न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 423, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६१
. एते पदार्था मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः, सम्भा-
वितसंसर्गा इति वा ? न प्रथमः । अनाप्तोक्तपदकदम्बस्मारितैरनेकान्तात् । आप्तो-
क्तया विशेषणान्नैवमिति चेन्न । वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः । न ह्यविप्रलम्भकत्व-
मात्रमिहाप्तशब्देन विवक्षितं, तदुक्तेरपि पदार्थसंसर्गव्यभिचारात्, अपि तु तदनु-
भवप्रामाण्यमपि । न चैतल्लक्ष्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति
निश्चेतुम् । भ्रान्तेः पुरुषधर्मत्वात् । तत्र कचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोप-
योगः । ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम् । न चैतत् संसर्गवि-
बोधनी ।
साध्येत तदा नामोक्तपदस्मारितैरनेकान्तो हेतुस्तेषां तन्नियमाभावात्, अथ संभवो योग्यतामात्रं
साध्येत तदा वाक्यफलं निश्चयो न सिध्येदिति । द्वितीयोऽप्याह आकाङ्क्षा इति । आकाङ्क्षा नाम
प्रतिपत्तुर्जिज्ञासा, सा च सत्तामात्रेणान्वयप्रतीतिहेतुस्ततः तया न व्यभिचारव्यावर्त्तनाय हेतुर्विशेष-
णीयः, तर्हि योग्यतासन्निधिभ्यामेव विशेष्यत इत्यत्राह योग्यासन्निधीति । न हि तावन्मात्रमन्व-
यप्रतीतौ निबन्धनमयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ वाक्यद्वयस्थयो राजपुरुषयोः सतोरपि
तयोरन्वयप्रतीत्यभावादिति ॥
आद्यं पादं व्याचष्टे एते इति । आप्तोक्तपदस्मारितत्वादिति हेतुः स्यादित्याह-आप्तोक्त्या
इति । न इति । अस्मिन्नर्थेऽयमाप्त इति वाक्यार्थप्रतीतिपूर्वकमाप्तत्वमवगन्तव्यं, तदवगत्युत्तरकाले
च तद्विशिष्टहेतुना वाक्यार्थप्रतिपत्तिरिति परस्पराश्रयतापत्तिरिति भावः । प्रागाप्तत्वासिद्धिमाह न
हि इति । येन प्रागेव वाक्यार्थप्रतीतेस्तत्सिध्येत् इति । नन्वस्तु वाक्यार्थज्ञानसत्यत्वमाप्तितस्ततः
प्रकाशः ।
सत्त्वमात्रेणैव कारणतया लिङ्गविशेषणत्वमनुपपन्नमित्यर्थः । योग्यताऽऽसत्तिमात्रेण विशेषणे दोषमाह
योग्येति न बन्धनं सम्बन्धो व्याप्तिरूपो यस्यां, सा तथा । निराकाङ्क्षे व्यभिचारादित्यर्थः ॥
संसृष्टा एवेति ॥ नच सम्भावना नियमो वा न साध्यः, किन्तु संसृष्टा इत्येव साध्यमिति
वाच्यम् । संसर्गव्यभिचार्यव्यभिचारिसाधारणतया ययोरेव घटानयनयोः परस्परसंसर्गो न ज्ञातस्ते-
नैव व्यभिचारादिति भावः ॥ तदुक्तेरपीति ॥ भ्रान्तेन पित्रादिनाऽप्यप्रतारकेणोक्तपदानां तद-
र्थानां वा संसर्गाभावादित्यर्थः । ननु पदार्थज्ञानमात्रनिरूपणादभ्रान्तत्वनिरूपणमस्त्वित्यत आह
पदार्थेति ॥ तस्य चेति ॥ आप्तोक्तत्वरूपविशेषणासिद्धेरित्यर्थः ॥ तदेकेति ॥ निश्चयैकफल-
प्रकाशिका ।
भावादिति भावः । संसर्गस्येति । क्वचिन्नियतः संसर्गः यथा घटे रूपं, क्वचिदनियतोऽपि यथा
नीलं सरोजमित्यत्र- तथाचानियतसंसर्गस्थलेऽप्रयोजकरूपवत्त्वलक्षणयोग्यतासत्त्वाद् व्यभिचार
इत्यर्थः । केचित्तु संसर्गव्यभिचारीति पाठः । तत्रोक्तहेतोरुक्तसाध्यतदभावसाधारणतया
व्यभिचार इत्यर्थः । साधारण्यमेव दर्शयति ययोरितीति व्याख्यातवन्तः । अनिश्चयस्य सन्नि-
मकरन्दः ।
इति । तात्पर्यघटितसाध्ये व्यभिचारोऽयमुन्नेयः । संसर्गव्यभिचारीति । आकाङ्क्षादिमत्पद-
स्मारितत्वादिति हेतोः संसर्गव्यभिचारिसाधारणतया व्यभिचार इत्यर्थः । संसर्गव्यभिचारिसाधारण्य-
मेव दर्शयति ययोरिति । न चैवं तत्र योग्यत्वं नेति कथं व्यभिचार इति वाच्यम्, घटस्यानय-
नमित्यत्र संसर्गव्यभिचारिणोरपि घटानयनयोर्योग्यपदस्मारितत्वात् । संसर्गस्य व्यभिचारीति क्व-
चित्पाठः स तु चिन्त्यः । अनिश्चयस्य सन्निहिततया तत्परामर्शभ्रमं वारयति निश्चयैकेति । योग्य-
टिप्पणी ।
उक्तपदानां तदर्थानां वा संसर्गाभावादित्यर्थ इति । पदानां संसर्गाभावदित्यप्रकृतमिति