न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 67, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् । ३५
प्रकाशः ।
परलोके तु, समानकालीनानेकावृत्तिशरीरवृत्तिजातित्वं दुःखानवच्छेदकत्वासमानाधिकरणवृत्ति
प्रकाशिका ।
समानकालीनेति । शरीरं दुःखानवच्छेदकमित्यत्र प्रसिद्धाप्रसिद्धपक्षत्वे बाधाश्रयासिद्धी,
जातिपक्षत्वेऽपि तथा, अतो जातित्वं पक्षः । एककालीनेऽनेकस्मिन् न वर्त्तते अथ च शरीर-
वृत्तिर्या जातिस्तत्त्वं दुःखानवच्छेदकत्वानधिकरणधिकरणवृत्ति न वेत्यर्थः । अत्र विधिप्रसिद्धिः पट-
रूपवृत्तिप्रमेयत्वादौ, निषेधप्रसिद्धिरत्वाकाशादौ, विधिकोटिर्नैयायिकानां निषेधकोटिश्च परेषाम् ।
सत्तावृत्तित्वेन सिद्धसाधनवारणायावृत्तीत्यन्तम् । तत्राप्यनेकावृत्तिजातित्वमप्रसिद्धमिति समान-
कालीनेत्यनेकविशेषणम् । न च दुःखानवच्छेदकं यदहोरात्रावच्छिन्नं भिन्नमेव शरीरं तदादाय
सिद्धसाधनमिति वाच्यम् । (१) दुःखस्वरूपयोग्यत्वमात्रस्य दुःखानवच्छेदकत्वपदार्थत्वात् । यत्तु तद-
धिकरणानधिकरणत्वमेवासामानाधिकरण्यमिति न तदादाय सिद्धसाधनमिति । तत्तुच्छम् । तथासति
सत्तामादाय सिद्धसाधनाप्रसङ्गेनावृत्तीत्यन्तस्य वैयर्थ्यात् । परिमाणभेदभिन्ननानाकालीनकुष्माण्डादि
फलवृत्तिजातिमादाय सिद्धसाधनवारणाय शरीरवृत्तीति । न च तस्यां जातौ मानाभावः,
मीनादिशरीरवृत्तिजात्या सह तुल्यव्यक्तिकत्वात् । मिथ्यास्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातिमा-
दाय सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः । तच्चिन्त्यम् । कदम्बगोलकन्यायेन शब्दोत्पत्तौ
मकरन्दः ।
न्त्विति । नन्विदं बाधितं, धर्मत्वाधर्मत्वयोः परस्पराव्याप्यत्वाददृष्टत्वस्य च जातित्वाभावादित्य
त आह । अदृष्टत्वञ्चेति । यत एवादृष्टत्वं न जातिरत एव तद्व्याप्यजात्यव्याप्यतया धर्मा-
धर्मत्वे साक्षाद् व्याप्ये इति भावः ।
समानेति । अत्र विधिकोटिर्नैयायिकानाम्। नेति बौद्धानाम् । यद्यपि तादृशजातिर्दुःखानवच्छे-
दकत्वासमानाधिकरणेत्येतावत्तैव दुःखानवच्छेदकशरीरसिद्धाविष्टसिद्धिस्तथापि चैत्रत्वादेस्तादृशजातेः
पक्षीकरणे बाधाद् अन्यस्याश्चाप्रसिद्धेरिति पक्षविकल्पमिया तादृशजातित्वं पक्षीकृतम् । दुःखानव-
च्छेदकत्वासमानाधिकरणवृत्तित्वं दुःखानवच्छेदकत्वानधिकरणधिकरणवृत्तित्वं विवक्षितम् । एवञ्च
सत्तावृत्तित्वेन सिद्धसाधनवारणार्थमाह, अवृत्त्यन्तम् । अनेकावृत्तिजातित्वमप्रसिद्धमिति समानका-
लीनपदम् । तदर्थश्च समानकालोत्पत्तिकत्वम् । एवञ्चात्मत्वमनस्त्वादिवृत्तित्वेन सिद्धसाधनवारणार्थं
शरीरवृत्तीति ।
केचित्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातेस्तथात्वेन सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः।
टिप्पणी ।
गुणत्वव्याप्यजात्यव्याप्यत्वरूपसाक्षाद्व्याप्यत्वस्य न हानिः । शरीरवृत्तिजातित्वमिति ।
स्वर्गसद्भावेऽपि नारकीयशरीरवृत्तिजातौ चार्वाकसाध्यप्रसिद्धिः स्यात्, जातित्वावच्छेदेन साध्य-
तायां गौरवं स्यादतो जातित्वपर्यन्तानुधावनम् । जलदे प्रसिद्धाप्रसिद्धपक्षत्वे बाधाऽऽश्रयासिद्धी
इत्यतो जातित्वानुधावनमिति । दुःखानवच्छेदकत्वासमानाधिकरणवृत्तीत्यस्य दुःखानवच्छेदक-
(१) इदन्तु चिन्त्यम् । अवच्छेदकतया दुःखं प्रति तादात्म्येन तस्यकारणत्वात् तदवच्छेद-
कत्वमेव योग्यत्वम् । तदवच्छेदकं च यदि दुःखानवच्छेदकचैत्रादिशरीरनिष्ठं तत्तद्व्यक्तित्वं तदोक्त-
दोपतादवस्थ्यम् , यदि चैत्रत्वादिकं तदा तस्य सुखावच्छेदकेऽपि सत्त्वेन कुतो न तन्न दुःखो-
त्पत्तिः । न चादृष्टविशेषादिरूपसहकारिविरहान्नेति वाच्यम् । तथासत्यनेककारणत्वापेक्षया शरी-
रत्वेनैव कारणत्वे लाघवेन तस्यैव स्वीकरणीयत्वापत्तेः । स्वर्गिशरीरे च सहकारिविरहादेव न
दुःखमिति साध्याप्रसिद्धिरिति ।