तुं नैव शक्यते' इति दर्शनात् सौक्ष्म्यादनुपलब्धिः चाक्षुषप्रत्यक्षद्वारा । स्पार्शनप्रत्यक्ष-
विषयत्वं तु उद्भूतस्पर्शत्वादुभयवादिसिद्धम् । 'कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे अन्तर्धान-
( ३ )
मिति' योगसूत्रदर्शनान्, सिद्धिविशेषबलात् रूपस्य सूक्ष्मत्वेऽपि स्पर्शस्य स्थौल्यमुपपद्यत एव ।
सोऽयं जाठराग्निः 'सोऽन्नभुक् विभजन्तिष्ठन्नाहारमजरः कविः' इति वेदे वह्नित्वेनोपवर्णितः । कविः
क्रान्तदर्शी इति प्रामाणिकव्याख्यादर्शनात् कुसुमाञ्जलिनिर्दिष्टं सर्वज्ञत्वमस्यैव जाठराग्नेरवगम्यते ।
स्पष्टमुक्तं च भावप्रकाशने शारदातनयेन :—
'सोऽपि त्रैविध्यमन्विच्छन् विराट्पुरुष ईश्वरः ।
बीजत्रयेण भिन्नः स्यात्सोमसूर्याग्निरूपिणा ।
स रुद्रोपेन्द्रपद्मोत्थगुणत्रयविभेदिना ।
षण्णवत्यङ्गुलायामं सर्वेषाम्च शरीरिणाम् ।
शरीरं तस्य मध्यः स्यादाधारः कन्दसंज्ञितः ।
वलयत्रितयाकारः सोमसूर्याग्निमण्डलैः ।
वह्नेः शिखा तस्य मध्ये नीपान्तःकेसराकृतिः ।
परा प्रकृतिरेषा स्याद्विश्विकेत्यपरे जगुः' ।
इत्यादिना मूलाधारोत्थिताया सुषुम्नाकाण्डान्तर्गतोर्ध्वमुखवेगधराया जाठराग्निशिखायाः ज्ञान-
रूपधारिण्या आधुनिकविज्ञानसिद्धं वर्णनं कृतं तदपि अत एवोपपद्यते । अस्याग्नेः शरीरारोग्य-
सम्पादकत्वं शरीरवर्द्धकत्वं च कुम्भकप्राणायामावस्थायामेव भवति समानवायुसञ्चारे सतीति ।
'समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः ।
अन्नं गृह्णाति पचति विवेचयति मुञ्चति' ।
इत्यादि भावप्रकाशनवचनं सङ्गच्छते । अत एव पापकर्मणि कृतेऽनृते चोक्ते वक्तु-
र्विच्छायमुखत्वं जाठराग्नेः कोपादेव रुधिरधाराया यथावदपरिपच्यमानतया भवति, इति स्पष्टमेवा-
स्येश्वरत्वम् । यद्यपि जाठरोऽग्निः नैयायिकैः तैजसविषयमध्ये परिगणितः, ईश्वरस्तु आत्मभेदान्तर्गतः
स्वतन्त्रद्रव्यत्वेन; तथापि 'देवताः सन्निधानेन प्रत्यभिज्ञानतोपि वा' । इति कुसुमाञ्जलिग्रन्थ एव
विषयरूपेऽपि जाठरे हव्यवाहे ईश्वराहाङ्कारास्पदत्वरूपं तच्छरीरत्वं नैयायिकैरप्युपगम्यत एवेति
स्वीकृतत्वान्नेयं कल्पना तद्विरोधिनी ।
'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः।
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्' ।
इति भगवद्गीतोपबृंहणमुपर्युक्त एवार्थेऽनुकूलं दृश्यते ।
यद्यपि सोमसूर्याग्नीनामत्यन्तसात्त्विकतया तदवच्छिन्नचैतन्यस्यैव प्रकटत्वमाहुपारयत्व-
मंदम्पर्येणात्र विहितमिति स्थितिः, तथापि 'तत्तेजो विद्धि मामकमिति पुनः तेजःपदोपादानात्
शुक्लभस्वररूपवतस्तदीयतेजसोऽपीश्वररूप्योपास्यत्वं समर्थितं तन्त्राल्यादिभिः । तेन आयुर्वेदर्तत्ति-
रीयेपनिषद्रीतानामेकवाक्यत्वोपपत्तिः ।
मेस्मेरिज्मवादिभिरुच्यमानं प्राणतेजोऽपीदमेव, यत् पाश्चात्त्यन्यायालयेऽपि निर्णाय
स्वीकृतमिति नात्र विषये कस्यापि विप्रतिपत्तिरवशिष्टा ।
एवं स्थितेः स्वोपादानगोचरापरोक्षज्ञानचिकीर्षासमिष्टिरूपे ईश्वरतत्वे सर्वैरभीप्सिते तस्य
'किण्वादिभ्यो मदशक्तिवदिति, जडभूतपरिणतिमात्ररूपत्वे, भूतव्यक्तिभेदेन भिन्नत्वे, आनन्त्यं प्रति-
२ न्या० कु०
व्यक्त्यपरिपूर्णत्वञ्च चार्वाकेन वक्तव्यम् यत्र स्वभाववादस्योत्थितिः, लाघवादेकत्वं नित्यत्वं च,
अतः सर्वविषयकत्वात् पराहन्तारूपत्वमास्तिकानां पक्षः । तत्रापि तादृशसर्वज्ञत्वस्य योगजधर्म-
जन्यत्वेन, अनित्यत्वेनानीश्वरापादकत्वं बौद्धानां पक्षः । कर्मणो जडस्य परिणतिमात्रत्वमिति
पूर्वमीमांसकानाम्। एतत्पक्षत्रयनिराकरणेन नित्यैकज्ञानादिरूपत्वं नैयायिकवेदान्तितान्त्रिकादीनामित-
रास्तिकानां सिद्धान्त इति कुसुमाञ्जलिग्रन्थे सम्यगालोचिते सिद्ध्यति । (१)साहित्यप्रक्रियासारस्वा-
दवेलायां साधारणीकरणव्यापारेण पराहन्ताया वेदान्तदर्शनसिद्धसाक्षिरूपायारतादात्म्येन जगद्भा-
सनदर्शनात् प्रत्यक्षानुभवसिद्धोऽप्ययमास्तिकानां पक्षः भेदवादिपतितैः कुताकिकैः नास्तिकैरपलप्यते,
इति स्वाङ्गीकृतप्रत्यक्षप्रामाण्यविरुद्धोऽपि केषाञ्चिदेव पुण्यवतामास्तिकानामनुभूतिपथगामी भवति ।
तदुक्तं—
ईश्वरानुग्रहादेषा पुंसामद्वैतवासना । महाभयकृतत्राणाद्वित्राणामेव जायते ॥ इति ।
केवलमास्तिकानां पूर्वमीमांसकानां पक्षः किञ्चिदिवालोचनामर्हति ।
दहराकाशमध्यस्थसहस्रदलशोभिते ।
विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे ।
आत्मा निःसङ्ग एवैकः साक्षी सर्वस्य कर्मणः ।
तस्य स्यामिति सङ्कल्पो मनग्राह्यां लभेत्तु सः।
मनोऽधितिष्ठति प्राणपूर्वान् पञ्च समीरणान् ।
ते धातून् व्याप्य धमनीमुखेभ्यरत्न सम्भवान् ।
अग्नीन् प्रज्वलयन्त्येव तेभ्यो नादः प्रवर्तते' ।
इति भावप्रकाशनकारेण वैयाकरणसम्मतस्य चिदचिन्मिश्रसंवलनरूपस्य नादात्मकस्य
चेतनस्य शब्दस्य मध्यमानादूपरस्य प्रणवांशरूपस्य पूर्वोक्ताग्न्युद्भवत्वं वर्णयताऽग्निप्रज्वलनं
प्रत्याधुनिकवैज्ञानिकदृष्ट्यापि लघुमस्तिष्कसमीपस्थितप्राणगुहासमीपस्थघ्राणदानाडीप्रेरणाधीनफुप्फु-
सद्रयसंकोचविकासाधीनप्राणादिवायुसञ्चारणप्रयोजकीभूतं बृहन्मस्तिष्कस्थितज्ञानकेन्द्रसमीपप्रवृत्तीच्छा-
शक्तिरूपेश्वरसङ्कल्पात्मकमनसः सामर्थ्यमुपवर्णितं यदरित तत्र बृहन्मस्तिष्कस्थितस्य जीवैरज्ञातसा-
मर्थ्यस्य समस्तकर्मसाक्षिणः परमात्मन एव सिद्धिरुक्ता, या 'एको देवरसर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इति श्रुतिसिद्धा ।
'विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे' इति भावप्रकाशनवाक्ये ऊर्ध्वाधोमुखवेगवाहिनीनां
नाडीनां विस्फुरत्ताया वर्णनदर्शनात् मस्तिष्कस्थपङ्कजकेसररूपत्वं वर्ण्यमानं दृष्ट्वा नाडीतन्त्रविज्ञान-
माधुनिकं सर्वमपि प्राचामवगतमासीदिति स्पष्टमेव वर्णयितुं शक्यते आस्तिकैः । तत्र स्वतन्त्र-
नाडीनां स्वतन्त्रेच्छाशक्ति क्षेत्राणाञ्च जीवनानधिष्टितानामधिष्ठानमिच्छाशक्तिचेष्टनासाहाव्येनैव
जीवाज्ञातज्ञानशक्ति क्षेत्रभूतैः मस्तिष्कभागैः क्रियत इति आधुनिकविज्ञानसिद्धत्वात् । नादोत्पत्ति-
प्रक्रिया इयं सर्वापि कुसुमाञ्जलौ अंशतः सूचिता दृश्यते । तथा च मीमांसकानामपि ईश्वरास्तित्व-
( १ ) चित्रादाविव स्वसादृश्यदर्शिनो राश इति तन्नतटीकादर्शने चित्रतुरगन्यायः काव्यप्रकाशोक्तः
पुरत आगच्छति तत्रत्यचित्रतुरगन्यायः आहार्यारोपरूप एव इति यद्यपि वर्धमानमगीरथठकुरमकरन्दादि-
ग्रन्थदर्शनेनावगम्यते, अतश्च स भ्रम इति शङ्कितुं शक्यतेऽपि । तथापि गोकुलनाथोपाध्यायकृतविवरण-
रीत्या रंगातुरंगेतदुभयवार्तिकविशेष्यता निरूपिततदीयसन्निवेशविशेषतुरगत्वोभयनिष्ठैकप्रकारताकालौकिक-
ज्ञानविशेषरूपे चित्रतुरगप्रत्ययेऽङ्गीक्रियमाणे तद्भ्रमत्वस्य वक्तुमशक्यत्वाद्देवतादीनामीश्वरस्य च प्रतिमादिषु
तादृशसन्निधिरूपाहङ्कारगमकारयोरङ्गीकारे आहार्यारोपकल्पनानुपपत्तेश्च, अतः रसप्रतीतिमनुसृत्याग्रे वक्ष्य-
माणरीत्या सर्वैरननागतः स्वात्मतादात्म्यापन्नतया अनुभूयमानत्वं न अम्रकृतमिति शङ्कनीयम् ।
मनपह्नवनीयतां गतमस्ति । तथा हि कुसुमाञ्जलिग्रन्थे 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः ।
वाक्यात्संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ।' इति पद्ये अष्टविधेपु अनुमानेषु ब्रह्माण्डविषयीणि
कार्यायोजनधारणानि पक्षीकृत्येश्वरानुमानमुक्तं तत्तु ब्रह्माण्ड इव पिण्डाण्डेऽपि स्वतन्त्रनाडीतन्त्रकृतं
शरीरनिर्माणात्मकं कार्यं, तदारम्भकपरमाणुप्रेरणात्मकमायोजनं, जीवतः शरीरधारणात्मकञ्च पक्षी-
कृत्य सम्यगवगन्तुं शक्यते । 'पदात्प्रत्ययतः श्रुतेः' वाक्याच्च नादसापेक्षात् ईश्वरानुमानं पूर्वोक्त-
नादप्रक्रियया स्वतन्त्रनाडीतन्त्रमूलिकया स्पष्टमवगन्तुं शक्यत इति पराहन्तानुभवानुसारेण
एकस्मिन्सर्वविषयकज्ञाने स्थिरीकृते सति तदनुसारिमनननिदिध्यासनादिद्वारा जीवस्यापि सर्वज्ञ-
त्वसिद्धिरप्रत्यूहा भवति । अत एव
स्वर्गापवर्गयोर्द्वारमामनान्त मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥
न्यायचर्चैयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥
इत्युक्तं न्यायकुसुमाञ्जलौ । इयांस्तु विशेषः-अद्वैतवादिनां द्वैतवादिनाञ्चेश्वरविषयविवादे
मध्यसेतुभूतास्तत्रभवन्त उदयनाचार्याः स्वकीयया अलौकिक्या नैयायिकपरिभाषया ईश्वरतत्त्वम-
नुमानद्वारा उभयाविरुद्धं साधयन्ति, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यैव सम्पूर्णेऽस्मिन्ग्रन्थे
उपलभ्यमानत्वात् । अन्तरा अनूद्यमाने जीवेश्वरभेदादौ तु अनूद्यमानत्वमेव न विधेय-
त्वम्, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यात्र ग्रन्थे क्वचिदप्यदर्शनात्, प्रत्युत—
'न ग्राह्यभेदसवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः ।
नोचेदनिन्द्वमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥'
( आत्मतत्त्वविवेके ) इत्यादिना आचार्यैर्वैदकसिद्धे परमेश्वरतत्त्वे स्वतात्पर्यमाविष्कृत-
मन्यत्र, अतः प्रामाणिकानामयमत्यन्तमुपादेयः कुसुमाञ्जलिग्रन्थ इति न तिरोहितमस्ति विदुषाम् ।
नैयायिकानामपि परलोकधर्माधर्मविषयेषु नैयायिकप्रक्रियानुरोधिविप्रतिपत्त्याद्यभ्यासार्थं बहुटीका-
सनाथः विशेषतो मिथिलामण्डलमण्डनायमाननैयायिकवरपूज्यवच्चाझामहोदयकृतटीकोपबृंहितोऽयं
ग्रन्थो अतीव प्रकाशकरो वर्तत इति उचिततममुपादेयतमञ्चैतत्प्रकाशनं श्रीमता श्रेष्ठिवरेण जयकृष्ण-
दासगुप्तमहोदयेन कृतं प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतइष्टसाधनताककर्माऽनुष्ठानरूपभारतीय-
राजनीतिरूपमेवेति सहर्षमस्माभिरनुमोद्यते । इति ।
भूमिका
अथायं प्रकाश्यते मुद्रयित्वा वरदराजकृतया बोधिन्या, व्याख्यात्रयसमलङ्कृतेन वर्धमानो-
पाध्यायविरचितेन प्रकाशेन च समन्वितो न्यायाचार्यपदाङ्कितेन श्रीमदुदयनाचार्येण निबद्धो
न्यायकुसुमाञ्जलिरित्यभिधया प्रथितो महानिबन्धः । तत्र च लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्य-
जात्यधिकरणत्वमात्मनि वर्तते न वेति संशये, भावकोट्या धर्मत्वाधर्मत्वरूपतादृशजात्यधिकरणत्वमा-
त्मनि नैयायिकमतेन वर्तते, अभावकोट्या च चार्वाकमतेन गुरुत्वादिरूपतादृशजात्यधिकरणत्वम-
नात्मगुण इति प्रथमविप्रतिपत्तिनिरसनार्थः प्रथमस्तवक आचार्यप्रवरेण जुगुम्फे । द्वितीये च
अदृष्टादिसद्भावेऽपि वेदानाम्नाप्तोक्तत्वेन प्रामाण्यावधारणादाप्तो वेदकर्ता कश्चिदीश्वर इति न संभवति,
अन्यथापि तेषां नित्यनिर्दोषतया स्वतःप्रामाण्यावधारणात्तद्विहितस्वर्गादिसाधनयागादौ प्रवृत्तिसंभ-
वादित्याशयवान्मीमांसको द्वितीयः प्रतिवादी प्रत्यवतिष्ठते तन्मतखण्डनेनेश्वरसिद्धिः प्रसाधिता ।
तृतीये-भवतु वेदानां पौरुषेयत्वादाप्तोक्तत्वं तदभावावेदकप्रमाणसद्भावात्, क्षित्यादेः कर्तृजन्यत्वे च
प्रत्यक्षबाधान्नेश्वरः कथमपि सिध्येदिति सौगतमतनिराकरणमकारि । सन्नपीश्वरो न प्रमाणम्,
यतः प्रमाणपदं हि भावकरणकर्तृव्युत्पत्त्या प्रमातत् साधनतदाश्रयेषु प्रवर्तते, तथाचेश्वरः कर्ता
स्यात्प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणं च स्यान्न चायं तथेति विपर्ययानुमानादिति
वादी दिगंबरश्चतुर्थश्चतुर्थे स्तवके दूषितः श्रीमदाचार्यपादैः । पञ्चमे च स्तबके नैयायिकैः क्षिति-
वेदादेः कर्तृजन्यत्वेनेतरबाधादीश्वरकर्तृकत्वं साधनीयम्, स च हेतुः शरीरजन्यत्वाद्युपाधिग्रस्ततया
न साधकः संभवतीति निरीश्वर सांख्यमतविप्रतिपत्तिखण्डनपुरस्सरं साधकयुक्तिगणैरीश्वरं साधयित्वा
तन्मूलकमेव श्रुतिस्मृतिपुराणेतिहासादीनामथयावत्प्रामाण्यमुररीक्रियते . वैदिकधर्मप्रामाण्यवादिनि-
र्मानवैस्तैः प्रधानतयेश्वरसिद्धिरेवास्य ग्रन्थस्य निर्मितौ आचार्यचरणानां प्रयोजनम् । एवं चेश्वरो
वर्तते न वेति संशयबीजविप्रतिपत्तिनिरसनमुखेनेश्वरसिद्धेर्जागरूकत्वात्तदाज्ञापत्र (१) रूपश्रुतिस्मृतीति-
हासपुराणान्यनुसृत्या तद्विहिताचरणसम्पन्नानां हृदि सुविमलां पुरुषार्थचतुष्टयलब्धिहेतुकां शेमुषीमुत्पा-
द्यपत्रानास्थया तन्निषिद्धाचारवतां च स्वान्ते विपरीतां बुद्धिं प्रयच्छन्नीश्वरो जीवकर्मानुरूपाणि
सुकृतदुष्कृतफलानि भोजयन्कर्मसापेक्षतया न वैषम्यनैर्घृण्यदोषदूषितो भवति, अत एवोक्तं भगवता
व्यासेन वेदान्तब्रह्मसूत्रेषु 'वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति २-१-३४ इति ।
अस्मिंश्च सूत्रे तथाहि दर्शयति इतिवाक्यैकदेशेनैतद्विषये 'पुण्येन पुण्यं लोकं नयति पापेन
पापम्' ( प्रश्नो० ३।७ ) 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृह० ३।२।१३)
'कर्मवैचित्र्यात्सृष्टिवैचित्र्यम्' ( ६।४१ ) इत्यादिना कर्मनिमित्तं रचनावैविध्यमतो न
परमात्मनि कश्चिद्दोष इति श्रुतिप्रामाण्यं स्फुटीचकार सूत्रकारः । कर्मानुगुणमतिप्रेरकोऽपि स
एवेत्यत्रापि ।
( १ ) अतएवोक्तं वाधूलस्मृतौ-श्रुतिस्मृती ममैवाज्ञे यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥ इति ।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥'
इति गीतावचनं प्रमाणम् ।
इत्थं प्राधान्येनात्र महानिबन्धे परमेश्वरतदवतारादीनां दृढप्रमाणैरवधारयितुर्न्यायाचार्य्य-
विरुदावलीसमलङ्कृतस्याचार्य्योदयनभगवतः समयचारित्र्याद्यैतिह्यं भूतपूर्वैर्वारणसेयराजकीयसंस्कृत-
महाविद्यालयीयपुस्तकाध्यक्षैः श्री पं० विन्ध्येश्वरीप्रसादद्विवेदिमहोदयैः काशीस्थचौखम्बासंस्कृत-
सीरीजभिधपुस्तकमालायां प्रकाशितायां न्यायवार्तिकभूमिकायां, तत्रैव प्रकाशिते चात्मतत्त्वविवेके-
ऽस्माभिरपि विस्तीर्य वर्णितप्रायमतस्तत्रैव द्रष्टव्यम् ।
आचार्येण वैशेषिके किरणावली, लक्षणावली, न्याये न्यायनिबन्धाख्या
तात्पर्यपरिशुद्धिः, न्यायपरिशिष्टापरपर्याया न्यायसूत्रवृत्तिरात्मतत्त्वविवेकश्च
यया पाण्डित्यपूर्णया रचनया विरचितास्तां विदन्त्येव प्राचीनन्यायवैशेषिकदर्शनहार्दज्ञा नैयायिकाः ।
स चायमाचार्यप्रवर इतः पूर्वं १९०५ पञ्चाधिकैकादशशतमिते वैक्रमे वर्षे नवाधिकसप्तशत ७०९मिते
शकाब्दे वा प्रादुर्भूतस्य भगवतः शंकराचार्यस्य कियत्कालानन्तरमाविर्भूवेत्यत्र—
तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः ।
वर्षेष्बूदयनश्चक्रे सुबोधां लक्षणावलीम् ॥
इति तदुक्त्यैव निर्धार्यते ।
एतद्विरचितोयं न्यायकुसुमाञ्जलिर्द्विविधः—एको हरिदासमहेशचन्द्रन्यायरत्नप्रभृतिभिर्व्या-
ख्यातः केवलकारिकात्मकोऽपरश्च गद्यपद्यात्मको वरदराजवर्धमानोपाध्यायादिभिष्टीकाग्रन्थैः
समुपबृंहितः । अस्य च पूर्वं वारणसेयचौखम्बासंस्कृतपुस्तकालयमालायां ई० १९१२ हायने
वर्धमानकृतप्रकाशेन, रुचिदत्तविरचितमकरन्देन च समलङ्कृतस्य महामहोपाध्यायरत्नगर्वस्थ-
लक्ष्मणशास्त्रिभिः संस्कृतस्य प्रकाशनमभूत्, किन्तु तस्याधुनाऽप्राप्यत्वाद्बोधिन्याश्च वरदराजकृताया
वारणसेयराजकीयसरस्वतीभवनात्प्रकाशिताया दुष्प्रापतया चास्मिन्संस्करणे बोधिनी, मेघठक्कुरकृतं
जलदापरपर्यायं प्रकाशिकाख्यं प्रकाशाव्याख्यानं, मैथिलनैयायिकश्रीबब्चाझाकृता टिप्पणी च
संनिवेशिता । एवं समुदितव्याख्यात्रयोपेतप्रकाशबोधिनीसहितस्य सर्वाङ्गपरिपूर्णस्य न्यायकुसुमांजलेः
प्रातःस्मरणीयानामस्मद्गुरुप्रवराणां महामहोपाध्यायानां श्रीवामाचरणभट्टाचार्याणामन्तेवान्तेवासि-
भिर्न्यायाचार्यश्रीपद्मप्रसादभट्टराइभिर्महता श्रमेणारब्धेऽस्य संपादने तेषां नेपालराजकीयकाठमाण्डू-
स्थितराजकीयसंस्कृतमहाविद्यालये प्रधानाचार्यत्वेन नियुक्ततया तत्र गमनेन तृतीयस्तबकमारभ्य
काशीस्थचौखम्बासंस्कृतपुस्तकालयाध्यक्षैः श्रेष्ठिकुलावतंसैर्जयकृष्णदासमहोदयैरस्य संस्करणस्यावशिष्ट-
संपादनकार्येऽहं न्ययोजिषि । ऐषमे संस्करणे प्रकाशमकरन्दसहितं पूर्वनिर्दिष्टमेकमेव पुस्तकं प्रायशः
शुद्धमादर्शत्वेनावलम्बितम् । जलद (प्रकाशिका)टिप्पण्योश्चादर्शपुस्तकाश्रयेण लेखकलिखिते
भट्टराइमहोदयैः संशोधिते द्वे एव । बोधिन्याश्च वरदराजकृताया उपरि निर्दिष्टं प्रायः शुद्धमेकमेव
पुस्तकमादर्शभूतमस्माभिरुपलब्धम् । स चायं वरदराजः कस्मिन्समये बभूव, मध्यकौमुदीलघुकौ-
मुद्योर्व्याकरणग्रन्थयोस्सम्पादकाद्विजः स एव वेति सन्देहे प्रायशो मिथिलादेशवासी रामदेवमिश्र-
तनूजोऽयमीस्वीयपंचदशशताब्द्यां बभूवेति वदन्त्यैतिहासज्ञाः । कुसुमांजलिहार्दप्रकाशनपुरस्सरमक्षरार्थ-
संगतिद्वारा व्याख्यां प्रकुर्वाणोन वरदराजेनाऽन्येभ्यो व्याख्याकारेभ्यः प्रथितनैयायिकप्रचुरभारतचर्या-
( ८ )
दन्यत्राप्यनेन व्याख्यानेन कुसुमांजलिरहस्यजिज्ञासूनामीश्वरेऽनास्थां विदधतां गीर्वाणवाणीसु-
बुद्धानां वैदेशिकानामुपकृतिर्भवेदिति बोधनी विरचितेति वैलक्षण्यमत्र प्रतीयते यतस्तेनैवोक्तं मङ्गलान्ते-
औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः।
तस्य कृते कृतिरेषा कुसुमांजलिबोधनी जयतीति॥
लघुकौमुद्यादिरचयिता तु वरदराजोऽस्माद्भिन्न एवेति प्रतीयते। यद्यपि पंचदशशताब्दया
अन्ते वर्तमानेन रामचन्द्रविदुषा रचितायाः प्रक्रियाकौमुद्या व्याख्याता वरदराजोऽपि तत्समय एव
प्रायशो बभूव, अन्नंभट्टादिवन्न्यायव्याकरणादिशास्त्रपांडित्यमपि तस्य संभवतीत्यत्रापि न कापि
क्षतिस्तथापि तस्य जनको भट्ट···नामोत्तरप्रदेशवासीति विभिन्न एवायं वरदराज इति सिद्धान्तः।
पूर्वमीमांसाभिज्ञः कश्चिदन्योऽपि वरदराज इति मीमांसकाः प्राहुः।
न्यायकुसुमाञ्जलिप्रकाशकारो न्यायाद्यनेकशास्त्रपारावारपारदृश्वा वर्धमानोपाध्यायस्तु
मिथिलादेशे दरभङ्गामण्डलान्तर्गत'करियन'ग्रामे जातस्तत्त्वचिन्तामणिकृद्गङ्गेशोपाध्यायस्यापर-
गौतममूर्तेरात्मजः।
अत एवोक्तं न्यायकुसुमांजलिप्रकाशारम्भे--
न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने।
गङ्गेश्वराय गुरवे पित्रेऽत्र भवते नमः॥ इति।
'यस्तर्कतन्त्रशतपत्रसहस्ररश्मि'रित्यादिकिरणावलीप्रकाशे च वर्धमानोपाध्यायाः।
अस्य गणरत्नमहोदधिकारस्य च तत्तद्ग्रन्थेषु वर्धमाननाम्नैव प्रसिद्धिसत्त्वेऽपि समयैक्यासंभवाद्-
गुरोर्नामभेदाच्च गणरत्नमहोदधिकारोऽन्यः स्वकीयग्रन्थे जैनेषु गौरवं प्रदर्शयन् जैन इति प्रतीयते,
स च वर्धमानसूरिगोविन्दसूरिशिष्य इति तद्वृत्तौ स्वयमेव लिखितवान्।
सप्तनवत्यधिकेष्वेकादशसु शतेष्वतीतेषु।
वर्षाणां चक्रिमतो गणरत्नमहोदधिर्विहितः॥
इत्यप्युक्तम्। अनेन च गौतमसूत्रतत्त्वचिन्तामणिन्यायलीलावतीप्रभृतयोऽनेके ग्रन्था
व्याख्याताः। किरणावल्याद्या आचार्यग्रन्था अपि सर्वे व्याख्याताः। स चायं मिथिलादेशजातो
विद्वद्वरेण्यः दशमशताब्द्यां वर्तमानादुदयनाचार्यादनन्तरकालिको द्वादशशताब्द्व्यां बभूवेति
निर्धारितमस्माभिर्न्यायलीलावतीभूमिकायाम्।
कुसुमांजलिप्रकाशग्रन्थस्य प्रकाशिकाख्यव्याख्याकारो भगीरथठक्कुरापरपर्यायो मेघठक्कु-
रोऽपि मैथिलः। अयं च पक्षधरमिश्रशिष्य इति किंवदन्ती, 'विंशाब्दे जयदेवपण्डितकवेरि'त्याद्यभि-
युक्तोक्त्या चायं जयदेवसमकाले विंशाब्दे तदनन्तरं वा त्रिंशाब्दे बभूवेति इतिहासतत्त्वज्ञाः।
अनेनापि वर्धमानोपाध्यायनिर्मिताः सर्वे प्रकाशग्रंथा व्याख्याता इत्यनुमीयते। उपलभ्यन्ते च
किरणावलीप्रकाशप्रकाशिका, न्यायलीलावतीप्रकाशप्रकाशिका एतदतिरिक्ता ग्रन्थाः।
प्रकाशव्याख्यां मकरन्दाभिधया टीकया समुद्भासयतो महामहोपाध्यायरुचिदत्तमिश्रस्य
विषये त्वियं किंवदन्ती जागर्ति-यदेष मिथिलामण्डलान्तर्गतसोदरपुरवास्तव्यो देवदत्तमिश्रसूनुः
( ६ )
पीयूषवर्षजयदेवापरनाम्नो पक्षधरमिश्रस्य प्रधानोऽन्तेवासी नव्यन्यायप्राचीनन्याययोस्तत्त्वज्ञस्त-
त्कालिकनैयायिकेष्वतीवप्रसिद्धनैयायिको बभूवेति ।
यत एवोक्तं तत्त्वचिन्तामणिप्रत्यक्षखण्डपुष्पिकायां—
अधीत्य रुचिदत्तेन जयदेवाज्जगद्गुरोः ।
चिन्तामणौ ग्रन्थमणौ प्रकाशोऽयं प्रकाश्यते ॥ इति ।
तथा—
श्रीदेवदत्ततनयो विनयोपगूढः श्रीरेणुकाविरलगर्भपुटोपजातः ।
श्रीशक्तिदत्तमतिदत्तसहोदरो यः सोऽमुं चकार रुचिदत्तकृती प्रकाशम् ॥
इति श्रीसोदरपुरकुलसमुद्भूतमहामहोपाध्यायश्रीरुचिदत्तविरचिते तत्त्वचिन्तामणि-
प्रकाशे । अनेन न्यायकुसुमाञ्जलिप्रकाशे मकरन्दव्याख्या, तत्त्वचिन्तामणिप्रकाशः, तर्कपादः,
तर्कसारश्च स्वतंत्रो व्यरचीति प्रसिद्धिः । एतत्समयविषये त्वनेकमतानि प्रतीयन्ते, तथथा सुरेन्द्र-
नाथगुप्तमहोदयमतेनायमीस्वीयत्रयोदशशताब्द्यां १२७५ वर्षे बभूवेति । सार्धदशकोत्तर-त्रयोदशश-
ताब्दिमध्येऽस्य स्थितिररासीदिति च तार्किकरक्षायां वाराणसेयभूतपूर्वरराजकीयसंस्कृतमहाविद्यालयीय-
प्रधानाचार्या महामहिमशालिनो डॉ० वेनिसमहाशया दर्शयन्ति स्म ।
वस्तुतस्त्वनेकशास्त्राविस्तृतस्य नव्यन्यायशास्त्रस्य बीजाधानं विदधतः श्रीगङ्गेशोपाध्यायस्य
शिष्येण पुत्रेण च प्रकाशकर्त्रा द्वादशशताब्द्यां वर्तमानेन सुयोग्यस्तत्कालिको यज्ञपतिरध्यापितः ।
यज्ञपतिशिष्यश्च हरिमिश्रस्तस्य च पक्षधरमिश्रः । तेन च वासुदेव-रुचिदत्त-चन्द्रपतिरिति त्रयो-
ऽन्तेवासिनः प्राधान्येन न्यायशास्त्रमध्याप्य भारतं वर्षे स्वनामकीर्तिपताक्या समलङ्कृतमभूत् ।
तेषु रुचिदत्तमिश्रस्य शिष्यो महेशठक्कुरो महामहिम्नो अक्रूरनाम्नो यवनराजस्य समये ई० १५५६
हायने षोडशशताब्द्यामेवाभूदतस्तमय एव रुचिदत्तस्य स्थितिररासीदिति सिद्धान्तः ।
अयं च सिद्धान्तो—
वेदैर्बाणयुतैः सशंभुनयनैस्संख्यां गते हायने
श्रीमत्प्रौढमहीभुजो गुरुदिने मार्गे च पक्षेऽसिते ।
पट्ट्यां ताममरावतीमधिवसन् या भूमिदेवालया
श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखीद्भुतम् ॥
इति च वचनेन १४५१ A. D.–१४६५ A. D. समयस्थितिकस्य पक्षधरमिश्रस्य
समयनिर्धारणेन परिपुष्टो भवतीति सुधीभिर्विभावनीयम् ।
टिप्पणीकारा धर्मदत्तापरपर्यायश्रीवच्चाझामहोदयास्तु मिथिलाप्रदेशान्तर्गतनवानीनाम्निग्रामे
१९१७ वैक्रमाब्दे दरभंगाधीशश्रीरुद्रसिंहमहाराजराजपण्डितानां रत्नपाणिझामहोदयानां तनुज-
न्मनो पं० दुर्गादत्तझानाम्नो विदुषः पुत्रः सुगृहीतनामधेयो धर्मदत्तनाम्ना वच्चाझापरपर्यायेण
प्रथितो बभूव । स च गृह एव प्रारम्भिकमध्ययनं समाप्य ठाढीग्रामनिवासिनो विद्वन्मूर्धन्यस्य
पं० विश्वनाथझाविदुषः समीपे किंचित्कालमध्ययनं कृत्वा तत्कालीनप्रसिद्धनैयायिकप्रवरस्य पं० वचु-
जनझाविदुषः प्रधानान्र्तेवासित्वमवाप्य न्यायवैशेषिकशास्त्रे व्युत्पत्तिमावाप्तवान् । पश्चाद्वाराणस्यां
( १० )
सुप्रथितविदुषो महायोगिनः श्रीविशुद्धानन्दसरस्वतीमहोदयस्य चरणचञ्चरीकतामङ्गीकृत्य पूर्वोत्तर-
मीमांसाहार्दं विज्ञाय सुप्रौढपाण्डित्यं लेभे ।
पश्चान्मिथिलाप्रचलितां स्वगृहे एव चतुष्पाठीमुद्घाट्याध्यापनं चकारेति वदन्ति तत्रस्थाः। तत्र-
भवतोऽध्यापनचातुरीमाकर्ण्य देशान्तरस्थाश्छात्रागणा यन्निकटेऽधीत्य देशान्तरेऽपि यत्कीर्तिपताकां
प्रकाशितवन्तः । कदाचित्पाण्डित्यसंतुष्टा द्वारिकापीठाध्यक्षाः शंकराचार्या अपि सादरमाहूय
यत्समीपे शास्त्राध्ययनमकुर्वन्त । ‘सूरत’इत्यत्रायोजितेऽखिलभारतीयपण्डितसमाजेऽपि प्रधानपदं
येनालङ्कृतमभूत् । भृतकवृत्तिमपहुवानेनापि येन मिथिलाधीशश्रीरमेश्वरसिंहराज्ञामनुरोधेन धर्म-
समाजसंस्कृतकालेजमुजफ्फरनगरप्रधानाचार्यपदमलंकृतम् । स चायं वैक्रमे १९७८ वर्षे देवपुरातिथि-
र्बभूव वच्चाझामहोदयः । अयं च कविताशक्तिप्रतिभया सुलोचनामाधवं चंपूनामकं चंपूकाव्यमपि
निर्ममे । एतत्कृतग्रंथाः—
१. व्याप्तिपंचकटीका । ७. सिद्धान्तलक्षणविवेचनम् ।
२. अवच्छेदकत्वनिरुक्तिविवेचनम् । ८. व्याप्त्यनुगमविवेचनम् ।
३. व्युत्पत्तिवादगूढार्थतत्त्वालोकः । ९. शक्तिवादटिप्पणम् ।
४. सव्यभिचारटिप्पणम् । १०. सत्प्रतिपक्षटिप्पणम् ।
५. खण्डनखाद्यटिप्पणम् । ११. कुसुमांजलिप्रकाशटिप्पणम् ।
६. न्यायभाष्यटीका । १२. अद्वैतसिद्धिचन्द्रिकाटिप्पणम् ।
सोऽयं कुसुमांजलिग्रन्थोऽद्य यावदप्रकाशिताभ्यां जलदापरपर्यायप्रकाशिकाटिप्पणीभ्यां सह
महता श्रमेण यथामति संशोध्य विदुषामग्रे उपस्थापितः । अत्र च पंचमस्तबकान्ते प्रकाशिकायां
मकरन्दे च पृष्ठे प्रदर्शितस्य वक्तरीति, आगन्तुकेति च प्रतीकद्वयस्य मुद्रितप्रकाशपुस्तकेऽद-
र्शनाल्लिखितादर्शप्रकाशपुस्तकप्राप्त्यर्थमस्माभिः प्रयत्नो विदधे, किन्तु वाराणसेयसरस्वतीभवनाख्य-
राजकीयपुस्तकालयेऽपि केवलमेकं चतुर्थस्तबकमात्रस्य पुस्तकं वर्तते न तु पूर्णमेकमपि। मकरन्दप्रका-
शिकयोश्चादर्शपुस्तके वंगाक्षरे वरीवर्तेते, तयोरपि चोक्तप्रतीकद्वयमुपलभ्यैतन्निर्धारितं यत्प्रकाशस्थो-
यमन्तिमो भागोऽवश्यं भ्रष्टो नोपलब्धः पूर्वप्रकाशकैरिति स्वयमूहनीयं नैयायिकप्रवरैः ।
निरीश्वरवादिमतोन्मूलनक्षमस्यैकमात्रस्यास्य महानिबन्धस्य संशोधनकार्यं मादृशामल्पबुद्धीनां
यद्यप्युडुपेन सागरतितीर्षोरिवोपहासकरन्तथापि प्रातःस्मरणीयानां गुरुचरणानामसीमानुग्रहबलादेव
यथाकथंचित्पूर्णतां गतमिति तदुपकृतीर्भूमिकालिखने ऐतिह्यसाहाय्यं प्रदतां वाराणसेयराजकीयसंस्कृत-
महाविद्यालयप्रधानपुस्तकालयाध्यक्षाणां डॉ० सुभद्रझामहोदयानां चोपकारान् यावज्जीवं न कदापि
विस्मरिष्यामः ।
वाराणसेयागस्त्याश्रमवासी
कार्तिकपूर्णिमा } विदुषामनुचरः
२०१३ ० / ढुंढिराजशास्त्री ।
कुसुमाञ्जलिकारिकाः
प्रथमः स्तवकः ।
सत्पक्षप्रसरः सतां परिमलोद्बोधबद्धोत्सवो
विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः ।
ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम-
चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ १ ॥
स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २ ॥
न्यायचर्चैयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥ ३ ॥
सापेक्षत्वादनादित्वाद्द्वैचित्र्याद्विश्ववृत्तितः ।
प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ ४ ॥
हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च ।
स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥
प्रवाहो नादिमानेष न विजात्येकशक्तिमान् ।
तत्त्वे यन्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥
एकस्य न क्रमः कापि वैचित्र्यञ्च समस्य न ।
शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥
विफला विश्ववृत्तिर्नो न दुःखैकफलापि वा ।
दृष्टलाभफला वापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥
चिरध्वस्तं फलायालं न कर्मातिशयं विना ।
सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥ ९ ॥
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ।
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ॥ १० ॥
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ।
स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥ ११ ॥
निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।
देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥ १२ ॥
ज्येतरनिमित्तस्य वृत्तिलाभाय केवलम् ।
परोद्देश्यसमवेतस्य परीक्षाविधयो मताः ॥ १३ ॥
कर्तृधर्मा नियन्तारश्चेतिता च स एव नः ।
अन्यथाऽपवर्गः स्यादसंसारोऽथ वा ध्रुवः ॥ १४ ॥
नान्यदृष्टं स्मरत्यन्यो नैकं भूतसंप्रक्रमात् ।
वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥ १५ ॥
न वैजात्यं विना तत् स्यात् न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ १६ ॥
७३ न्या० कु०
( २ )
स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः ।
एकतानिर्णयो येन क्षणे तेन स्थिरे मतः ॥ १७ ॥
हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् ।
तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् ॥ १८ ॥
पूर्वभावो हि हेतुत्वं मीयते येन केनचित् ।
व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि ॥ १९ ॥
इत्येषा सहकारिशक्तिरसमा माया दुरुन्नेतितो
मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता ।
देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः
साक्षात् साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ॥ २० ॥
𑁋𑁋𑁋𑁋𑁋𑁋
अथ द्वितीयः स्तबकः ।
प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् ।
तदन्यस्मिन्नविश्वासान्न विधान्तरसम्भवः ॥ १ ॥
वर्षादिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् ।
उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥
जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः ।
ह्रासदर्शनातो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥
कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन्
हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति ।
तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं
विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि ॥ ४ ॥
𑁋𑁋𑁋𑁋𑁋𑁋
अथ तृतीयः स्तबकः ।
योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धः कुतस्तराम् ।
क्वायोग्यं बाध्यते शृङ्गं क्वानुमानमनाश्रयम् ॥ १ ॥
व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता ।
अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥
दृष्टोपलम्भसामग्री शशशृङ्गादियोग्यता ।
न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने ॥ ३ ॥
इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे ।
नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥
आगमादेः प्रमाणत्वे बाधनादनिषेधनम् ।
आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता ॥ ५ ॥
दृष्टादृष्ट्योर्न सन्देहो भावाभावविनिश्चयात् ।
अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् ॥ ६ ॥
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥
परस्परविरोधे हि न प्रकारान्तरस्थितिः ।
नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ ८ ॥
साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते ।
अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ॥ ९ ॥
सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह ।
प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १० ॥
सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा ॥ ११ ॥
श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥
अनैकान्तः परिच्छेदे सम्भवे च न निर्णयः ।
आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्बन्धना ॥ १३ ॥
निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये ।
व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥ १४ ॥
व्यस्तपुंदूषणाशङ्कैः स्मारितत्वात् पदैरमी ।
अन्विता इति निर्णीते वेदस्यापि न तत् कृतः ॥ १५ ॥
न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता ।
अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥
न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् ।
निरञ्जनाऽवबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥
हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा ।
तदभावात् प्रवृत्तिर्न कर्मवादेऽप्ययं विधिः ॥ १८ ॥
अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ।
न मानयोर्विरोधोऽस्ति प्रसिद्धे वाऽप्यसौ समः ॥ १९ ॥
प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्थानपेक्षणात् ।
अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥
प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः ।
अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥
अवच्छेदग्रहाण्यैवाद्दौस्थ्ये सिद्धसाधनात् ।
प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥
प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः
प्रायो यन्मुखवीक्षणैकविधुरैरात्माऽपि नासाद्यते ।
तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम्
देवानामति देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥
( ४ )
अथ चतुर्थः स्तवकः ।
अप्राप्तेरधिकप्राप्तेर्लक्षणमपूर्वदृक् ।
यथार्थोऽनुभवो मानमनपेक्षतयेष्यते ॥ १ ॥
स्वभावनियमाभावादुपकारो हि दुर्घटः ।
सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥ २ ॥
अनैकान्तादसिद्धेर्वा न च लिङ्गमहि क्रिया ।
तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥
अर्थेनैव विशेषो हि निराकारतया धियाम् ।
क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥
मितिः सम्यक्परिच्छित्तिस्तद्वत्ता च प्रमातृता ।
तद्योगोह्यव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ५ ॥
साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ
भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः ।
लेशादृष्टिनिमित्तदृष्टिविगमप्रभ्रष्टशङ्कास्तुषः
शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥ ६ ॥
अथ पञ्चमः स्तवकः ।
कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ।
वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ १ ॥
न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः ।
सिद्धयसिद्धयोर्विरोधो न, नासिद्धिरनिबन्धना ॥ २ ॥
तर्काभासतयाऽन्येषां, तर्काशुद्धिरदूषणम् ।
अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् ॥ ३ ॥
स्वातन्त्र्ये जडताहानिः, नादृष्टं दृष्टघातकम् ।
हेत्वभावे फलाभावः, विशेषस्तु विशेषवान् ॥ ४ ॥
कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः ।
विच्छेदेन पदस्यापि प्रत्यादेश्च पूर्ववत् ॥ ५ ॥
उद्देश एव तात्पर्यं व्याख्या विश्वदृशः सती ।
ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥ ६ ॥
प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा ।
तज्ज्ञानं, विषयस्तस्य विधिस्तज्ज्ञापकोऽथ वा ॥ ७ ॥
इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः ।
असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥ ८ ॥
कृताकृतविभागेन कर्तृरूपव्यवस्था ।
यत्न एव कृतिः, पूर्वा परस्मिन् सैव भावना ॥ ९ ॥
भावनैव हि यत्नात्मा सर्वाख्यातस्य गोचरः ।
तया विवरणध्रौव्यादाक्षेत्तानुपपत्तिः ॥ १० ॥