न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 424, कुल 608 में से
संदर्भ में पढ़ेंशेषमप्रतीत्य शक्यम्। बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यत्वात्। पदार्थमात्रे चा-
भ्रान्तत्वसिद्धौ न किञ्चित्। अनाप्तसाधारण्यात्। एतेषां संसर्गेऽयमभ्रान्त इति
शक्यमिति चेन्न। एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः। अननुभूतचरे स्मरणा-
योगात्, तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति॥
नापि द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गाऽनिश्चयात्, वाक्यस्य च तदेक-
फलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः। अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मा-
रितत्वादित्येव हेतुः स्यात्। तथा चाऽग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः।
तथाविधानां सर्वथा संसर्गायोग्यत्वादिति॥
द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति। तत्र केयमाकाङ्क्षा नाम? न
तावद्विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात्। नाऽपि तद्योग्यता,
योग्यतयैव गतार्थत्वात्। नाप्यविनाभावः। नीलं सरोजमित्यादौ तदभावेऽपि वाक्या-
र्थप्रत्ययात्। तत्रापि विशेषाङ्कितसामान्ययोरविनाभावोऽस्तीति चेन्न। 'अहो विमलं
जलं नद्याः कच्छे महिषश्चरती'त्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात्। नापि प्रतिपत्तु-
र्जिज्ञासा। घटो भवतीत्यादौ शुक्लादिजिज्ञासायां, रक्तः घटो भवतीत्यस्यैकदेशवत्
सर्वदा वाक्यापर्यवसानप्रसङ्गात्॥
बोधनी।
किमित्यत्राह न चैतत् इति। क्वचिदाप्तत्वमवधार्य सर्वत्रायमीदृश इत्यनुमास्यामह इत्यत्राह यत्र
क्वचित् इति। वाक्यार्थप्रतीतेः प्रागाप्तत्वासिद्धिसुपसंहरति ततोऽस्मिन् इति। ननु पदार्थास्ता-
वत्प्रागेव प्रतीयन्ते तेषां सत्यत्वात्तत्राप्तिरप्यवधार्यत इत्यत्राह पदार्थमात्रे च इति। नन्वनवगतेऽपि
वाक्यार्थे पदस्मारितानां पदार्थानां परस्परसंसर्गयोग्यतावगमादेतत् संसर्गेऽयमभ्रान्त इति निश्चेतुं
शक्यमित्याह एतेषाम् इति। न इति। नहि तदानीमेषां संसर्ग इत्यनुभवात्मिका बुद्धिः सिध्यति
कारणाभावादिति। तत एव न स्मरणात्मिकापीत्याह अननुभूत इति।
द्वितीयं पादं व्याचष्टे नापि द्वितीयः इति। न परं साध्यासिद्धिः सिद्धसाधनं चेत्याह योग्य-
प्रकाशः।
त्वादित्यर्थः॥ प्रागेवेति॥ योग्यतया लिङ्गविशेषणेन सिद्धेरित्यर्थः॥ तस्येति॥ एकत्र पदार्थे
पदार्थान्तरवैशिष्ट्यस्यैव संसर्गरूपत्वादित्यर्थः॥ विशेषेति॥ नीलेन गुणसामान्यमाक्षिप्यते, सरो-
जेन द्रव्यमात्रं, तयोश्चाविनाभावोऽस्त्येवेत्यर्थः॥ अहो इति॥ जलान्विततया आश्रयीभूतकच्छे
साकाङ्क्षतापत्तावेकवाक्यतापातादित्यर्थः॥ रक्त इति॥ यथा रक्तः पटो भवतीत्यत्र रक्तपदार्थान्वयं
विना पटो भवतीत्येकदेशो न पर्यवस्यति, तथा रक्तपदं विना यत्र पटो भवतीत्येव वाक्यमुच्चा-
रितं, तत्रापि तन्न पर्यवस्येदित्यर्थः। अजिज्ञासोरपि वाक्यार्थज्ञानाच्चेति भावः॥
प्रकाशिका।
हितत्वात् परामर्शभ्रमं वारयति। निश्चयकैति। योग्यतयेति। इदञ्च सम्भावितपदस्य
योग्यपरत्वे दूषणम्, सन्दिग्धपरत्वे तु संसर्गासिद्धिरेव दोष इति स्मर्त्तव्यम्। राजपदा-
मकरन्द
तया इति। सम्भावितपदस्य लिङ्गविशेषणयोग्यतापरत्वे दूषणमिदम्। सन्दिग्धपरत्वे संसर्गानिश्च-
यादित्येव दूषणं बोध्यम्।
टिप्पणी
चिन्त्यम्। यथा वाक्यवाचकभावेनाभ्रान्तेनोक्तानां पदानामर्थेन यथा न वाच्यवाचकभावसंसर्गस्तथा
योग्यताभ्रान्तेनोक्तपदार्थानां संसर्गः, वाकारः सादृश्य इत्येतु कथञ्चिद् व्याख्येयः॥